हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः १११

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ११० हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः १११
[[लेखकः :|]]
अध्यायः ११२ →
श्रीकृष्णस्य गोलक्रीडा, सुधर्मासभायां दुर्वासादीनां मुनीनां आगमनं, यादवेभिः कृष्णेन च तेषां सत्कारं, श्रीकृष्णेन तेभ्यः आगमनस्य कारणस्य पृच्छा, दुर्वाससा भगवतः स्तुति एवं उपालम्भनपूर्वकं तस्य प्रश्नस्य प्रतिवादं कृत्वा स्वदुर्दशायाः वृत्तान्तकथनम्

एकादशाधिकशततमोऽध्यायः

वैशम्पायन उवाच
अथ सर्वेश्वरो विष्णुः पद्मकिंजल्कलोचनः ।
श्यामः पीताम्बरः श्रीमान् प्रलम्बाम्बरभूषणः ।। १ ।।
किरीटी श्रीपतिः कृष्णो नीलकुञ्चितमूर्धजः ।
अव्यक्तः शाश्वतो देवः सकलो निष्कलः शिवः ।। २ ।।
क्रीडाविहारोपगतः कदाचिदभवद्धरिः ।
कुमारैरपरैः सार्धं सात्यकिप्रमुखैर्नृप ।। ३ ।।
गोलक्रीडां सुधर्माया मध्ये यादवसत्तमः ।
चकार प्रियकृत् कृष्णो युयुधानेन केशवः ।। ४ ।।
ममायं प्रथमो गोलस्तव पश्चाद् भविष्यति ।
इति ब्रुवंस्तदा विष्णुः सात्यकिं कमलेक्षणः ।। ५ ।।
पार्श्वस्था यादवास्तस्य वसुदेवपुरोगमाः ।
उद्धवप्रमुखा राजन्नासेदुः क्वचिदत्र वै ।। ६ ।।
अन्यव्यापाररहितो भूतात्मा भूतभावनः ।
विजहार यथा रामः सुग्रीवेण पुरा नृप ।। ७ ।।
मध्यंदिने महाविष्णुः शैनेयेन सहाच्युतः ।
विक्रीड्य सुचिरं कृष्ण उपारंसीत् स यादवः ।। ८ ।।
द्वाःस्थेन वारिताः पूर्वं द्वार्येव च समास्थिताः ।
इदमन्तरमित्येव विविशुस्तां सभां नृप ।। ९ ।।
यतयो दीर्घतपसः पुरस्कृत्य तपोधनम् ।
दुर्वाससं सुमनसो ददृशुर्यादवेश्वरम् ।। 3.111.१० ।।
गोलक्रीडासमासक्तं करसंस्थितगोलकम् ।
पद्मपत्रविशालाक्षं विष्णुं तं सात्यकिं हरिम् ।। ११ ।।
एकेनाक्ष्णा ह्लादयन्तं परेणान्येन गोलकम् ।
यतयश्च महाराज प्रत्यदृश्यन्त तत्पुरः ।। १२ ।।
वृष्णिपः पुण्डरीकाक्षः सात्यकिर्बलभद्रकः ।
वसुदेवस्तथाक्रूरः उग्रसेनस्तथा नृप ।। १३ ।।
अन्ये च यादवाः सर्वे सम्भ्रमं प्रतिपेदिरे ।
इदं किमिदमित्येवं व्याशङ्कमनसोऽभवन् ।। १४ ।।
पृष्ठतोऽप्यनुगच्छन्ति दिधक्षन्तं जगत्त्रयम् ।
अर्धकौपीनवसनं स्मरन्तं कमपि द्विजम् ।। १५ ।।
अन्तस्तापसमायुक्तं छिन्नदण्डधरं यतिम् ।
अन्तर्ज्वलन्तं रोषेण हंसासादितकल्मषम् ।। १६ ।।
नेत्रोत्थितमहावह्निं प्रेक्षन्तं यादवेश्वरम् ।
दुर्वाससं ते ददृशुर्भीता यादवसत्तमाः ।। १७ ।।
किं करिष्यत्यसौ क्रुद्धः कि वा वक्ष्यति नः प्रभुः ।
इति प्राञ्जलयः सर्वे यादवाः प्रतिपेदिरे ।। १८ ।।
इदमासनमित्येवं किंचिदूचुश्च वृष्णयः ।
ततः कृष्णो हृषीकेशः किंचिदुत्प्लुत्य तत्पुरः ।। १९ ।।
इदमासनमित्येवं स्थीयतामिह निर्वृतः ।
अहमद्य स्थितो विप्र किंकरोऽस्मीति चाव्रवीत् ।। 3.111.२० ।।
ततः किंचिदिवासीन आसने यतिविग्रहः ।
आसने संस्थिते तस्मिन् यतयो वीतमत्सराः ।। २१ ।।
