हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः ००५

विकिस्रोतः तः
← अध्यायः ००४ हरिवंशपुराणम्
अध्यायः ००५
वेदव्यासः
अध्यायः ००६ →
व्यासादीनां गमनं, जनमेजयस्य अश्वमेधयागे इन्द्रस्य विघ्नं, जनमेजयेन इन्द्राय शापं, ब्राह्मणानां निर्वासनं स्वपत्न्याः भर्त्सना, विश्वावसुना जनमेजयाय परामर्शम्

पञ्चमोऽध्यायः

सूत उवाच
इत्येवमाश्वासयतो राजानं जनमेजयम् ।
अतीतानागतं वाक्यमृषेः परिषदा श्रुतम् ।। १ ।।
अमृतस्येव संवाहः प्रभा चन्द्रमसो यथा ।
अतर्पयत तच्छ्रोत्रं महर्षेर्वाक्ययो रसः ।। २ ।।
धर्मकामार्थसंयुक्तं करुणं वीरहर्षणम् ।
रमणीयं तदाख्यानं कृत्स्नं परिषदा श्रुतम् ।। ३ ।।
केचिदश्रूणि मुमुचुः श्रुत्वा दध्युस्तथापरे ।
इतिहासं तमृषिणा पाणाविव निदर्शितम् ।। ४ ।।
सदस्यान् सोऽभ्थनुज्ञाय कृत्वा चापि प्रदक्षिणाम्।
पुनर्द्रक्ष्याम इत्युक्त्वा जगाम भगवानृषिः ।। ५ ।।
अनुजग्मुस्तदा सर्वे प्रयान्तमृषिसत्तमम् ।
लोके प्रवदतां श्रेष्ठं ये विशिष्टास्तपोधनाः ।। ६ ।।
याते भगवति व्यासे तदा ब्रह्मर्षिभिः सह ।
ऋत्विजः पार्थिवाश्चैव प्रतिजग्मुर्यथागतम् ।। ७ ।।
पन्नगानां सुघोराणां कृत्वा तां वैरयातनाम् ।
जगाम रोषमुन्मृज्य राजा विषमिवोरगः ।। ८ ।।
होत्राग्निदीप्तशिरसं परित्राय च तक्षकम् ।
आस्तीकोऽथाश्रमपदं जगाम स महामुनिः ।। ९ ।।
राजापि हास्तिनपुरं जगाम स्वजनावृतः ।
अन्वशासच्च मुदितस्तदा प्रमुदिताः प्रजाः ।। 3.5.१० ।।
कस्यचित् त्वथ कालस्य स राजा जनमेजयः ।
दीक्षितो वाजिमेधेन विधिवद् भूरिदक्षिणः ।। ११ ।।
संज्ञप्तमश्वं तत्रास्य देवी काश्या वपुष्टमा ।
संविवेशोपगम्याथ विधिदृष्टेन कर्मणा ।। १२ ।।
तां तु सर्वानवद्याङ्गीं चकमे वासवस्तदा ।
संज्ञप्तमश्वमाविश्य तया मिश्रीबभूव सः ।। १३ ।।
तस्मिन् विकारे जनिते विदित्वा तत्त्वतश्च तत् ।
असंज्ञप्तोऽयमश्वस्ते ध्वंसेत्यध्वर्युमब्रवीत् ।। १४ ।।
अध्वर्युर्ज्ञानसम्पन्नस्तदिन्द्रस्य विचेष्टितम् ।
कथयामास राजर्षेः शशाप स पुरंदरम् ।। १५ ।।
जनमेजय उवाच
यद्यस्ति मे यज्ञफलं तपो वा रक्षतः प्रजाः ।
फलेनानेन सर्वेण ब्रवीमि श्रूयतामिदम् ।। १६ ।।
अद्यप्रभृति देवेन्द्रमजितेन्द्रियमस्थिरम् ।
क्षत्रिया वाजिमेधेन न यक्ष्यन्तीति शौनक ।। १७ ।।
ऋत्विजश्चाब्रवीत् क्रुद्धः स राजा जनमेजयः ।
दौर्बल्यं भवतामेतद् यदय धर्षितः क्रतुः ।। १८ ।।
विषये मे न वस्तव्यं गच्छध्वं सह बान्धवैः ।
इत्युक्तास्तत्यजुर्विप्रास्तं नृपं जातमन्यवः ।। १९ ।।
अमर्षादन्वशासच्च पत्नीशालागताः स्त्रियः ।
