हरिवंशपुराणम्/पर्व १ (हरिवंशपर्व)/अध्यायः ३१

विकिस्रोतः तः
← अध्यायः ३० हरिवंशपुराणम्
अध्यायः ३१
वेदव्यासः
अध्यायः ३२ →
पूरोः वंशपरम्परावर्णनम्

एकत्रिंशोऽध्यायः

जनमेजय उवाच
पूरोर्वंशमहं ब्रह्मञ्छ्रोतुमिच्छामि तत्त्वतः ।
द्रुह्योश्चानोर्यदोश्चैव तुर्वसोश्च पृथक् पृथक् ।। १ ।।
वृष्णिवंशप्रसङ्गेन स्वं वशं पूर्वमेव तु ।
विस्तरेणानुपूर्व्या च तद् भवान्वक्तुमर्हति ।। २ ।।
वैशम्पायन उवाच
शृणु पूरोर्महाराज वंशमुत्तमपौरुषम् ।
विस्तरेणानुपूर्व्या च यत्र जातोऽसि पार्थिव ।। ३ ।।
हन्त ते कीर्तयिष्यामि पूरोर्वंशमनुत्तमम् ।
द्रुह्योश्चानोर्यदोश्चैव तुर्वसोश्च नराधिप ।। ४ ।।
पूरोः पुत्रो महावीर्यो राजाऽऽसीज्जनमेजयः ।
प्रचिन्वांस्तु सुतस्तस्य यः प्राचीमजयद् दिशम् ।। ५ ।।
प्रचिन्वतः प्रवीरोऽभून्मनस्युस्तस्य चात्मजः ।
राजा चाभयदो नाम मनस्योरभवत् सुतः ।। ६ ।।
तथैवाभयदस्यासीत् सुधन्वा तु महीपतिः ।
सुधन्वनो बहुगवः शम्यातिस्तस्य चात्मजः ।। ७ ।।
शम्यातेस्तु रहस्याती रौद्राश्वस्तस्य चात्मजः ।
रौद्राश्वस्य घृताच्यां वै दशाप्सरसि सूनवः ।। ८ ।।
ऋचेयुः प्रथमस्तेषां कृकणेयुस्तथैव च ।
कक्षेयुः स्थण्डिलेयुश्च सन्नतेयुस्तथैव च ।। ९ ।।
दशार्णेयुर्जलेयुश्च स्थलेयुश्च महायशाः ।
धनेयुश्च वनेयुश्च पुत्रिकाश्च दश स्त्रियः ।। 1.31.१० ।।
रुद्रा शूद्रा च भद्रा च मलदा मलहा तथा ।
खलदा चैव राजेन्द्र नलदा सुरसापि च ।
तथा गोचपला तु स्त्रीरत्नकूटा च ता दश ।। ११ ।।
ऋषिर्जातोऽत्रिवंशे तु तासां भर्ता प्रभाकरः ।
रुद्रायां जनयामास सुतं सोमं यशस्विनम् ।। १२ ।।
स्वर्भानुना हते सूर्ये पतमाने दिवो महीम् ।
तमोऽभिभूते लोके च प्रभा येन प्रवर्तिता ।। १३ ।।
स्वस्ति तेऽस्त्विति चोक्तो वै पतमानो दिवाकरः ।
वचनात् तस्य विप्रर्षेर्न पपात दिवो महीम् ।। १४ ।।
अत्रिश्रेष्ठानि गोत्राणि यश्चकार महातपाः ।
यज्ञेष्वत्रेर्धनं चैव सुरैर्यस्य प्रवर्तितम् ।। १५ ।।
स तासु जनयामास पुत्रिकासु सनामकान् ।
दश पुत्रान् महात्मा स तपस्युग्रे रतान्सदा ।। १६
ते तु गोत्रकरा राजन्नृषयो वेदपारगाः ।
स्वस्त्यात्रेया इति ख्याताः किं त्वत्रिधनवर्जिताः ।। १७।।
कक्षेयोस्तनयाश्चासंस्त्रय एव महारथाः ।
सभानरश्चाक्षुषश्च परमन्युस्तथैव च ।। १८ ।।
सभानरस्य पुत्रस्तु विद्वान् कालानलो नृपः ।
कालानलस्य धर्मज्ञः सृञ्जयो नाम वै सुतः ।। १९ ।।
