स्कन्दपुराणम्/खण्डः ८ (अम्बिकाखण्डः)/१०

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

पूर्व पृष्ठः‍‍‍‍‍‍‍(अध्यायाः ८१ - ९०‌‌‌‌) | अागामी पृष्ठः ‍(अध्यायाः १०१ - ११०‌)


सनत्कुमार उत्राच
तस्मिन्बले तथा१ तेन सोमेनाप्रतिमौजसा ।
हन्यमाने महामाय: समाश्वस्य तदासुरः ।।१।।
हिरण्याक्षो दितेः पुत्र इदमाह रुषान्वितः ।
गरुत्मतः सुतं वीरं रथयन्तारमाहवे२ ।।२।।
खगेश्वर न ते लज्जा भवतीह रणार्णवे ।
यन्मां४ रथेन संग्रामात्५ त्वं हरस्यन्यतोद्य६ वै ।।३।।
किं वक्ष्यन्त्यसुराः सर्वे दैत्याश्चैव महाबलाः ।
राजास्माकं जित: संख्ये शत्रुभिः शत्रुतापनः ।।४।।
जीवितैषी परित्यज्य बालानस्मान् ढुरात्मवान्७ ।
रणादपगतः क्वापि धिङ् मामशुभकारिणम् ।।५।।
कश्यपस्य सुतो भूत्वा भ्राता दैत्यस्य संमतः९ ॥
हिरण्यकशिपोर्दैत्यो१० महायोगबलान्वितः११ ।। १ ।।६।।
अग्रतः१२ सर्वदैत्यानां दानवानां तथैव च ।
राजा स्वामी च शूरश्च१३ निर्जितः शत्रुभिः कथम् ।।७।।
अथवा देवपक्षस्य त्वं पुत्रो वै गरुत्मतः ।
तमेव पक्षं भजसे न मां त्वं परिरक्षसे ।८।
नाहं तव न शक्तोद्य शिरः कायात् सकुण्डलम् ।
खङ्गेनानेन तीक्ष्णेन छेत्तुं खगकुलाधम ।।९।।

१ तदा - घ ।। २ ...मब्रवीत - ख. ।। ३ रणान्तरे - घ. ॥ ४ त्वं या (मां?) - ख. ॥ ५ संग्रामे - ख. । ६ वह्5थन्यतोद्य - घ. ।। ७ दुरात्मनाम - ख., दुरात्मनः (? ) ।। ८ .. दुपगत: - ख , .. दद्य - घ. ।। ९ ... सन्तम - घ. । १० हिरण्यकशिपुर्दैत्यो - ख । ११ महामायो बलान्वितः - ख. ।। १२ अग्रणी (?) । १३ वृद्धश्च - ख. ।

509
मित्रं त्वं मम मन्दस्य पुरा बालसखेति च१४ । ।
अतः कृत्वाभिरक्षामि१५ गच्छ मुक्तोसि दोषवान् ।।8.91.१०।।
तस्य तद्वचनं श्रुत्वा रथयन्ता खगेश्वरः । ।
उवाच श्लक्ष्णया वाचा हिरण्याक्षं महासुरम् ॥११॥
मा क्रुधो दानवश्रेष्ठ१६ नास्मि दैत्य तवाहितः ।
तदोपवाहितः१७ क्षिप्रं रणाद् रक्षार्थमेव हि ।।१२।।
सूताः शास्त्रविदश्चैव ब्रुवते दानवेश्वर ।
दम्पती रथियन्तारौ परस्परमनुव्रतौ ।।१३।।
रथिना शस्त्रघातेभ्यो रक्ष्यो यन्ता यथा प्रिया ।
तेन चैव रथो रक्ष्यो यथा भर्त्ता जयावहः ।।१४। ।
स भवान् रिपुणा भिन्नो ह्यवबद्धश्च संयुगे ।
अशक्तः स्यादितीत्येवं मया क्षिप्रमपोहितः१८ ।।१५।।
आाश्वस्य बलमाधाय१९ पुनर्युद्धेन दंशितः ।
रिपूञ्जेष्यसि संग्रामे त्वेवं त्वमपवाहित:२० ।।१६।।
ये हि कालेपयान्ति स्म काले चायान्ति दंशिताः ।
तेषान्नासुलभो२१ दैत्य जयो युद्धे महात्मनाम् ॥१७॥
न चाहमहित: सत्यं हितकृत् तव नित्यदा ।
मा शङ्कां कुरु दैत्येन्द्र शपे सत्येन सर्वतः ।।१८।।
न चाप्यविदितं तेद्य२२ कृतो यत् शपथः२३ पुरा ।
तथैवामृतपश्चाहं न मृत्युर्मम विद्यते२४ ।।१९।।
अहं गरुत्मतः पुत्रो देवान् हित्वासुरान् श्रितः ।
तवैव दैत्य स्नेहेन मा शङ्कां त्वं कृथा मयि ।।8.91.२०।।
एतद्बलं चन्द्रमसा वह्निना चोपपीडितम्२५ ।
त्राहि क्षिप्रं महाबाहो२६ न शोकं कर्तुमर्हसि ॥२१॥

१४ बालः सखेति च - घ. ।। १५ कृतभिरक्षस्त्वं (? ) ।। १६ नात्र लज्जा दानवेश - घ. ।। १७ तन्नोपवाहितः - ख.। १८ क्षिप्र प्रवाहितः - ख. ।। १९ ... मादाय - ख. ।। २० ...त्येवं - ख., त्वमेवमपवाहितः (?) । २१ तेषान्न सुलभो - ख. ।। २२ न चैव त (त्व) द्भीतो वाक्यै - ख. ।। २३ मे कृतं शपथं - घ., कृतोहमप (म)रः --ख. २४ यतोहममृतं प्राप्य (श्य) चामरत्वमवाप्तवान - घ ।। २५ चोपपीडिताः - ख. ।। २६ महामोहौ - ख. । ।

510
मायामथ समास्थाय धनुषा वा बलेन वा ।
जहि शत्रून्महाराज२७ मा२८ रुषन्तु दितेः सुताः ।।२२।।
सनत्कुमार उवाच
ततः स तं२९ परिष्वज्य पक्षिराजं महासुरः ।
अभिदुद्राव वेगेन रथेनाम्बुदनादिना ।२३।।
तस्यापतत एवाथ सवह्निश्चन्द्रमास्तथा ।
शरैराशीविषाकारैर्ध्वजं चिच्छिदतुर्युधि ॥२४॥
ततो ललाटे विद्ध्वैनं तौ देवौ शशिपावकौ ।
युगान्ताम्बुदवद् व्यास नादमुच्चैः प्रचक्रतुः ।।२५।।
तयोस्तल्लाघवं दृष्ट्वा हिरण्याक्षः प्रतापवान् ।
आग्नेयेनास्त्रमुख्येन शिशिरं३० तद् व्यशातयत् ।।२६।।
तुषारवर्षणं दग्ध्वा ततोसौ मायया पुनः ।
संमोहयित्वा वेगेन राहुर्भूत्वाभिदुद्रुवे३१ ॥२७॥
स राहुणा तदा तेन ग्रस्यमानः खगेश्वरः ।
रणं त्यक्त्वान्यतो यातस्ततो देत्यो ननाद ह ।।२८।।
दानवा ह्यपि ते३२ सर्वे नष्टे तस्मिन् हिमाशये ।
समाश्वस्य पुनश्चक्रुर्युद्धं सुरगणैः सह ।
तेम्बुदाशनिसन्नादाः समुद्रसमनादिताः ।२९।।
दैत्यदानवमहारथाः प्रवरसादिन आश्वसन्तः ।
- - तनेव युद्धकांक्षिणो दंष्ट्रिण इव महागजा वनसमाश्रिताः ।।8.91.३०।।
इति स्कन्दपुराणे युद्ध एकनवतितमोध्यायः

२७ शत्रुम्महाराज – ख। २८ – तु – ख। २९ – सन्तं – ख। ३० – तिमिरं – ख।
३१ विदुद्रुवे - ख. । ३२ – पिहिते – ख

511
सनत्कुमार उवाच
नक्षत्राधिपतिं दृष्ट्वा भगवान् हव्यवाहनः ।
विद्रुतं दानवभयात् पदातिर्योद्धुमुद्यतः१ ॥१॥
स शरैर्दानवरथं ससूतं सहवाजिनम्२ ।
सध्वजं सपताकञ्च भस्मसायुज्यमानयत्३ ।।२।।
ततोस्य कार्मुकं दिव्यं शरेणानतपर्वणा ।
विज्यं चकार संक्रुद्धस्तिष्ठतिष्ठेति चाब्रवीत् ।।३।।
अथान्धकश्च राहुश्च प्रह्लादो मय एव च ।
अन्ये च दानवश्रेष्ठाः कृशानुं पर्यवारयन् ।।४।।
सोवप्लुत्य तदा तेषां धनूंषि च च रथाँस्तथा ।
ध्वजानि च विचित्राणि ददाह च ररास च ।॥५॥
कवचानि विचित्राणि शिरांसि च वसूत्तमः ।
ददाह विकृताकारो नादयन् सर्वतोदिशः ।।६।।
हाहेति नदतां तत्र भगवान् ह्यव्यवाहनः ।
जिह्वा दह्न्४ बभौ व्यास गुहायां दीपवत् स्थितः ।।७।।
केषाञ्चित् प्रदहत् तानि दानवानां मुखानि सः ।
पङ्कजानीव५ फुल्लानि तिमिरारिर्महाप्रभः ॥८॥
केषाञ्चित्तु गजेन्द्राणां करान् काञ्चनभूषितान् ।
ददाह भगवान् वह्निर्दावाग्निर्भुजगानिव ।।९।।
शरान् शराशनाञ्चैव तथा खङ्गपरिच्छदान् ।
ददाह भगवान् वह्निर्हस्त्यश्वमपि सर्वशः ।।8.92.१०।।
ते हन्यमाना दैत्येन्द्रा विशस्त्रा दुःखिता भृशम् ।
भ्रमन्ति वितनुत्राश्च तत्र तत्रैव - --७ ॥११॥
तेषां वह्निप्रदीप्तानां दह्यतां सुरविद्विषाम् ।
हिरण्याक्षः स्वयं राजा पर्जन्यः समपद्यत ।।१२।।

१ ...र्यमथागतः (योद्धुमागत:?) - ख., समधावत - घ. ।। २ ...सहवाजिन: - ख. ।। ३ पादयत् - ख. । ४ दन्तं – ख. ॥ ५ .. निव - ख. ।। ६ ध्वजपरिच्छदान् (?) । ७ सर्वकृत. ? - ख., सर्पवत् (?) ।

