हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः ०१५

विकिस्रोतः तः
← अध्यायः ०१४ हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः ०१५
[[लेखकः :|]]
अध्यायः ०१६ →
जनमेजयेन महाभारतवर्णितस्य चरित्रस्य प्रशंसा

पञ्चदशोऽध्यायः

जनमेजय उवाच
श्रुतं नः परमं ब्रह्मन् स्ववंशचरितं महत् ।
दिव्यमन्योन्यसम्भूतं मानितं बहुभिर्गुणैः ।। १ ।।
छन्दोभिर्वृत्तसंजातैः समासैश्च सविस्तरैः ।
लघुभिर्मधुराभाषैर्ग्रथितं पदविग्रहैः ।। २ ।।
त्रिवर्गेणाभिसम्पन्नं धर्मेणार्थेन भोगिनाम् ।
कामेन बहुरूपेण शरीरान्तर्गतेन च ।। ३ ।।
ब्राह्मणानां प्रभावैश्च योधानां च पराक्रमैः ।
वैरनिर्यातनैश्चैव प्रतिज्ञानां च पारगैः ।। ४ ।।
रिपुस्तवसुसम्पन्नैर्नानुबन्धः प्रचोदितः ।
वंशयोर्निर्विनाशाय नृपेण द्विज विग्रहात् ।। ५ ।।
ये च तस्मिन् महारौद्रे संग्रामे निहता नृपाः ।
तेषां सर्वाणि राष्ट्राणि पुत्राः सर्वे प्रपेदिरे ।। ६ ।।
कौरवः प्रथितो राजा भगवच्छासनानुगः ।
धर्मश्च बहुधा प्रोक्तस्त्रयाणां वर्णसम्पदाम् ।
शूराणामपि विख्यातः स्वर्गहेतुर्द्विजर्षभ ।। ७ ।।
अनुग्रहार्थं भूतानां नोत्सेकाय कथंचन ।
चतुर्णां वर्णसंज्ञानां पृयक्पृथगनेकधा ।। ८ ।
गर्भवासं पतन्तश्च भूतानां सम्प्रबोधिताः ।
पृच्छन्तो देवसंचारं क्षीणे पुण्ये च कर्मणि ।। ९ ।।
दाने यश्चापि संयोगः स चापि बहुधा कृतः ।
द्वयोः संयोगविहितं मधु वाग्वचनं तयोः ।। १० ।।
न तच्छक्यं मयाऽऽख्यातुं भारताध्ययनं महत्।
एकाहेन महान् ब्रह्मन्नपि दिव्येन चक्षुषा ।। ११ ।।
ब्रह्मणोऽह्नस्तु विस्तारं संक्षेपं च सुसंग्रहम् ।
श्रोतुमिच्छामि भगवन्महत्कौतूहलं हि मे ।। १२ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पौष्करे जनमेजयवाक्ये पञ्चदशोऽध्यायः ।। १५ ।।