हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः ०६६
← अध्यायः ०६५ | हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व) अध्यायः ०६६ [[लेखकः :|]] |
अध्यायः ०६७ → |
अदितेः कश्यपेन च सार्धं देवानां ब्रह्मलोकगमनम् |
षट्षष्टितमोऽध्यायः
जनमेजय उवाच
पराजिताः सुरा दैत्यैः किमकुर्वत वै मुने ।
कथं च त्रिदिवं लब्धं भूयो देवैर्द्विजोत्तम ।। १ ।।
वैशम्पायन उवाच
श्रुत्वा वाणीं तु तां दिव्यां सह देवैः सुराधिपः ।
प्राग्दिशं प्रस्थितः श्रीमानदित्यालयमुत्तमम् ।। २ ।।
अदितिरुवाच
यद्येवं पुत्र युष्माभिर्न शक्यो हन्तुमाहवे ।
बलिर्विरोचनसुतः सर्वैश्चैव मरुद्गणैः ।। ४ ।।
सहस्रशिरसा हन्तुं केवलं शक्यतेऽसुरः ।
तेनैकेन सहस्राक्ष न ह्यन्येन शतक्रतो ।। ५ ।।
तद् वः पृच्छस्व पितरं कश्यपं सत्यवादिनम् ।
पराजयार्थं दैत्यस्य बलेस्तस्य महात्मनः ।। ६ ।।
ततोऽदित्या सह सुराः सम्प्राप्ताः कश्यपान्तिकम् ।
अपश्यन् कश्यपं तत्र मुनिं दिव्यतपोनिधिम् ।। ७ ।।
आद्यं देवं गुरुं दिव्यं क्लिन्नं त्रिषवणाम्बुभिः ।
तेजसा भास्कराकारं गौरमग्निशिखाप्रभम् ।। ८ ।।
न्यस्तदण्डं तपोयुक्तं बद्धकृष्णाजिनोत्तरम् ।
वल्कलाजिनसंवीतं प्रदीप्तं ब्रह्मवर्चसा ।। ९ ।।
हुताशमिव दीप्यन्तमाज्यमन्त्रपुरस्कृतम् ।
स्वाध्यायनिरतं शान्तं वपुष्मन्तमिवानलम् ।। 3.66.१० ।।
तं ब्रह्मवादिनां श्रेष्ठं सुरासुरगुरुं प्रभुम् ।
प्रतपन्तमिवादित्यं मारीचं दीप्ततेजसम् ।। ११ ।।
यः स्रष्टा सर्वभूतानां प्रजानां पतिरुत्तमः ।
आत्मभावविशेषेण तृतीयो यः प्रजापतिः ।। १२ ।।
ततः प्रणम्य ते वीराः सहादित्या सुरर्षभाः ।
ऊचुः प्राञ्जलयः सर्वे ब्रह्माणमिव मानसाः ।। १३ ।।
यच्छ्रुतं युधि शक्रेण सरस्वत्या समीरितम् ।
अजेयस्त्रिदशैः सर्वैर्बलिर्दानवसत्तमः ।। १४ ।।
श्रुत्वा तु वचनं तेषां पुत्राणां कश्यपस्तदा ।
चकार गमने बुद्धिं ब्रह्मलोकाय लोककृत् ।। १५ ।।
कश्यप उवाच
गच्छाम ब्रह्मसदनं ब्रह्मघोषनिनादितम् ।
यथाश्रुतं च तत्रैव ब्रह्मणे वदतानघाः ।। १६ ।।
वैशम्पायन उवाच
ततोऽदित्या सह सुरा यान्तं कश्यपमन्वयुः ।
प्रस्थितं ब्रह्मसदनं देवर्षिगणसेवितम् ।। १७ ।।
ते मुहूर्तेन सम्प्राप्ता ब्रह्मलोकं दिवौकसः ।
दिव्यैः कामगमैर्यानैर्महार्हैः सुमनोहरैः ।। १८ ।।
दिदृक्षवस्ते ब्रह्माणं तपसो राशिमव्ययम् ।
अभ्यगच्छन्त विस्तीर्णां ब्रह्मणः परमां सभाम्।। १९ ।।
षट्पदोद्गीतनिनदां सामगीतविमिश्रिताम् ।
श्रेयस्करीममित्रघ्नीं दृष्ट्वा संजहृषुर्मुदा ।। 3.66.२० ।।
ब्राह्मणैश्च महाभागैर्वेदवेदाङ्गपारगैः ।
ऋचो बह्वृचमुख्यैश्च शिक्षाविद्भिस्तथा द्विजैः।।२१।।
शब्दनिर्वचनार्थं च प्रेर्यमाणपदाक्षराः ।
शुश्रुवुस्तेऽमरव्याघ्रा विततेषु च कर्मसु ।। २२ ।।
यज्ञवेदाङ्गविदुषां पदक्रमविदां तथा ।
घोषेण परमर्षीणां सा बभूव निनादिता ।। २३ ।।
यज्ञसंस्तवविद्भिश्च शिक्षाविद्भिस्तथा द्विजैः ।
