सामग्री पर जाएँ

हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः ११२

विकिस्रोतः तः
← अध्यायः १११ हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः ११२
[[लेखकः :|]]
अध्यायः ११३ →
भगवता श्रीकृष्णेन हंसडिम्भकयोः वधाय प्रतिज्ञा, क्षमायाचनापूर्वकं यतीभ्यः भोजनदानम्

द्वादशाधिकशततमोऽध्यायः

वैशम्पायन उवाच
यतेर्वचनमाकर्ण्य मन्दमुच्छ्वस्य केशवः ।
दुर्वाससं समालोक्य बभाषे यादवेश्वरः ।। १ ।।
क्षन्तव्यं भवता सर्वं दोष एष ममैव हि ।
शृणु वाक्यं ममैतत् तु श्रुत्वा शान्तिपरो भव ।। २ ।।
जेष्यामि तौ रणे विप्र हंसं डिम्भकमेव च ।
गिरीशो वा वरं दद्याच्छक्रो वा धनदोऽपि वा ।। ३ ।।
यमो वा वरुणो वापि ब्रह्मा वाथ चतुर्मुखः ।
सबलौ सानुजौ हत्वा पुनर्दास्यामि वो रतिम् ।। ४ ।।
सत्येनैव शपाम्यद्य मा रोषवशगो भव ।
रक्षां वोऽहं करिष्यामि हत्वा तौ च नृपाधमौ ।। ५ ।।
जानामि तौ दुरात्मानौ युष्मद्दोषकरौ हि तौ ।
श्रुतं च पूर्वमस्माभिस्तीक्ष्णदण्डधराविति ।। ६ ।।
अत्यन्तबलिनौ मत्तौ गिरीशवरदर्पितौ ।
नाल्पप्रयत्नसंसाध्यौ जरासंधहितैषिणौ ।। ७ ।।
प्राणानपि तयो राजा दास्यत्येव न संशयः ।
जरासंधो न भूपालो विना तौ जयते महीम् ।। ८ ।।
जये तयोर्विप्रवर्य तत्र श्रेयो भवेत् ततः ।
यत्र यत्र तु तौ गत्वा स्थितावित्यनुशुश्रुम ।। ९ ।।
तत्र तत्र च हन्ताहं नात्र कार्या विचारणा ।
गच्छध्वं यतयः स्वैरं निजकार्यपरायणाः ।। 3.112.१० ।।
अचिरेणैव कालेन जेष्यामि रणपुङ्गवौ ।
ततः प्रीतः प्रसन्नात्मा यादवेश्वरमाह सः ।। ११ ।।
स्वस्त्यस्तु भवते कृष्ण जगतां स्वस्ति कुर्वते ।
किं नु नाम जगन्नाथ दुःसाध्यं तव केशव ।। १२ ।।
त्रिलोकेश त्रिधामासि सर्वसंहारकारकः ।
देवानामपि देवेशः सर्वत्र समदर्शनः ।। १३ ।।
विष्णो देव हरे कृष्ण नमस्ते चक्रपाणये ।
नमः स्वभावशुद्धाय शुद्धाय नियताय च ।। १४ ।।
शब्दगोचर देवेश नमस्ते भक्तवत्सल ।
अज्ञानादथवा ज्ञानाद् यन्मयोक्तं क्षमस्व तत् ।। १५ ।।
त्वमेवाहं जगन्नाथ नावयोरन्तरं पृथक् ।
अतः क्षमस्व भगवन् क्षमासारा हि साधवः ।। १६ ।।
श्रीभगवानुवाच
क्षन्तव्यं भवता विप्र क्षमासारा वयं सदा ।
संन्यासिनः क्षमासाराः क्षमा तेषां परं बलम् ।। १७ ।।
क्षमा मोक्षकरी नित्यं तत्त्वज्ञानमिव द्विज ।
क्षमा धर्मः क्षमा सत्यं क्षमा दानं क्षमा यशः ।। १८ ।।
क्षमा स्वर्गस्य सोपानमिति वेदविदो विदुः ।
तस्मात् सर्वप्रयत्नेन क्षमां पालयत स्वकाम् ।। १९ ।।
प्रत्यक्षज्ञानसंयुक्ता यूयं सर्वे यतीश्वराः ।
य एते यतयो विप्राः पूजनीया मयाद्य वै ।। 3.112.२० ।।
भोक्तव्या यतयो विप्रा भिक्षुकाः सर्व एव हि ।
तथेति ते प्रतिज्ञाय भोक्तुमैच्छन् हरेर्गृहे ।। २१ ।।
ततः स्वभवनं विष्णुः प्रविश्य हरिरीश्वरः ।
चतुर्विधं तथाऽऽहारं कारयित्वा यथाविधि ।।२२।।
भोजयामास तान् सर्वान्यतीन्यतिवरार्चितः ।
छित्त्वा छित्त्वा च देवेशो दुकूलानि मृदूनि सः ।। २३ ।।
ददौ तेभ्यस्तदा विष्णुः सर्वेभ्यो जनमेजय ।
ते च प्रीता यथायोगं यथापूर्वं ततो गताः ।। २४ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने यतिभोजने द्वादशाधिकशततमोऽध्यायः ।। ११२ ।।