हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः ०८७

विकिस्रोतः तः
← अध्यायः ०८६ हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः ०८७
[[लेखकः :|]]
अध्यायः ०८८ →
भगवता श्रीकृष्णेन महादेवस्य स्तुतिः

सप्ताशीतितमोऽध्यायः

वैशम्पायन उवाच
एवं बहुविधैर्भूतैः पिशाचैरुरगैः सह ।
आगत्य भगवान् रुद्रः शंकरो वृषवाहनः ।। १ ।।
ददर्श विष्णुं देवेशं तपन्तं तप उत्तमम् ।
जुह्वानमग्निं विधिवद् द्रव्यैर्मेध्यैर्जगत्पतिम् ।। २ ।।
गरुडाहृतकाष्ठं तु जटिलं चीरवाससम् ।
चक्रेणानीतकुसुमं खड्गानीतकुशं तथा ।। ३ ।।
गदाकृतसमाचारं देवदेवं जनार्दनम् ।
इन्द्राद्यैर्देवसंघैश्च वृतं मुनिगणैः सह ।। ४ ।।
अचिन्त्यं सर्वभूतानां ध्यायन्तं किमपि प्रभुम् ।
अवरुह्य वृषाच्छर्वो भगवान् भूतभावनः ।। ५ ।।
ततः प्रीतः प्रसन्नात्मा ललाटाक्ष उमापतिः ।
ततो भूतपिशाचाश्च राक्षसा गुह्यकास्तथा ।। ६ ।।
मुनयो विप्रवर्याश्च जयशब्दं प्रचक्रिरे ।
जय देव जगन्नाथ जय रुद्र जनार्दन ।। ७ ।।
जय विष्णो हृषीकेश नारायण परायण ।
जय रुद्र पुराणात्मञ्जय देव हरेश्वर ।। ८ ।।
आदिदेव जगन्नाथ जय शंकर भावन ।
जय कौस्तुभदीप्ताङ्ग जय भस्मविराजित ।। ९ ।।
जय चक्रगदापाणे जय शूलिंस्त्रिलोचन ।
जय मौक्तिकदीप्ताङ्ग जय नागविभूषण ।। 3.87.१० ।।
इति ते मुनयः सर्वे प्रणामं चक्रिरे हरिम् ।
तत उत्थाय भगवान् दृष्ट्वा देवमवस्थितम् ।। ११ ।।
वृषध्वजं विरूपाक्षं शंकरं नीललोहितम् ।
ततो हृष्टमना विष्णुस्तुष्टाव हरमीश्वरम् ।। १२ ।।
श्रीभगवानुवाच
नमस्ते शितिकण्ठाय नीलग्रीवाय वेधसे ।
नमस्ते शोचिषे अस्तु नमस्ते उपवासिने ।। १३ ।।
नमस्ते मीढुषे अस्तु नमस्ते गदिने हर ।
नमस्ते विश्वतनवे वृषाय वृषरूपिणे ।। १४ ।।
अमूर्ताय च देवाय नमन्तेऽस्तु पिनाकिने ।
नमः कुब्जाय कूपाय शिवाय शिवरूपिणे ।। १५ ।।
नमस्तुष्टाय तुण्डाय नमस्तुटितुटाय च ।
नमः शिवाय शान्ताय गिरिशाय च ते नमः।। १६ ।।
नमो हराय हिप्राय नमो हरिहराय च ।
नमोऽघोराय घोराय घोराघोरप्रियाय च ।। १७ ।।
नमोऽघण्टाय घण्टाय नमो घटिघटाय च ।
नमः शिवाय शान्ताय गिरिशाय च ते नमः ।। १८ ।।
नमो विरूपरूपाय पुराय पुरहारिणे ।
नम आद्याय बीजाय शुचयेऽष्टस्वरूपिणे ।। १९ ।।
नमः पिनाकहस्ताय नमः शूलासिधारिणे ।
नमः खट्वाङ्गहस्ताय नमस्ते कृत्तिवाससे ।। 3.87.२० ।।
नमस्ते देवदेवाय नम आकाशमूर्तये ।
हराय हरिरूपाय नमस्ते तिग्मतेजसे ।। २१ ।।
भक्तप्रियाय भक्ताय भक्तानां वरदायिने ।
नमोऽभ्रमूर्तये देव जगन्मूर्तिधराय च ।। २२ ।।
नमश्चन्द्राय देवाय सूर्याय च नमो नमः । ।
नमः प्रधानदेवाय भूतानां पतये नमः ।। २३ ।।
करालाय च मुण्डाय विकृताय कपर्दिने ।
अजाय च नमस्तुभ्यं भूतभावनभावन ।। २४ ।।
नमोऽस्तु हरिकेशाय पिंगलाय नमो नमः ।
नमस्तेऽभीषुहस्ताय भीरुभीरुहराय च ।। २५ ।।
हराय भीतिरूपाय घोराणां भीतिदायिने । ।
नमो दक्षमखघ्नाय भगनेत्रापहारिणे ।। २६ ।।
उमापते नमस्तुभ्यं कैलासनिलयाय च ।
आदिदेवाय देवाय भवाय भवरूपिणे ।। २७ ।।
नमः कपालहस्ताय नमोऽजमथनाय च ।
त्र्यम्बकाय नमस्तुभ्यं त्र्यक्षाय च शिवाय च।। २८ ।।
वरदाय वरेण्याय नमस्ते चन्द्रशेखर ।
नम इध्माय हविषे ध्रुवाय च कृशाय च ।। २९ ।।
नमस्ते शक्तियुक्ताय नागपाशप्रियाय च ।
विरूपाय सुरूपाय भद्रपानप्रियाय च ।। 3.87.३० ।।
श्मशानरतये नित्यं जयशब्दप्रियाय च ।
स्वरप्रियाय खर्वाय खराय खररूपिणे ।। ३१ ।।
भद्रप्रियाय भद्राय भद्ररूपधराय च ।
विरूपाय सुरूपाय महाघोराय ते नमः ।। ३२ ।।
घण्टाय घण्टभूषाय घण्टभूषणभूषिणे ।
तीव्राय तीव्ररूपाय तीव्ररूपप्रियाय च ।। ३३ ।।
नग्नाय नग्नरूपाय नग्नरूपप्रियाय च ।
भूतावास नमस्तुभ्यं सर्वावास नमो नमः ।। ३४ ।।
नमः सर्वात्मने तुभ्यं नमस्ते भूतिदायक ।
नमस्ते वामदेवाय महादेवाय ते नमः ।। ३५।।
का नु वाक्स्तुतिरूपा ते को नु स्तोतुं प्रशक्नुयात्।
कस्य वा स्फुरते जिह्वा स्तुतौ स्तुतिमतां वर ।। ३६ ।।
क्षमस्व भगवन् देव भक्तोऽहं त्राहि मां हर ।
सर्वात्मन् सर्वभूतेश त्राहि मां सततं हर ।। ३७ ।।
रक्ष देव जगन्नाथ लोकान् सर्वात्मना हर ।
त्राहि भक्तान् सदा देव भक्तप्रिय सदा हर ।। ३८ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि कैलासयात्रायां विष्णुकृतेश्वरस्तुतौ सप्ताशीतितमोऽध्यायः ।। ८७ ।।