सामग्री पर जाएँ

स्कन्दपुराणम्/खण्डः ८ (अम्बिकाखण्डः)/०८

विकिस्रोतः तः
← पूर्ववर्ती पृष्ठः (अध्यायाः ६१ - ७०) स्कन्दपुराणम्
अध्यायाः ७१-८०
वेदव्यासः
आगामी पृष्ठः (अध्यायाः ८१- ९०) →


पूर्ववर्ती पृष्ठः (अध्यायाः ६१ - ७०) | आगामी पृष्ठः (अध्यायाः ८१- ९०)



सनत्कुमार उवाच
शासतस्तस्य दैत्यस्य हिरण्यकशिपोस्तदा ।
अगात्१ कालो महान् व्यास त्रैलोक्यं सचराचरम् ।।१ ।।
दर्पेण महताविष्टः२ श्रीमदोद्वृत्तचेतनः३ ।
अवमेने सुरान्सर्वान् न च धर्ममवैक्षत४ ।।२। ।
स देवान् सहितान् सर्वाञ्छक्राद्यान् क्रोधमूर्च्छितः ।
चालितानपि५ राज्ये स्वे कृच्छ्रमापादयद् भृशम् ।।३ । ।
सन्ताप्यमानास्ते सर्वे ब्रह्माणं शरणं ययुः ।
भगवन् भूतभव्येश पितामह महाद्युते ।।४। ।
हिरण्यकशिपुर्दैत्यस्त्वत्तो लब्धवरोनघ ।
त्रैलोक्यं कृत्स्नमाक्रम्य राज्यं नो हृतवान्दिवः७ । ।५ ।।
अनिशं चावमानन्नः८ प्रयुंक्ते वैरयातनम् ।
तेन विद्रावितास्सर्वे शरणं वयमागताः ।।६। ।
प्रसादं कुरु देवेश स न स्यान्नो यथा रिपुः ।
त्यक्तधर्मा जगच्छत्रुर्हिरण्यकशिपुर्बली । ।७।।
एवं प्रोक्तस्तदा देवैर्देवः कमलवाहनः ।
प्रोवाचेदं महाप्रज्ञ देवानां प्रियकृद्वचः ।।८। ।

५४ वरप्रदाने अध्याय. ६०(७०) - ख. । ५५ ऊनसप्ततितमो - क. ख. ।
१ आगात्। - क. । २ ...ष्ट - क । ३ ...चेतसः - क. । ४ ..मवेक्षते - ख. । ५ चलितानपि - ख. । ६ सन्त्रास्यमानास्ते - क. । ७ दिवि - क. ख. । ८.. मवमानं नः - ख., चार्थमान - क ।

407
क्षीणं तद् दैत्यराजस्य तपस्तस्य दुरात्मनः ।
कृच्छ्रं गमितवान् यो वो राज्यञ्च हृतवान् रिपुः । ।९ । ।
तेनाहं प्रार्थितः पूर्वं सर्वावध्यत्वमुत्तमम् ।
अन्तरं भाषितश्चासौ मया संज्ञाविमोहितः । । 8.71.१० । ।
यदैवान्तरमाहाथ९ दैत्यराजो विचेतनः ।
तदैव१० मनसा तोषमहमागां महाबलाः । ।१ १ ।।
ते यूयमद्य गच्छध्वं विष्णोर्भवनमुत्तमम् ।
तं ब्रूत सहितास्सर्वे तस्य नाशार्थमच्युतम्११ । । १ २।।
नरसिंहवपुः१२ कृत्वा सकृदाहत्य हंस्यति ।
हिरण्यकशिपुं दैत्यं ततो निर्वृतिमेष्यथ ।। १३ । ।
एवमस्त्विति ते सर्वे प्रणिपत्य पितामहम् ।
आजग्मुः सहिता देवा विष्णोर्भवनमादृताः । ।१४।।
अथ दृष्ट्वा महातेजा विष्णुर्देवानुपस्थितान् ।
उवाच श्लक्ष्णया वाचा वचश्चोक्तिमनोहरम्१३ ।।१ ५ । ।
स्वागतं भवतामस्तु किमर्थं यूयमागताः ।
पूज्या भवन्तस्सर्वे मे सुहृदोतिगरीयसः ।।१ ६। ।
यद्वो१४ मनोगतं किञ्चिन्मया कार्यं दिवौकसः ।
क्षिप्रं तद् ब्रूत संक्षिप्तं कर्ताहमविचारितम् ।।१७।।
विष्णुनैवं तदा प्रोक्ता देवाः शक्रपुरोगमाः ।
ऊचुः प्रहृष्टवदनाः संस्तुवन्तो जनार्दनम् । ।१८।।
हिरण्यकशिपोर्देव दैत्यराजो१५ महाबलात् ।
भयं नः सुमहज्जातं राज्यं चापहृतं दिवः१६ । ।१९। ।
अवमानः प्रयुक्तश्च तेनास्मभ्यं सुरोत्तम ।
भुनक्ति स जगत् कृत्स्नं ब्रह्मद्विट् कश्यपात्मजः ।।8.71.२ ० ।।