सृञ्जयस्याभवत् पुत्रो वीरो राजा पुरञ्जयः ।
जनमेजयो महाराज पुरञ्जयसुतोऽभवत् ।। 1.31.२० ।।
जनमेजयस्य राजर्षेर्महाशालोऽभवत् सुतः ।
देवेषु स परित्रातः प्रतिष्ठितयशा भुवि ।। २१ ।।
महामना नाम सुतो महाशालस्य धार्मिकः ।
जज्ञे वीरः सुरगणैः पूजितः सुमहायशाः ।। २२ ।।
महामनास्तु पुत्रौ द्वौ जनयामास भारत ।
उशीनरं च धर्मज्ञं तितिक्षुं च महाबलम् ।। २३ ।।
उशीनरस्य पत्न्यस्तु पञ्च राजर्षिवंशजाः ।
नृगा कृमी नवा दर्वा पञ्चमी च दृषद्वती ।। २४ ।।
उशीनरस्य पुत्रास्तु पञ्च तासु कुलोद्वहाः ।
तपसा वै सुमहता जाता वृद्धस्य भारत ।। २५ ।।
नृगायास्तु नृगः पुत्रः कृम्यां कृमिरजायत ।
नवायास्तु नवः पुत्रो दर्वायाः सुव्रतोऽभवत् ।। २६ ।।
दृषद्वत्यास्तु संजज्ञे शिबिरौशीनरो नृपः ।
शिबेस्तु शिबयस्तात यौधेयास्तु नृगस्य ह ।। २७ ।।
नवस्य नवराष्ट्रं तु कृमेस्तु कृमिला पुरी ।
सुव्रतस्य तथाम्बष्ठा शिबिपुत्रान्निबोध मे ।। २८ ।।
शिबेश्च पुत्राश्चत्वारो वीरास्त्रैलोक्यविश्रुताः ।
वृषदर्भः सुवीरश्च मद्रकः कैकयस्तथा ।। २९ ।।
तेषां जनपदाः स्फीताः केकया मद्रकास्तथा ।
वृषदर्भाः सुवीराश्च तितिक्षोस्तु प्रजाः शृणु ।। 1.31.३० ।।
तैतिक्षवोऽभवद् राजा पूर्वस्यां दिशि भारत ।
उषद्रथो महाबाहुस्तस्य फेनः सुतोऽभवत् ।। ३१ ।।
फेनात् तु सुतपा जज्ञे सुतः सुतपसो बलिः ।
जातो मानुषयोनौ तु स राजा काञ्चनेषुधिः ।। ३२ ।।
महायोगी स तु बलिर्बभूव नृपतिः पुरा ।
पुत्रानुत्पादयामास पञ्च वंशकरान् भुवि ।। ३३ ।।
अङ्गः प्रथमतो जज्ञे वङ्गः सुह्यस्तथैव च ।
पुण्ड्रः कलिङ्गश्च तथा बालेयं क्षत्रमुच्यते ।। ३४ ।।
बालेया ब्राह्मणाश्चैव तस्य वंशकरा भुवि ।
बलेस्तु ब्रह्मणा दत्ता वराः प्रीतेन भारत ।। ३५ ।।
महायोगित्वमायुश्च कल्पस्य परिमाणतः ।
संग्रामे वाप्यजेयत्वं धर्मे चैव प्रधानता ।। ३६ ।।
त्रैलोक्यदर्शनं चैव प्राधान्यं प्रसवे तथा ।
बले चाप्रतिमत्वं वै धर्मतत्त्वार्थदर्शनम् ।। ३७ ।।
चतुरो नियतान् वर्णोस्त्वं च स्थापयिता भुवि ।
इत्युक्तो विभुना राजा बलिः शान्तिं परा ययौ ।। ३८ ।।
तस्य ते तनयाः सर्वे क्षेत्रजा मुनिपुङ्गवात् ।
सम्भूता दीर्घतपसो सुदेष्णायां महौजसः ।। ३९ ।।
बलिस्तानभिषिच्येह पञ्च पुत्रानकल्मषान् ।
कृतार्थः सोऽपि योगात्मा योगमाश्रित्य स प्रभुः ।।1.31.४०।।
अधृष्यः सर्वभूतानां कालापेक्षी चरन्नपि ।
कालेन महता राजन् स्वं च स्थानमुपागमत् ।। ४१ ।।
