हरिवंशपुराणम्/पर्व २ (विष्णुपर्व)/अध्यायः ०७९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०७८ हरिवंशपुराणम्
अध्यायः ७९
वेदव्यासः
अध्यायः ०८० →
पुण्यकव्रतसम्बन्धी नियमस्य एवं दानस्य वर्णनं एवं पुत्रादिनिमित्ते क्रियमाणानि अन्यानि व्रतदानादीनां प्रतिपादनम्

एकोनाशीतितमोऽध्यायः

उमोवाच
विधिनैतेन कृत्स्नेन स्त्री सदा भर्तृदेवता ।
चरेत् संवत्सरं दान्ता षण्मासान् मासमेव च ।।१।।
स्त्रियो ह्यावाहयेत् साध्वीरेकादश समाधिना ।
स्वयं चैव विधिर्दृष्टो व्रतकानां मया शुभः ।। २ ।।
अद्भिर्दद्यात् सतीः सर्वा या मूलव्रतिनी भवेत् ।
तासां तु निष्क्रयो देयः कालदेशानुरूपतः ।। ३ ।।
ततो मासान्तशुक्लस्य तिथौ च नवमी तथा ।
आराधयित्वा कर्तव्यं व्रतकस्यापवर्जनम् ।। ४ ।।
उपवासमहोरात्रं व्रतकं चापि निश्चितम् ।
आदौ चान्ते च कुर्वीत व्रतकस्यापि सिद्धये ।। ।५ ।।
क्षुरकर्म ततो भर्तुरात्मनश्चैव कारयेत् ।
उत्सादनं च स्नानं च तस्मिन्नहनि संस्मृतम् ।। ६ ।।
ततो विवाहवत्स्नानं विहितं पुण्यके शुभे ।
मण्डनं चैव विहितं माल्यधारणमेव च ।। ७ ।।
कुम्भैस्तु स्नाप्यमानेमं साध्वी मन्त्रमुदीरयेत्।
भर्तुः पादौ नमस्कृत्य मनसा वाथ वा गिरा ।। ८ ।।
आपो देव्य ऋषीणां हि विश्वधात्र्यो दिव्या मदन्त्यो याः शङ्करा धर्मधात्र्यः।
हिरण्यवर्णाः पावकाः शिवतमेन रसेन श्रेयसो मां जुषन्तु ।। ९ ।।
अपामेव स्मृतो मन्त्रः सर्वत्रान्यत्र मे शृणु ।
मन्त्राः पुराणविहिताः स्त्रीणां सर्वाङ्गशोभने ।। 2.79.१० ।।
शुभाव्यया गुणिनी युक्तधर्मा भर्त्रा साकं मम दास्या वरेण ।
मा कर्मणा मनसा वापि वाचा भर्तुर्भवेयं रुषती स्यां वशङ्गा ।। ११ ।।
सपत्नीनामधि नित्यं भवेयं सपुत्रा स्यां सुभगा चारुरूपा ।
सम्पन्नहस्ता गुणवादिनी च सर्वात्मना स्यां मा दरिद्रा भवेयम्।। १२ ।।
पतिश्च मे स्यात् सुमुखो मत्प्रतीक्षो नित्यं मद्भक्तः स्यान्मन्मतिर्मद्गतिश्च।
प्रीतिश्च नौ स्याच्चक्रवाकानुरूपा मनोविरागो न भवेत्साधुवत्स्यात् ।। १३।।
लोकान्साध्वीनामुत्तमानां व्रजेयं याभिः सर्वं धार्यते विश्वरूपम् ।
उभे कुले याः शुभाः पावयन्ति पितुर्भर्तुश्च पतिभक्त्योर्जिताश्च ।। १४ ।।
भूमिर्वायुर्जलमाकाशमग्निरन्तः क्षेत्रज्ञः प्रकृतिर्यो महांश्च ।