९ यदेवान्तरमाहाथ - ख. । १० तदेव - ख. । ११ ...मुच्यतां - क., ...मुद्यतं - ख. । १२ नारसिंहं वपुः (?) । १३ ...श्चेतोमनोहरम् - क, .श्चोक्तौ मनोहरम् - ख. । १४ यद्वा - क. । १५ दैत्यराज्ञो - क. । १६ दिवि ५. क. ख. ।

408
स यथा वध्यते दैत्यस्त्वया सर्वारिसूदन ।
तथा कुरु हृषीकेश वरोयं नः प्रदीयताम् ।।२१ ।।
ततो विष्णुश्चिरं ध्यात्वा वधोपायं प्रचिन्त्य च ।
प्राह देवान् सुरश्रेष्ठो वचसाप्याययन्निव । ।२२। ।
एवमस्तु सुरश्रेष्ठाः सर्वं कर्तास्मि वो वचः
महाबलस्य दैत्येन्द्रो यतो युष्मान्वदाम्यहम् । ।२३ । ।
आविशन्तु१७ भवन्तोपि शरीरं मम सुव्रताः ।
सर्वदेवमयो भूत्वा दृप्तं हंस्यामि वो रिपुम्१८ । ।२४।।
ततो देवास्तदा सर्वे विविशुर्वैष्णवीं तनुम् ।
स चापि बलवान् भूत्वा रूपं कृत्वा भयानकम् । ।२५। ।
नारसिंहं महातेजा नखदंष्ट्राविभूषणम्१९ ।
जगाम विलसन् विष्णुर्हिरष्यकशिपोः पुरम् ।।२६।।
उद्यानं स बहिस्तस्य२० सर्वर्तुकुसुमैर्वृतम्२१ ।
नृसिंहो दैत्यसिंहस्य दृष्ट्वा तस्थौ सुविस्मितः ।।२७।।
चम्पकाशोकजातीभिः कदम्बैर्बकुलैरपि२२ ।
तथा सुरभिपुष्पैश्च समन्तादुपशोभितम् । ।२८।।
सरोभिः पद्मसंछन्नैर्हंसचक्राह्वशोभितैः२३ ।
वृक्षैः कामफलैश्चैव वैभ्राजसदृशं वनम्२४ ।।२९।।
तद्बभञ्ज नृसिंहस्तु खेलगामी मदोत्कटः ।
सरांसि क्षोभयामास करीव स मदोल्बणः२५ ।।8.71.३ ० ।।
स रेजे वनमध्यस्थः परिसर्पन्नितस्ततः ।
मेरोरचलराजस्य स्थितं शृङ्गमिवोच्छ्रितम्२६ ।।३ १ ।।
अथाभ्येत्य२७ नृसिंहं तं वनपाला रुषान्विताः ।
बलिनो वारयामासुस्ताँश्चैवाभ्यहनद्२८ बली ।।३२।।

१७ आविशध्वं - क. । १८ रिपून् - क, ऋपून् - ख. । १९ विभीषणम् - क. । २० .. स्तत्र - ख. । २१ सर्वर्तुकुसुमायुतं - क. । २२ कदम्बबकुलैरपि - क. ख. । २३ सेवितैः (?) । २४ घनं - (?) । २५ समदो ललन् - ख. । २६ मिवोत्थितं - ख. । २७ अथागत्य - ख. । २८ चैव व्यहनद् - क. ख.. ।