512
स मेघभूतो दैत्येन्द्रस्तमग्निं वृष्टिभिस्तदा ।
प्रशामयत८ वेगेन संवर्त्तक इवाम्बुदः ।।१३।।
तं प्रशान्तं तदालक्ष्य विधुरं हृव्यवाह्नम् ।
विप्रचित्तिः शरैस्तीक्ष्णैर्ललाटे समवाकिरत् ।।१४।।
ततोस्य नदतो भूयो मयो दानवसत्तमः ।
मुखे शरान् महाघोरान्निचखान महासुरः ॥१५॥
तस्य तेन तदा व्यास मुखे भिन्नस्य दारुणः ।
उत्तस्थौ वायुवद् धूमः शरीरादञ्जनोपमः ।।१६।।
तेन धूमेन९ खञ्चैव दिवं भूश्चैव सर्वशः ।
पूरिता महता१० व्यास न प्राज्ञायत११ किंचन ॥१७॥
तेन शब्देन संज्ञाभिर्नामविश्रावणैरपि ।
करस्पर्शैस्तदा१२ न्योन्यमनयद्यमसादनम् ।।१८।।
न देवो ज्ञायते तत्र न दैत्यो दानवोपि वा ।
अजानन्तस्ततस्तत्र संस्थामेतां१३ प्रचक्रिरे । । १९ । ।
आटिं दैत्याः प्रकुर्वन्त बक इत्येव देवताः ।
बकं वदन्ति ये तत्र दैत्यास्तान् व्यह्नँस्तदा ।।8.92.२०।।
आाटिं ब्रुवाणश्च सुरा इत्येवं तद् व्यवर्तत१४ ।
एवंभूतमभूद्युद्धं१५ वर्षाणां तु१६ सहस्रकम्१७ ।। ७ ।।
महद्भयं वै१८ दैत्यानामन्धकारे सुरैस्सह ।।२१।।
तदन्धकारे सुमहाभयंकरं तदाभवद्युद्धमतीव दारुणम् ।
जगद्विनाशाय जगद्धितैषिणां सुरासुराणां रुधिरौघनिस्रवम्१९ ॥२२॥
इति स्कन्दपुराणे युद्धे द्विनवतितमोध्यायः

८ प्रशमेयत - ख., प्राशामयत् (?) । ९ धूपेन - ख । १० महतो - ख. ॥ ११ प्रज्ञायत - ख. । १२....स्तथा (?) ।। १३ संज्ञामेतां (?), संग्रामं तं - घ. ।। १४ ...ध्यवर्तत (?) ।। १५ एतद्भूतमयुध्यन्तु - ख । १६ वै - ख. ।। १७ महद्भय - ख. घ., तदभूत्संज्ञया युद्धं मूर्खाणां वै महद् भयम् - घ. ।। १८ सहस्रमेकं - ख. । १९ विस्रुतं - घ. । -

513
सनत्कुमार उवाच
अथासौ तेन कालेन केतुरग्नेः१ समुत्थितः ।
वायुनाभिहतश्चैव अगच्छद् विलयं भृशम् ।।१ ।।
ततः समभवद् व्योम विमलं सर्वमेव हि ।
अपश्यन्त सुरास्सर्वे दैत्याश्चैव परस्परम् ।।२ ।।
ततः शंखाश्च भेर्यश्च पटहाडम्बरास्तथा ।
सुघोषका डिण्डिमाश्च भग्ना भेर्यश्च सर्वशः ।।३।।
बलद्वयेप्यवाद्यन्त शतशोथ सहस्रशः ।
अथ शक्रश्च देवेन्द्रो यमो वैश्रवणस्तथा ।।४।।
पूषा भगश्च द्वावेतौ अर्यमा मित्र एव च ।
जयन्तो मरुतश्चैव रुद्रादित्याश्च सर्वशः ।।५ ।।
वेगेन सुमहावेगा ममृदुर्दानवं बलम् ।
तत्र चामीकराभासं प्रगृह्य बलवद्धनुः ।।६।।
यमो दण्डेन दैत्येन्द्राननयद्यमसादनम् ।
स पञ्चभिः शरैर्विद्ध्वा हिरण्याक्षं महाबलम् ।।७।।
अश्वाँश्चैकैकशः सर्वान् जहास च ननाद च ।
तस्य सर्वे तदायस्ता दैत्यदानवसत्तमाः । ।८।।
शरानाशीविषाकारान् व्यसृजन् विकृताशनान् ।
तान् स चिच्छेद समरे त्रिधैकैकं लघुक्रियः ।।९ ।।
पुनश्च विशिखै५र्घोरैरर्दयत् प्रहसन्निव ।
ततोन्धकस्य यन्तारं रथञ्च सहवाजिभिः । ।8.93.१ ०।।
किंकरेण६ महावीर्यो यमो निन्ये स्वकं पुरम्७ ।
ततोन्धको गदापाणिर्युगान्ताम्बुदवन्नदन् ।।१ १ ।।
अभ्यधावद्यमं तूर्णम तिष्ठतिष्ठेति चाब्रवीत् ।
तस्य वज्रेण देवेन्द्रो गदां हेमपरिष्कृताम् ।।१ २।।

१ रुग्रैः (रुग्रः) - घ. । २ ह - ख. । ३ दैत्येन्द्रो - ख । ४ व्यसृञ्जन् - ख. । ५ निशितै - ख. । ६ किंकारेण (?)- ख. । ७ पुनः - ख ।

514


बिभेद शतधा८ व्यास सापतद् भुव्यवस्थिता ।
तं विशस्त्रं विकवचं कृत्वा ते देवसत्तमाः ।।१ ३ ।।
युगपच्छस्त्रवर्षेण ताडयामासुराहवे ।
यमो दण्डेन तं मूर्ध्नि शक्रो वज्रेण चाहनत् ।।१४।।
वित्तदोशनिना चैव पाशेन वरुणस्तथा ।
अन्ये चान्यैस्तथा देवा ह्यमोघैरायुधोत्तमैः ।।१ ५।।
अभ्यधावन्नसंरब्धा हतस्त्वमिति वादिनः ।
न चैव तस्य दैत्यस्य दुःखं तत्राभवत्तदा ।। १६। ।
सोपि दैत्यस्ततोत्पत्य९ पुण्डस्यास्थाय१० पृष्ठतः ।
यमं मुष्टिप्रहारेण पुण्डाद् भूमावपातयत् ।। १७।।
तथेन्द्रस्य गजं भूयो पुच्छे संगृह्य वेगवान् ।
भ्रामयित्वाक्षिपद् दूरे नष्टस्त्वमिति चाब्रवीत् ।।१८।।
ततो धनेशस्य पुनः शिविकां कामगामिनीम् ।
आक्षिप्य११ बहुधा दैत्यो व्यधमत् क्रोधमूर्छितः । ।१ ९।।
ततो गजैर्गजान् निघ्नत्१२ पदातीँश्च पदातिभिः ।
रथं रथेन च रणे हयाँश्च हयसादिभिः । ।8.93.२० ।।
पुनर्गजे१३ महेन्द्रस्य हन्यमानोपि१४ संयुगे ।
समुत्प्लुत्य१५ तदा शक्रं गजस्कन्धान्न्यपातयत् ।।२१ ।।
तस्य तत् कर्म संवीक्ष्य दानवेन्द्रस्य संयुगे ।
सर्वे देवा दिशः सर्वाः प्रनष्टा जीवितार्थिनः ।।२२ ।।
पूर्वेण भगवानिन्द्रः सहादित्यः१६ सलोकपः ।
दक्षिणेन तथा रुद्रा वसवश्चाश्विनावपि ।।२३ ।।
प्रतीचीं यक्षरक्षांसि पिशाचाः पन्नगैः सह ।
उत्तरेण तथान्ये च प्रपद्यन्त१७ यथा मृगाः ।।२४।।

८ स तथा - ख. । ९ स.. तदोत्पत्य - घ. । १० पुण्डमास्थाय - घ. । ११ आदाय - घ. । १२ निघ्नन् - ख । १३ पुनर्गजं - ख. । १४ हन्यमानञ्च - घ. । १५ अवप्लुत्य - ख । १६ सहादित्यैः - ख । १७ पलायन्त(?)।

515
तेषु भग्नेषु दैत्येन्द्राः पृष्ठतो विकृतायुधाः ।
अभ्यधावन्त गर्जन्तो भयं तेषां व्यदर्शयन् ।।२५। ।
ततो मुहूर्त्तं ते गत्वा हिरण्याक्षेण वारिताः ।
निवृत्ताः समतिष्ठन्त सर्वेमर्षवशं१८ गताः । । २६।।
अथोवाच ततः क्रुद्धान् हिरण्याक्षो हसन्निव ।
दैत्यदानवनाथाँस्तानिदं वचनकोविदः ।।२७।।
किमेभिरबलैरद्य१९ युष्माकं दैत्यदानवाः ।
अवबद्धैश्च रुद्धैश्च मृतसंज्ञै२०र्दुरात्मभिः ।।२८ ।।
हतास्ते नात्र सन्देहो येषां राज्यमिदं धृतम्२१ ।
नैषां जीवितमद्यास्ति मा त्वरध्वं सुबालिशाः ।।२९ ।
अबलानपि संरब्धान्निराशान् जीवितैषिणः ।
अवद्ध्येति बलाच्चैव दुर्जयाश्च न संशयः(?) ।।8.93.३ ० ।।
सङ्गमोक्षन्निदानीञ्च ल - - - - - सव ( ?) ।
- - - - - - - - इत्युवाच सदोशनाः (?) ।।३ १।।
यदेतद्राज्यमित्याहुः प्राणा ह्येते महात्मनाम, ।
स तेषां हरति प्राणान् यस्तेषां राज्यमाहरेत् ।।३२।।
तेषामद्य हृ - - - - - - - तसमैः सुरैः ।
आपूरयाम२२ स्थानानि देवानां दानवेश्वराः ।।३३ । ।
सनत्कुमार उवाच
ततस्ते सहिरण्याक्षाः प्राविशन्नमरावतीम् ।
रत्नानि जगृहुर्व्यास विजयं चावघोषयन् । ।३४। ।
आरक्षमामनुस्तत्र चक्षु२३राप्तैश्च तेसुराः ।
आश्वासयन्त पौरांश्च तथा प्रकृतयश्च ह ।।३ ५।।
 - - मिति तथार्घेण तथैवोपायनैर्वरैः ।
आशीर्भिश्चासुरश्रेष्ठं हिरण्याक्षं प्रणेमिरे । ।३६। ।

१८ मन्युवशं - ख. । १९... रत्र - ख. । २० भृतसंज्ञै - ख. । २१ हृतम् (?) । २२ मा - ख. । २३ चख्यु (?) ।

516
तान् समाश्वास्य२४ दैत्येन्द्रो ह्यध्यस्य च वरासनम् ।
कार्याणि कृत्वा सर्वेषामगच्छद् वरुणालयम् ।।३७।।
ते सिंहनादैर्विविधैश्च वाद्यैः प्रवल्गनास्फोटितकूजितैश्च ।
महासुरा२५ दानवराजसिंहं जग्मुस्समन्तात् परिवार्य सर्वे ।।३८। ।
इति स्कन्दपुराणे वरुणालयगमने त्रिणवतितमोध्यायः

सनत्कुमार उवाच
तमापतन्तं वेगेन गरुत्मन्तमिवाहवे ।
दृष्टवा वरुणपुत्रास्ते पित्रा सह विदुद्रुवुः ।। १ । ।
दैत्याश्चापि हि ते सर्वे प्राप्य तद्वरुणालयम् ।
व्यूढस्कन्धा व्यतिष्ठन्त व्यसृजंस्तत्पुरं प्रति ।।२। ।
दूतं वातापिनं चैव राज्ञा प्रेषितमूर्जितम् ।
स गत्वा तां पुरीं रम्यां प्रविश्य च महासुरः ।। ३ । ।
पौरैः सुपूजितो व्यास प्राहेदं तान् सुगर्वितः ।
राजा सर्वस्य लोकस्य दैत्यदानवनन्दनः ।।४। ।
कश्यपस्य सुतः श्रीमान् हिरण्याक्षः प्रतापवान् ।
जित्वा सर्वान् सुरान् संख्ये आज्ञापयति वस्सदा ।।५। ।
यूयं शृणुत सर्वे मे आज्ञां कुरुत चैव१ हि ।
आनयध्वं च रत्नानि परित्यजत देवताः । ।६। ।
देवपक्षोत्र यः कश्चित् पुरे प्रतिवसत्युत२ ।
अभयं तस्य३ यच्छामि यातु देवानभीतवत्४ । ।७। ।
नारदाद्याश्च ऋषयस्तं समासाद्य दैत्यकम्५ ।
ऊचुस्तमसुरं व्यास सान्त्वयुक्तमिदं तदा । ।८। ।

२४ सम श्वस्य - ख. । २५ महासुरं - ख. । .

