हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः ०८८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०८७ हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः ०८८
[[लेखकः :|]]
अध्यायः ०८९ →
भगवता श्रीशिवेन श्रीविष्णोः स्तुतिः

अष्टाशीतितमोऽध्यायः

वैशम्पायन उवाच
ततो वृषध्वजो देवः शूली साक्षादुमापतिः ।
करं करेण संस्पृश्य विष्णोश्चक्रधरस्य ह ।। १ ।।
प्रोवाच भगवान् रुद्रः केशवं गरुडध्वजम् ।
शृण्वतां सर्वदेवानां मुनीनां भावितात्मनाम्।। २ ।।
किमिदं देवदेवेश चक्रपाणे जनार्दन ।
तपश्चर्या किमर्थं ते प्रार्थना तव का विभो ।। ३ ।।
स्वयं विष्णुर्भवान्नित्यस्तपस्त्वं तपसां हरे ।
पुत्रार्थं यदि ते देव तपश्चर्या जनार्दन ।। ४ ।।
पुत्रो दत्तो मया देव पूर्वमेव जगत्पते ।
शृणु तत्रापि भगवन् कारणं कारणात्मक ।। ५ ।।
तपश्चर्तुं प्रवृत्तोऽहं कुतश्चित् कारणाद्धरे ।
वर्षायुतं महाघोरं पुरा कृतयुगे तदा ।। ६ ।।
भवानी तत्र मे देव परिचर्तुं तदाभवत् ।
पित्रा नियुक्ता देवेश उमैषा वरवर्णिनी ।। ७ ।।
भीत इन्द्रस्तदा देव मारं मां प्रैषयत्तदा ।
मधुना सह संयुक्तो मारो मामागतस्तदा ।। ८ ।।
लक्ष्यं मामकरोत् तत्र बाणस्य प्रेषितस्य ह ।
एष मां सेवते तत्र दानात् पुष्पादिनां हरे ।। ९ ।।
ततः क्रुद्धोऽहमभवं दृष्ट्वा मारं तथाविधम् ।
क्रुद्ध्यतो मम देवेश नेत्रादग्निः पपात ह ।। 3.88.१० ।।
सोऽयमग्निस्तदा मारं भस्मसात्कृतवान् हरे ।
अचिन्तयं तदा विष्णो शक्रस्यैतच्चिकीर्षितम् ।। ११ ।।
ततः प्रभृति देवेश दया तं प्रति वर्तते ।
ब्रह्मणा च नियुक्तोऽस्मि प्रीतस्तत्र जनार्दन ।। १२ ।।
नियुक्तः पुत्ररूपेण स ते देव जगत्पते ।
ज्येष्ठस्तव सुतो देव प्रद्युम्नेत्यभिविश्रुतः ।। १३ ।
स्मरं तं विद्धि देवेश नात्र कार्या विचारणा ।
इत्युक्त्वा पुनराहेदं याथात्म्यं दर्शयन्निव ।। १४।।
मुनीनां श्रोतुकामानां याथात्म्यं तत्र सत्तमः ।
अञ्जलिं सम्पुटं कृत्वा विष्णुमुद्दिश्य शंकरः।। १५ ।।
उमया सार्धमीशानो याथात्म्यं वक्तुमैहत ।
हरे कुर्वति तत्रैवमञ्जलिं कुरुसत्तम ।। १६ ।।
मुनयो देवगन्धर्वाः सिद्धाश्च सह किन्नराः ।
अञ्जलिं चक्रिरे विष्णौ देवदेवेश्वरे हरौ ।। १७ ।।
महेश्वर उवाच
यत्तत्कारणमाहुस्तत्सांख्याः प्रकृतिसंज्ञकम्।
ततो महान् समुत्पन्नः प्रकृतिर्यस्य कारणम् ।। १८ ।।
त्रिधा भूतं जगद्योनिं प्रधानं कारणात्मकम् ।
सत्त्वं रजस्तमो विष्णो जगदण्डं जनार्दन ।। १९ ।।
तस्य कारणमाहुस्त्वां सांख्यप्रकृतिसंज्ञकम्।
तद्रूपेण भवान् विष्णो परिणम्याधितिष्ठति।। 3.88.२० ।।
तस्मात्तु महतो घोरादहंकारो महानभूत् ।
स त्वमादौ जगन्नाथ परिणामस्तथा हि सः ।। २१ ।।
