हरिवंशपुराणम्/पर्व १ (हरिवंशपर्व)/अध्यायः ३०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २९ हरिवंशपुराणम्
अध्यायः ३०
वेदव्यासः
अध्यायः ३१ →
नहुष एवं ययातेः वंशस्य वर्णनम्, ययातेः चरित्रम्

त्रिंशोऽध्यायः

वैशम्पायन उवाच
उत्पन्नाः पितृकन्यायां विरजायां महौजसः ।
नहुषस्य तु दायादाः षडिन्द्रोपमतेजसः ।। १ ।।
यतिर्ययातिः संयातिरायातिः पाञ्चिको भवः ।
सुयातिः षष्ठस्तेषां वै ययातिः पार्थिवोऽभवत् ।
यतिर्ज्येष्ठस्तु तेषां वै ययातिस्तु ततः परम् ।। २ ।।
ककुत्स्थकन्यां गां नाम लेभे परमधार्मिकः ।
यतिस्तु मोक्षमास्थाय ब्रह्मभूतोऽभवन्मुनिः ।। ३ ।।
तेषां ययातिः पञ्चानां विजित्य वसुधामिमाम् ।
देवयानीमुशनसः सुतां भार्यामवाप सः ।
शर्मिष्ठामासुरीं चैव तनयां वृषपर्वणः ।। ४ ।।
यदुं च तुर्वसुं चैव देवयानी व्यजायत ।
द्रुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी ।। ५।।
तस्मै शक्रो ददौ प्रीतो रथं परमभास्वरम् ।
असङ्गं काञ्चनं दिव्यं दिव्यैः परमवाजिभिः ।। ६ ।।
युक्तं मनोजवैः शुभ्रैर्येन भार्यामुवाह सः ।
स तेन रथमुख्येन षड्रात्रेनाजयन्महीम्।
ययातिर्युधि दुर्धर्षस्तथा देवान् सदानवान् ।। ७ ।।
स रथः पौरवाणां तु सर्वेषामभवत् तदा ।
यावत्तु वसुनाम्नो वै कौरवाज्जनमेजय ।। ८
कुरोः पुत्रस्य राजेन्द्र राज्ञः पारीक्षितस्य ह ।
जगाम स रथो नाशं शापाद् गार्ग्यस्य धीमतः ।। ९ ।।
गार्ग्यस्य हि सुतं बालं स राजा जनमेजयः ।
वाक्छूरं हिंसयामास ब्रह्महत्यामवाप सः ।। 1.30.१० ।।
स लोहगन्धी राजर्षिः परिधावन्नितस्ततः ।
पौरजानपदैस्त्यक्तो न लेभे शर्म कर्हिचित् ।। ११ ।।
ततः स दुःखसंतप्तो नालभत्संविदं क्वचित्।
इन्द्रोतः शौनकं राजा शरणं प्रत्यपद्यत ।। १२ ।।
याजयामास चेन्द्रोतं शौनको जनमेजयम् ।
अश्वमेधेन राजानं पावनार्थं द्विजोत्तमः ।। १३ ।।
स लोहगन्धो व्यनशत् तस्यावभृथमेत्य ह ।
स च दिव्यो रथो राजन् वसोश्चेदिपतेस्तदा ।
दत्तः शक्रेण तुष्टेन लेभे तस्माद् बृहद्रथः ।। १४ ।।
बृहद्रथात्क्रमेणैव गतो बार्हद्रथं नृपम् ।
ततो हत्वा जरासंधं भीमस्तं रथमुत्तमम् ।। १५ ।।
प्रददौ वासुदेवाय प्रीत्या कौरवनन्दनः ।
सप्तद्वीपां ययातिस्तु जित्वा पृध्वी ससागराम् ।। १६ ।।
व्यभजत् पञ्चधा राजन् पुत्राणां नाहुषस्तदा ।
दिशि दक्षिणपूर्वस्यां तुर्वसुं मतिमान् नृपः ।। १७ ।।
प्रतीच्यामुत्तरस्यां च द्रुह्युं चानुं च नाहुषः ।
दिशि पूर्वोत्तरस्यां वै यदुं ज्येष्ठं न्ययोजयत् ।। १८।
मध्ये पूरुं च राजानमभ्यषिञ्चत नाहुषः ।
तैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना ।। १९ ।।
यथाप्रदेशमद्यापि धर्मेण प्रतिपाल्यते ।
प्रणास्तेषां पुरस्तात्तु वक्ष्यामि नृपसत्तम ।। 1.30.२० ।।
धनुर्न्यस्य पृषत्कांश्च पञ्चभिः पुरुषर्षभैः ।
जरावानभवद् राजा भारमावेश्य बन्धुषु ।। २१ ।।
निःक्षिप्तशस्त्रः पृथिवीं निरीक्ष्य पृथिवीपतिः ।
प्रीतिमानभवद् राजा ययातिरपराजितः ।
एवं विभज्य पृथिवीं ययातिर्यदुमब्रवीत् ।। २२ ।।
जरां मे प्रतिगृह्णीष्व पुत्र कृत्यान्तरेण वै ।
तरुणस्तव रूपेण चरेयं पृथिवीमिमाम् ।
जरां त्वयि समाधाय तं यदुः प्रत्युवाच ह ।। २३ ।।
