हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः ०३५
← अध्यायः ०३४ | हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व) अध्यायः ०३५ [[लेखकः :|]] |
अध्यायः ०३६ → |
पञ्चत्रिंशोऽध्यायः
वैशम्पायन उवाच
तस्योपरि जलौघस्य महती नौरिव स्थिता ।
विततत्वात्तु देहस्य न ययौ सम्प्लवं मही ।। १ ।।
ततः स चिन्तयामास प्रविभागं क्षितेर्विभुः ।
समुच्छ्रयं च सर्वेषां पर्वतानां नदीषु च ।। २ ।।
विलेखनं प्रमाणं च गतिं प्रस्रवमेव च ।
माहात्म्यं च विशेषं च नदीनामन्वचिन्तयत् ।। ३ ।।
चतुरन्तां धरां कृत्वा तथा चैव महार्णवम् ।
मध्ये पृथिव्याः सौवर्णमकरोन्मेरुपर्वतम् ।।४।।
प्राचीं दिशमथो गत्वा चकारोदयपर्वतम् ।
शतयोजनविस्तारं सहस्रं च समुच्छ्रयम् ।। ५ ।।
जातरूपमयैः शृङ्गैस्तरुणादित्यसन्निभैः ।
आत्मतेजोगुणमयैर्वेदिकाभोगकल्पितम् ।। ६ ।।
विविधांश्च महास्कन्धान् काञ्चनान् पुष्करेक्षणः।
नित्यपुष्पफलान् वृक्षान् कृतवांस्तत्र पर्वते ।। ७ ।।
शतयोजनविस्तारं ततस्त्रिगुणमायतम् ।
चकार स महादेवः पुनः सौमनसं गिरिम् ।। ८ ।।
नानारत्नसहस्राणां कृत्वा तत्र सुसंचयम् ।
वेदिकां बहुवर्णां च संध्याभ्राभामकल्पयत्।। ९ ।।
सहस्रशृङ्गं च गिरिं नानामणिशिलातलम्।
कृतवान् वृक्षगहनं षष्टियोजनमुच्छ्रितम् ।। १० ।।
आसनं तत्र परमं सर्वभूतनमस्कृतम् ।
कृतवानात्मनः स्थानं विश्वकर्मा प्रजापतिः ।। ११ ।।
शिशिरं च महाशैलं तुषारचयसंनिभम् ।
चकार दुर्गगहनं कन्दरान्तरमण्डितम् ।। १२ ।।
शिशिरप्रभवां चैव नदीं द्विजगणायुताम् ।
चकार पुलिनोपेतां वसुधारामिति श्रुतिः ।। १३ ।।
सा नदी निखिलां प्राचीं पुण्यां मुखशतैश्चिताम्।
शोभयत्यमृतप्रख्यैर्मुक्ताशङ्खविभूषितैः ।। १४ ।।
नित्यपुष्पफलोपेतैश्छादयद्भिः सुसंवृतैः ।
भूषिताभ्यधिकैः कान्तैः सा नदी तीरजैर्द्रुमैः ।। १५ ।।
कृत्वा प्राचीविभागं च दक्षिणायामथो दिशि ।
चकार पर्वतं दिव्यं सर्वकाञ्चनराजतम् ।। १६ ।।
एकतः सूर्यसंकाशमेकतः शशिसंनिभम् ।
स बिभ्रच्छुशुभेऽतीव द्वौ वर्णौ पर्वतोत्तमः ।। १७ ।।
तेजसा युगपद् व्याप्तं सूर्याचन्द्रमसाविव ।
वपुष्मन्तमथो तत्र भानुमन्तं महागिरिम् ।। १८ ।।
सर्वकामफलैर्वृक्षैर्वृतं रम्यैर्मनोरमैः ।
चकार कुञ्जरं चैव कुञ्जरप्रतिमाकृतिम् ।। १९ ।।
सर्वतः काञ्चनगुहं बहुयोजनविस्तृतम् ।
ऋषभप्रतिमं चैव ऋषभं नाम पर्वतम् ।। २० ।।
हेमकाञ्चनवृक्षाढ्यं पुष्पहासं स सृष्टवान् ।
महेन्द्रमथ शैलेन्द्रं शतयोजनमुच्छ्रितम् ।। २१ ।।
जातरूपमयैः शृङ्गैः सपुष्पितमदाद्रुमम् ।
मेदिन्यां कृतवान् देवः प्रतिक्षोभमिवाचलम् ।। २२ ।।
नानारत्नसमाकीर्णं सूर्येन्दुसदृशप्रभम् ।
चकार मलयं चाद्रिं चित्रपुष्पितपादपम् ।। २३
मैनाकं च महाशैलं शिलाजालसमावृतम्।
दक्षिणस्यां दिशि शुभं चकाराचलमायतम् ।। २४ ।।
सहस्रशिरसं विन्ध्यं नानाद्रुमलताकुलम् ।