अहंकारश्च मम साक्ष्ये नियुक्ताः स्मरेयुर्मे निश्चयं च व्रतं च ।। १५ ।।
यैरारब्धो देहिनां भौतिकोऽयं विधिः सत्त्वाद्यैर्भूतयुक्तैः सबीजैः ।
भवन्त्येते मे साक्षिणः सर्वसंस्था व्रते चास्मिन् निश्चये चापि नित्यम् ।। १६ ।।
चन्द्रादित्यौ पुण्यसाक्षी यमश्च दिशः सर्वा दश चात्मा च मेऽयम्।
सन्त्वेते वै साक्षिणः सर्वसंस्था व्रते चास्मिन्निश्चये चापि नित्यम् ।। १७ ।।
मन्त्रैरेतैः पुराणोक्तैः सर्वद्रव्याभिमन्त्रणम् ।
व्रतचर्यात् प्रभृति वै पुराणे समुदाहृतम् ।। १८ ।।
स्नात्वाथ वाससी दद्याद्भर्तुः कर्त्य स्वयं शुभे ।
अथात्मकर्तितं न स्याच्छुभे विघ्नेन केनचित् ।। १९ ।।
वासोऽन्यदेव दद्याच्च श्वेतं मुख्यं नवं शुचि ।
स्वकर्तितं च सूत्रं तु वाससा तेन मिश्रयेत् ।। 2.79.२० ।।
ततो द्विजं शुचिं दान्तं ज्ञानविज्ञानकोविदम् ।
भोजयेच्च यथाशक्त्या सह भर्त्रा सुमध्यमे ।। २१ ।।
ब्राह्मणस्यापि दातव्यं वासोयुग्मं महातपे ।
शय्यासनं गृहं धान्यं दासं दासीं तथैव च ।। २२ ।।
अलंकारः शक्तितश्च रत्नपर्वत एव च ।
सर्वथान्यसमुन्मिश्रस्तिलैश्च सविशेषतः ।। २३ ।।
वासोभिश्च प्रतिच्छन्नो नानावर्णैररुन्धति ।
हस्त्यश्वावचयश्चैव देया गौरेव च धुवम् ।। २४ ।।
लवणप्रतिमां दद्यान्नवनीतस्य चापराम् ।
गुडस्य मधुनश्चैव सुवर्णस्य च शोभनाम् ।। २५ ।।
तथैव सर्वगन्धानां रसानां पृथगेव च ।
तथा सुमनसां दद्याद् रौप्यस्यौदुम्बरस्य च ।। २६ ।।
फलानां चैव सर्वेषां वाससामपि नन्दिनि ।
चित्रप्रतिकृतिं चैव काष्ठस्य प्रतिमां तथा ।। २७ ।।
शिलां प्रतिकृतिं चैव दध्नोऽथ पयसस्तथा ।
सर्पिषा दूर्वया चैव या चान्यामप्यभीप्सति ।। २८ ।।
कालदेशानुरूपं च देयं विभवतः सति ।
अल्पं वा बहुलं वापि भर्तुश्छन्देन सर्वदा ।। २९ ।।
तिलपात्रं प्रदातव्यं न देयं ननु शोभने ।
गौस्त्ववश्यं प्रदातव्या कपिला कांस्यमेव च ।। 2.79.३० ।।
कृष्णाजिनं च सुभगे सतिलं वाससान्वितम् ।
आदर्शश्चैव कूर्चश्च तथाजिनमनिन्दिते ।। ३१ ।।
एतद् दत्त्वा सर्वकामानाप्नोति वरवर्णिनि ।
पुरोऽधिका पुत्रवती सुभगा रूपभागिनी ।। ३२ ।।
मृष्टहस्ता धनाढ्या च स्त्री भवत्यमलेक्षणा ।
इच्छया लभते चैव कन्या रूपगुणान्विताः ।। ३३ ।।
