हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः ००७
← अध्यायः ००६ | हरिवंशपुराणम् अध्यायः ००७ वेदव्यासः |
अध्यायः ००८ → |
पुष्करप्रादुर्भावस्य विषये जनमेजयस्य प्रश्नं, वैशम्पायनस्य उत्तरम् |
सप्तमोऽध्यायः
जनमेजय उवाच
प्रभावं पद्मनाभस्य स्वपतः सागराम्भसि ।
पुष्करे वै यथोद्भूता देवाः सर्षिगणाः पुरा ।। १ ।।
एतदाख्याहि निखिलं योगं योगविदां पते ।
शृण्वतस्तस्य मे कीर्तिं न तृप्तिरभिजायते ।। २ ।।
कियन्तं चैव कालं वै शयिता पुरुषोत्तमः ।
किमर्थं च तथा शेते कश्च कालस्य सम्भवः ।। ३ ।।
कियता चैव कालेन प्रबुध्यति सुराधिपः ।
कथमुत्थाय भगवानसृजन्निखिलं जगत् ।। ४ ।।
के प्रजापतयस्तात आसन् पूर्वं महामुने ।
कथं निर्मितवांश्चैव चित्रं लोकं सनातनः ।। ५ ।।
कथमेकार्णवे घोरे नष्टे स्थावरजङ्गमे ।
नष्टे देवासुरगणे प्रणष्टोरगराक्षसे ।। ६ ।।
नष्टानलानिले लोके नष्टाकाशमहीतले ।
केवलं गह्वरीभूते महाभूतविपर्यये ।। ७ ।।
प्रभुर्महाभूतपतिर्महातेजा महाकृतिः ।
आस्ते सुरगुरुश्रेष्ठो विधिमादाय कं मुने ।। ८ ।।
तन्मे त्वमुपपन्नाय ब्रह्मन्नेतदसंशयम् ।
वक्तुमर्हसि धर्मिष्ठ यशो नारायणात्मकम् ।। ९ ।।
प्रादुर्भावं पुरस्कृत्य भूतं भव्यं महात्मनः ।
श्रद्धानामुपविष्टानां भगवन् वक्तुमर्हसि ।। 3.7.१० ।।
वैशम्पायन उवाच
नारायणयशोज्ञाने या भवेद् भवतः स्पृहा ।
त्वद्वंशानघ पूतस्य कार्यं कुरुकुलर्षभ ।। ११ ।।
शृणुष्वादिपुराणेभ्यो देवताभ्यो यथाश्रुति ।
ब्राह्मणानां च वदतां श्रुतोऽस्माभिर्महात्मनाम्।। १२ ।।
यथा च तपसा दृष्टो बृहस्पतिसमद्युतिः ।
पाराशर्यस्ततः श्रीमान् गुरुर्द्वैपायनोऽब्रवीत् ।। १३ ।।
तत् तेऽहं सम्प्रवक्ष्यामि यथाप्रज्ञं यथाश्रुतम् ।
न विज्ञातुं मया शक्यमृषिमात्रेण भारत ।। १४ ।।
कः समुत्सहते ज्ञातुं परं नारायणात्मकम् ।
विश्वात्मनो यं ब्रह्मापि न वेदयति तत्त्वतः ।। १५ ।।
श्रुतं मे विश्वदेवानां यद् रहस्यं महर्षिणाम् ।
तदिदं सर्वदेवानां तत्त्वतस्तत्त्ववादिनाम् ।। १६ ।।
तदध्यात्मविदां चिन्त्यं कारणं चैव कर्मिणाम् ।
अधिदैवं च यद् दैवं तद दैवमिति संज्ञितम् ।। १७ ।।
यद् भूतमधिभूतं च यत्परं च महर्षिणाम्।
यत् सत्यं वेददृष्टं च यत् तद्वेदविदो विदुः ।। १८ ।।
यः कर्ता कारको बुद्धिर्मनः क्षेत्रज्ञ एव च ।
प्रधानं पुरुषः शास्ता एकस्तदभिशब्द्यते ।। १९ ।।
कालः कालं स्वपयति द्रष्टा स्वाधीन एव च ।
प्राणः पञ्चविधश्चैव ध्रुवमक्षरमेव च ।। 3.7.२० ।।
उच्यते विविधैर्भावैस्तस्यैवानघ तत्परैः ।
स एव भगवान् सर्वं करोति विकरोति च ।। २१ ।।
योऽस्मान्कारयते कर्म तेनास्य व्याकुलीकृताः ।
यजामहे तमेवेशं तमेवेच्छाम निर्वृताः ।। २२ ।।
यो वक्ता यश्च वक्तव्यो यश्चाहं तद्ब्रवीमि वः ।
इदं शृणुत यच्छ्रेयो यच्चान्यत् परिजल्पथ ।। २३ ।।
याः कथाश्चैव वर्तन्ते श्रुतयो वाथ गह्वराः ।
विश्वं विश्वपतिर्देवाः सर्वं नारायणात्मकम् ।। २४।।
यत् सत्यं यदनृतमादिमक्षरं वै
यद्भूतं भवति मिथश्च यद्भविष्यम् ।
यत् किंचिच्चरमचराव्ययं त्रिलोके
तत्सर्वं पुरुषवरः प्रभुर्वरिष्ठः ।। २५ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पुष्करप्रादुर्भावे सप्तमोऽध्यायः ।। ७ ।।