हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः ०३४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०३३ हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः ०३४
[[लेखकः :|]]
अध्यायः ०३५ →
भगवता यज्ञवराहेण पृथिव्याः उद्धारः

चतुस्त्रिंशोऽध्यायः

वैशम्पायन उवाच
जगदण्डमिदं पूर्वमासीत् सर्वं हिरण्मयम् ।
प्रजापतेर्मूर्तिमयमित्येवं वैदिकी श्रुतिः ।। १ ।।
ततो वर्षसहस्रान्ते बिभेदोर्ध्वमुखं विभुः ।
लोकसंजननार्थाय बिभेदाण्डं पुनः पुनः ।। २ ।।
भूयोऽष्टधा बिभेदाण्डं प्रभुर्वै लोकयोनिकृत् ।
चकार जगतश्चात्र विभागं सर्वभागवित् ।। ३ ।।
यच्छिद्रमूर्ध्वमाकाशं परा सुकृतिनां गतिः ।
विहितं विश्वयोगेन यदधस्तद् रसातलम् ।। ४ ।।
यदण्डमकरोत् पूर्वं देवलोकसिसृक्षया ।
समन्तादष्टधा यानि च्छिद्राणि कृतवांस्तु सः ।। ५ ।।
विदिशस्ता दिशः सर्वा मनसैवाकरोद् द्विधा ।
नानारागविरागाणि यान्यण्डशकलानि वै ।। ६ ।।
बहुवर्णधराश्चित्रा बभूवुस्ते बलाहकाः ।
यदण्डमध्ये स्कन्नं तदृतमासीत् समाहितम् ७
जातरूपं तदभवत् तत् सर्वं पृथिवीतले ।
तस्य क्लेदार्णवौघेन प्राच्छाद्यत समन्ततः ।। ८ ।।
पृथिवी निखिला राजन् युगान्ते सागरैरिव ।। ९ ।।
यच्चाण्डमकरोत् पूर्वं देवलोकचिकीर्षया ।
तत्र तत्सलिलं स्कन्नं सोऽभवत् काञ्चनोगिरिः।। १० ।।
तेनाम्भसा प्लुताः सर्वा दिशश्चोपदिशस्तथा ।
अन्तरिक्षं च नाकं च यच्चान्यत् किंचिदन्तरम् ।। ११ ।।
यत्र यत्र जलं स्कन्नं तत्र तत्र स्थितो गिरिः ।
शैलैः समस्तैर्गहना विषमा मेदिनी भवत् ।। १२ ।।
ते सपर्वतजालौघैर्बहुयोजनविस्तृतैः ।
पीडिता गुरुभिर्देवी पृथिवी व्यथिताभवत् ।। १३ ।।
महीतले भूरि जलं दिव्यं नारायणात्मकम् ।
हिरण्मयं समुद्दिष्टं तेजो विमलरूपितम् ।। १४ ।।
अशक्ता वै धारयितुमधः सा प्रविवेश ह ।
पीड्यमाना भगवतस्तेजसा तेन सा क्षितिः ।। १५ ।।
पृथिवीं विशतीं दृष्ट्वा तामधो मधुसूदनः ।
उद्धारार्थं मनश्चक्रे लोकानां हितकाम्यया ।। १६ ।।
श्रीभगवानुवाच
मत्तेज एव बलवत् समासाद्य तपस्विनी ।
रसातलं विशेद् देवी पङ्के गौरिव दुर्बला ।। १७ ।।
धरण्युवाच
त्रिविक्रमायामितविक्रमाय
महानृसिंहाय चतुर्भुजाय ।
श्रीशार्ङ्गचक्रासिगदाधराय
नमोऽस्तु तस्मै पुरुषोत्तमाय ।। १८ ।।
त्वयाऽऽत्मना धार्यते वै त्वया संह्रियते जगत् ।
त्वं धारयसि भूतानां भुवनं त्वं बिभर्षि च ।। १९ ।।
यत्त्वया धार्यते किंचित्तेजसा च बलेन च ।
ततस्तव प्रसादेन मया पश्चात् तु धार्यते ।। २०
त्यया धृतं धारयामि नाधृतं धारयाम्यहम्।
न हि तद् विद्यते रूपं यत्त्वया न तु धार्यते ।। २१ ।।
त्वमेव कुरुषे वीर नारायण युगे युगे ।
मम भारावतरणं जगतो हितकाम्यया ।। २२
तवैव तेजसाऽऽक्रान्तां रसातलतलं गताम् ।
त्रायस्व मां सुरश्रेष्ठ त्वामेव शरणं गताम् ।। २३।।
दानवैः पीड्यमानाहं राक्षसैश्च दुरात्मभिः ।
त्वामेव शरणं नित्यमुपयामि सनातनम् ।। २४ ।।
तावन्मेऽस्ति भयं भूयो यावन्न त्वां ककुद्मिनम् ।
शरणं यामि मनसा शतशोऽप्युपलक्षये ।। २५ ।।
श्रीभगवानुवाच
मा भैर्धरणि कल्याणि शान्तिं व्रज समाहिता।
एष त्वामुचितं स्थानमानयामि मनीषितम् ।। २६ ।।
वैशम्पायन उवाच
ततो महात्मा मनसा दिव्यं रूपमचिन्तयत्।
किं नु रूपमहं कृत्वा उद्धरामि वसुन्धराम् ।। २७ ।।
जले निमग्नां धरणीं येनाहं वै समुद्धरे ।
इत्येवं चिन्तयित्वा तु देवस्त्वत्करणे मतिम् ।। २८ ।।
जलक्रीडारुचिस्तस्माद् वाराहं रूपमस्मरत् ।
हरिरुद्धरणे युक्तस्तदाभूदस्य भूमिभृत् ।। २९ ।
अधृष्यं सर्वभूतानां वाङ्मयं ब्रह्मसम्मितम्।
दशयोजनविस्तारमुच्छ्रितं शतयोजनम् ।। ३० ।।
नीलमेघप्रतीकाशं मेघस्तनितनिःस्वनम् ।
महागिरेः संहननं श्वेतदीप्तोग्रदंष्ट्रिणम् ।। ३१ ।।
विद्युदग्निप्रतीकाशमादित्यसमतेजसम् ।
पीनवृत्तायतस्कन्धं दृप्तशार्दूलगामिनम् ।। ३२ ।।
पीनोन्ततकटीदेशं वृषलक्षणपूजितम्।
रूपमास्थाय विपुलं वाराहममितं हरिः ।। ३३ ।।
पृथिव्युद्धरणार्थाय प्रविवेश रसातलम् ।