भवन्ति सुभगाश्चर्यास्तथैव च पुरोऽधिकाः ।
पुत्रवत्यो धनाढ्याश्च शीलवत्यश्च नित्यदा ।। ३४ ।।
अरुन्धति कृतं ह्येतन्मयैव प्रथमं यतः ।
उमाव्रतकमित्येव ख्यातमत्र महीतले ।। ३५ ।।
एतदेवोत्तमं स्त्रीणां व्रतं तस्मान् समाचरेत् ।
सर्वकामानवाप्नोति दत्त्वैवैतदनिन्दिते ।। ३६ ।।
एतद्व्रतकरो ह्येव देवदेवो वृषध्वजः ।
पुराभिषिक्तवान् सौम्ये प्रियार्थं मम सर्वकृत् ।। ३७ ।।
व्रतकस्यावसानेऽथ देयं भोज्यं च नित्यदा ।
स्त्रीणां कामाः प्रदेयाश्च सदृशाः कालदेशयोः ।। ३८ ।।
एकैकस्य प्रदातव्यं व्रतकं वरवर्णिनि ।
छन्दतो ब्राह्मणानां तु देयमन्नं सदक्षिणम् ।। ३९ ।।
पायसं तत्र दातव्यं व्रतके नान्यदिष्यते ।
नात्र प्राणिवधः कार्यः पुराणे नियता श्रुतिः ।। 2.79.४० ।।
अथ द्वितीयं वक्ष्यामि व्रतं सोमसमुद्भवे ।
महादेवप्रसादेन दृष्टवत्यस्मि यच्छुभे ।। ४१ ।।
सर्वाः पुत्रफला नार्यः सद्भिरेतदुदाहृतम् ।
तस्मादन्विष्यती दद्यात् सपुत्रकरकाञ्छुभे ।। ४२ ।।
ज्येष्ठाषाढौ शुभौ मासौ पुरोक्तं विधिमाचरेत् ।
अथवा ज्येष्ठमेवैकमाषाढं वा समाचरेत् ।। ४३ ।।
ततो मासद्वये पूर्णे मासे वा वरवर्णिनि ।
सपुत्रकरकान् दद्यात् फाणितप्रतिपूरितान् ।। ४४ ।।
सर्पिषः पयसश्चैव दध्नोऽथ मधुनोऽनघे ।
जलस्य च तथा दद्यात् पूरयित्वा शशिप्रभे ।। ४५ ।।
एकस्मै ज्ञानवृद्धाय सुव्रताय जितात्मने ।
सपुत्रकरकान् दद्याद् यावन्तो मनसः प्रियाः ।। ४६ ।।
इच्छेत स्त्री दुहितरं स्त्रीणां कामकरं ततः ।
किंचिद्द्रव्यं सुताकामात् सुतां प्राप्नोत्यसंशयः।। ४७।।
गौर्वाथ काञ्चनं वापि दक्षिणार्थं प्रशस्यते ।
विप्रस्याच्छादनं देयमवश्यं तु शुचिस्मिते ।। ४८ ।।
यज्ञोपवीतं व्रतके दद्यान्नारी शुचिव्रता ।
सपुत्रकरकाणां तु विधिरुक्तो विपश्चिता ।। ४९ ।।
अपत्याख्यानयोगेन ब्राह्मणेभ्यः शुचिव्रता ।
संवत्सरं सुसम्पूर्णं व्रतधर्मानुपालिनी ।। 2.79.५० ।।
करकानपि दद्याच्च पूर्णे संवत्सरे शुभे ।
अनुज्ञया सदा भर्तुः सत्यवादिन्यरुन्धति ।। ५१ ।।
सुवर्णसूत्रं विप्राय कौमुद्यां दातुमर्हति ।
यज्ञोपवीतं विप्रस्य व्रतं संस्थाप्य कामिकम् ।। ५२ ।।
यज्ञोपवीतं करकं दक्षिणां च स्वशक्तितः ।
प्रयच्छती सती स्त्रीभ्यः सर्वान्कामान्समश्नुते।।५३।।