आसनानि यथायोगं भेजिरे निर्वृताः किल ।
अर्घ्यादिसमुदाचारं चक्रे कृष्णः किरीटभृत् ।। २२ ।।
आह भूयो हृषीकेशो यतिं दुर्वाससं प्रभुम् ।
किमर्थं ब्रूहि विप्रेन्द्र अस्मिन् प्रत्यागमो हि वः ।। २३ ।।
दृष्टं वा ह्यथवा किंचित् कारणं चास्ति वो महत् ।
संन्यासिनो द्विजश्रेष्ठा यूयं विगतकल्मषाः ।। २४ ।।
निःस्पृहाश्च सदा यूयमस्मत्तो द्विजपुङ्गवाः ।
प्रार्थ्यं नाम न चैवास्ति स्पृहा नैवास्ति वो यतः।। २५ ।।
स्पृहाप्रेरितकर्माणः क्षत्रियान् यान्ति सुव्रताः ।
निरूप्यमाणमस्माभिर्विप्र किंचिन्न दृश्यते ।। २६ ।।
न जाने कारणं ब्रह्मन् युष्मदागमनं प्रति ।
एतावता चानुमेयं किॆचित्कारणमस्ति वै ।। २७ ।।
तद् ब्रूहि यदि विद्येत त्वत्तो ज्ञास्यामहे वयम् ।
इत्युक्तवति देवेशे चक्रपाणौ जनार्दने ।। २८ ।।
तस्यापि राजन्विप्रस्य भूयः कोपो महानभूत् ।
तस्मादभ्यधिकः पूर्वात् कोपः संजायते महान् ।।२९ ।।
दिधक्षन्निव लोकांस्त्रीन् भक्षयन्निव पश्यतः ।
रोषरक्तेक्षणः क्रुद्धो हसन्निव दहन्निव ।। 3.111.३० ।।
उवाच वचनं विष्णुं दुर्वासा क्रोधमूर्च्छितः ।
न जाने इति कस्मात् त्वं ब्रूषे नो यादवेश्वर ।। ३१ ।।
जानामि त्वां महादेवं वञ्चयन्निव भाषसे ।
पुरातना वयं विष्णो पूर्ववृत्तान्तवेदिनः ।। ३२ ।।
यथा हि देवदेवोऽसि मायामानुषदेहवान् ।
निगूहसे प्रभुरतः कस्मान्नो जगतीपते ।। ३३ ।।
सोऽसि ब्रह्मविदां मूर्तिस्तवैतत् परमं पदम् ।
यदभ्यर्च्य पुरा ब्रह्मा यच्च ज्ञाना वयं पुरा ।। ३४ ।।
यतो विश्वमिदं भूतं तदेतत् परमं पदम् ।
यच्च स्थूलं विजानन्ति पुरा तत्त्वेन चेतसा ।। ३५ ।।
पुराविदोऽथ विश्वेश यदेतत् परमं वपुः ।
कर्मणा प्राप्यते यत्तु यत्स्मृत्वा निर्वृता वयम् ।। ३६ ।।
प्रत्यक्षमपि यद्रूपं नैव जानन्ति मानुषाः ।
न हि मूढधियो देव न वयं तादृशा हरे ।। ३७ ।।
न जाने इति यद् ब्रूषे किमतः साहसं वचः ।
ये हि मूलं विजानन्ति तेषां तु प्रविवेचनम् ।। ३८ ।।
कुर्वतः किं फलं देव तव केशिनिषूदन ।
वेदान्ते प्रथितं तेजस्तव चेदं विचार्यते ।। ३९ ।।
ये च विज्ञानतृप्तास्तु योगिनो वीतकल्मषाः ।
पश्यन्ति हृत्सरोजेऽपि तदेवेदं वपुः प्रभो ।। 3.111.४० ।।
वेदैर्यद् गीयते तेजो ब्रह्मेति प्रतिपाद्य वै ।
तदेवेदं विजानेऽहं रूपमैश्वरमेव च ।। ४१ ।।
वैष्णवं परमं तेज इति वेदेषु पठ्यते ।
अवगच्छाम्यहं विष्णो तदेवेदं वपुस्तव ।। ४२ ।।
य ओमित्युच्यते शब्दो यस्य वागिति गीयते ।
स एवासि प्रभो विष्णो न जाने इति मा वद ।। ४३ ।।
परोक्षं यदि किंचित् स्यात् तव वक्तुं प्रयुज्यते ।
न जाने इति गोविन्द मा वादीः साहसं हरे ।। ४४ ।।
विश्वं यतः प्रादुरासीद् यस्मिँल्लीन क्षये सति ।
इदं तदैश्वरं तेजस्त्ववगच्छाघि केशव ।। ४५ ।।
कर्ता त्वं भूतभव्येश प्रतिभासि सदा हृदि ।
यद् यद् रूपं स्मरे नित्यं तत् तदेवासि मे हृदि ।। ४६ ।।