अहंकारात् प्रभो देव करणानि महान्ति च ।
तन्मात्राणि तथा पञ्च भूतानि प्रभवन्त्युत ।। २२ ।।
तानि त्वामाहुरीशानं भूतानीह जगत्पते ।
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ।। २३ ।।
चक्षुर्घ्राणं तथा स्पर्शो रसनं श्रोत्रमेव च ।
मनः षष्ठं तथा देव प्रेरकं तत्र तत्र ह ।। २४ ।।
कर्मेन्द्रियाणि चान्यानि वागादीनि जनार्दन ।
त्वमेव तानि सर्वाणि करोषि नियतात्मवान् ।। २५ ।।
स्वेषु स्वेषु जगन्नाथ विषयेषु तथा हरे ।
निवेशयसि देवेश योग्यामिन्द्रियपद्धतिम् ।। २६ ।।
यदा त्वं रजसा युक्तस्तदा भूतानि सृष्टवान् ।
यदाच सत्त्वयुक्तोऽसि तदा पाता जगत्त्रयम्।। २७ ।।
यदा त्वं तमसाऽऽकृष्टस्तदा संहरसे जगत् ।
त्रिभिरेव गुणैर्युक्तः सृष्टिरक्षाविनाशने ।। २८ ।।
वर्तसे त्रिविधां भूतिमादाय नियतात्मवान् ।
इन्द्रियाणीन्द्रियार्थेषु नियोजयसि माधव ।। २९ ।।
प्राणिनामुपभोगार्थमन्तः स्थित्वा जगद्गुरो ।
तस्मात् सर्वत्र भूतेषु वर्तते सर्वभोगवान् ।। 3.88.३० ।।
ब्रह्मा त्वं सृष्टिकाले तु स्थितौ विष्णुरसि प्रभो ।
संहारे रुद्रनामासि त्रिधामा त्वमसि प्रभो ।। ३१ ।।
भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।
एताः प्रकृतयो देव भिन्नाः सर्वत्र ते हरे ।। ३२
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
सहस्रधारः साहस्री सहस्रात्मा दिवस्पतिः ।। ३३ ।।
भूमिं सर्वामिमां प्राप्य सप्तद्वीपां ससागराम् ।
अणुः सर्वत्रगो भूत्वा अत्यतिष्ठद् दशाङ्गुलम् ।। ३४ ।।
त्वमेवेदं जगत् सर्वं यद् भूतं यद् भविष्यति ।
त्वत्तो विराट् प्रादुरभूत् सम्राट् चैव जनार्दन।। ३५ ।।
तव वक्त्राज्जगन्नाथ ब्राह्मणो लोकरक्षकः ।
प्रादुरासीत्पुराणात्मन् षट्कर्मनिरतः सदा ।। ३६ ।।
राजन्यस्तु तथा बाह्वोरासीत् संरक्षणे रतः ।
ऊर्वोर्वैश्यस्तथा विष्णो पादाच्छूद्र उदाहृतः ।। ३७ ।।
एवं वर्णा जगन्नाथ तव देहाज्जनार्दन ।
मनसस्तव देवेश चन्द्रमाः समपद्यत ।। ३८ ।।
सुखकृत् सर्वभूतानां शीतांशुरमितप्रभः ।
अक्ष्णोः सूर्यः समुत्पन्नः सर्वप्राणिविलोचनः।। ३९ ।।
यस्य भासा जगत् सर्वं भासते भानुमानसौ ।
मुखादिन्द्रश्च अग्निश्च प्राणाद् वायुरजायत ।। 3.88.४० ।।
नाभेरभूदन्तरिक्षं तव देव जनार्दन ।
द्यौरासीत् तु महाघोरा शिरसस्तव गोपते ।। ४१ ।।
पद्भ्यां भूमिः समुत्पन्ना दिशः श्रोत्राज्जगत्पते ।
एव सृष्ट्वा जगत्सर्वं व्याप्य सर्वं व्यवस्थितः ।। ४२ ।।
व्याप्य सर्वानिमाँल्लोकान् स्थितः सर्वत्र केशव ।
ततश्च विष्णुनामासि धातोर्व्याप्तेश्च दर्शनात् ।। ४३ ।।
नारा आपः समाख्यातास्तासामयनमादितः ।
यतस्त्वं भूतभव्येश तन्नारायणशब्दितः ।। ४४ ।।