नवं न भक्षयेत् किंचिन्नारी धान्यमथो फलम् ।
पुष्पाणि नोपयुञ्जीत यावदेवं समाचरेत् ।। ५४ ।।
एकभक्तेन धर्मज्ञे पुण्यकं कर्तुमर्हति ।
ब्राह्मणाय तथा देयं भर्तुश्च तदनन्तरम् ।। ५५ ।।
एवं संवत्सरं कृत्वा सुभगा रूपशालिनी ।
भवत्यविधवा चैव स्त्री धनस्य तथेश्वरी ।। ५६ ।।
वार्ताकानि न खादेद् या स्त्री पूर्णं परिवत्सरम् ।
न सा पुत्रविनाशं हि पश्यतीत्यवगम्यताम् ।। ५७ ।।
शशकं मृगमांसं वा नित्यमेव विवर्जयेत् ।
नाप्नोति मरणं नारी प्राप्नोति पतिदेवताम् ।। ५८ ।।
अलाबुं वर्जयेन्नारी तथैवोत्पादिकामपि ।
कलम्बीं काञ्चनं नाद्याद्या भर्तुः सुखमिच्छति।। ५९ ।।
पूर्णे संवत्सरे दद्यादेकैकं शाकमादृता ।
सदक्षिणं पुत्रवती भवत्येका पुरोऽधिका ।। 2.79.६० ।।
अयं प्रक्षालयाना स्त्री स्वपादावेवमादितः ।
प्रतिष्ठां लभते नित्यमुद्वेगं नाधिगच्छति ।। ६१ ।।
दिवा या सूर्यपूतेन वर्तयेत् स्त्री पतिव्रता ।
एकं संवत्सरं पूर्णं रात्रावन्नं विवर्जयेत् ।। ६२ ।।
सा जीवपुत्रा सुभगा भवत्यमरवर्णिनि ।
अधितिष्ठति सर्वाश्च सपत्न्यो नात्र संशयः ।। ६३ ।।
पूर्णे संवत्सरे दद्यात् सौवर्णं सूर्यमुत्तमम् ।
ब्राह्मणायाभिरूपाय दरिद्राय यशस्विने ।। ६४ ।।
फलानि वाथ पुष्पाणि भक्ष्याण्यपि च सुव्रता ।
दद्यादनस्तमितके चरितव्रतका तथा ।। ६५ ।।
या तथास्तमिते सूर्ये भुङ्क्ते स्त्री नियता सती ।
चन्द्रनक्षत्रपूतानि भोज्यानि वरवर्णिनि ।। ६६ ।।
सा दद्यात् काञ्चनं चन्द्रं नक्षत्राणि ग्रहानपि ।
अभिरूपाय विप्राय वासश्च लवणान्वितम् ।। ६७ ।।
चन्द्रशीतलगात्री सा भवत्यमरवर्णिनी ।
सुभगा दर्शनीया च पुत्रवत्यपि भाविनी ।। ६८ ।।
पौर्णमास्यां तु सततं प्राप्ते सोमोदयेऽङ्गना ।
अर्घ्यं दद्यात् सुमनसां साक्षतं सकुशं तथा ।। ६९ ।।
यावकं च बलिं दद्याद् दध्ना च सह संयुतम् ।
एवं या कुरुते नित्यं सर्वान्कामानवाप्नुयात् ।। 2.79.७० ।।
अदृष्ट्वा या तु नाश्नाति सूर्यं नारी पतिव्रता।
दुर्दिने वाथवा व्यभ्रे सेष्टान् कामानवाप्नुयात्।। ७१।।
काञ्चनं शक्तितो दद्यात्सा विप्राय मनस्विनी ।
सुभगा दर्शनीया च भवत्यमरवर्णिनी ।। ७२ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि पारिजातहरणे व्रतकथने एकोनाशीतितमोऽध्यायः ।। ७९ ।।