हरिवंशपुराणम्/पर्व २ (विष्णुपर्व)/अध्यायः ०७८
← अध्यायः ०७७ | हरिवंशपुराणम् अध्यायः ७८ वेदव्यासः |
अध्यायः ०७९ → |
उमया सत्या स्त्र्याः महत्त्वं वर्णयित्वा पुण्यकव्रतविधानस्योपदेशम् |
अष्टसप्ततितमोऽध्यायः
उमोवाच
सर्वज्ञाहं यदा भर्तुः प्रसादेन शुचिस्मिते ।
तदा पुरा ममादिष्टो दृष्टः पुण्यविधिः शुभः ।। १ ।।
सनातनः पुण्यविधिरिति बुद्ध्यावगम्यताम् ।
महादेवप्रसादेन मया दृष्टस्त्वरुन्धति ।। २ ।।
पुण्यकानि च सर्वाणि चीर्णवत्यस्म्यनिन्दिते ।
अनुज्ञया भगवतो भर्तुः शर्वस्य धीमतः ।। ३ ।।
सतीत्वं धर्मचरणं यस्या नित्यमखण्डितम् ।
पुण्यकानां विधिस्तस्याः पुराणैः परिकीर्तितः ।। ४ ।।
दानोपवासपुण्यानि सुकृतान्यप्यरुन्धति ।
निष्फलान्यसतीनां हि पुण्यकानि तथा शुभे ।। ५ ।।
या वञ्चयन्ति भर्तारं योनिदुष्टाश्च याः स्त्रियः ।
योनिदोषात्पुण्यफलं नाश्नन्ति निरयङ्गमाः ।। ६ ।।
साध्व्यो जगद् धारयन्ति सुशीलाः पतिदेवताः ।
अनन्या धर्मनित्याश्च सतीपन्थानमाश्रिताः ।। ७ ।।
अवाग्दुष्टा शौचयुक्ता धृतिमत्यः शुभव्रताः ।
सततं साधुवादिन्यो धारयन्ति जगत् खलु ।। ८ ।।
व्याधितः पतितो वापि दीनो वापि कथञ्चन ।
अकार्यकारिणं वापि पतितं वापि निर्गुणम्।
स्त्री पतिं तारयत्येव तथाऽऽत्मानं शुभानने ।। 2.78.१० ।।
योनिदुष्टस्त्रियो नास्ति प्रायश्चित्तं हतैव सा ।
वाग्दुष्टे विहितं सद्भिः प्रायश्चित्तं पुरातने ।। ११ ।।
भर्तुश्छन्देन कर्तव्यं व्रतकं सर्वदा स्त्रिया ।
उपवासोऽपि वा सत्ये काङ्क्षन्त्या सुकृतां गतिम्।। १२।।
कल्पान्तरसहस्रेषु न स्त्री सा लभते गतिम् ।
तिर्यग्योनिसहस्रेषु पच्यते योनिविप्लवात् ।। १३ ।।
यदि सा नाम मानुष्यं स्त्री लभेदसती सती ।
चण्डालयोनौ दुर्मेधा जायते कुक्कुराशना ।। १४ ।।
भर्ता देवः सदा स्त्रीणां सद्भिर्दृष्टस्तपोधने ।
यस्या हि तुष्यते भर्ता सा सती धर्मचारिणी ।। १५ ।।
कौतूहलहतानां तु स्त्रीणां लोको न शोभनः ।
भर्तर्येव मनो यासां सद्भावेन व्यवस्थितम् ।। १६ ।।
कर्मणा मनसा वाचा पतिं नातिचरन्ति याः ।
तासां पुण्यफलं सौम्ये पुण्यकैः समुदाहृतम्।। १७ ।।
पुण्यकानां विधिं कृत्स्नं स्वर्लोकप्रतिशोभने ।
निबोध सह सर्वाभिर्दृष्टो यस्तपसा मया ।। १८ ।।
स्नात्वा स्त्री प्रातरुत्थाय पतिं विज्ञापयेत् सती । ।
उपवासार्थमथ वा व्रतकार्थं धृतव्रते ।। १९ ।।
श्वशुराभ्यां च चरणौ सततं सत्तमस्य च ।
ग्रहायौदुम्बरं पात्रं सकुशं साक्षतं तथा ।। 2.78.२० ।।
गोशृङ्गं दक्षिणं सिच्य प्रतिगृह्णीत तज्जलम् ।
ततो भर्तुः सती दद्यात् स्नातस्य प्रयतस्य च ।। २१ ।।
आत्मनोऽपि निषेक्तव्यं ततः शिरसि तज्जलम् ।
त्रैलोक्यसर्वतीर्थेषु स्नानमेतदुदाहृतम् ।। २२ ।।
उपवासेषु कर्तव्यमेतद्धि व्रतकेषु च ।
स्नानमेतद्धि सामान्यं स्त्रीणां पुंसां च भामिनि ।। २३ ।।
अरुन्धति मया दृष्टं तपसा हरतेजसा ।
अशल्यविद्धं शयनमासनं च तथाविधम् ।। २४ ।।
स्वयं प्रक्षालनं चापि पादयोरनुशब्दितम् ।
अश्रुप्रपातो रोषश्च कलहश्च कृतः सति ।
उपवासाद् व्रताद् वापि सद्यो भ्रंशयति स्त्रियः ।।२५।।
शुक्लमेव सदा वासः प्रशस्तं चन्द्रसम्भवे ।
अन्तर्वासोऽपरं चैव उपवासे व्रते तथा ।। २६ ।।
पादुकार्थं तृणैः कार्यं सर्वदा व्रतके सति ।
उपवासेऽपि च विधिरेष एव प्रवर्तितः ।। २७ ।।
अञ्जनं रोचनं चापि गन्धान् सुमनसस्तथा ।
व्रतके चोपवासे च नित्यमेव विवर्जयेत् ।। २८ ।।
दन्तकाष्ठं शिरःस्नानमुद्वर्तनमथापि वा ।
विवर्जितं मृदा सर्वं शौचार्थं तु विधीयते ।। २९ ।।
बिल्वामृतफलैर्नित्यं श्रीफलैश्च समाचरेत् ।
प्रक्षालनं वै शिरसः सदामृन्मिश्रितैर्जलैः ।। 2.78.३० ।।
शिरसोऽभ्यञ्जनं सौम्ये नैव तावत् प्रशस्यते ।
न पादयोर्न गात्रस्य स्नेहेनेति स्थितिः स्मृता ।। ३१ ।।
गोयानमुष्ट्रयानं च खरयानं च वर्जितम् ।
नग्नस्नानं च सततं व्रते चाप्युपवासके ।। ३२ ।।
नदीजलं प्रस्रवजं प्रशस्तं सोमनन्दिनि ।
शुभे तडागे वाप्यादौ विस्तीर्णे जलजायुते ।। ३३ ।।
गत्वा स्नानं प्रशस्तं तु सदैव खलु सर्वथा ।
अलाभे त्ववरुद्धा स्त्री घटस्नानं समाचरेत् ।। ३४ ।।
नवैश्च कुम्भैः स्नातव्यं विधिरेष पुरातनः ।
स्नानं च कार्यं शिरसा तपःफलमवाप्नुयात् ।। ३५।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि पारिजातहरणे पुण्यकविधौ अष्टसप्ततितमोऽध्यायः ।। ७८ ।।