वेदपादो यूपदंष्ट्रः क्रतुदन्तश्चितीमुखः ।। ३४ ।।
वराह प्रतिमा - खजुराहो

अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षो महातपाः ।

अहोरात्रेक्षणधरो वेदाङ्गश्रुतिभूषणः ।। ३५ ।।
वराह मुख - खजुराहो

आज्यनासः स्रुवातुण्डः सामघोषस्वरो महान्।
सत्यधर्ममयः श्रीमान् क्रमविक्रमसत्कृतः ।। ३६ ।।
क्रियासत्रमहाघोणः पशुजानुर्मखाकृतिः ।
उद्गात्रान्त्रो होमलिङ्गो बीजौषधिमहाफलः ।। ३७ ।।
वाय्वन्तरात्मा मन्त्रस्पृग् विक्रमः सोमशोणितः ।
वेदीस्कन्धो हविर्गन्धो हव्यकव्यातिवेगवान् ।। ३८ ।।
प्राग्वंशकायो द्युतिमान् नानादीक्षाभिरर्चितः ।
दक्षिणाहृदयो योगी महासत्रमयो महान् ।। ३९ ।।
उपाकर्मोष्ठरुचकः प्रवर्ग्यावर्तभूषणः ।
नानाछन्दोगतिपथो गुह्योपनिषदासनः ।। ४० ।।
छायापत्नीसहायो वै मणिशृङ्ग इवोच्छ्रितः ।
भूत्वा यज्ञवराहोऽसौ युगपत्प्राविशद् गुरुः ।। ४१ ।।
अद्भिः संछादितामुर्वीं स तामार्च्छत् प्रजापतिः ।
रसातलतले मग्नां पातालान्तरसंश्रयाम् ।। ४२ ।।
प्रभुर्लोकहितार्थाय दंष्ट्राग्रेणोज्जहार गाम्।
ततः स्वस्थानमानीय पृथिवीं पृथिवीधरः ।। ४३ ।।
मुमोच पूर्वं सहसा धारयित्वा धराधरः ।
ततो जगाम निर्वाणं मेदिनी तस्य धारणात् ।। ४४ ।।
चकार च नमस्कारं तस्मै देवाय शम्भवे ।
एवं यज्ञवराहेण भूत्वा भूतहितार्थिना ।। ४५ ।
उद्धृता पृथिवी देवी लोकानां हितकाम्यया ।
अथोद्धृत्य क्षितिं देवो जगतः स्थापनेच्छया ।। ४६ ।।
पृथिवीप्रविभागाय मनश्चक्रेऽम्बुजेक्षणः ।
रसातलगतामेवं विचिन्त्य स सुरोत्तमः ।। ४७ ।।
ततो विभुः प्रवरवराहरूपधृग्
वृषाकपिः प्रसभमथैकदंष्ट्रया ।
समुद्धरन् धरणिमतुल्यविक्रमो
महायशाः सकलहितार्थमच्युतः।। ४८।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपवर्णि वाराहे पृथिव्युद्धरणे चतुस्त्रिंशोऽध्यायः ।। ३४ ।।