409
हतशेषास्ततस्तत्र२९ प्रविलीनास्तु३० येसुराः३१ ।
ते गत्वा कथयामासुर्हिरण्यकशिपोस्तदा । । ३३ । ।
तेषां तद्वचनं श्रुत्वा दैत्यराजो महाबलः ।
प्रह्लादञ्चानुह्रादञ्च नमुचिं बाष्कलिं बलिम् । ।३४।
विप्रचित्तिप्रधानाँश्च सर्वानाहूय दानवान् ।
प्रोवाच त्वरितं गत्वा बद्ध्वा सिंहं ममान्तिकम् । ।३ ५।।
समानयत दैत्येन्द्रा न हन्तव्यः कथञ्चन ।
क्रीडनं३२ सिंहपोतोसौ देव्या मम भविष्यति ।। ३६ । ।
इति श्रुत्वासुरास्सर्वे विप्रचित्तिपुरोगमाः ।
उद्यानं सहिता गत्वा नृसिंहं ददृशुः स्थितम् ।।३७।।
दूरस्थाश्चिक्षिपुः पाशाँस्ताँन्स३३ चिच्छेद माधवः ।
अथ विद्रावयामास दानवान् केशरी भृशम् ।।३ ८।।
ततो हतसहायास्ते दैत्या विमनसो ययुः ।
पार्श्वं दानवराजस्य सर्वञ्चाकथयँस्तदा ।।३ ९ ।
अथ क्रुद्धः स्वयं राजा हिरण्यकशिपुर्बली ।
रथमास्थाय सन्नद्धा नृसिंहं प्राद्रवद्रुषा । ।8.71.४० । ।
स रथः सिंहराजेन सायुधः पर्वतोपमः ।
संभ्राम्य पातितस्तूर्णं चूर्णमागान्महीतले ।।४१ । ।
ततो भग्नरथो दैत्यः क्रोधात्संरक्तलोचनः ।
वृक्षमुत्पाट्य वेगेन नृसिंहाय व्यसर्जयत् । ।४२। ।
अथासौ पतितो गात्रे सिंहराजस्य पादपः ।
मृत्खण्ड३४ इव पाषाणे क्षिप्तश्चूर्णं३५ जगाम ह .।।४३ ।।
गृहीत्वा स तदा सिंहो हिरण्यशिपुं सकृत् ।
तलेनाहत्य३६ तं प्राणैर्व्ययोजयत सत्वरम् ।।४४।।
सिंहनादं महत् कृत्वा नखैर्वज्रमयैर्विभुः ।
उरो बिभेद दैत्यस्य महाशैलोपमं हरिः । ।४५।।

२९ ...स्तु ये तत्र - क. । ३० प्रवलीनास्तु - क., प्रप... - ख. । ३१ ...स्तु तेसुराः - क., भये - ख । ३२ क्रीडनः - ख. । ३३ ..स्ताँश्च - क. ख. । ३४ मृदगण्ड - क., मृद्भाण्ड - ख. । ३५ ..ञ्चूर्णं ख ३६ बलेनाहृत्य - क.

410
हते तस्मिन्महादैत्ये विष्णुना शक्तिनन्दन ।
दानवा न हताः३७ ये तु विविशुस्ते रसातलम् । ।४६।।
दिवो राज्यं३८ पुनः शक्रो लेभे निष्कण्टकं महत् ।
दिवौकसश्च सर्वे ते स्वानि राज्यानि भेजिरे ।।४७। ।
अथागत्य ततो देवः शूलपाणिर्वृषध्वजः ।
सुरैर्विज्ञापितो व्यास यत्ते कथितवानहम् ।।४८ ।।
विष्णोस्त्याजयितुं रूपं सैंहमद्भुतकर्मणः ।
शरभस्स तदा भूत्वा हिमवच्छिखरोपमः ।।४९।।
चतुर्भिः पृष्ठजैः पादैस्तीक्ष्णदंष्ट्रो३९ महाबलः ।
नरसिंहसमीपं तु गत्वागर्जत् समाहितः ।।8.71.५० । ।
अथ सिंहस्तदा दृष्ट्वा शरभं समुपस्थितम् ।
क्रोधेन महताविष्टस्तलेनैनमताडयत्४० । ।५१ ।।
स हतस्तेन सिंहेन शरभो नैव चुक्षुभे ।
ततः शरभमाहत्य वज्रदेहं महाबलम४१ । ।५२।।
आत्मनैवागमत् कृच्छ्रं स्पर्शात्तस्य महात्मनः ।
ततो विष्णुश्चिरं ध्यात्वा ज्ञात्वा शङ्करमागतम् ।।५३ ।।
प्रणम्य शिरसा तं वै४२ स्तोतुमेवं४३ प्रचक्रमे ।
नमः शर्वाय रुद्राय सेनान्ये शर्मदाय४४ च ।।५४।।
नमः परमदेवाय ब्रह्मणे परमाय च ।
कालाय यमरूपाय कालदण्डाय वै नमः ।।५५।।
नमः लान्तकर्त्रे च कालेकालहराय च४५ ।
नमः पिनाकहस्ताय रौद्रबाणधराय च ।।५६।।
चण्डाय वामदेवाय सर्वयोगेश्वराय च ।
नमो विद्याधिपतये ब्रह्मणः पतये नमः ।।५७।।