१ कुरु तथैव - ख. । २ प्रतिवसन्त्युत - ख । ३ अयन्तस्य प्रयच्छामि - ख. । ४... न्नभीतवत् - ख, इतः परं पत्रमेकं खण्डितं खपुस्तके । ५ इतः पूर्वं खपुस्तके इव घ पुस्तकेपि कियानंशः खण्डितः ।


517
राजा भोजो विराट् सम्राट् भूपतिः क्षत्रियो नृपः ।
य एभिः स्तूयते शब्दैः कस्तन्नार्च्चयते६ बुधः७ ।।९।।
स त्वं राजा च भोजश्च विराट् सम्राट् तथैव च ।
भूपतिः क्षत्रियश्चैव नृपः सर्वसहस्तथा ।।8.94.१ ०।।
निर्जिताः सुमहावीर्यास्त्वया देवाः सवासवाः ।
कस्त्वया सदृशो लोके बाह्यैकं८ रुद्रमीश्वरम् ।।११ ।।
त्वं पाता सर्वलोकानां हर्त्ता स्रष्टा तथैव च ।
कस्तवाज्ञां महाराज प्रतिहन्याद् दुरात्मवान् ।।१२।।
वयं९ च सर्वे दैत्येन्द्र वरमिच्छाम१० दानव ।
वरदस्त्वं हि भूतानामस्माकं वरदो भव ।।१३।।
सनत्कुमार उवाच
तेषां तद्वचनं श्रुत्वा वरदोस्मीति सोब्रवीत् ।
ऊचुस्ते दैत्यराजानं तदा वचनकोविदाः ।।१४। ।
ऋषय ऊचुः
यदेतदुक्तं भवता नरकव्याधिमृत्युषु ।
न तथा तद् भवेद् दैत्य एष नो दीयतां वरः ।।१५।।
दैत्य उवाच
मम प्रतिज्ञा विप्रेन्द्राः पूर्वमेव तपोधनाः ।
लोकानां सुखमेधेयं राजा लोकस्य यद्यहम् ।।१६।।
न तथा तत् करिष्यामि यद्यहं मुनिसत्तमाः११ ।
मिथ्याप्रतिज्ञः स्यां चाहमसत्यश्च दुरात्मवान् । ।१७।।
तस्मादन्यद्१२ भवन्तो मां वर याचन्तु१३ सुप्रियम् ।
कर्तास्मि तं तथा सर्वं याचेहं१४ शिरसा ह वः । ।१ ८। ।

६ ...श्रयते - घ. । ७ बुधैः - घ. । ८ त्यक्त्वैकं (?) । ९ यमं - घ. । १० वरमिच्छामि - घ. । ११ ऋषिसत्तमाः - घ. । १२ ...दन्यं - (?) । १३ याचत - घ. । १४.. .चेयं - घ. ।

518
सनत्कुमार उवाच
तस्य तद्वचनं श्रुत्वा ऋषयः सर्व एव ते ।
हिरण्याक्षमिदं व्यास पुनरेवाब्रुवन्१५ विभुम् ।।१९।।
ऋषय ऊचुः
लोकधर्मप्रवृत्त्यर्थं ब्रह्मणा दैत्यपुंगव ।
कृतमेतत् पुरा सर्वं धर्मश्चापि प्रवर्तितः ।।8.94.२०।।
समीक्ष्य चैतल्लोकस्य धर्मश्चापि१६ प्रवर्त्तितः ।
नाभूतस्तद् भवेद् दैत्य इति नो वरदो भव ।।२१।।
प्रतिज्ञा प्रभवेत् सा यल्लोकानां१७ दुःखवर्जनम् ।
तच्च तस्मान्न नश्येत ब्रह्मणः१८ कृतिरव्यया ।।२२।।
यावत्त्वं दैत्य लोकस्य राजा ह्यसि१९ प्रभुश्च ह ।
एवं त्वयानृणत्वं२० च ब्रह्मणो२१द्य कृतं२२ भवेत् ।।२३।।
तेषां स वचनं श्रुत्वा ऋषीन् निश्चित्य दैत्यराट् ।
ये२३ द्रोहाःशक्रपक्षाश्च ममाज्ञाभङ्गकारिणः । २४।।
तेषामेव भवेन्मृत्युर्नरकेषु च यातनाः ।
एतदाह तदा राजा ते चाप्यूचुर्नराधिपम् । ।२५।।
एवमस्त्विति तां२४श्चोक्त्वा यातनामोक्षमादिशत् ।
स मुक्त्वा नारकान्२५ सर्वान् ददौ स्थानस्य रक्षणम् ।।२६।।
पितृराजानमनघ विप्रचित्तिं महाबलम् ।
ततोवघुष्य स जयं पूजयित्वा तु तान्द्विजान् ।
जगाम धनदावासं हिरण्याक्षो महाबलः ।।२७।।
ते तां धनेशस्य पुरीं महाबला विनादयंतोंन्धकपालितास्तदा ।
हिरण्यनेत्रं परिवार्य२६ दानवास्तदाभिजग्मुर्जलदा इवाचलम् ।।२८।।
इति स्कन्दपुराणे हिरण्याक्षदिग्विजये यमलोकाभिगमनो नाम चतुर्णवतितमोध्यायः
 
१५ ..ब्रवीद् - घ. । १६ धर्मस्यापि - घ । १७ द्यायं लोकानां - घ. । १८ तस्यैतद् ब्रह्मणः - घ. । १९ ह्यासीत्- घ । २० स वामृणत्वं - घ । २१ ब्रह्मणा - घ. । २२ कृति - ध. । २३ यो - घ. । २४ त्वां - घ. । २५ वरदान् - घ. । २६ प्रविदार्य - घ. ।

519
सनत्कुमार उवाच
तथा१ लङ्कां२ समासाद्य धनेशस्य पुरीं शुभाम् ।
अदूरे तस्थुरुद्धूताः सन्नद्धकवचायुधाः ।।१।।
अवस्थिताँस्तथा दृष्ट्वा दानवान्३ बलदर्पितान् ।
लङ्कानिवासिनः४ सर्वे निधिपालास्तथैव च ।।२।।
निधयः शंखपद्माद्या ऋषयश्च तपोधनाः ।
अर्घं रत्नानि५ चादाय दानवाय न्यवेदयन्६ ।।३।।
ऊचुश्च तव दैत्येन्द्र वयं वश्या न संशयः ।
किङ्कराश्च प्रशाध्यस्मान् यथावद्दानवेश्वर७ ।।४।।
हिरण्याक्ष उवाच
मा भीर्भवतु वो यक्षा मम यूयं न संशयः ।
अयं राजा हि वः श्रेष्ठो हिरण्यकशिपोः सुतः ।।५।।
प्रह्लादो देवसंघानां सर्वेषां विप्रबाधनः ।
ततस्तं तत्र संस्थाप्य धनेशं दैत्यपुङ्गवम् ।। ६।।
अन्येषां देवसंघानां स्थानान्यापूरयत्पुनः ।
संस्थाप्य सर्वस्थानेषु स्थानिनो दानवेश्वरान् ।।७।। अन्धकन्त्वमरावत्या८मिन्द्रत्वेनाभ्यषेचयत् ।
भूर्ल्लोकञ्चाखिलं दैत्यः स्वयमेवान्वशासत९ ।।८।।
भूयश्च धनुरादाय सशरं सूर्यसन्निभः१० ।
दैत्येन्द्रो मेदिनीं प्राह ममात्मानं विदर्शय११ ।।९।।
सा भीता तस्य दैत्यस्य वेपमाना कृताञ्जलिः१२ ।
जयेत्युक्त्वाग्रतस्तस्थौ विष्णोर्लक्ष्मीरिवापरा ।।8.95.१ ० ।।
तां मृगीमिव शार्दूलो भुजङ्गीमिव पक्षिराट् ।
शार्दूलीं सिंह इव च सिंहीं शरभराडिव ।।११ ।।

१ ततो (?) । २ लंकां - घ । ३ धनदो - ख । ४ अलकावासिनः - घ. । ५ अर्घरत्नानि - ख. । ६ निवेदयन् - ख. । ७ देवो धनेश्वरः - घ., नरेश्वरः ख । ८... स्त्वमरावत्यां - ख. । ९,.. न्वशासते ख. । १० सूर्यसन्निभं - ख. । ११ मम त्वं वै निदर्शय - घ., ' वदेशत - ख. । १२ कृताञ्जली - ख. ।

520


हंसीं काक इव क्षुद्रो मयूरी मद्गुराडिव१३ ।
तथा तां स दितेः पुत्रो जग्राह रुषिताननः ।
उवाच चैव१४ संरब्धस्तां देवीं भयविह्वलाम् । । १ २।।
तवाहं वसुधे भर्त्ता ब्रह्मणा प्रकृतः शुभे ।
मान्यं१५ पतिं त्वमिच्छेथा रक्षिष्येहं ततो हि ते । ।१ ३ । ।
सनत्कुमार उवाच
ततो रसातलं१६ गत्वा स्वपुरस्य समीपतः ।
बबद्ध नागपाशैस्तां दुष्टामिव यथाङ्गनाम् ।।१४।।
ततोचलेन दैत्येन्द्रः शंखेन सुमहाबलः ।
आर्त्तां रुरोध१७ दुष्टश्च१८ कन्दरामिव वीर्यवान्१९ ।।१५।।
ततोस्या रक्षणे नित्यमुद्युक्तान् रक्षिणो दधौ२०।
किङ्करान्नाम दैत्येन्द्रान् सहस्राणि चतुर्दश ।। १६ ।।
स तथा तद्विधायैव दैत्येन्द्रस्तुष्टिमान् बभौ ।
कृषीबल इव क्षेत्रं सुनिष्पन्नं समीक्ष्य च । । १७।।
कृतकृत्योहमित्येव बुद्धिं चक्रे स पार्थिवः ।
संयुज्य स्वसुतं ज्येष्ठं दारैः साधुरिवात्मवान् । ।१८। ।
अन्तरं न च तस्यान्यः२१ कश्चित्प्राप्नोति सुव्रत२२ ।
स्वसहायस्य२३ विप्रस्य यथा दम्भेन वर्ततः । ।१९। ।
यजध्वं२४ दानवास्सर्वे विप्रान्पूजयतेति च ।
देवञ्च शूलिनं सर्वे नमस्यत२५ पुनः पुनः ।।8.95.२० ।।
धर्ममेव निषेवध्वमिति सोज्ञापयत्तदा ।
न तस्या२६ धार्मिकः कश्चिद् दैत्यो वा दानवोपि वा ।।२१।।

१३ डङगुराडिव - ख. । १४ दैवे - ख । १५ नान्यं - घ. । १६ अथ पृथ्वीं ततो - घ. । १७ ददज - ख. । १८ दुष्टस्य - ख । १९ राजाक्रम्य विनष्टां तां भर्ता स्वामीव योषितम् - घ । २. ददौ - ख. घ. । २१ तस्यान्यत् - ख. । २२ सुव्रतः - ख- घ. । २३ असहायस्य - घ. । २४ जयध्वं - ख. । २५ नमस्य च - ख. । २६ तस्य - ख. ।