राजा परमधर्मज्ञस्तामसौ जनमेजयः ।। 3.5.२० ।।
असतीं वपुष्टमामेतां निर्यातयत मे गृहात् ।
यया मे चरणौ मूर्ध्नि पातितौ रेणुगुण्ठितौ ।। २१ ।।
शौण्डीर्यं मेऽनया भग्नं यशो मानश्च दूषितः ।
न चैनां द्रष्टुमिच्छामि परिक्लिष्टामिव स्रजम् ।। २२ ।।
न स्वादु सोऽश्नाति नरः सुखं स्वपिति वा रहः ।
अन्वास्ते यः प्रियां भार्यां परेण मृदितामिह ।
पुनर्नैवोपभुञ्जीत श्वावलीढं हविर्यथा ।। २३ ।।
एवमुच्चैः प्रभाषन्तं क्रुद्धं पारीक्षितं नृपम् ।
गन्धर्वराजः प्रोवाच विश्वावसुरिदं वचः ।। २४ ।।
विश्वावसुरुवाच
त्रियज्ञशतयज्वानं वासवस्त्वां न मृष्यते ।
अप्सरास्तेन पत्नी ते विहितेयं वपुष्टमा ।। २५ ।।
रम्भानामाप्सरा देवी काशिराजसुता मता ।
सैषा योषिद्वरा राजन् रत्नभूतानुभूयताम् ।। २६ ।।
यज्ञे विवरमासाद्य विघ्नमिन्द्रेण ते कृतम् ।
यज्वा ह्यसि कुरुश्रेष्ठ समृद्ध्या वासवोपमः ।। ९७ ।।
बिभेत्यभिभवाच्छक्रस्तव क्रतुफलैर्नृप ।
तस्मादावर्तितश्चैव क्रतुरिन्द्रेण ते विभो ।। २८ ।।
मायैषा वासवेनेह प्रयुक्ता विघ्नमिच्छता ।
क्रतोर्विवरमासाद्य संज्ञप्तं दृश्य वाजिनम् ।। २९ ।।
रतिमिन्द्रेण रम्भायां मन्यसे यां वपुष्टमाम् ।
अथ ते गुरवः शप्तास्त्रियज्ञशतयाजिनः ।। 3.5.३० ।।
भ्रंशितस्त्वं च विप्राश्च बलादिन्द्रसमादिह ।
त्वत्तश्चैव सुदुर्धर्षात् त्रियज्ञशतयाजिनः ।। ३१ ।।
बिभेति हि सदा त्वत्तो ब्राह्मणेभ्योऽपि वासवः ।
एकेन वै तदुभयं तीर्णे शक्रेण मायया ।। ३२ ।।
स एष सुमहातेजा विजिगीषुः पुरंदरः ।
कथमन्यैरनाचीर्णं नप्तुर्दारानतिक्रमेत् ।। ३३ ।।
यथैव हि परा बुद्धिः परो धर्मः परो दमः ।
यथैव परमैश्वर्यं कीर्तितं हरिवाहने ।
तथैव त्वयि दुर्धर्षे त्रियज्ञशतयाजिनि ।। ३४ ।।
मा वासवं मा च गुरुमात्मानं मा वपुष्टमाम् ।
गच्छ दोषेण कालो हि सर्वथा दुरतिक्रमः ।। ३५ ।।
ऐश्वर्येणाश्वमाविश्य देवेन्द्रेणासि रोषितः ।
आनुकूल्येन देवस्य वर्तितव्यं सुखार्थिना ।। ३६ ।।
दुस्तरं प्रतिकूलं हि प्रतिस्रोत इवाम्भसः ।
स्त्रीरत्नमुपभुङ्क्ष्वेमामपापां विगतज्वरः ।। ३७ ।।
अपापास्त्यज्यमाना वै त्यजेयुरपि योषितः ।
अदुष्टास्तु स्त्रियो राजन्दिव्यास्तु सविशेषतः।। ३८ ।।
भानोः प्रभा शिखा वह्नेर्वेदी होत्रे तथाहुतिः ।
परामृष्टाप्यसंसक्ता नोपदुष्यन्ति योषितः ।। ३९ ।।
ग्राह्या लालयितव्याश्च पूज्याश्च सततं बुधैः ।
शीलवत्यो नमस्कार्याः पूज्याः श्रिय इव स्त्रियः।। 3.5.४० ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि विश्वावसुवाक्ये पञ्चमोऽध्यायः ।। ५ ।।