हरिवंशपुराणम्/पर्व २ (विष्णुपर्व)/अध्यायः १०२

विकिस्रोतः तः
← अध्यायः १०१ हरिवंशपुराणम्
अध्यायः १०२
वेदव्यासः
अध्यायः १०३ →
नारदेन भगवतः श्रीकृष्णस्य अद्भुतानां कर्मणां वर्णनम्

द्व्यधिकशततमोऽध्यायः

नारद उवाच
सादिता मौरवाः पाशा निसुन्दनरकौ हतौ ।
कृतः क्षेम्यः पुनः पन्थाः पुरं प्राग्ज्योतिषं प्रति ।। १ ।।
शौरिणा पृथिवीपालास्त्रासिताः स्पर्द्धिनो रणे ।
धनुषश्च निनादेन पाञ्चजन्यस्वनेन च ।। २ ।।
मेघप्रख्यै रथानीकैर्दाक्षिणात्यैः सुरक्षितम् ।
रुक्मिणं युधि निर्जित्य महाबलपराक्रमम् ।
रुक्यिणीमाजहाराशु केशवो वृष्णिपुङ्गवः ।। ३ ।।
ततः पर्जन्यघोषेण रथेनादित्यवर्चसा ।
उवाह महिषीं भोज्यां शङ्खचक्रगदासिभृत् ।। ४ ।।
जारूथ्यामाह्वृतिः क्राथः शिशुपालश्च निर्जितः ।
वक्रश्च सह सैन्येन शतधन्वाथ निर्जितः ।। ५ ।।
इन्द्रद्युम्नो हतः कोपाद् यवनश्च कशेरुमान् ।
हतः सौभपतिः श्रीमाञ्छाल्वश्च दृढधन्वना ।। ६ ।।
पर्वतानां सहस्रं च चक्रेण पुरुषोत्तमः ।
विकीर्य पुण्डरीकाक्षो द्युमत्सेनं व्यपोथयत् ।। ७ ।।
महेन्द्रशिखरे चैव निमेषान्तरचारिणौ ।
जग्राह पुरुषव्याघ्रो वरुणस्याभितश्चरौ ।। ८ ।।
इरावत्यां महाभोजावग्निसूर्यसमौ युधि ।
गोपतिस्तालकेतुश्च निहतौ शार्ङ्गधन्वना ।। ९ ।।
अक्षप्रपतने चैव डिम्भो हंसश्च दानवौ ।
उभौ तावपि कृष्णेन सानुगौ विनिपातितौ ।। 2.102.१० ।।
दग्धा वाराणसी चैव केशवेन महात्मना ।
सराष्ट्रः सानुबन्धश्च काशीनामधिपो हतः ।। ११ ।।
विजित्य च यमं संख्ये शरैः संनतपर्वभिः ।
अथैन्द्रसेनिरानीतः कृष्णेनाद्भुतकर्मणा ।। १२ ।।
सहितः सर्वयादोभिः सागरेषु महाबलः ।
प्राप्य लोहितकूटं च कृष्णेन वरुणो जितः ।। १३ ।।
महेन्द्रभवने जातो देवैर्गुप्तो महात्मभिः ।
अचिन्तयित्वा देवेन्द्रं पारिजातद्रुमो हृतः ।। १४ ।।
पाण्ड्यं पौण्ड्रं कलिङ्गं च मात्स्यं चैव जनार्दनः ।
जघान सहितान् सर्वान् वङ्गराजं तथैव च ।। १५ ।।
एष चैकशतं हत्वा रणे राज्ञां महात्मनाम् ।
गान्धारीमावहद् वीरो महिषीं प्रियदर्शनाम् ।। १६ ।।
तथा गाण्डीवधन्वानं क्रीडन्तं मधुसूदनः ।
जिगाय भरतश्रेष्ठं कुन्त्याः प्रमुखतो विभुः ।। १७ ।।
द्रोणं-द्रौणिं कृपं कर्णं भीष्मं चैव सुयोधनम् ।
चक्रानुयानैः प्रहृवणे जिगाय पुरुषोत्तमः ।। १८ ।।
बभ्रोश्च प्रियमन्विच्छञ्छङ्खचक्रगदासिभृत् ।
सौवीरराजस्य सुतां प्रसह्य हृतवान् प्रभुः ।। १९ ।।
पर्यस्तां पृथिवीं कृत्स्नां साश्वां सरथकुञ्जराम् ।
वैणुदारिकृते यत्नाज्जिगाय पुरुषोत्तमः ।। 2.102.२०।।
अवाप्य तपसो वीर्यं बलमोजश्च माधवः ।
पूर्वदेहे जहारायं बलेस्त्रिभुवनं हरिः ।। २१।।