३७ निहता - ख. । ३८ देवराज्यं - क. ख. । ३१ ... रष्ट्रदंष्ट्रो - क. । ४० ...वमताडयत् - क. ख. । ४१ महाबलः - ख. । ४२ तस्मै - क. ख. । ४३ मेनं - क. ख. । ४४ सर्वदाय - ख. । ४५ कालाकालहराय च - ख. ।

411
नमोसुरवरघ्नाय कालचक्राय ते४६ नमः ।
संवर्त्तकाग्निचक्राय४७ प्रलयान्तकराय च ।।५८। ।
नरनारायणेशाय नरनारायणात्मने ।
ममैव वरदात्रे च सर्वकामप्रदाय च ।।५९।।
शरभाय सुरूपाय व्याघ्रचर्मसुवाससे ।
नन्दीश्वरगणेशाय गणानां पतये नमः ।।8.71.६० ।।
इन्द्रियाणामथेशाय मनसस्पतये नमः४८ ।
नमः प्रधानपतये सुराणां पतये नमः ।।६१।।
नमोस्तु भावपतये तत्त्वानां पतये नमः ।
चराचराणां४९ पतये भूतानां पतये नमः ।।६२।।
त्रैलोक्यपतये चैव लोकानां पतये नमः ।
योगदाय नमो मह्यं तथैवैश्वर्यदाय च । ।६३ । ।
अवध्यत्वप्रदात्रे च तथैवाजप्यदाय५० च ।
भगवंस्त्वत्प्रतिष्ठोस्मि त्वन्निष्ठस्त्वत्परायणः ।
शरणं त्वां प्रपन्नोहं प्रसीद मम सर्वदा ।।६४। ।
य इमं शृणुयान्नित्यं शुचिः प्रयतमानसः ।
स रुद्रलोकमासाद्य देवस्य गणपो भवेत् । ।६५।।
धन्यं यशस्यमायुष्यं स्वर्ग्यं पापप्रणाशनम् ।
श्रावणं श्रवणं चास्य तथानुस्मरणं सदा । ।६६।।
सनत्कुमार उवाच
स एवं स्तूयमानस्तु विष्णुना भुवनेश्वरः ।
हृषीकेशमुवाचेदं वचः परमपूजितम् ।।६७।।
तुभ्यं विष्णो मया दत्तः पुण्यो ह्येष वरः शुभः ।
अयोनौ सज्जमानस्य स्वयोनौ प्रतिपादनम् । ।६८। ।

४६ वै - क. ख. । ४७ संवर्त्तकाग्निवक्त्राय - घ. । ४८ मनसां पतये नमः - क. ख. । ४९ चराचरस्य - ख । ५० ...याव्ययाय च - ख. ।

412
स त्वं विष्णुर्महातेजा मत्तो लब्धवरस्सदा ।
वेलायां त्वां५१ समुद्रस्तु तिर्यग्योनिमसूत यः (?) ।। ६९। ।
कृतं कार्यं त्वया सर्वं हिरण्यकशिपुर्हतः ।
एहि गच्छ शुभां योनिमात्मनः परमाद्भुताम् । ।8.71.७० । ।
ततस्तमाक्रमत् पादैः सिंहं शरभसत्तमः ।
अयोजयच्च देहेन पुनर्दिव्येन केशवम् । ।७१ । ।
विष्णवेथ वरं दत्त्वा दैत्यघ्नं स वृषध्वजः ।
प्रकृतिस्थो भवेत्युक्त्वा तत्रैवान्तरधीयत ।।७२।।
दत्वा तस्मै वरमनुपमं विष्णवे लोकधाता
दैत्यघ्नत्वं सुरपुरवधूलोचनैः पीयमानः ।
नीलाम्भोदद्युतिनिभमुरः५२ प्रोद्वहच्छूलपाणि-
र्धाम स्वीयं५३ परममुनिभिर्वन्द्यमानो जगाम । ।७३ ।।
इति स्कन्दपुराणे हिरण्यकशिपूपाख्याने शरभकृतनरसिंहोद्धाराख्यानं नाम एकसप्ततितमो५४ध्यायः

व्यास उवाच
भगवन् सर्वयोगज्ञ श्रुतमाख्यानमुत्तमम् ।
परतः श्रोतुमिच्छामि यद् वृत्तं मुनिसत्तम । ।१ ।।
अपनीय तदा विष्णोः सिंहरूपं वृषध्वजः ।
किमन्यदकरोद्धीमानेतदिच्छामि वेदितुम् । ।२ । ।
सनत्कुमार उवाच
स्वयोनिं विष्णुमानीय देवदेवो भवस्तदा ।
मन्दरे सहितो देव्या विचचार महाद्युतिः ।।३ । ।
रम्यान् स काननोद्देशान् गिरेः प्रस्रवणानि च ।
अलञ्चकार देवेशः परिसर्पन् समन्ततः ।।४।।