शब्दनिर्वचनार्थज्ञैः सर्वविद्याविशारदैः ।। २४ ।।
मीमांसाहितवाक्यज्ञैः सर्ववादविशारदैः ।
हृष्टपुष्टस्वरैस्तत्र द्विजेन्द्रैर्वल्गुवादिभिः ।
नादितं ब्रह्मसदनं प्रवरं देवसद्मवत् ।। २५ ।।
ते तत्र समनुप्राप्य शृण्वन्तो वै ध्वनिं सुराः ।
पूतान्यात्मशरीराणि मेनिरे तु न संशयः ।। २६।।
तूष्णींभूता एकचित्ता ब्रह्मण्यागतमानसाः ।
विस्मयोत्फुल्लनयना निरीक्षन्तः परस्परम् ।। २७ ।।
नमस्कुर्वन्ति च पुनर्गुरुं लोकगुरुं प्रभुम् ।
मनसैव सुरश्रेष्ठाः पुरस्कृत्य तु कश्यपम् ।। २८ ।।
पुनः सम्पूज्य परमं वेदोच्चारणनिःस्वनम् ।
गम्भीरोदारमधुरं सुस्वरं हंसगद्गदम् ।। २९ ।।
ऐक्यनानात्वसंयोगसमवायविशारदैः ।
लोकायतिकमुख्यैश्च शुश्रुवुः स्वनमीरितम् ।। 3.66.३०
तत्र तत्र च विप्रेन्द्रान् नियतान् संशितव्रतान्।
जपहोमपरान् मुख्यान् ददृशुः कश्यपात्मजाः ।। ३१ ।।
तस्यां सभायामास्ते स्म ब्रह्मा लोकपितामहः ।
सुरासुरगुरुः श्रीमान् विधिवद् देवमायया ।। ३२ ।।
उपासते च तत्रैनं प्रजानां पतयः प्रभुम् ।
दक्षः प्रचेताः पुलहो मरीचिश्च द्विजोत्तमः ।। ३३ ।।
भृगुरत्रिर्वसिष्ठश्च गौतमो नारदस्तथा ।
मनुर्द्यौरन्तरिक्षं च वायुस्तेजो जलं मही ।। ३४ ।।
शब्दस्पर्शौ च रूपं च रसौ गन्धस्तथैव च ।
प्रकृतिश्च विकाराश्च यच्चान्यत् कारणं महत् ।। ३५ ।।
साङ्गोपाङ्गाश्चतुर्वेदाः सरहस्यपदक्रमाः ।
क्रियाश्च क्रतवश्चैव संकल्पः प्राण एव च ।। ३६ ।।
एते चान्ये च बहवः स्वयम्भुवमुपस्थिताः ।
अर्थो धर्मश्च कामश्च द्वेषो दर्पश्च नित्यदा ।। ३७ ।।
शक्रो बृहस्पतिश्चैव संवर्तो बुध एव च ।
शनैश्चरोऽथ राहुश्च ग्रहाः सर्वे ह्यशेषतः ।। ३८ ।।
मरुतो विश्वकर्मा च नक्षत्राणि च भारत ।
दिवाकरश्च सोमश्च ब्रह्माणं समुपासते ।। ३९ ।।
सावित्री दुर्गतरणी वाणी सप्तविधा तथा ।
सर्वाणि श्रुतिशास्त्राणि गाथाश्च नियमास्तथा ।। 3.66.४० ।।
भाष्याणि सर्वशास्त्राणि देहवन्ति विशाम्पते ।
क्षणा लवा मुहूर्ताश्च दिवा रात्रिश्च भारत ।। ४१ ।।
अर्धमासाश्च मासाश्च ऋतवः षट् तथैव च ।
संवत्सराश्चतुर्युगं मासा रात्रिश्चतुर्विधा ।। ४२ ।।
कालचक्रं च यद् दिव्यमनित्यं ध्रुवमव्ययम् ।
एते चान्ये च बहवः स्वयम्भुवमुपस्थिताः ।। ४३ ।।
ते प्रविष्टाः सभां दिव्यां ब्रह्मणः सर्वकामदाम् ।
कश्यपस्त्रिदशैः सार्धं पुत्रैर्धर्मविशारदैः ।। ४४ ।।
सर्वतेजोमयीं दिव्यां ब्रह्मर्षिगणसेविताम् ।
ब्राह्म्या श्रिया दीप्यमानमचिन्त्यं विगतक्लमम् ।। ४५ ।।
ब्रह्माणं वीक्ष्य ते सर्वे आसीनं परमासने ।
जग्मुर्मूर्ध्ना शुभौ पादौ ब्रह्मणस्ते दिवौकसः ।। ४६ ।।
शिरोभिः स्पृश्य चरणौ तस्य ते परमेष्ठिनः ।
विमुक्ताः सर्वपापेभ्यः शान्ता विगतकल्मषाः ।। ४७ ।।
दृष्ट्वा तु तान्सुरान्सर्वान्कश्यपेन सहागतान्।
आह ब्रह्मा महातेजा देवानां प्रभुरीश्वरः ।। ४८ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि वामनप्रादुर्भावे ब्रह्मलोकगमने षट्षष्टितमोऽध्यायः ।। ६६ ।।