सामग्री पर जाएँ

हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः ०१६

विकिस्रोतः तः
← अध्यायः ०१५ हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः ०१६
[[लेखकः :|]]
अध्यायः ०१७ →
सृष्टिविषयकवर्णनस्य प्रसङ्गे ज्ञानस्य योगस्य च विचारः

षोडशोऽध्यायः

वैशम्पायन उवाच
शृणुष्वैकमना राजन् पञ्चेन्द्रियसमाहितः ।
कथां कथयतो राजन् निर्विकारेण चेतसा ।। १ ।।
ब्रह्मसम्बन्धसम्बद्धमबद्धं कर्मभिर्नृप ।
पुरस्ताद् ब्रह्म सम्पन्नं ब्रह्मणो यददक्षिणम् ।। २ ।।
अव्यक्तं कारणं यत्तन्नित्यं सदसदात्मकम् ।
निष्कलः पुरुषस्तस्मात् सम्बभूवात्मयोनिजः ।। ३
दिव्यो दिव्येन वपुषा सर्वभूतपतिर्विभुः ।
अचिन्त्यश्चाव्ययश्चैव युगानां प्रभवोऽव्ययः ।। ४ ।।
अभूतश्चाप्यजातश्च सर्वत्र समतां गतः ।
अव्यक्तात् परमं यत् तन्नारायणविदो विदुः ।। ५ ।।
सर्वतः पाणिपादं तं सर्वतोऽक्षिशिरोमुखम् ।
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ।। ६ ।।
असतश्च सतश्चैव विज्ञेयं तत्र कारणम् ।
अव्यक्तो व्यक्तरूपस्थश्चरन्नपि न दृश्यते ।। ७ ।।
विकारपुरुषोऽब्यक्तो ह्यरूपी रूपमाश्रितः ।
चरत्यचिन्त्यः सर्वेषु गूढोऽग्निरिव दारुषु ।। ८ ।।
भूतभव्योद्भवो नाथः परमेष्ठी प्रजापतिः ।
प्रभुः सर्वस्य लोकस्य नाम चास्येति तत्त्वतः ।। ९।।
अपदात्तु पदो जातस्तस्मान्नारायणोऽभवत् ।
अव्यक्तो व्यक्तिमापन्नो ब्रह्मयोगेन कामतः ।। 3.16.१० ।।
ब्रह्मभावे च तं विद्धि सशब्दं लब्धवान् प्रभुः ।
प्रभुः सर्वस्य लोकस्य स्थावरस्येतरस्य च ।। ११ ।।
अहं त्विति स होवाच प्रजा स्रक्ष्यामि भारत ।
प्रभवः सर्वभूतानां यस्य तन्तुरिमाः प्रजाः ।। १२ ।।
स्वभावाज्जायते सर्वं स्वभावाच्च तथाभवत् ।
अहंकारः स्वभावाच्च तथा सर्वमिदं जगत् ।। १३ ।।
सर्वव्यापी निरालम्बो ह्यग्राह्योऽथ जयो ध्रुवः ।
एष ब्रह्ममयो ज्योतिर्ब्रह्मशब्देन शब्दितः ।। १४ ।।
अव्यक्तो व्यक्तिमापन्नः पञ्चभिः क्रतुलक्षणैः ।
धारयन्ब्रह्मणो व्यक्तं विविधं चिन्तितं त्वरन्।। १५ ।।
अथ मूर्तिं समाधाय स्वभावाद् ब्रह्मचोदितः ।
ससर्ज सलिलं ब्रह्म येन सर्वमिदं ततम् ।। १६ ।।
वायुं पूर्वमथो दृष्ट्वा यो धातुर्धातृसत्तमः ।
धरणाद्धातृशब्दं च लभते लोकसंज्ञितम् ।। १७ ।।
तदेतद् वायुसम्भूतं कृत्स्नं जगदभूत् पुरा ।
एतद् देवैरतिक्रान्तं पूर्वमेव सरस्वति ।। १८ ।।
पृथक्त्वं गमितं तोयं पृथिवीशब्दमिच्छता ।
घनत्वाच्च द्रवत्वाच्च निखिलेनोपलभ्यते ।। १९ ।।
फलत्वात्सीदमाना च सलिले सलिलोद्भवा ।
व्याजहार शुभां वाणीं समन्तात्पूरयन्निव ।। 3.16.२० ।।
ऊर्ध्वेऽहं स्थातुमिच्छामि संसीदाम्युद्धरस्व माम्।
गम्भीरे तोयविवरे मूर्तिविक्षोभितान्तरम् ।। २१।।
ततो मूर्तिधरा देवी सर्वभूतप्ररोहिणी ।
यथायोगेन सम्भूता सर्वत्र विषयैषिणी ।। २२ ।।