हरसि प्राणिनो देव ततो हरिरिति स्मृतः ।
शंकरोऽसि सदा देव ततः शंकरतां गतः ।। ४५ ।।
बृहत्त्वाद् बृंहणत्वाच्च तस्माद् ब्रह्मेति शब्दितः ।
मधुरिन्द्रियनामेति ततो मधुनिषूदनः ।। ४६ ।।
हृषीकाणीन्द्रियाण्याहुस्तेषामीशो यतो भवान्।
हृषीकेशस्ततो विष्णो ख्यातो देवेषु केशव ।। ४७ ।।
क इति ब्रह्मणो नाम ईशोऽहं सर्वदेहिनाम् ।
आवां तवाङ्गसम्भूतौ तस्मात्केशवनामवान् ।। ४८ ।।
मा विद्या च हरे प्रोक्ता तस्या ईशो यतो भवान् ।
तस्मान्माधवनामासि धवः स्वामीतिब्दितः ।। ४९ ।।
गौरेषा तु यतो वाणी तां च वेद यतो भवान् ।
गोविन्दस्तु ततो देव मुनिभिः कथ्यते भवान् ।। 3.88.५० ।।
त्रिरित्येव त्रयो वेदाः कीर्तिता मुनिसत्तमैः ।
क्रमते तांस्तथा सर्वांस्त्रिविक्रम इति श्रुतः ।। ५१ ।।
अणुर्वामननामासि यतस्त्वं वामनाख्यया ।
मननान्मुनिरेवासि यमनाद् यतिरुच्यसे ।। ५२ ।।
तपश्चरसि यस्मात्त्वं तपस्वीति च शब्दितः ।
वसन्ति त्वयि भूतानि भूतावासस्ततो हरे ।। ५३ ।।
ईशस्त्वं सर्वभूतानामीश्वरोऽसि ततो हरे ।
प्रणवः सर्ववेदानां गायत्री छन्दसां प्रभो ।। ५४ ।।
अक्षराणामकारस्त्वं स्फोटस्त्वं वर्णसंश्रयः ।
रुद्राणामहमेवासि वसूनां पावको भवान् ।। ५५ ।।
अश्वत्थो वृक्षजातीनां ब्रह्मा लोकगुरुर्भवान् ।
मेरुस्त्वं पर्वतेन्द्राणां देवर्षीणां च नारदः ।। ५६ ।।
दानवानां भवान् दैत्यः प्रह्रादो भक्तवत्सलः ।
सर्पाणामेव सर्वेषां भवान् वासुकिसंज्ञितः ।। ५७ ।।
गुह्यकानां च सर्वेषां भवान् धनद एव च ।
वरुणो यादसां राजा गङ्गा त्रिपथभाग् भवान् ।। ५८ ।।
आदिस्त्वं सर्वभूतानां मध्यमन्तस्तथा भवान् ।
त्वत्तः समभवद् विश्वं त्वयि सर्वं प्रलीयते ।। ५९ ।।
अहं त्वं सर्वगो देव त्वमेवाहं जनार्दन ।
आवयोरन्तरं नास्ति शब्दैरर्थैर्जगत्पते ।। 3.88.६० ।।
नामानि तव गोविन्द यानि लोके महान्ति च ।
तान्येव मम नामानि नात्र कार्या विचारणा ।। ६१ ।।
त्वदुपासा जगन्नाथ सैवास्ति मम गोपते ।
यश्च त्वां द्वेष्टि देवेश स मां द्वेष्टि न संशयः ।। ६२ ।।
त्वद्विस्तारो यतो देव अहं भूतपतिस्ततः ।
न तदस्ति विना देव यत् ते विरहितं हरे ।। ६३ ।।
यदासीद् वर्तते यच्च यच्च भावि जगत्पते ।
सर्वे त्वमेव देवेश विना किंचित्त्वया न हि ।। ६४ ।।
स्तुवन्ति देवाः सततं भवन्तं स्वैर्गुणैः प्रभो ।
ऋक्च त्वं यजुरेवासि सामासि सततं प्रभो ।। ६५ ।।
किमुच्यते मया देव सर्वं त्वं भूतभावन ।
नमः सर्वात्मना देव विष्णो माधव केशव ।। ६६ ।।
नमस्करोमि सर्वात्मन् नमस्तेऽस्तु सदा हरे ।
नमः पुष्करनाभाय वन्दे त्वामहमीश्बर ।। ६७ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि कैलासयात्रायां शिवकृतविष्णुस्तुतौ अष्टाशीतितमोऽध्यायः ।। ८८ ।।