521




राज्येभवद् दुराचार२७स्तस्मिन्२८ राज्यं प्रशासति ।
स्वयमेव स वायुश्च चन्द्रशाः सूर्य एव च२९ । । २२ । ।
अभवद् व्यास लोकेषु तपोबलसमन्वितः ।
ओषध्यः स्ववमुद्भूतास्तस्मिन् राजनि शासति ३० । । २३ । ।
विना कृष्टिं३१ सं भवन्ति सर्वलोकस्य साधिकाः३२ ।
स एव तास्समादाय३३ क्षरं३४ नयति दैत्यराट् । । २४। ।
स एवामर्दयच्चापि निनाय च पुनर्गृहान्।
स एव दण्डिकोभूच्च दण्डश्चैव३५ स एव हि । । २५ । ।
स एव योगात्३६ सर्वत्र चौराद्३७ रक्षति नित्यदा ।
न तस्य व्याधितः कश्चिन्म्रियते वापि कश्चन । । २६ । ।
परदारप्रसक्तो वा पिशुनो वापि कर्हिचि तु ।
हिंसका न च तस्यासन्न चाप्यधार्मिकाः क्वचित् । । २७। ।
पल्वलानि तडागानि सरित्प्रस्रवणानि च ।
विना वृष्ट्या३८ भवन्त्येते सर्वत्रैव च सुस्थितम् । । २८ । ।
न सन्ति तस्य रक्षांसि न पिशाचाश्च हिंस्रिणः ।
ईतयश्च न सन्त्यस्य न द्वन्द्वानि च कानिचित् । । २९ । ।
न जुह्वते तदा वह्निं विप्रास्तस्मिँस्तु राजनि ।
नाधीयते यजन्ते वा एकवर्णमभूत्तदा । । 8.95.३० । ।
भृगवो येभवन् विप्रा दानवानां मुदावहाः ।
अधीयते३९ यजन्ते च एवं त व्यास सर्वशः । । ३१ । ।
हृष्टपुष्टमभूत्४० सर्वं४१ व्याधिदुःखविवर्जितम्४२ ।
वर्णाश्रम४३ परित्यक्तं सर्वलोकसमं४४ जगत् । । ३२ । ।

२७ दुराचार ख। २८ इति - ख । २९ हि - ख । ३० राज्यं प्रशासति (?) । ३१ वृष्टि - ख, कृष्टं - घ । ३२ वै कृषिः - घ, साधिका ख । ३३ ताम्समादाय - घ, समास्थाय (धाय) (?) । ३४ स्वयं - घ । ३५ दण्डाच्चैव - ख । ३६ यं गान् - ख । ३७ चौरान् - ख । ३८ वृष्टिं - घ । ३९ -अध्याय (?) - ख. । ८० पुष्टधस्तैश्च ते - ख ४१ सर्व - ख. । ४२. विवर्जिताः - ख. । ४३ कर्म्माश्रम (धर्मा...) - ख, वर्णाश्रय - घ । ४४ कर्मणोपस ( श) मं - घ. ।

522
तन्नृत्यगीतोत्सवनित्ययुक्तं सुखप्रसुप्तं रतिकार्ययुक्तम् ।
जगद् बभौ राजनि दैत्यदेवे४५ हिरण्यनेत्रे दितिनन्दनेति४६ ।।३३ ।।
इति स्कन्दपुराणे हिरण्याक्षराज्यवर्णनो नाम पञ्चनवतितमोध्यायः

व्यास उवाच
तथा राजनि दैत्येन्द्रे त्रैलोक्याधिपतौ शुभे ।
धरण्याञ्चैव बद्धायां सुखितासु प्रजासु च ।।१।।
स्थानेभ्यश्च्याविता देवा ह्यप्रतिष्ठा महाबलाः ।
किमकुर्वत१ दुःखार्त्ता एतन्मे२ शंस सर्वशः ।।२।।
सनत्कुमार उवाच
शृणुष्व धर्म (?) देवानामवस्था या बभूव ह ।
यदकुर्वत३ दुःखार्त्तास्तत्र सर्वे यथाक्रमम् ।।३।।
हव्यवाहोग्निरभवद्देवानां भागवर्द्धनः ।
तं निरस्य तदा दैत्यो वह्निमन्यं चकार ह ।।४।।
तस्मिन्कर्मणि विप्रेन्द्र मन्त्रास्तदनुगाभवन् ।
दैत्यदानवभागानां वक्तारः शुभसाधकाः । ।५।।
ततो यज्ञः स्वयं दैत्यानुपतस्थे महात्मनः ।
यज्ञे गते च दैत्येन्द्रान्देवाः सर्वे मृता इव ।।६।।
अभवन्नष्टसंज्ञाश्च मन्दवीर्यपराक्रमाः ।
निःश्रीकाश्च निरुद्योगा निराक्रन्दा समुत्सुकाः ।।७।।
मन्त्रदग्धा यथा सर्पा वज्रपिष्टा यथाचलाः ।
गरुत्मताभिसन्दष्टाः पन्नगा इव निर्विषाः ।।८।।


४५ दैत्यनायके - घ. । ४६ दानवेन्द्रः - घ ।
१ किमकुर्वन्त - ख. । २ एतन्नः - ख. । ३ यदकुर्वन्त - ख. । ४ इवाचलाः - ख. ।

523

विहीनाद्भि५र्यथा वृक्षा बान्धवैर्वापि योषितः ।
तथा ते दैवता६ व्यास हृतराज्या हृतश्रियः । ।९। ।
चिन्तयन्ति हृदा चैव शुष्यन्ति७ विलपन्ति च ।
अथ देवः स्वयम्भूस्तान् ज्ञात्वा देवाँस्तथाविधान् । । 8.96.१० । ।
विमानेनार्कवर्णेन प्रोवाचेदं पितामहः ।
भो देवा नष्टसंज्ञा स्थ किमर्थं दुःखिता भृशम् ।
तपोयोगबलं वोद्य ददामि सुरपुङ्गवाः ।।११ ।।
यूयं लोकस्य कर्तारो हर्तारश्चैव सर्वशः ।
न युक्तं भवतामेतत् क्लीबवत् स्थातुमद्य वै । ।१२। ।
स्वीयं योगं मदीयञ्च८ त्यक्त्वा दुःखं महाबलाः ।
प्रतिपद्यत मा शोके स्वयं देवाः प्रवर्तत ।।१३ ।।
न तमो भास्कराद्युक्तं न सोमादुष्णता यथा ।
नाग्नेर्यथा तुषारश्च९ नामृतं भुजगादपि ।।१४। ।
नासाधोः साधुभावश्च न कुलीनादशोभनम् ।
नाधर्मो१० नियमेभ्यश्च न वेदेभ्यश्च दुर्मतिः ।। १ ५।।
तथा न युक्तं युष्माकमिदं देवा११ महात्मनाम् ।
आपत्सु न१२ विषीदन्ति ये केचित्तेजसा१३ स्थिताः । ।१६।।
ते१४ यूयमापदं प्राप्य न शोकं कर्तुमर्हथ ।
मा भवन्तोवसीदन्तु राज्यं भूयो भविष्यति ।। १७।।
महायोगबलोपेतो हिरण्याक्षोद्य देवताः ।
अशक्यो हन्तुमल्पेन तेजसा दितिनन्दनः । ।१८।।
प्रतीक्षन्तु१५ भवन्तोस्य तपसः क्षयमव्ययाः ।
क्षीणे तपसि दैत्येन्द्रं युद्धे१६ विष्णुर्वधिष्यति१७ ।।१ ९। ।

५ विशाखाभि - घ. । ६ देवता - ख । ७ मुह्यन्ति - घ । ८ स्वयं - घ.,... स्तथा यो धर्मं - ख. । ९ नाग्ने स्तुथारश्च यथा - ख. । १० नाधर्मा - ख. । ११.. मिमं देवा - ख., देवानां च - घ. । १२ च - ख. । १३.. त्तेजसि - घ. । १४ ये - ख. । १५ प्रतीक्षन्तां (?) । १६ युधि - घ. । १७ र्हनिष्यति - ख. ।

524


सनत्कुमार उवाच
त एवं ब्रह्मणा प्रोक्ता लब्धयोगाः१८ सुरेश्वराः ।
प्रणम्य सर्वभूतानां स्रष्टारमिदमब्रुवन्१९ । ।8.96.२० । ।
हृतानि नो महायोगस्थानानि दितिनन्दनैः ।
क्व तिष्ठाम वयं ब्रूहि दिश नः स्थानमव्ययम् ।।२१ ।।
ब्रह्मोवाच
हृतानि सर्वस्थानानि युष्माकं विदितञ्च२० मे ।
शृणुध्वं यत्र वस्तव्यं२१ युष्माभिर्योगमायया ।।२२।।
यूयं सर्वे शरीरेषु२२ योगाद् विशत२३ सत्तमाः ।
प्रजानां सर्वतो देवास्ततो वृत्तिमवाप्स्यथ ।।२३।।
तेषा२४मशितपीतैश्च संस्कारैश्च पृथग्विधैः ।
पृथिवी नागबद्धापि२५ युष्मानाप्याययिष्यति ।।२४।।
सनत्कुमार उवाच
त एवमुक्ता२६ देवेन देवाः सर्वे२७ सवासवाः ।
तथा चक्रुर्यथोवाच ब्रह्मा लोकपितामहः ।।२५।।
तेवर्तयन्त सततं तत्रस्थाः सुरसत्तमाः ।
चतुर्युगमुपासन्तो२८ लोकधातुर्मते स्थिताः । ।२६।।
अथ योगाद् हिरण्याक्षः प्रजासु समवास्थितान्२९ ।
सुरानपश्यद्योगात्मा चुक्रोध३० च स३१ तान्प्रति ।।२७।।
यस्मिन्यस्मिन्नपश्यच्च सुरं स समवस्थितम्३२ ।
अवधीत्तं तमभ्येत्य तदा दानवसत्तमः ।। २८।।

१८ प्रोक्तं - ख, लब्ध्वा योगं (?) । १९ मब्रवीत् ख । २० विदितस्य - ख. । २१ वक्तव्यं - ख । २२ सर्वशरीरे - ख., मे - घ. । २३ वसत - ख । २४ तासा (?) । २५ चावकल्पैश्च - घ. । २६ तदेवमुक्त्वा - ख. । २७ सर्वे देवाः - ख. । २८ मुपासन्त - ख. । २९ समुपस्थितान् - घ । ३० चुकोप - ख. । ३१ स च - ख. । ३२ सममवस्थितम् - ख ।

525
अहं प्रजाः सदोद्युक्तो रक्षामि सततं भयात् ।
ममैव ता दुराचारा विद्विषो वर्धयन्त्युत ।। २९ ।।
कृतघ्नाः स्वामिघातिन्यो दुष्पूरा दुष्टचेतसः३३ ।
मम शत्रूनिमा दुष्टा३४नन्नपानादिभिस्सदा । । 8.96.३० । ।
आप्याययन्ति दुर्वृत्ता दण्डार्हा मे ततस्तु ताः३५ ।


- --- - - - - - ।

यत्र तत्र गताः सर्वाः३६ प्रजाः सर्वत्र सोवधीत् । । ३१ ।।
पल्वलानि तडागानि नदीः प्रस्रवणानि च ।
सर्वाण्येव तदा योगादशोषयत३७ दानवः । । ३२ ।।
ओषध्योकृष्टपच्याश्च या ह्यासँस्तस्य सुव्रत ।
व्यनाशयत् स ताश्चापि वृक्षवल्लीरपोथयत्३८ । ।३ ३ ।।
तन्नष्टवृक्षक्षुपवल्लिपल्लवं तृणौषधीप्रस्रवणोदकाशयम्३९ । सरि४०त्तडागावटशुष्कपल्वलं जगद् बभौ कच्छपपृष्ठसन्निभम् प्रणष्टवर्णाश्रमधर्मसंयमं विनष्टघोषव्रजपक्षिमानुषम्४१ ।
द्विपाश्वपत्यादिगणैर्विनादितं४२ युगान्तकालाग्निमुदग्रवज्जगत्४३
इति स्कन्दपुराणे ब्रह्मणो वाक्यं नाम षण्नवतितमोध्यायः