नदीं च विपुलावर्तां पुलिनश्रोणिभूषिताम् ।। २५ ।।
क्षीरसंकाशसलिलां पयोधारामिति श्रुतिः ।
सुरम्यां तोयकलिलां विहितां दक्षिणां दिशम् ।। २६ ।।
दिव्यां तीर्थशतोपेतां प्लावयन्तीं शुभाम्भसा ।
दिशं याम्यां प्रतिष्ठाप्य प्रतीचीं दिशमागमत् ।। २७ ।।
अकरोत् तत्र शैलेन्द्रं शतयोजनमुच्छ्रितम् ।
शोभितं शिखरैश्चित्रैः सुप्रवृद्धैर्हिरण्मयैः ।। २८ ।।
काञ्चनीभिः शिलाभिश्च गुहाभिश्चविभूषितम्।
समाकुलं सूर्यनिभैः शालैस्तालैश्च भास्वरैः ।। २९ ।।
शुशुभे जातरूपैश्च श्रीमद्भिश्चित्रवेदिकैः ।
षष्टिं गिरिसहस्राणि तत्रासौ संन्यवेशयत् ।। ३० ।।
मेरुप्रतिमरूपाणि वपुषा प्रभया सह ।
सहस्रजलधारं च पर्वतं मेरुसंनिभम् ।। ३१ ।।
पुण्यतीर्थगुणोपेतं भगवान् संन्यवेशयत् ।
षष्टियोजनविस्तारं तावदेव समुच्छ्रितम् ।। ३२ ।।
आत्मरूपोपमं तत्र वाराहं नाम नामतः ।
निवेशयामास गिरिं दिव्यं वैदूर्यपर्वतम् ।। ३३ ।।
राजताः काञ्चनाश्चैव यत्र दिव्याः शिलोच्चयाः ।
तत्रैव चक्रसदृशं चक्रवन्तं महाबलम् ।। ३४ ।।
सहस्रकूटं विपुलं भगवान् संन्यवेशयत् ।
शङ्खप्रतिमरूपं च राजतं पर्वतोत्तमम् ।। ३५ ।।
सितद्रुमसमाकीर्णं शङ्खं नाम न्यवेशयत् ।
सुवर्णं रत्नसम्भूतं पारिजातं महाद्रुमम् ।। ३६ ।।
महतः पर्वतस्याग्रे पुष्पहासं न्यवेशयत्।
शुभामतिरसां चैव घृतधारामिति श्रुतिः ।। ३७ ।।
वराहः सरितं पुण्यां प्रतीच्यामकरोत् प्रभुः ।
प्रतीच्यां संविधिं कृत्वा पर्वतान्काञ्चनोज्ज्वलान् ।३८।
गुणोत्तरानुत्तरस्यां संन्यवेशयदग्रतः ।
ततः सौम्यगिरिं सौम्यमन्तरिक्षप्रमाणतः ।। ३९ ।।
रुक्मधातुप्रतिच्छन्नमकरोद् भास्करोपमम्।
स तु देशो विसूर्योऽपि तस्य भासा प्रकाशते ।। ४० ।।
तस्य लक्ष्म्यधिकं भाति तपसा रविणा यथा ।
सूक्ष्मलक्षणविज्ञेयस्तपतीव दिवाकरः ।। ४१ ।।
सहस्रशिखरं चैव नानातीर्थसमाकुलम् ।
चकार रत्नसंकीर्णं भूयोऽस्तं नाम पर्वतम् ।। ४२ ।।
मनोहरगुणोपेतं मन्दरं चाचलोत्तमम् ।
उद्दामपुष्पगन्धं च पर्वतं गन्धमादनम् ।। ४३ ।।
चकार तस्य शृङ्गेषु सुवर्णरससम्भवम्
जम्बूं जाम्बूनदमयीमनन्ताद्भुतदर्शनाम्।। ४४ ।।
गिरिं त्रिशिखरं चैव तथा पुष्करपर्वतम्।
शुभ्रं पाण्डुरमेघाभं कैलासं च नगोत्तमम् ।। ४५ ।।
हिमवन्तं च शैलेन्द्रं दिव्यधातुविभूषितम्।
निवेशयामास हरिर्वाराहीं तनुमास्थितः ।। ४६
नदीं सर्वगुणोपेतामुत्तरस्यां दिशि प्रभुः ।
मधुधारां स कृतवान् दिव्यामृषिशताकुलाम्।। ४७ ।।
सर्वे चैव क्षितिधराः सपक्षाः कामरूपिणः ।
तदा कृता भगवता विचित्राः परमेष्ठिना ।। ४८ ।।
स कृत्वा प्रविभागं तु पृथिव्या लोकभावनः ।
देवासुराणामुत्पत्तौ कृतवान् बुद्धिमक्षयाम् ।। ४९ ।।
सर्वासु दिक्षु क्षतजोपमाक्ष-
श्चकार शैलान्विविधाभिधानान् ।
हिताय लोकस्य स लोकनाथः
पुण्याश्च नद्यः सलिलोपगूढाः ।। ५० ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि वाराहे पञ्चत्रिंशोऽध्यायः ।। ३५ ।।