वज्राशनिगदाखड्गैस्त्रासयद्भिश्च दानवैः ।
यस्य नाधिगतो मृत्युः पुरं प्राग्ज्योतिषं प्रति ।। २२ ।।
अभिभूतश्च कृष्णेन सगणः सुमहाबलः ।
बलेः पुत्रो महावीर्यो बाणो द्रविणवत्तरः ।। २३ ।।
पीठं तथा महाबाहुः कंसामात्यं जनार्दनः ।
पैठिकं चासिलोमानं निजघान महाबलः ।। २४ ।।
जृम्भमैरावणं चापि विरूपं च महायशाः ।
जघान पुरुषव्याघ्रो दैत्यं मानुषरूपिणम् ।। २५ ।।
तथा नागपतिं तोये कालीयं च महौजसम् ।
निर्जित्य पुण्डरीकाक्षः प्रेषयामास सागरम् ।। २६ ।।
संजीवयामास मृतं पुत्रं सान्दीपनेस्तथा ।
निर्जित्य पुरुषव्याघ्रो यमं वैवस्वतं हरिः ।। २७ ।।
एवमेष महाबाहुः शास्ता तेषां दुरात्मनाम् ।
देवांश्च ब्राह्मणांश्चैव ये द्विषन्ति सदा नृप ।। २८ ।।
निहत्य नरकं भौममाहृत्य मणिकुण्डले ।
देवमातुर्ददौ चैव प्रीत्यर्थं वज्रपाणिनः ।। २९ ।।
एवं सदैव दैत्यानां सुराणां च महायशाः ।
भयाभयकरः कृष्णः सर्वलोककरो विभुः ।। 2.102.३० ।।
संस्थाप्य धर्मान् मर्त्येषु यज्ञैरिष्ट्वाऽऽप्तदक्षिणैः।
कृत्वा देवार्थममितं स्वस्थानं प्रतिपत्स्यते ।।३१।।
कृष्णो भोगवतीं रम्यामृषिकान्तां महायशाः ।
द्वारकामात्मसात्कृत्वा समुद्रं गमयिष्यति ।। ३२ ।।
बहुरत्नसमाकीर्णो चैत्ययूपशताङ्किताम् ।
द्वारकां वरुणावासं प्रवेक्ष्यति सकाननाम् ।। ३३।।
तां सूर्यसदनप्रख्यां मतज्ञः शार्ङ्गधन्वनः ।
विसृष्टां वासुदेवेन सागरः प्लावयिष्यति ।। ३४ ।।
सुरासुरमनुष्येषु नासीन्न भविता क्वचित् ।
य इमामावसेत्कश्चिदन्यो वै मधुसूदनात् ।। ३५ ।।
एवमेष दशार्हाणां विधाय विधिमुत्तमम् ।
विष्णुर्नारायणः सोमः सूर्यश्च भविता स्वयम् ३६ ।।
अप्रमेयस्त्वचिन्त्यश्च यथा कामचरो वशी ।
मोदत्येष सदा भूतैर्बालः क्रीडनकैरिव ।। ३७ ।।
न प्रमातुं महाबाहुः शक्योऽयं मधुसूदनः ।
परं ह्यपरमेतस्माद् विश्वरूपान्न विद्यते ।। ३८ ।।
श्रुतोऽयमेव शतशस्तथा शतसहस्रशः ।
अन्तो हि कर्मणामस्य दृष्टपूर्वो न केनचित् ।। ३९ ।।
एवमेतानि कर्माणि शिशुमध्यगतस्तदा ।
कृतवान् पुण्डरीकाक्षः संकर्षणसहायवान् ।। 2.102.४० ।।
इत्युवाच पुरा व्यासस्तपोवीर्येण चक्षुषा ।
महायोगी महाबुद्धिः सर्वप्रत्यक्षदर्शिवान् ।। ४१ ।
वैशम्पायन उवाच
इति संस्तूय गोविन्दं महेन्द्रवचनान्मुनिः ।
यदुभिः पूजितः सर्वैर्नारदस्त्रिदिवं ययौ ।। ४२ ।।
ततस्तद् वसु गोविन्दो दिदेशान्धकवृष्णिषु ।
यथार्हं पुण्डरीकाक्षो विधिवन्मधुसूदनः ।। ४३।।
यादवाश्च धनं प्राप्य विधिवद् भूरिदक्षिणैः ।
यज्ञैरिष्ट्वा महात्मानो द्वारकामावसन् पुरीम् ।। ४४ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि नारदवाक्यं नाम
द्व्यधिकशततमोऽध्यायः ।। १०२ ।।