सनत्कुमार उवाच
तथाभूतं जगद् दृष्ट्वा देवास्ते दुःखपीडिताः ।
वैराजं लोकमासाद्य भूयोपश्यन् पितामहम् । । १ ।।
ते१ सर्वे समुपागम्य प्रणम्य च पुनः पुनः ।
ऊचुस्ते२ कर्म दैत्यस्य सर्वमेव३ सुदुःखिताः ।।२। ।

३३ दुष्टचेतसा - ख । ३४ न्दृष्ट्वा - ख । ३५ ततस्ततः - ख, ततस्त्विति (?) । ३६ सर्वे ख ३७ योगादपोथयत - घ । ३८ रशोषयत् - ख । ३९ पल्लवं तथौषधप्रस्रवणादकाशयम् ४० शुष्यत् - (?) । ४१ धर्मसंयमस् - घ। ४२ श्च ह्यृक्षादिगणैर्विनादितं (?) - ख. । ४३ निसुर.. १ तं (?) । २... स्ततः - (?) । ३ सर्व एव. - ख ।

526
निवेद्य च पुनर्देवमूचुस्ते लोककारणम् ।
भगवन् हृतराज्याश्च दुर्बलाश्च तथा विभो । ।३ । ।
असमर्था वयं तस्य स्थातुं दैत्यस्य संयुगे ।
न च स्थानं५ प्रपश्यामो यत्र तिष्ठाम विज्वराः । ।४।।
सनत्कुमार उवाच
तेषां तद्वचनं श्रुत्वा भीतानां त्रिदिवौकसाम् ।
उवाच भगवान् ब्रह्मा सर्वानेव दिवौकसः ।।५। ।
न भेतव्यं सुरास्तस्य योगिनः सुमहात्मनः ।
समाप्तं तपसः सर्वं फलं दैत्यस्य तस्य तत् ।।६। ।
कालस्तस्याभिसंप्राप्तो जीवितान्तकरः सुराः ।
तस्मात् सर्वे मया सार्धं यात विष्णुं प्रयाचत ।।७।।
भवन्तो निर्बला ह्यद्य७ अशक्तास्तस्य बाधने ।
विष्णुः शक्तः स तं दैत्यं जीविताच्च्यावयिष्यति ।।८।।
पूर्वं हि जाते तस्मिँस्तु वागुवाचाशरीरिणी ।
नायं वध्यो मनुष्यस्य न देवस्य कथञ्चन ।।९।।
नापि तिर्यक्षु जातस्य८ न भूमौ न च तेजसि ।
नाकाशे नापि लोकेषु महात्मायं भविष्यति । ।8.97.१ ० ।।
स एष देवा दैत्येशो महात्मा धार्मिकस्तदा९ ।
अवध्यः सर्वभूतानां१० वध्यो दुःखाद् भविष्यति ।। ११ ।।
वाराहं रूपमास्थाय न दैवं नापि मानुषम्११ ।
न च तिर्यक्षु तज्जातं नरवाराहमस्ति वै । । १२ । ।
पाताले च प्रविश्यैव नासौ१२ भूर्नापि खं हि तत् ।
न तेजो नापि लोकोसौ सर्वतो मुक्तमेव१३ तत् ।। १३ ।।

४ संयुगे स्थातुमग्रतः - घ. । ५ संस्थानं - ख. । ६ य प्रपश्याद्य - ख. । ७ सर्वे - घ. । ८ न पितृयक्षराजस्य - घ. । ९ स्तथा (?) । १० अपत्यमिव भूतानां - ख. । ११ न देवत्वं न भानुगम् - ख., न तु मानुषम् - घ. । १२ नादो (?) । १३ युक्तमेव - घ ।

527
सनत्कुमार उवाच
ततस्ते हृषिताः सर्वे प्रणम्य च पितामहम् ।
ऊचुर्गच्छाम देवेश कालोतिक्रमते हि नः१४ । ।१४।।
ततस्ते सर्व एवैत्य श्वेतं पर्वतसत्तमम्१५ ।
विष्णुं सहिष्णुं जिष्णुञ्च दानवायुतमर्दनम् । ।१ ५।।
अस्तुवन् वाग्भिरिष्टाभिः प्रणम्य बहुमानतः ।
नमः सर्वरिपुघ्नाय दानवान्तकराय च ।।१ ६। ।
नमो जिताय देवाय वैकुण्ठाय महात्मने ।
नमो निर्धूतरजमे नमः सत्याय चैव हि१६ ।।१७।।
नमः साध्याय देवाय नमो धाम्ने सुवेधसे१७ ।
नमो यमाय देवाय जयाय च नमो नमः । । १८ । ।
नमश्चादितिपुत्राय नरनारायणाय च ।
नमस्सुमतये चैव नमश्चैवास्तु विष्णवे । ।१ ९।।
नमो वामनरूपाय कृष्णद्वैपायनाय च ।
नमो रामाय रामाय दत्तात्रेयाय वै नमः । ।8.97.२ ० ।।
नमस्ते नरसिंहाय१८ धात्रे चैव१९ नमो नमः ।
नमः साध्याय वेदाय चक्रिणे वै नमो नमः । ।२१ ।।
नमः शकुनिहन्त्रे२० च नमो दामोदराय च ।
सलिले तप्यमानाय नागशय्याप्रियाय च । । २२ । ।
नमः कपिलरूपाय महते पुरुषाय च ।
नमो जीमूतरूपाय महादेवप्रियाय च । ।२ ३ । ।
नमो रुद्रार्धरूपाय२१ तथोमारूपिणे नमः२२ ।
चक्रमुद्गरहस्ताय महेश्वरगणाय च । ।२४। ।

१४ कालोतिक्रामते - ख,. तिक्रमतीह नः - घ । १५ श्वेतपर्वतसत्तमम् - ख. । १६ ह - ख । १७ च वेधसे - घ, सुमेधसे (?) । १८ नारसिंहाय - घ. । १९ ऋतवे च - घ. । २० शत्रुनिहन्त्रे - घ. । २१ रतार्धरूपाय - ध. । २२ तथा दामोदराय च - घ ।

528
शिपिविष्टाय च सदा नमः श्रीवत्सधारिणे ।
धुन्धुमाराय शूराय मधुकैटभघातिने ।।२५। ।
चतुर्भुजाय कृष्णाय रत्नकौस्तुभधारिणे ।
त्रिविक्रमवियत्स्थाय पीतवासः सुवाससे । ।२६।।
नमः पुरुषघाताय गदाखड्गोग्रधारिणे ।
योगिने यजमानाय भृगुपत्नीप्रमाथिने । ।२७।।
वृषरूपाय सततमादित्यानां वराय च ।
चेकितानाय दान्ताय शौरिणे वृष्णिबन्धवे२३ ।।२८।।
मुराश्वग्रीवनाशाय२४ तथैवासुरसूदिने ।
नमस्ते शार्ङ्ग धनुषे सौभशाल्वविघातिने ।।२९।।
नमस्ते पद्मनाभाय ब्रह्मदेहप्रवेशिने२५ ।
नमो जयाय शर्वाय रुद्रदत्तवराय च ।।8.97.३ ०।।
नमः सर्वेश्वरायैव नष्टधर्मप्रवर्तिने ।
पुरुषाय वरेण्याय नमस्ते शतबाहवे ।।३ १। ।
तव प्रसादात् कृच्छ्रं वै२६ तराम पुरुषोत्तम ।
हृतराज्या वयं सर्वे न त्वं वेत्सि महाभुज ।
हिरण्याक्षेण वैकुण्ठ तं नाशय महाभुज । ।३ २।।
सनत्कुमार उवाच
य इदं वैष्णवं स्तोत्रं भक्त्या परमया युतः ।
कीर्तयेत्सततं मर्त्यः सर्वपापैः प्रमुच्यते ।।३३।।
मृतश्च सर्वलोकेषु वर्षकोटिचतुर्दश ।
पूजितः सर्वदेवैश्च मोदते नात्र संशयः ।।३४।।
कीर्तयत्येव य इमं प्राणिभ्यो विप्रमुच्यते ।
स मृत्युलोकमप्राप्य चरते दुःखवर्जितः ।।३५। ।

२३ गोवृष्णिबान्धवे - घ. । २४ पुराश्वग्रीवनाशाय. - ख. । २५... थ देशिने - ख., इतः परं पत्रमेकं? खण्डितम् ख पुस्तके । २६ व - घ. ।

529
सनत्कुमार उवाच
 - - - - - - - - - ।
उवाच सुरशार्दूलानिदं संपूजयन्सदा । । ३६ । ।
इतः स दैत्यो दुर्बुद्धिर्देवान् द्वेष्टि सहायवान् ।
क्रियतां मर्त्यरूपं मे वाराहं मां विधार्यताम् । । ३७ । ।
महात्मा स च दैत्येन्द्रो बलवान् धार्मिकश्च ह ।
न च शक्यो मयैकेन हन्तुं सत्यं ब्रवीमि वः२७ । । ३८ । ।
सर्वदेवमयं रूपं वाराहं२८ नन्दिवर्धनम् ।
तत्समास्थाय हन्तास्मि दैत्येन्द्रं तं महाबलम् । ।३ ९। ।
तेन रूपेण सर्वेषामस्माकं देवसत्तमाः ।
ब्रह्मा ब्रह्मत्वमापन्नः प्रस्थाता यम इत्यपि । ।8.97.४० । ।
उद्गाता तत्र वरुणो हिरण्याक्षस्ततः पशुः ।
शमिताहं सुरश्रेष्ठा यशस्तस्य महाबलः । ।४१ । ।
अद्य पश्यन्तु भूतानि मम तस्यैव चोभयोः ।
-- - - - - - - - - - - - - - - । ।४२ । ।
अरण्ये वासिताहेतोर्मत्तयोर्गजयोरिव ।
तस्य तद्वचनं श्रुत्वा गर्जितं च महात्मनः । ।४३ । ।
हर्षोत्फुल्लेक्षणाः सर्वे निरीक्षन्तः परस्परम् ।
मेनिरे हत इत्येव दैत्येन्द्रं सुमहाबलम् । ।४४ । ।
तेषां तदुत्फुल्लकुशेशयप्रभं वक्रेक्षणं२९ चारुतरावभासकम् ।
हतः स दैत्यो नरसिंहरूपिणा यथा पुरा तस्य गुरुर्महाबलः ।।४५। ।
इति स्कन्दपुराणे हिरण्याक्षवधोपायो नाम सप्तनवतितमोध्यायः