तेषां जनपदाः पञ्च अङ्गा वङ्गाः ससुह्यकाः ।
कलिङ्गाः पुण्ड्रकाश्चैव प्रजास्त्वङ्गस्य मे शृणु ।। ४२ ।।
अङ्गपुत्रो महानासीद् राजेन्द्रो दधिवाहनः ।
दधिवाहनपुत्रस्तु राजा दिविरथोऽभवत् ।। ४३ ।।
पुत्रो दिविरथस्यासीच्छक्रतुल्यपराक्रमः ।
विद्वान् धर्मरथो नाम तस्य चित्ररथः सुतः ।। ४४ ।।
तेन चित्ररथेनाथ तदा विष्णुपदे गिरौ ।
यजता सह शक्रेण सोमः पीतो महात्मना ।। ४५ ।।
अथ चित्ररथस्यापि पुत्रो दशरथोऽभवत् ।
लोमपाद इति ख्यातो यस्य शान्ता सुताभवत्।। ४६ ।।
तस्य दाशरथिर्वीरश्चतुरङ्गो महायशाः ।
ऋष्यशृङ्गप्रसादेन जज्ञे कुलविवर्धनः ।। ४७ ।।
चतुरङ्गस्य पुत्रस्तु पृथुलाक्ष इति स्मृतः ।
पृथुलाक्षसुतो राजा चम्पो नाम महायशाः ।। ४८ ।।
चम्पस्य तु पुरी चम्पा या मालिन्यभवत्पुरा ।
पूर्णभद्रप्रसादेन हर्यङ्गोऽस्य सुतोऽभवत् ।। ४९ ।।
ततो वैभाण्डकिस्तस्य वारणं शक्रवारणम् ।
अवतारयामास महीं मन्त्रैर्वाहनमुत्तमम् ।। 1.31.५० ।।
हर्यङ्गस्य तु दायादो राजा भद्ररथः स्मृतः ।
पुत्रो भद्ररथस्यासीद् बृहत्कर्मा प्रजेश्वरः ।। ५१ ।।
बृहद्दर्भः सुतस्तस्य तस्माज्जज्ञे बृहन्मना ।
बृहन्मनास्तु राजेन्द्र जनयामास वै सुतम् ।। ५२।।
नाम्ना जयद्रथं नाम यस्माद् दृढरथो नृपः ।
आसीद् दृढरथस्यापि विश्वजिज्जनमेजय ।। ५३ ।।
दायादस्तस्य कर्णस्तु विकर्णस्तस्य चात्मजः ।
तस्य पुत्रशतं त्वासीदङ्गानां कुलवर्धनम् ।। ५४ ।।
बृहद्दर्भसुतो यस्तु राज्ञा नाम्ना बृहन्मनाः ।
तस्य पत्नीद्वयं चासीच्चैद्यस्यैते सुते शुभे ।
यशोदेवी च सत्या च ताभ्यां वंशस्तु भिद्यते ।।५५।।
जयद्रथस्तु राजेन्द्र यशोदेव्यां व्यजायत ।
ब्रह्मक्षत्रोत्तरः सत्यां विजयो नाम विश्रुतः ।। ५६ ।।
विजयस्य धृतिः पुत्रस्तस्य पुत्रो धृतव्रतः ।
धृतव्रतस्य पुत्रस्तु सत्यकर्मा महायशाः ।। ५७ ।।
सत्यकर्मसुतश्चापि सूतस्त्वधिरथस्तु वै ।
यः कर्णं प्रतिजग्राह ततः कर्णस्तु सूतजः ।। ५८।।
एतत् ते कथितं सर्वं कर्णं प्रति महाबलम् ।
कर्णस्य वृषसेनस्तु वृषस्तस्यात्मजः स्मृतः ।। ५९ ।।
एतेऽङ्गवंशजाः सर्वे राजानः कीर्तिता मया ।
सत्यव्रता महात्मानः प्रज्ञावन्तो महारथाः ।। 1.31.६० ।।
ऋचेयोस्तु महाराज रौद्राश्वतनयस्य ह ।
शृणु वंशमनुप्रोक्तं यत्र जातोऽसि पार्थिव ।। ६१ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि कुक्षेयुवंशानुकीर्तनं नाम एकत्रिंशोऽध्यायः ।। ३१ ।।