हरिवंशपुराणम्/पर्व २ (विष्णुपर्व)/अध्यायः १०३

विकिस्रोतः तः
← अध्यायः १०२ हरिवंशपुराणम्
अध्यायः १०३
वेदव्यासः
अध्यायः १०४ →
श्रीकृष्णस्य संततेः वर्णनं वृष्णिवंशस्य उपसंहारं च।

त्र्यधिकशततमोऽध्यायः

जनमेजय उवाच
बहूनां स्त्रीसहस्राणामष्टौ भार्याः प्रकीर्तिताः ।
तासामपत्यान्यष्टानां भगवान् प्रब्रवीतु मे ।। १ ।।
वैशम्पायन उवाच
अष्टौ महिष्यः पुत्रिण्य इति प्राधान्यतः स्मृताः ।
सर्वा वीरप्रजाश्चैव तास्वपत्यानि मे शृणु ।। २ ।।
रुक्मिणी सत्यभामा च देवी नाग्नजिती तथा ।
सुदत्ता च तथा शैब्या लक्ष्मणा चारुहासिनी ।। ३ ।।
मित्रविन्दा च कालिन्दी जाम्बवत्यथ पौरवी ।
सुभीमा च तथा माद्री रुक्मिणीतनयाञ्छृणु ।। ४ ।।
द्युम्नः प्रथमं जज्ञे शम्बरान्तकरः शुभः ।
द्वितीयश्चारुदेष्णश्च वृष्णिसिंहो महारथः ।। ५ ।।
चारुभद्रश्चारुगर्भः सुदेष्णो द्रुम एव च ।
सुषेणश्चारुगुप्तश्च चारुविन्दश्च वीर्यवान् ।। ६ ।।
चारुबाहुः कनीयांश्च कन्या चारुमती तथा ।
जज्ञिरे सत्यभामायां भानुर्भीमरथः क्षुपः ।। ७ ।।
रोहितो दीप्तिमांश्चैव ताम्रजाक्षो जलान्तकः ।
भानुर्भीमलिका चैव ताम्रपर्णी जलन्धमा ।। ८ ।।
चतस्रो जज्ञिरे तेषां स्वसारो गरुडध्वजात् ।
जाम्बवत्याः सुतो जज्ञे साम्बः समितिशोभनः ।। ९ ।।
मित्रवान्मित्रविन्दश्च मित्रवत्यपि चाङ्गना ।
मित्रबाहुः सुनीथश्च नाग्नजित्याः प्रजाःशृणु ।। 2.103.१० ।।
भद्रकारो भद्रविन्दः कन्या भद्रवती तथा ।
सुदत्तायां तु शैब्यायां संग्रामजिदजायत ।। ११ ।।
सत्यजित् सेनजिच्चैव तथा शूरः सपत्नजित् ।
सुभीमायाः सुतो माद्र्या वृकाश्वो वृकनिर्वृतिः ।। १२ ।।
कुमारो वृकदीप्तिश्च लक्ष्मणायाः प्रजाः शृणु ।
गात्रवान् गात्रगुप्तश्च गात्रविन्दश्च वीर्यवान् ।।१३।।
जज्ञिरे गात्रवत्या च भगिन्याऽनुजया सह ।
अश्रुतश्च सुतो जज्ञे कालिन्द्याः श्रुतसम्मितः ।। १४ ।।
अश्रुतं श्रुतसेनायै प्रददौ मधुसूदनः ।
तं प्रदाय हृषीकेशस्तां भार्यां मुदितोऽब्रवीत् ।। १५ ।।
एष वामुभयोरस्तु दायादः शाश्वतीः समाः ।
बृहत्यां तु गदं प्राहुः शैब्यायामङ्गदं सुतम् ।। १६ ।।
उत्पन्नं कुमुदं चैव श्वेतं श्वेता तथाङ्गना ।
अगावहः सुमित्रश्च शुचिश्चित्ररथस्तथा ।। १७ ।।
चित्रसेनः सुदेवायाश्चित्रा चित्रवती तथा ।
वनस्तम्बश्च जज्ञाते सुतः स्तम्बवनश्च ह ।। १८ ।।
निवासनोऽवनस्तम्बः कन्या स्तम्बवती तथा ।
उपसन्नश्च शङ्कुश्च वज्रांशुः क्षिप्र एव च ।। १९ ।।
कौशिक्यां सुतसोमायां यौधिष्ठिर्यां युधिष्ठिरः ।
कपाली गरुडश्चैव जज्ञाते चित्रयोधिनौ ।। 2.103.२० ।।
एवमादीनि पुत्राणां सहस्राणि निबोध मे ।
दशायुतं समाख्याता वासुदेवस्य ते सुताः ।। २१ ।।
अयुतानि तथा चाष्टौ शूरा रणविशारदाः ।
जनार्दनस्य प्रसवः कीर्तितोऽयं तथा मया ।। २२ ।।
प्रद्युम्नस्य सुतो जज्ञे वैदर्भ्यां राजसत्तम ।
अनिरुद्धो रणेऽरुद्धो जज्ञे स मृगकेतनः ।। २२ ।।
रेवत्यां बलदेवस्य जज्ञाते निशठोल्मुकौ ।
भ्रातरौ देवसंकाशावुभौ पुरुषसत्तमौ ।। २४ ।।
सुतनुश्च सुतारा च शौरेरास्तां परिग्रहः ।
पौण्ड्रकः कपिलश्चैव वसुदेवस्य तौ सुतौ ।। २५ ।।
तारायां कपिलो जज्ञे पौण्ड्रश्च सुतनोः सुतः ।
तयोर्नृपोऽभवत् पौण्ड्रः कपिलश्च वनं ययौ ।। २६ ।।
तुर्यां समभवद् वीरो वसुदेवान्महाबलः ।
जरा नाम निषादानां प्रभुः सर्वधनुष्मताम् ।। २७ ।।
काश्या सुपार्श्वं तनयं लेभे साम्बात् तरस्विनम्।
सानुर्जज्ञेऽनिरुद्धस्य वज्रः सानोरजायत ।। २८ ।।
वज्राज्जज्ञे प्रतिरथः सुचारुस्तस्य चात्मजः ।
अनमित्राच्छिनिर्जज्ञे कनिष्ठाद्वृष्णिनन्दनात् ।। २९ ।।
शिनेस्तु सत्यवाग् जज्ञे सत्यकश्च महारथः ।
सत्यकस्यात्मजः शूरो युयुधानस्त्वजायत ।। 2.103.३० ।।
असङ्गो युयुधानस्य मणिस्तस्याभवत्सुतः ।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि वृष्णिवंशानुकीर्तने त्र्यधिकशततमोऽध्यायः ।। १०३ ।।