२७ ते - ख. । २८ वराह - घ. । २९ चक्रेक्षण - घ ।

530
सनत्कुमार उवाच
अथ ते सुरशार्दूलास्तस्य रूपं प्रचक्रिरे ।
 . .. . .. . . . ।
सप्तलोकमयं तस्य शरीरं चक्रुरीश्वराः ।।१ ।।
अस्थीनि पर्वताः सर्वे नद्यो१ नाड्यश्च तस्य तु ।
रुधिरं चाब्धयः२ सप्त कफपित्तानिला गुणाः३ ।।२।।
पुरीषं चाप्योषधयो धर्मो रेतः४ कृतोस्य तु ।
मूत्रं तस्याभवन्मेघा वायवः सप्त कोष्ठगाः ।। ३ ।।
शिरस्तस्याभवन् साध्या रुद्रो मूर्धानमास्थितः (?) ।
ललाटे तस्य धर्मोभूत् नासिका वायुरात्मवान् ।।४।।
सूर्याचन्द्रमसौ नेत्रे श्रोत्रे तस्य दिशोभवन् ।
भ्रुवोस्तस्याभवन् प्राणा अहोरात्रं च पक्ष्मणी५ । ।५।।
आस्यं तस्याग्निरभवत्६ वडवा मुखसंस्थिता ।
ओष्ठेभूदन्तरिक्षं च दन्ताश्च भुजगाभवन् ।।६। ।
चत्वार्यस्त्राणि दंष्ट्राश्च कृतानि सुमहान्ति वै ।
अस्त्रं पाशुपतं पूर्वं द्वितीयं चक्रमेव च । ।७।।
ब्रह्मदण्डं७ तृतीयञ्च चतुर्थं ब्रह्मणः शिरः ।
ग्रीवा तस्याभवत्सोमो रुद्रः स्कन्धे च संस्थितः ।।८।।
गण्डे चापि तथादित्या हस्तौ८ रुद्रैश्च निर्मितौ ।
अंगुल्यस्तस्य कीर्तिश्च लक्ष्मीः सिद्धिस्तथैव च । ।९।।
 - - - - प्रवृत्तिश्च९ नखाश्चास्त्राणि सर्वशः ।
यमदण्डः कालदण्डो मृत्युदण्डस्तथैव च । ।8.98.१ ० ।।
रुद्रदण्डश्च चत्वारो बाहुपादाः१० कृताः प्रभोः११ ।
साध्या देवो उरस्तस्य हृदयं सोम इत्यपि ।। ११ । ।

१ वशा - घ. । २ चान्तराः - घ. । ३ गुणं - घ. । ४ चेतः - घ. । ५ पक्षिणी - घ. । ६ तदग्निरभवत - घ. । ७ ब्रह्मदत्तं - घ. । ८ हनू (?) । ९ प्रवृत्तिश्च निवृत्तिश्च (?) । १० वाहपादाः - घ. । ११ प्रभुः - ख,... वतु - घ. ।

531
उदरं तस्य भूतानि महान्ति ऋषिसत्तम१२ ।
नाभिस्तस्याभवन्माता अदितिर्ब्रह्मसत्तम ।।१२।।
शिश्नं प्रजापतिस्तस्य मित्रोपानेभवत् स्थितः ।
वसवस्तस्य पार्श्वेषु तथा धर्मश्च पृष्ठतः ।।१३ ।।
मृत्युः कालो यमश्चैव हस्तपादतलाश्रिताः१३ ।
अश्विनौ तस्य लाङ्गूलं पितरः सन्धिषु स्थिताः ।।१४।।
नियतिः कालपाशश्च१४ कृतान्तकलहावपि ।
व्याधयश्चापि ये केचिद् दृष्टिं तस्य समाश्रिताः ।। १५।।
यक्षाश्च राक्षसाश्चैव गन्धर्वाः पन्नगैः सहः ।
सर्वे त्वचं समाश्रित्य संहताः१६ समवस्थिताः । । १६ ।।
तथा सर्वाणि छन्दांसि वेदा इष्टय एव च ।
रोमकूपेषु सर्वाणि तानि तस्थुः पृथक् पृथक् ।।१७। ।
दानानि नियमाश्चैव यमाः सर्वाश्च मातरः ।
स्थानाभिमानिनो देवाः पशवः पक्षिणश्च ह । । १८।।
सर्वे रोमाणि तस्यासन् वराहस्य महात्मनः ।
अङ्गुल्यस्तस्य पादाभ्यां विश्वेदेवाभवँस्तथा१७ ।।१९।।
भृगवोङ्गिरसश्चैव देवास्तस्याभवंस्तदा ।
रोमान्तरेषु ऋषयः सर्वेष्वङ्गेषु संस्थिताः । ।8.98.२० ।।
एवं समभवद् व्यास वराहो नन्दिवर्धनः ।
स भाति तेन रूपेण द्यां भुवञ्चापि संस्पृशन् । ।२१।।
पुरा स्वयंभूर्भगवानुद्धरिष्यन् महीमिमाम् ।
स रेजे तेन रूपेण दीप्तिमान् मधुसूदनः । ।२२। ।
निशायां संप्रदीप्तो हि हिमवानिव पर्वतः ।
ततस्तमृषयस्सर्वे तपसा महता तदा ।।२३ ।।

१२ ऋषिसत्तमाः - घ., ऋषिसत्तमः - - ख. । १३ गन्धर्वाः पन्नगैः सह - घ. । १४ कालसङ्गश्च - ख. । १५ यमाः सर्वाश्च मातरः - ख. । १६ तत्र सर्वे... त्वंबुदाः - घ. । १७... स्तदा - ख. ।

532
स्वेन स्वेनाभिसंप्राप्य तेजस्तस्याभ्यदीपयन् ।
स विष्णुस्तेजसा तेषामृषीणां परमौजसाम् । ।२४। ।
संप्रजज्वाल कालान्ते युगान्ताग्निरिवापरः ।
नादं कृत्वा च सुमहच्चालयानो महीतलम्१८ । ।२५।।
उवाच तान् ऋषीन्सर्वान् हन्मि दैत्यं सुरद्विषम् ।
हत्वा तं दैत्यराजं वै सिंहं शरभराडिव ।।२६।।
मोचयिष्ये महीं विग्नां१९ प्रविश्याद्य रसातलम् ।
स्वस्थाने स्थापयित्वा च दत्वा राज्यं दिवौकसाम्
जपध्वं विजयायाद्य शिवाय च तपोधनाः ।।२७। ।
सनत्कुमार उवाच
तस्य तद्वचनं श्रुत्वा ब्रह्मा लोकपितामहः ।
उवाच बलमाधत्स्व दैत्योसौ सुमहाबलः ।।२८।।
आस्थाय यत्नं सुमहदप्रमत्तः सुरेश्वर ।
जहि तं दैत्यराजं वै कृच्छ्रमेतन्मतं मम ।।२९।।
न तस्य सदृशो दैत्यो हिरण्यकशिपुः पुरा२० ।
महाबलोयं दैत्येन्द्रस्तपोयोगसमन्वितः ।।।8.98.३०।।
ततो देवस्तदा व्यास भगवान् गोवृषध्वजः ।
सुरैः सब्रह्मकैस्तत्र ऋषिभिश्च तपोधनैः ।।३ १।।
उक्तः प्रणम्य देवेशो विष्णुमाप्यायय प्रभो ।
तेजसा स्वेन सर्वेश यथा हन्यात् सुरद्विषम् ।।३२।।
२१भगवानुवाच
तस्मिन् काले सुरेशाभाः२२ सर्वे२३ तेजोमयं२४ हरिम् ।
प्रवेक्ष्यन्ति२५ ततो दैत्यं क्षिप्रमेव निहंस्यति ।।३३ । ।

१. महीमिमां ख । १९ विप्रां - ख. । २० सुराः - ख. । २१ श्री - घ । २२ सुरेशाना - ख. । २३ सर्वं - ख, सर्वं - घ । २४ महद् - घ । २५ प्रवेक्ष्यति - ख ।

533
सनत्कुमार उवाच
ततो ब्रह्मा स्वयं तस्य रक्षां चक्रे महात्मनः ।
यथावत्तां निबोधाद्य वदतो मे शुचिव्रत । ।३४। ।
ब्रह्मोवाच
रक्षन्तु त्वां विधाता च धाता च ऋषिसत्तम२६ ।
रुद्रः स्रष्टा च सर्वेषां कर्माणि तव युध्यतः । ।३ ५ ।।
कपाली तालकेतुश्च गन्धाधिपतिरेव च ।
रसस्याधिपतिश्चैव सूक्ष्मरूपश्च रक्षतु । ।३ ६।।
स्पर्शवेत्ता च यः सूक्ष्मो नादवाँश्च२७ महामनाः ।
इन्द्रियाधिपतिश्चैव नीललोहित एव च । ।३७।।
रक्षतु त्वां महायोगी बीजाधिपतिरेव च ।
बीजाधिष्ठानमालश्च चेतनापतिरेव च ।।३८।।
प्रवृत्तेश्च निवृत्तेश्च कालवेत्ता च यः प्रभुः ।
धर्माधर्मगतिश्चैव कर्तॄणां फलदः प्रभुः । ।३९। ।
गुणानां वृत्तिदो यश्च अनपेक्षश्च कर्मसु ।
नियमस्य च यः कर्ता कर्मवेत्ता च कर्मणाम्२८ ।।8.98.४० । ।
विना च करणैर्यश्च२९ करणार्थं प्रवर्तते ।
सर्वज्ञः सर्वगो यश्च३० अधिष्ठाता च यः स्वयम् ।।४१ ।।
येन नाधिष्ठितं किञ्चित् कथञ्चिन्नापि३१ विद्यते ।
सर्वतः पाणिपादान्तः सर्वतोक्षिशिरोमुखः ।
सर्वतः श्रुतिमाँश्चैव सर्वतोगतिरव्ययः । ।४२ । ।
ऐश्वर्यमक्षयं यस्य३२ सहस्राकृतयस्तथा३३ ।
यः स्रष्टा सर्वभूतानां तत्वानाञ्च महायशाः । ।४३। ।
संसारस्यास्य यः कर्ता३४ तथैव च३५ निवर्तकः ।
यं सांख्या नाभिजानन्ति योगिनो विदितागमाः ।।४४। ।

२६ ऋषिभिस्ततः - घ., ऋषिभिः स्तुतः - ख. । २७ देवताँश्च - ख. । २८ यः प्रभुः - घ. । २९ यस्य - ख. । ३० सर्वगोपश्च - ख. । ३१ कथञ्चिदपि - ख. । ३२ तस्य ख. । ३३ स.. कृतन्तथा - ख. । ३४ संसारस्यापकर्ता च - घ. । ३५ तथा चैव - ख. ।

534
तुष्टयो ज्ञातयो नित्यं मायया मोहयन् प्रजाः ।
ओतप्रोतानि चैतस्मिन्३६ तत्त्वानि सुमहात्मनि३७ । ।४५।।
पुरुषादीनि सर्वाणि यो व्याप्तश्च न केनचित् ।
यमज्ञात्वा न मोक्षोस्ति येन बद्धमिदं जगत् ।।४६।।
येनाहं सर्वलोकानां कृतः पूर्वं प्रजापतिः ।
त्वं यज्ञश्चैव विष्णुश्च येन सृष्टाः३८ पुरातन ।।४७।।
स ते बलञ्च सुमहदूर्ज्जं तेजश्च यच्छतु ।
अकामलब्धां सर्वत्र स्मृतिं चास्त्रे महामनाः ।।४८ । ।
रक्षां च सर्वगो देवो युध्यतस्ते प्रयच्छतु ।
कृतरक्षो मया सम्यग्गच्छ दैत्यं विनाशय ।।४९। ।
सनत्कुमार उवाच
ततस्तं स्तुतिभिर्विप्रास्तस्य रोमान्तरस्थिताः ।
अस्तुवन् वाग्भिरिष्टाभिर्देवाश्च बहुमानतः ।।8.98.५० ।।
सर्वाणि च जयेत्यूचुर्भूतानि विविधानि च ।
अनाहतास्ततो व्योम्नि देवदुन्दुभयः शुभाः ।।५१ ।।
विनेदुस्तत्र दिव्याश्च वराहो यत्र सोभवत् ।
सुरभीणाञ्च पुष्पाणां वराहोपरि सर्वतः ।
वृष्टयः पेतुरत्यर्थं देवानां हर्षवर्धनाः ।।५२।।
ततः सिद्धिरिति प्रोच्य३९ कृत्वा रुद्राय वै नमः ।
जपञ्जयावहं रुद्रं स ययौ४० वरुणालयम् । ।५३ । ।
स सेव्यमानो मुनिभिस्तपोधनैस्तथा शकुन्तैर्बहुभिर्जयावहैः ।
मृगैश्च दिव्यैर्बहुभिः प्रदक्षिणैर्जयाय देवः प्रययौ महार्णवम् ।।५४।।
इति स्कन्दपुराणे वराहस्य वरुणालयगमनं नामाष्टनवतितमोध्यायः