५१ त्वं - क. ५२ वपुः - घ. । ५३ स्वाक्यं - क., स्वाद्यं - घ. ५४ सप्ततितमो - क. ।

413
वनप्रेक्षारतं१ देवं ज्ञात्वा शङ्करमव्ययम् ।
शरत्तत्र वसन्तश्च द्वावृतू समुपस्थितौ ।।५। ।
ततो महीरुहाः सर्वे सरांसि च समन्ततः ।
नानाविधानि पुष्पाणि मुमुचुस्सहसा समम् ।।६।।
कमलोत्पलसंछन्नाः षट्पदव्रातसेविताः ।
हंससारससंवासा२ वाप्यस्तत्र मनोहराः ।।७।।
गन्धाढ्या जातयः क्षिप्रं बभूवुः सह चम्पकैः ।
अशोका३ गन्धपुष्पाश्च४ तथा चैवातिमुक्तकाः५ ।।८।।
उपतस्थुः समं देवं सर्वगन्धसुखानिलाः ।
सर्वर्तुकुसुमाकीर्णं दृष्टवा तद्वनमुत्तमम् । ।९।।
पुष्पाण्यादाय देवेशः स्वयमेव जगत्पतिः ।
अलञ्चकार हृष्टात्मा देवीं हिमगिरेः सुताम् ।।8.72.१ ० ।।
नन्दीश्वरञ्च पार्श्वस्थमात्मानञ्च सुरेश्वरः ।
ततः प्रणम्य देवेशं पार्वती प्रणयादिदम् । । ११ ।।
वचः प्रोवाच जननी कृत्स्नस्य जगतोव्यया ।
यथा मे देहजः पुत्रो भविता गोवृषध्वज ।।१ २।।
त्वद्वीर्यस्त्वत्प्रभावश्च सर्वदेवनमस्कृतः ।
तथा कुरु महादेव यदि ते प्रियता मयि । ।१ ३।।
एवमुक्तस्तदा देव्या देवदेवस्त्रिलोचनः ।
प्रोवाचेदं महातेजा देव्याः प्रियचिकीर्षया । ।१४।।
एवं भवतु देवेशे विज्ञप्तिं सफलामिमाम् ।
करिष्यामि तवेशानि पुत्रस्ते स भवेद्यथा । ।१५।।
श्रेष्ठः सर्वसुरेशानां महायोगबलान्वितः ।
कृत्स्नं जगदिदं यस्य वशे स्थास्यति भामिनि । । १ ६।।

१ वनं प्रेक्ष्य रतिं - क., नवप्रेक्षारतिं - ख. । २ हंससारससंवाहा (धा?) - ख । ३ अशोको - क. ख । ४ गन्धपुष्पश्च - क. ख. । ५ .मुक्तकः - क. ख. ।

414
गच्छन्त्या तत् तपः कर्त्तुं वरः पूर्वमपि त्वया ।
प्रार्थितो ह्येष पुत्रार्थं तेनावश्यं ददामि६ ते । । १७।।
एवमुक्त्वा तु तौ देवौ गिरिजाभुवनेश्वरौ ।
नन्दीशेन तदा सार्धं विचरन्तौ जगद्गुरू ।।१८।।
सर्वोद्यानानि पश्यन्तौ विन्ध्यमाजग्मतुर्गिरिम् ।
अथागम्य तु विन्ध्यस्य सौवर्णं शिखरोत्तमम् । । १ ९। ।
दरीकन्दरसंकीर्णं नानानिर्झरसंयुतम् ।
सतडिन्मेघसंघात७ घनीकृतशिलोच्चयम् । ।8.72.२० ।।
नानावृक्षशिलोपेतं नानाकुसुमसंयुतम् ।
नानाखगरवामोदं हेमरत्नोज्ज्वलं शुभम् ।।२१ ।।
मानसं तस्य मध्ये तु पुरं सृष्ट्वा८ महर्द्धिमत् ।
मणिहेममयं दिव्यं देवासुरविमोहनम् ।।२ २ । ।
परमैश्वर्यसंयुक्तौ युतौ विविशतुः पुरम् ।
नन्दिनञ्च ततो देवी समाज्ञापयदव्यया । २३ । ।
वत्स नन्दिन् तथा द्वारे तिष्ठेस्त्वं गणपेश्वर ।
विशेन्नेह वथा कश्चित् सूक्ष्मो वायुरपि स्थितः । ।२४। ।
कृत्वा शिरसि तामाज्ञां नन्दीशो गणपाधिपः ।
अभवद्९ द्वारमूलस्थः१० कृत्वा तेजोतिदुस्सहम् । ।२५।।
योगयुक्तौ तदा देवौ परां मूर्त्तिं समास्थितौ ।
कृत्स्नस्य जगतो योनी पार्वतीभुवनेश्वरौ ।।२ ६ । ।
तस्थतुः सुचिरं कालं तनयार्थं महाद्युती ।
स न शक्यो मया वक्तुं ब्रह्मणा वा महामुने ।।२७। ।
सुयोगो योभवद्११ देव्या देवदेवस्य शूलिनः ।
ब्रह्मणो मद्विधानाञ्च श्रेष्ठोसौ परमेश्वरः । । २८। ।
अवश्यं त्वागमे वाच्यं यथावृत्तं यथाश्रुतम् ।
अतो वक्ष्यामि ते व्यास प्रियः शिष्यश्च मे भवान् ।। २९।।