वायुरेव यदा विष्णुरिति मे धीयते मतिः ।
तदा तद्रूप एवासि हृन्मध्ये संस्थितो विभो ।। ४७ ।।
आकाशो विष्णुरित्येव कदाचिद्धीयते मतिः ।
तदा तद्रूप एवासि हृन्मध्ये संस्थितो विभो ।। ४८ ।।
पृथिवी विष्णुरित्येतत् कदाचिद्धीयते मतिः ।
तदा पार्थिवरूपस्त्वं प्रतिभासि सदा मम ।। ४९ ।।
रसोऽयं देव इत्येव कदाचिच्चिन्त्यते मया ।
तदा रसात्मना विष्णो हृन्मध्येसंस्थितोविभो ।। 3.111.५० ।।
यदा त्वां तेज इत्येवं स्मर्ता स्यां पुरुषोत्तम ।
तदा तद्रूपसम्पन्नः प्रतिभासि सदा हृदि ।। ५१ ।।
चन्द्रमा हरिरित्येवं तदा चान्द्रमसं वपुः ।
निरीक्ष्य चक्षुषा देव ततः प्रीतोऽस्मि केशव ।। ५२ ।।
यदा सौरं वपुरिति स्मर्ता स्यां जगतीपते ।
तदा तद्भावनायोगात् सूर्य एव विराजसे ।। ५३ ।।
तस्मात् सर्वं त्वमेवासि निश्चिता मतिरीदृशी ।
अतो न जानेऽहमिति वक्तुं नेशो जनार्दन ।। ५४ ।।
इत्यर्थं संस्थितो विष्णो पीडां नो नैव चिन्त्यसे ।
अत्यन्तदुःखिता विष्णो वयं त्वामनुसंस्थिताः ।। ५५ ।।
ईदृशीयमवस्था नो नैतां स्मरसि केशव ।
एतत् पुनर्भाग्यमतो नष्टमित्येव चिन्तये ।। ५६ ।।
मन्दभाग्या वयं विष्णो यतो नो न स्मरेः प्रभो ।
कौचित् क्षत्रियदायादौ गिरीशवरगर्वितौ ।। ५७ ।।
नाम्ना च हंसडिम्भकौ बाधेते नो जनार्दन ।
गार्हस्थ्यं हि सदा श्रेयो वदन्ताविति केशव ।। ५८ ।।
इतस्ततश्च धावन्तौ वदन्तौ बहु किल्बिषम् ।
अयुक्तं बहु भाषन्तौ धर्षयन्तौ च नः सदा ।। ५९ ।।
इदमन्यत् कृतं देव असह्यं पापमुच्यते ।
पश्येदं बहुधा देव भिन्नं भिन्नं सहस्रशः ।। 3.111.६० ।।
शक्यं च दारवं पात्रं द्विदलान् वेणुकान् बहून् ।
इदमप्यपरं पश्य तयोः साहसचेष्टितम् ।। ६१ ।।
कौपीनं बहुधा छिन्नं तदस्माकं महद्धनम् ।
कृतं कपालमात्रेण कमण्डलु जगत्प्रभो ।। ६२ ।।
त्वं तु नो रक्षसे नित्यं क्षात्रं वै व्रतमास्थितः ।
चित्रं चित्रमिदं देव रक्षस्यसि सदानिशम् ।। ६३ ।।
किं करिष्यामि मन्दात्मा मन्दभोग्या वयं विभो ।
किं नः शरणमद्यैव तद् ब्रूहि जगतां पते ।। ६४ ।।
जीवन्तौ तौ यदि स्यातां नष्टा लोका इमे त्रयः ।
न विप्रा न च राजानो न वैश्या न च पादजाः ।। ६५ ।।
अत्यन्तबलिनौ मत्तौ तीक्ष्णदण्डधरौ नृप ।
न तयोः पुरतः स्थातुं शक्ता देवाः सवासवाः ।। ६६ ।।
न च भीष्मो न वा राजा वाह्लीको भीमविक्रमः ।
यो हि वीरो जरासंधः क्षत्रियाणां भयंकरः ।। ६७ ।।
नैव च प्रायशः स्थातुं गिरीशवरदर्पिणोः ।
तयोः कृष्ण हरे शक्तो नित्यमप्रतिसङ्गिनोः ।। ६८ ।।
तस्मात् त्वं जहि तौ वीरौ रक्ष लोकानिमान् प्रभो ।
अन्यथा रक्षसीत्येवं व्यर्थः शब्दोऽत्र जायते ।।६९।।
बहुनात्र किमुक्तेन रक्ष रक्ष जनत्त्रयम् ।
इत्युक्त्वा विररामैव दुर्वासाः क्रोधमूर्च्छितः ।। 3.111.७० ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भबिष्यपर्वणि हंसडिम्भकोपाख्याने दुर्वासः समागमे एकादशाधिकशततमोऽध्यायः ।। १११ ।।