३६ ये तस्मिन् - ख. । ३७ सुमहात्मना - ख. । ३८ सृष्टौ (?) । ३९ प्रोक्त्वा - ख. । ४० प्रययौ - ख. ।

535
सनत्कुमार उवाच
स संप्रयातो धर्मात्मा नर्दमानो यथा घनः ।
सर्वलोकमयो देवो वराहो नन्दिवर्धनः ।। १ ।।
अपश्यत् सागरञ्चैव संप्राप्यातिबलस्तदा ।
नर्दमानं यथा मेघं लीयमानं मृगेन्द्रवत् । ।२। ।
नर्तकीमिव नृत्यन्तं वल्गन्तं चैव योधवत् ।
मण्डलैर्बहुभिश्चित्रैश्चरन्तं वसुधां तथा । । ३ । ।
नियुद्धकुशलं यद्वद् गदायुद्धविशारदम् ।
तदा तद्बहुधा चित्रमपश्यन्नन्दिवर्धनः ।।४। ।
स तमर्घेण देवेशं सर्वलोकमयं विभुम् ।
पूजयामास देवाँश्च ऋषयो ये च संगताः ।।५ ।।
स जयाय प्रगृह्यैन१मनुमान्य महोदधिम् ।
निवर्त्य सर्वभूतानि२ प्रविवेश महार्णवम् । ।६। ।
विगाहमानः सक्रीडमर्णवं विबभौ विभुः ।
सरः सुमहदासाद्य यथा मत्तो महागजः ।।७। ।
संप्रविश्य सुदूरञ्च सोदृश्यः समपद्यत ।
भूमिलेखावृतः३ सूर्यो यथा संपूर्णमण्डलः ।।८।।
ततोन्तर्जलमाविश्य क्षोभयाणो महार्णवम् ।
जलचन्द्रकवद् व्यास अदृश्यत स लोकपैः । ।९। ।
तिमिन्तिमिङ्गिलञ्चैव तिमिङ्गलगिलानपि ।
तथैव४ तद्गिलानन्यान् गर्दभान् हस्तिनो ह्यपि ।।8.99.१ ० ।।
मकराँश्चैव शंखाँश्च तथैवाश्वमुखानपि ।
तथा वै पक्षिसंकाशान् मानुषानपि चापरान् ।।१ १ । ।
रथचक्रप्रकाराँश्च सिंहव्याघ्रमुखानपि ।
शरभर्क्षविडालास्यान् मत्स्यान्बहुविधाँस्तथा ।। १२।।

१ प्रगृह्णे... - ख. । २ निर्वृत्त्यै सर्वभूतानां - घ. । ३ धूमिलेखावृतः - घ. । ४ तथा वं - ख. ।

536
भ्रामयन्सुमहातेजा जगाम सुमहाबलः ।
कुतूहलात्तमाविश्य५ केचिदाघ्राय चैव हि ।।१ ३ ।।
दशन्ति मत्स्या दीप्तास्याः शतशोथ सहस्रशः ।
स प्रदक्षिणमावृत्य दिव्यं हयशिरः शुभम् । ।१४ ।।
क्षणान्मैनाकमध्येन गत्वा भोगवतीमपि ।
वरुणस्य पुरीं गत्वा पयोनाथस्य धीमतः । ।१ ५।।
पर्जन्यं दिग्गजं प्राप्य कृत्वा चापि प्रदक्षिणम् ।
सुरभीपुरमासाद्य गा दृष्ट्वा६ चैव सुप्रभाः७ ।। १ ६। ।
याः क्षरन्ति सदा व्यास सुधाममृतमेव च ।
क्षीरोदं तत्सरो दिव्यं फेनपा यत्र ते द्विजाः । । १७।।
तस्मिन् सरसि तत् पीत्वा यशोमृतसमप्रभम् ।
पूजितः फेनपैः सम्यक् तां रात्रिं तत्र सोवसत् । ।१ ८ ।।
उषित्वा तत्र सोगच्छत् कङ्कस्य पुरमव्ययम् ।
वासुकेश्च पुरं प्राप्य तक्षकस्य च धीमतः ।।१ ९। ।
तत्र८ शेषस्य देवेशो विन्दतामरतामिति९ ।
रम्यां मनोज्ञां दिव्याञ्च स्वर्गादपि च तां वराम् । ।8.99.२० ।।
श्रुत्वानन्तश्च तं राजा१० अर्घेण समपूजयत्११ ।
प्रणम्य बहुमानाच्च उपामन्त्रयदव्ययः । ।२१ ।।
तं पूजयानं मधुहा प्रीत्या परमया युतः ।
उवाच लोककार्यस्य न विघ्नं कर्तुमर्हसि । ।२२।।
महत्कार्यमिदं देव कर्तव्यं त्रिदिवौकसाम् ।
भूयो वयं त्वया सार्धं करिष्याम यदीच्छसि ।
मा च कालोयमुद्युक्तो दैत्यस्य न भवेदिति ।।२३ ।।

५ कुतूहलात्समाविश्य - ख. । ६ गांदृष्ट्वा - ख. । ७ सुप्रभां - ख. । ८ ततः - घ. । ९ विदिता - ख., विदतां रमनीमिति - घ. । १० ज्ञात्वा - घ. । १ । च स पूजयत् - ख. ।

537
सनत्कुमार उवाच
ततो विसृज्य तं नागं रसातलमुपागमत् ।
तत्र सागरपो१५ दैत्यः सुप्रभोन्तर्जलेचरः ।।२४।।
अपश्यत्तं तदायान्तं हिरण्याक्षपुरं प्रति ।
गात्रेषु देवान्सूक्ष्माँश्च वराहस्यान्ववैक्षत ।।२५।।
तस्मिन्तच्चास्य रूपेण भयान्नैनमुपागमत् ।
तेजसा चापि विष्टब्धो दुरात्मा तस्य सोसुरः ।।२६।।
आवेदयिष्यन्तस्मै हि हिरण्याक्षाय सत्वरम्१६ ।
चक्रे वेगं प्रतिपुरं वराहस्य तदाग्रतः ।।२७।।
स यातुकामो१७ दितिजाधिराजं वराहरूपं तमनन्तमन्तकम् ।
जगाम१८ दैत्याय स जीवितान्तं यथानिलः प्रद्युतदानमाल्यवान् ।।२८।।
इति स्कन्दपुराणे वराहस्य सागरप्रवेशो१९ नामैकोनशततमोध्यायः

सनत्कुमार उवाच
तस्मिन्भये समापन्ने विनाशभयसूचकाः ।
हिरण्याक्षपुरे घोरा उत्पाता ह्यभवन् तदा ।।१ ।।
अट्टालका विशीर्यन्ते देवताश्चाहसन्निव ।
शिवा नदन्ति दैत्यानां गृहेषु च सभासु च ।।२। ।
अकस्माच्चाभवत्तत्र पौराणां भैरवो रवः ।
पादपाश्च विना वातं पतन्त्युन्मूलिता भुवि ।
भास्करश्च१ कबन्धाभो२ युद्धञ्चाप्यत्र दृश्यते ।।३ । ।
सनत्कुमार उवाच
एतान्यन्यानि च तदा निमित्तानि महान्ति च ।
संलक्ष्य राजा दैत्यानामसुरानिदमब्रवीत ।।४।।

१५ सागरको - ख. । १६ सो त्वरन् - ख. । १७ हन्तुकामो - घ. । १८ जगाद (?) । १९ वराहगमनाध्यायः - घ. ।
१ भास्कराश्च - ख. । २ कबन्धान्धो - ख. ।

538
निमित्तान्यभि३ लक्ष्यन्ते महान्त्यसुरपुङ्गवाः ।
नैव तान्यनिमित्तानि दृश्यते च भयं महत् ।।५।।
हृतराज्याश्च देवेशा न ते स्थास्यन्ति निष्क्रियाः ।
नूनन्ते किञ्चिदाश्रित्य कुर्वन्ति समरं प्रति ।।६।।
सनत्कुमार उवाच
तस्य तद्वचनं श्रुत्वा प्रह्लादोसुरसत्तमः ।
प्रणम्य पितरं सम्यगिदं वचनमब्रवीत् ।।७।।
प्रह्लाद उवाच
सुतोहं तव दैत्येन्द्र पिता त्वं मम धर्मतः ।
न तवास्मद्विधैर्बुद्धिराधेया दैत्यसत्तम ।।८।।
तथापि तु वयं प्रीत्या इच्छन्तो राज्यमक्षयम् ।
वक्ष्यामो बालभावेन तन्न५ संस्मर्त्तुमर्हसि ।।९।।
अद्य रात्रौ मया स्वप्ने दृष्टोसौ नररूपवान् ।
वराहरूपं संगत्य भवन्तं निगृहीतवान् ।
न तथा तद्यथा स्याद्धि तथा त्वं सम्यगाचर ।।8.100.१०।।
हिरण्याक्ष उवाच
एवमेतन्न सन्देहो भवान्यद्धर्मतस्तदा६ ।
दृष्टवाँस्तद्यथातत्त्वमेवमेतन्न संशयः ।।११।।
अहमद्य गतः स्वप्ने त्र्यम्बकस्य निवेशने ।
ततः स८ मामिदं प्राह भगवान् गोवृषध्वजः ।।१२।।
एतावद् भवतो दैत्य राज्यमिन्द्रत्वमेव च ।
यच्छेमां९ त्वं प्रियां१० पुत्र सहयक्षाय सुप्रभाम् ।।१३।।
क्षिप्रमेतां प्रयच्छाद्य मुकुटं हारमेव च ।
केयूराङ्गदकं चैव खङ्गं रुचकमेव च ।।१४।।

३ निमित्तान्यपि - ख । ४ तानि - ख । ५ तन्नः - ख. । ६ भगवान्धर्मतस्सदा - ख. । ७ ततः - ख. । ८ नतम्म (म्स?) - ख. । ९ यच्छैनां - ख । १० प्रियं - ख ।

539
कटके शासनञ्चैव दुकूलञ्च तथोतरीम् ।
अनिच्छतो मे११ संगृह्य शक्रस्य प्रददौ तदा ।।१५। ।
ततो मां भगवानाह मत्समीपे त्वया सदा ।
कल्यं१२ प्रभृति वस्तव्यं किन्ते१३ राज्येन दैत्यप ।।१ ६।।
यदेतद्धि मया दृष्टं न तन्मिथ्या१४ भविष्यति ।
सर्वथा नास्ति१५ दैत्यानां मयैकेन भवं त्विह१६ ।।१७।।
सनत्कुमार उवाच
तस्य तद्वचनं श्रुत्वा दैत्याः सर्वे तदाब्रुवन् ।
मिथ्यैतत् स्वप्नगतयो मिथ्या राजन् प्रकीर्तिताः । । १८ ।।
अन्धकः सहितोस्माभिर्योत्स्यते दैवतैः१७ सह ।
योवध्यः सर्वभूतानां बलवानजितश्च ह । ।१९।।
तमाश्रित्य वयं सर्वे योत्स्यामो विज्वराः सुखम् ।
मा युध्यतु भवान्सार्धं सुरैः१८ सुरबलार्दन ।।8.100.२० ।।
त्वयि प्राणाः स्थितास्सर्वे दैत्यानां दानवैस्सह ।
त्वयि जीवति जीवामस्त्वञ्चेन्नासि१९ कुतो२० वयम२१ ।
त्यक्त्वा वाद्य पुरं२२ सर्वे प्रविशाम महोदधिम् ।।२१।।
सनत्कुमार उवाच
तेषां तद्वचनं श्रुत्वा हिरण्याक्षो महासुरः ।
प्रहस्य तानिदं२३ सम्यगुवाच वदतां वरः ।।२२।।
स्रष्टा यः सर्वभूतानां दाता हर्त्ता तथैव च ।
विहितं तेन यत् पूर्वं तत्कुर्यात् कोन्यथा पुनः ।।२३।।
यदि मृत्युरवश्यं मे विहितस्तेन दानवाः ।
अयुध्यमानमासीनमेत्यासौ मा वधिष्यति ।।२४।।