६ ददानि क.। ७ संघातं क.। ८ दृष्ट्वा ९ भगवद् क.। १० स्थं क.।

415
योगसन्धानमास्थाय तयोरेवं महामुने ।
अतीतं स्थितयोर्दिव्यं सहस्रं शरदामभूत् ।।8.72.३ ० ।।
ततोभवन्निमित्तानि घोराणि त्रासनानि च ।
चचाल पृथिवी कृत्स्ना सशैलवनकानना । ।३ १ । ।
नद्यः शोषं तदा जग्मुश्चुक्षुभे सरितां पतिः ।
तपनो निष्प्रभश्चासीद् ववावुष्णः१२ समीरणः ।।३ २ ।।
पेतुरुल्का महाघोरा दिशश्चासन्सुदारुणाः१३ ।
एवमुत्पातवित्रस्ता शुभहेतोर्वसुन्धरा ।।३ ३ ।।
जगाम शरणं विष्णुं गत्वा चार्त्तिं न्यवेदयत्१४ ।
उत्पाता दारुणा देव बभूवुर्बहवो भृशम् ।।३४।।
तेनातीव समुद्विग्ना त्वामद्य शरणं गता ।
अथ विष्णुः सुरान्सर्वानिदमश्रावयत् प्रभुः । ।३५।।
ततो दिवौकसः सर्वे बृहस्पतिपुरोगमाः ।
एकत्र संगता भूत्वा चक्रुर्बहुविधाः कथाः ।।३ ६।।
महाबुद्धिरथाहेदं वाक्यमङ्गिरसः सुतः ।
श्रीकण्ठो भगवानेष देवदेवस्त्रिलोचनः ।।३७।।
युक्तोभूद्धिमवत्पुत्र्या तनयार्थं महाद्युतिः ।
दिव्यं वर्षसहस्रन्तु योगेन परमेष्ठिनः । ।३८।।
अगाद्युक्तस्य१५ पार्वत्या बभूवुर्दारुणास्ततः ।
उत्पाता जगतस्त्रासाश्चिन्त्यते किमिहापरम् ।।३९।।
गच्छाम सहिताः सर्वे स्तोतुं भक्त्या वृषध्वजम् ।
यथा च देहजः पुत्रो भवेद्१६ देव्याः सुरेश्वराः ।।8.72.४० ।।
विज्ञापयाम देवेशं तथा शीघ्रमिहामराः ।
ततो वैवस्वतः प्राह वचः क्रोधाभिनिःसृतम्१७ ।।४१।।

१२ ववावुष्णं - क. । १३ दिशश्चासंस्तदा (?) । १४ निवेदयत् - क. । १५ आगाद्युक्तस्य - क. । १६ पुत्रोभवद् - क. । १७ क्रोध - क., क्रोधविमिश्रितं (?) ।