श्रुत्वा च गदितं तस्या गिरं तां च सुभाषिताम्।
वराहरूपमास्थाय निपपात महार्णवे । २३ ।।
उद्धृत्य सोऽवनिं तोयात्कृत्वा कर्म सुदुष्करम् ।
समाधौ प्रलयं गत्वा प्रलीनो न च दृश्यते ।। २४ ।।
यत्तद् ब्रह्ममयं ज्योतिराकाशमिति संज्ञितम् ।
तत्र ब्रह्मा समुद्भूतः सर्वभूतपितामहः ।। २५।।
अद्यापि मनसा धात्रा धार्यते सर्वयोनिना ।
ज्ञानयोगेन सूक्ष्मेण प्रजानां हितकाम्यया ।। २६ ।।
भित्त्वा तु पृथिवीमध्यमुपयाति समुद्भवम् ।
तपनस्तूर्ध्वमातिष्ठन् रश्मिभिः स हसन्निव।। २७ ।।
तस्य मण्डलमध्यात् तु निःसृतं सोममण्डलम् ।
स सनातनजो ब्रह्मा सौम्यं सोमत्वमन्वगात् ।। २८ ।।
सोममण्डलपर्यन्तात् पवनः समजायत ।
तदक्षरमयं ज्योतिस्तेजोभिरभिवर्द्धयन् ।। २९ ।।
स तु योगमयाज्ज्ञानात्स्वभावाद्ब्रह्मसम्भवात्।
सृजते पुरुषं दिव्यं ब्रह्मयोनिं सनातनम् ।। 3.16.३० ।।
द्रवं यत्सलिलं तस्य घनं यत्पृथिवी भवत्।
छिद्रं यच्च तदाकाशं ज्योतिर्यच्चक्षुरेव तत् ।। ३१ ।।
वायुना स्पन्दते चैनं संघाताज्ज्योतिसम्भवः ।
पुरुषात्पुरुषो भावः पञ्चभूतमयो महान् ।। ३२ ।।
भूतात्मा वै समे तस्मिंस्तस्मिन् देहे सनातनः ।
गुहायां निहितं ज्ञानं योगाद् यज्ज्ञः सनातनः ।। ३३ ।।
तपनस्यैव तद्रूपं योऽग्निर्वसति देहिनाम् ।
शरीरे नित्यशो युक्तं धातुभिः सह संगतः ।। ३४ ।।
स्वभावात्क्षयमायाति स्वभावाद् भयमेति च ।
स्वभावाद्विन्दते शान्तिं स्वभावाच्चन विन्दति।।३५।।
इन्द्रियैरतिमूढात्मा मोहितो ब्रह्मणः पदे ।
सम्भवं निधनं चैव कर्मभिः प्रतिपद्यते ।। ३६ ।।
यावत् तद् ब्रह्मविषयं नोपयाति ह तत्त्वतः ।
तावत् संसारमाप्नोति सम्भवांश्च पुनः पुनः । ३७ ।।
इन्द्रियैर्व्यतिरिक्तो वै यदा भवति योगवित् ।
तदा ब्रह्मत्वमापन्नः प्रलयाग्रे प्रतिष्ठति ।। ३८ ।।
प्रतिषिद्धममुं लोकं ब्रह्मवान् स भवत्युत ।
न च रागव्ययैर्याति न च सज्जति कर्हिचित् ।। ३९ ।।
आगतिं च गतिं चैव निधनं सम्भवं तथा ।
भूतेभ्यो वेत्ति सर्वज्ञः परां सिद्धिमुपागतः ।। 3.16.४० ।।
आत्मनो गतयश्चैव तथा विषयगोचरम् ।
पुरस्तात्कर्मनिर्वृत्तेः पदे ब्रह्मा प्रतिष्ठितः ।। ४१ ।।
चित्तग्रन्थींश्च मनसा रुन्ध्यात्पूर्वाश्च यातनाः ।
भिद्यमानाः प्रलोभेन वायुभिन्नमिवार्णवम् ।। ४२ ।।
पच्यते हृदयं नीलं परेभ्यो ज्ञानचक्षुषा ।
ब्रह्मप्रोक्तमिवात्मा वै विमुक्तो देहबन्धनात् ।। ४३ ।।
सृजेदपि परं लोकं संहरेदपि विद्यया ।
तेजोमूर्तिरिवाविद्धमिह लोकं च संसृजेत् ।।४४ ।।
तिर्यग्योनौ गतांश्चैव कर्मभिर्नियमोपमैः ।
तान्यपि प्रतिमुच्येत ब्रह्मयुक्तेन चेतसा ।। ४५ ।।
अक्षरं च क्षरं चैव योगकर्माभिविद्यते ।
न क्षरं विद्यते तत्र यद् ब्रह्म कर्मभिर्ध्रुवम् ।। ४६ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पौष्करे षोडशोऽध्यायः ।। १६ ।।