११ ते - ख । १२ काल्यं - ख. । १३ दिव्ये - ख. । १४ नैतन्मिथ्या - ख. १५ स्वस्ति घ.। १६ भवत्विह - घ., भवन्तिह - ख. । १७ देवतैः - ख. । १८ शरैः - ख. । १९ त्वन्नास्ति ख., त्वन्नासीद् - घ. । २० गता - घ. । २१ भयं - ख । २२ वान्यपुरं - ख. (?) । २३ तामिदं ख.।


540
वीक्षध्वं तन्मम स्थानं सर्व एवासुरोत्तमाः ।
यत्र तिष्ठन्तमभ्येत्य न मा मृत्युर्नयिष्यति२४ ।।२५।।
अथवा नैव मृत्युर्मे विहितस्तेन दानवाः ।
युध्यमानं यथा पूर्वं नैव मां स नयिष्यति२५ ।।२६।।
मादृशः कथमेवैतत् कुर्यात् सद्भिर्विगर्हितम् ।
बाले मृत्युं समावेश्य२६ ततश्चात्मान्तरेक्षणम् ।।२७।।
रणे रिपूणां कदनं कृत्वैकश्चाप्यनेकशः ।
पृष्ठं दद्यात् पुनस्तेषां मादृशो दानवेश्वराः ।।२८।।
विप्रचित्तिरुवाच
देवा ह्यनेकशः सर्वे जिता नष्टाश्च सर्वशः ।
पुनश्चायान्ति न यथा२७ तथा सर्वे यतामहे ।।२९।।
हिरण्याक्ष उवाच
अमरं देवता ज्ञात्वा स्वमात्मानं सुदुर्लभम्२८ ।
जीवन्तः सुचिरेणापि भूयो लप्स्यामहे वयम् ।।8.100.३ ० ।।
राज्यमेव विजानन्तो विपलायन्ति२९ नित्यशः ।
अस्माकममरत्वन्तु नैवास्त्यसुरसत्तमाः ।।३१ ।।
नष्टानामप्यतोस्माकं जीविताशा न विद्यते ।
तस्यामसत्यां पश्याम यत् प्राप्तं तद्धि नो वरम् ।।३२।।
मा कृथा नाशने बुद्धिं युद्धे बुद्धिः स्थिता मम ।
सुयुद्धेन३० रणे प्राणा यान्तु मा क्लीबवद्धि नः ।।३३।।
सनत्कुमार उवाच
तेषामेवन्तु वदतां सभायां सुरविद्विषाम् ।
वेगश्वासा३१भिसंरब्धो दानवः प्रत्यदृश्यत ।।३४।।

२४ मृत्युर्मा नहि नेष्यति (?) । २५ स हि नेष्यति (?) । २६ समाविश्य - ख. । २७ तथा - ख. । २८ सुदुर्लभाम् - ख. । २९ पलायन्ते च (?) । ३० तु - ख. । ३१ श्वासवेगा (?) ।

541
सम्यक् सन्त्रासित इव मृगराजेन निर्जने ।
करीव सिंहपादेन गरुडेनेव पन्नगः । । ३ ५। ।
तदा स बद्धमुष्टिश्च दिशः सर्वा विलोकयन् ।
वेगेन निःश्वसन् गत्वा द्वारि द्वाःस्थमभाषत । ।३ ६।।
दानव उवाच
आवेदय सभापाल राज्ञे प्राप्तोनलः स्वयम् ।
सागरारक्षिकः क्षिप्रमकालं शीघ्रमुच्यते ।।३७।।
ततः प्रहस्य तं द्वाःस्थः सभापालोभिभाष्य तम्३२ ।
उवाच मा भीर्भवतु कुतो भीस्ते३३ महासुर ।।३८।।
नेह सिंहोस्ति चोरो वा नान्यः श्वापद इत्यपि ।
न गावः पशवोन्ये वा भयं त्यज समाश्वस । ।३ ९।।
स तथा तेन संप्रोक्तो३४ शान्तश्चासुरसत्तमः३५ ।
क्रुद्धः शब्दं तदा चक्रे महान्तं नादयन् दिशः ।।8.100.४० ।।
 . . . .. . .. . . .. .. . .. . . .. . . .. .।
तेभिगम्य तदा व्यास राजानं दानवेश्वरम् ।
ऊचुरेष किमप्यद्य दृष्टं कथयतेसुरः । ।१ । ।
स राजन्३६ सम्यगाश्वास्य३७ दैत्यमेनं महायशः३८।
दानवानां हितार्थाय पृच्छस्व दितिनन्दन । ।४२। ।
तेषां स राजा विप्रेन्द्र दानवानां महाबलः ।
श्रुत्वा तं दानवं व्यास इदं वचनमब्रवीत् । ।४३ ।।
भयं न शक्नुते दैत्य मत्समीपेभिवर्तितुम् ।
ब्रूहि सर्वं यथादृष्टं समाश्वस्य तथातथम् ।।४४।।
सनत्कुमार उवाच
ततस्स दानवो व्यास राजानं विगतज्वरः ।
प्रणम्य प्राञ्जलिर्वाक्यमिदं सम्यगुवाच ह ।।४५। ।

३२ द्वा स्थं सभापालेति भाषितम - ख. । ३३ भय - ख. । ३४ संप्रोक्तः - ख. । ३५... पुंगबः - घ. । ३६ राजा - ख., तं राजा - ष । ३७ सम्यगाश्वस्य - ख., सम्यगाहूय - घ. । ३८ महायशाः - ख. । ३९. तिवर्तने - ख ।

542
नित्यं जयतु नो राजा दानवानां सुखावहः ।
नश्यन्तु४० विद्विषः सर्वे येस्माकमहितावहाः । ।४६।।
अहं तवाज्ञया सर्वं विचरामि दिने दिने ।
सागरान्तं महाराज पुरुषैस्सह संगतः४१ । ।४७।।
सोद्य पश्याम्यहं तत्र वराहं४२ दैत्यपुङ्गव ।
मेरुशृङ्गप्रतीकाशं ज्वलन्तमिव पावकम् ।।४८।।
तस्य गात्रेषु दृश्यन्ते४३ सूक्ष्मरूपधराः स्थिताः ।
सर्वे सुरा महाराज ऋषयश्च तपोधनाः । ।४९।।
महाबलस्त्वं राजेन्द्र देवानां भयदः सदा ।
त्वत्तोपि सुमहान् भीमस्तादृङ् नैवेह विद्यते । ।8.100.५० ।।
न दृष्टो न श्रुतो वापि वपुषा४४ दैत्यपुङ्गव ।
अहं तेनाहतो दृष्ट्या न्यपतं भूतले भृशम् ।।५१ ।।
स्रस्तहाराम्बरो भीतः कुलिशेनेव४५ ताडितः ।
ये ममानुचराश्चासन् दानवा भीमविक्रमाः । ।५२। ।
ते सर्वे तस्य वेगेन पतिता गतजीविताः ।
स एषोभ्येति राजेन्द्र तवैव नगरं प्रति । ।५३ ।।
चालयन् वसुधां सर्वां क्षोभयन् सागरांस्तथा ।
जलेचराँश्च दैत्येन्द्र जीवितैर्विप्रयोजयन्४६ ।।५४।।
सनत्कुमार उवाच
तस्य तद्वचनं श्रुत्वा प्रह्लादोसुरसत्तमः ।
उवाच दैत्यराजानमिदं वचनमर्थवत्४७ ।।५५ ।।
प्रह्लाद उवाच
यादृशं तद्वराहस्य तस्य रूपं मया श्रुतम् ।
सर्वदेवमयं राजन् वराहोप्राकृतो मतः । ।५६ ।।

४० नाशन्तु - ख. । ४१ सिंहसंगतः - ख. । ४२ वाराहं - ख. । ४३ दृश्यन्ति - ख. । ४४ मधुषा - ख., मयासौ (?) । ४५ कुलिशेनैव - ख. । ४६... र्विप्रयोजयत् - ख. । ४७ कोविदः (?), चोदितः - घ. ।

543
तस्मात्त्वया विधातव्यं यथा नो न स मोहयेत् ।
विनिश्चित्य च दैत्येन्द्र मा चिरं तद्विधीयताम् ।।५७।।
सुव्यक्तं ब्रह्मणा तस्य चक्रलाङ्गलधारिणः ।
सर्वदेवमयं रूपं वाराहमिदमीहितम् ।।५८।।
भवानवध्यस्सर्वेषां देवानां दानवेश्वर४८ ।
अशक्तैस्तैरियं माया सृष्टा वै न तदन्यथा ।।५९।।
सनत्कुमार उवाच
तस्य तद्वचनं श्रुत्वा हिरण्याक्षः प्रतापवान् ।
उवाच दैत्यान्दनुजानिदं वचनमर्थवत्४९ ।।8.100.६०।।
हिरण्याक्ष उवाच
यद्येष५० भ्रातृहन्ता मे इहायाति दुरात्मवान् ।
पूर्णः स्यादद्य सुचिराद्यो मे हृदि मनोरथः ।।६१।।
अद्याहं तं दुरात्मानं भ्रातृहन्तारमाहवे ।
छित्त्वा छित्त्वा करिष्यामि बलिं पशुपतेः शुभम्५१ ।।६२।।
अद्य तस्य विचित्राक्षं शिरः कायात् सकुण्डलम् ।
उत्कृत्य दैत्या दास्यामि रुद्राय परमात्मने ।।६३ ।।
मया नासादितः पूर्वं तस्मिन्युद्धे स केशवः ।
अद्याहं तं समासाद्य नेष्यामि यमसादनम् ।।६४।।
अथ तस्मिन्हते सर्वे निराशा भयविह्वलाः ।
ममैवा५२ कार्यतां गत्वा देवा यास्यन्ति दासताम् ।।६५ ।।
सनत्कुमार उवाच
ततः स दानवाञ्छूरान् दैत्याँश्च सुमहाबलान् ।
उवाच नाम्ना विख्यातान् किङ्करान्नाम दानवान् ।।६६।।

४८ दानवेश्वराः ख.। ४९ प्रह्लादाद्याँस्तथा सर्वानिदं वचनमब्रवीत् इति तु घ पु.पाठः। ५० यद्यस्य - ख., यद्यसौ - घ. । ५१ शुभां - ख. । ५२ ममैव - ख. ।

544
दश तानि सहस्राणि गच्छध्वं तं महाबलाः ।
जानीत कोयमित्येवं ततो यास्याम्यहं स्वयम् । ।६७।।
ते तथोक्ता महामाया हृष्टाः सर्वे विनिर्गताः५३ ।
बद्धगोधांगुलित्राणाः सन्नद्धास्तु पदातयः ।।६८। ।
ते हेमचित्राम्बरहारसूत्रा५४ महाबला दानवदैत्यपुत्राः ।
विनादयन्तो बहुधातिकोपिता यथैव नागाः सविषा विनिर्ययुः ।।६९।।।
इति स्कन्दपुराणे किङ्करादेशनं५५ नाम शततमोध्यायः

५३... भिनिर्गताः - ख. । ५४ हेमचित्रा - ख. । ५५ असुरागमो - घ. ।