416
किमर्थं भृशमुद्विग्ना भवन्तस्सर्व एव हि ।
यद्यसौ देवदेवस्य तनयोस्मासु भक्तिमान् । ।४२ ।।
उत्पत्स्यति न च द्रोग्धा ततः क्षंस्याम तं सुराः ।
अथ चेत्कर्कशोस्मासु द्रोग्धा वा स१८ भविष्यति ।।४३ । ।
तत एनमहं बद्ध्वा कालपाशेन बालकम् ।
.आनेष्ये१९ स्ववशं२० क्रूरं मृत्युना सहितोमराः ।।४४।।
न चेत्पुरन्दरो वज्रं तस्य क्षेप्स्यति मूर्धनि ।
द्विधा येन कृतो मूढः प्राणांस्त्यक्ष्यति दुस्त्यजान् ।।४५। ।
ब्रुवतस्तस्य बह्वेवं क्रोधसंरक्तलोचनः ।
विष्णुः प्रोवाच धर्मात्मा वचांसि परमार्थवित् ।।४६।।
अहो त्वया सुविश्रब्धं प्रोच्यते भास्करात्मज ।
परमार्थमविज्ञाय क्रोधस्य वशवर्तिना । ।४७। ।
तनयः किल यः शम्भोर्गिरिजायां भविष्यति ।
स मूढ इव यः कश्चिद् भविता वशगस्तव । ।४८ ।।
किमसौ मानवोन्यो वा जन्म२१ मृत्युसमन्वितः ।
उत्पत्स्यति रवेः पुत्र येन२२ स्याद्वशगस्तव । ।४९।।
कालेनापरिपूर्णेन मानवस्यापि भानुज ।
न त्वं नाशयिता२३ नाम किमु पुत्रस्य शूलिनः ।।8.72.५० । ।
तेजो भगवतः शम्भोर्यद् भविष्यत्यनुत्तमम् ।
स कथं वध्यतां यायात्२४ तव शक्रस्य वो विभो२५ । ।५१ ।।
ब्रवीमि वो हितं देवाः क्रियते यदि मद्वचः ।
प्रयाम सहितास्सर्वे तं प्रसादयितुं हरम् ।।५२ ।।
यो नः स्वयंवरे दत्तो वरस्तिष्ठति शङ्करे ।
तमेव वरयिष्यामो२६ वरमग्र्यं पिनाकिनम्२७ । ।५३ ।।

१संभविष्यति (?) । १९ नयिष्ये - क. । २० स्वं वशं - क. ख. । २१ जनो - ख. । २२ तेन - क. ख । २३ वाशयिता - क., वशमिता (?) । २४ यातु (याता?) - क. टि. । २५ विभोः - ख. । २६ मृगशि ... (?) - क. । २७ पिनाकिनः - क. ।

417
यथा न२८ देहजो देव्यास्तनयः संभविष्यति ।
नास्माकमहितं शम्भुः पुत्रमुत्पादयिष्यति । ।५४। ।
वयमेव सुतास्सर्वे शङ्करस्याग्रजा२९ विभोः ।
न शक्यस्तपसा द्रष्टुं न ज्ञानेन३० सुरेश्वराः३१ ।।५५।।
भक्त्या परमया द्रष्टुं शक्यः स्यात्स वृषध्वजः ।
आगच्छध्वं गमिष्यामो यत्र तिष्ठति शङ्करः । ।५६। ।
परां भक्तिं समास्थाय यथा पश्येय शङ्करम् ।
हुतभुक् चैव नो देवस्तत्सकाशं३२ प्रवेक्ष्यति ।।५७।।
सर्वेषामेव विज्ञप्त्या३३ सुराणां सुरसत्तमाः३४ ।
इति श्रुत्वा वचस्तस्य विष्णोरमिततेजसः ।।५८।।
बृहस्पतिपुरोगास्ते हृष्टात्मानो दिवौकसः ।
साधुसाध्विति सन्तुष्टा वचांस्यूचुः सुरोत्तमाः ।।५९।।
ततो विष्णुसहायांस्ते गत्वा तच्छृंगमुत्तमम्३५ ।
ऊचुर्हुताशनं देवं वचः स्तुतिपुरस्सरम् । ।8.72.६ ० । ।
त्वमग्ने सर्वदेवानां हितकृत्सर्वतोव्ययः ।
प्रविश्य त्राहि नः सर्वाञ्छङ्कराय निवेदय । ।६१ ।।
तथा कुर्यास्सुरश्रेष्ठ३६ येन निर्गम्य शङ्करः ।
अस्मान्निरीक्षते देवः प्रह्वान् भक्तिमतः स्थितान् ।।६२ । ।
इत्युक्तस्स सुरैस्सर्वैः प्रत्युवाच हुताशनः ।
अकर्तव्यं हि मे देवा न युष्मान्प्रति विद्यते । ।६३ । ।
पार्वत्या सह संयुक्तं देवदेवेश्वरं३७ परम् ।
न मे शक्तिर्हरं द्रष्टुं भवन्तश्चाकुला भृशम् ।।६४।।
युष्मद्वाक्यमलड्घ्यञ्च कृच्छ्रमेतदतीव मे ।
प्रवेक्ष्ये दूतवद्देवाः३८ करिष्ये साहसं महत् ।
इत्युक्त्वा स जगामाशु भवनं३९ तत्कपर्दिनः । । ६५। ।

२८ ते - क । २९ शंकरस्यात्मजा - क । २० ज्ञायेत - ख. । ३१ सुरेश्वर. - ख. । ३२ स्तम्भ. क. । ३३ विज्ञाप्यः - ख. । ३४ सुरसत्तमः - ख. । ३५,.. मुच्छ्रितं - क. । ३६ कुर्यात्सुरश्रेष्ठ - क. ख. । ३७ देवं देवेश्वरं - क. । ३८ सुतवद् देवाः - क. । ३९.. भवनं - क. ।