अनिर्दिष्टा मया भिक्षा ब्राह्मणस्य प्रतिश्रुता ।
अनपाकृत्य तां राजन् न ग्रहीष्यामि ते जराम् ।। २४ ।।
जरायां बहवो दोषाः पानभोजनकारिताः ।
तस्माज्जरां न ते राजन् ग्रहीतुमहमुत्सहे ।।२५ ।।
सन्ति ते बहवः पुत्रा मत्तः प्रियतरा नृप ।
प्रतिग्रहीतुं धर्मज्ञ पुत्रमन्यं वृणीष्व वै ।। २६ ।।
स एवमुक्तो यदुना राजा कोपसमन्वितः ।
उवाच वदतां श्रेष्ठो ययातिर्गर्हयन् सुतम् ।। २७ ।।
क आश्रयस्तवान्योऽस्ति को वा धर्मो विधीयते ।
मामनादृत्य दुर्बुद्धे यदहं तव देशिकः ।। २८ ।।
एवमुक्त्वा यदुं तात शशापैनं स मन्युमान् ।
अराज्ञ्या ते प्रजा मूढ भवित्रीति नराधम ।। २९ ।।
स तुर्वसुं च द्रुह्युं चाप्यनुं च भरतर्षभ ।
एवमेवाब्रवीद् राजा प्रत्याख्यातश्च तैरपि ।। 1.30.३० ।।
शशाप तानतिक्रुद्धो ययातिरपराजितः ।
यथा ते कथितं पूर्वं मया राजर्षिसत्तमः ।। ३१ ।।
एवं शप्त्वा सुतान् सर्वांश्चतुरः पूरुपूर्वजान्।
तदेव वचनं राजा पूरुमप्याह भारत ।।३२।।
तरुणस्तव रूपेण चरेयं पृथिवीमिमाम् ।
जरां त्वयि समाधाय त्वं पूरो यदि मन्यसे ।। ३३ ।।
स जरां प्रतिजग्राह पितुः पूरुः प्रतापवान् ।
ययातिरपि रूपेण पूरोः पर्यचरन्महीम् ।। ३४ ।।
स मार्गमाणः कामानामन्तं भरतसत्तम ।
विश्वाच्या सहितो रेमे वने चैत्ररथे प्रभुः ।। ३५ ।।
यदावितृष्णः कामानां भोगेषु स नराधिपः ।
तदा पूरोः सकाशाद्वै स्वां जरां प्रत्यपद्यत ।। ३६ ।।
तत्र गाथा महाराज शृणु गीता ययातिना ।
याभिः प्रत्याहरेत्कामान् सर्वतोऽङ्गानि कूर्मवत्।।३७।।
न जातु कामः कामानामुपभोगेन शाम्यति ।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ।। ३८ ।।
यत् पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः ।
नालमेकस्य तत् सर्वमिति पश्यन्न मुह्यति ।। ३९ ।।
यदा भावं न कुरुते सर्वभूतेषु पापकम् ।
कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा ।।1.30.४० ।।
यदानेभ्यो न बिभ्येत यदाचास्मान्न बिभ्यति ।
यदा नेच्छति न द्वेष्टि ब्रह्म सम्पद्यते तदा ।। ४१ ।।
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः ।
योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम्।४२।
जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः ।
जीविताशा धनाशा च जीर्यतोऽपि न जीर्यति ।। ४३ ।।
यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम्।
तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम्।। ४४ ।।
एवमुक्त्वा स राजर्षिः सदारः प्राविशद्वनम् ।
कालेन महता वापि चचार विपुलं तपः ।। ४५ ।।
भृगुतुङ्गे तपस्तप्त्वा तपसोऽन्ते महातपाः ।
अनश्नन् देहमुत्सृज्य सदारः स्वर्गमाप्तवान् ।। ४६ ।।
तस्य वंशे महाराज पञ्च राजर्षिसत्तमाः ।
यैर्व्याप्ता पृथिवी सर्वा सूर्यस्येव गभस्तिभिः ।। ४७ ।।
यदोस्तु शृणु राजर्षेर्वंशं राजर्षिसत्कृतम् ।
यत्र नारायणो जज्ञे हरिर्वृष्णिकुलोद्वहः ।। ४८ ।।
धन्यः प्रजावानायुष्मान् कीर्तिमांश्च भवेन्नरः ।
ययातेश्चरितं पुण्यं पठञ्छृण्वन् नराधिप ।। ४९ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि ययातिचरिते त्रिंशोऽध्यायः ।। ३० ।।