418
तत्रापश्यत् स्थितं द्वारे नन्दिनं परमौजसम् ।
द्वारमाक्रम्य तिष्ठन्तं दीप्तपट्टिशधारिणम् ।।६६। ।
तं दृष्ट्वा स तदा वह्निः समालोक्य समन्ततः ।
नास्ति कश्चिदिहोपायः सूक्ष्मजन्तोरपि स्थिते ।।६७। ।
प्रवेष्टुमिति सञ्चिन्त्य तमेव शरणं ययौ ।
नन्दिनं हुतभुग् देवस्तुष्टाव च कृताञ्जलिः ।। ६८।।
नमो गणाधिपतये नमश्चण्डाय शूलिने ।
नमस्सेनाधिपतये नमः शर्वात्मने४० सदा ।।६९।।
हालाहलाय रुद्राय नीलरुद्राय वै नमः ।
नमो िि?तिरुद्राय तथैवार्द्रपटाय च ।।8.72.७० । ।
नमस्ते स्वप्नरुद्राय भस्मरुद्राय ते नमः ।
नमः श्मशानरुद्राय कोटीरुद्राय ते नमः । ।७१ ।।
नमः पिङ्गलरुद्राय रुद्राधिपतये नमः ।
नमः प्रमथरुद्राय४१ भूतरुद्राय ते नमः ।।७२।।
विरूपाक्षाय रुद्राय श्वेतरुद्राय ते नमः ।
नमस्ते सततं देव नमस्ते सततं शिव । ।७३ ।।
नमस्ते सततं सौम्य नमस्ते भक्तवत्सल४२ ।
मम भक्तस्य देव त्वं देवानां हितमिच्छतः । ।७४।।
वरदो भव नन्दीश मा नः क्रोधं कृथाः प्रभो ।
ततो नन्दीश्वरः प्राह स्तुवन्तमनलं स्थितम् ।।७५।।
प्रीतस्तवानया वह्ने भक्त्याहं सुरसत्तम ।
ब्रूहि किन्ते प्रियेन्देव करवाणि४३ हुताशन । ।७६।।
अथ प्रोवाच वह्निस्तं वरदं नन्दिनं स्थितम् ।
यदि तुष्टोसि मे देव देयो यदि वरश्च मे ।।७७।।

४० सर्वात्मने - क. । ४१ प्रथमरुद्राय - क. । ४२ भक्तिवत्सल - क. । ४३ करोम्यद्य - क. ख. ।

419
देवकार्येण देवेश प्रवेष्टुं४४ दीयतां मम ।
भवनं देवदेवस्य वर एषोस्तु मे विभो । ७८।।
तं नन्दी प्रत्युवाचेदं कृच्छ्रं देयो वरो ह्ययम् ।
न तं शक्ष्यसि४५ देवेशं द्रष्टुं त्वं योगमास्थितम् ।।७९।।
सह देव्या महेशानं स्रष्टारं जगतोव्ययम् ।
तथाप्येष४६ मया तुभ्यं देय एव वरोनल । ।8.72.८० । ।
गच्छ सूक्ष्मतरो भूत्वा दुरालक्ष्यो हुताशन ।
प्रविश्य निष्क्रम क्षिप्रमविज्ञातागमक्रियः ।।८१ । ।
स नन्दिनाभ्यनुज्ञातो जातवेदा४७ मुदा युतः ।
ज्योतिः सूक्ष्मतरो भूत्वा भास्करस्यांशुना सह ।।८२।।
प्रविश्य भवनं शम्भोर्मणिस्तम्भमथाविशत् ।
वाह्नेय४८मणिमध्यस्थं स्तम्भं तं भासयन्४९ मुहुः ।।८३ ।।
सोपश्यत्तत्र देवेशं देवीञ्च भुवनेश्वरीम् ।
तुष्टाव मनसा५० देवौ ततोसौ हव्यवाहनः ।।८४। ।
तथा संस्तूयमानश्च प्रीतिं देव्याश्च दर्शयन् ।
वीक्ष्य स्तभ्भं हरो देवीं वाक्यमेतदभाषत ।।८५। ।
एष स्तम्भमणिर्देवि भ्राजमान इव प्रिये ।
संस्तौति मां त्वया सार्धं ददान्यस्मै वरं शुभम् ।।८६।।
देव्युवाच
एवं कुरु महादेव भक्तस्यास्य सुरेश्वर ।
स्तुवतस्त्वा मया सार्धं प्रयच्छ वरमुत्तमम् । ।८७।।
देवदेव उवाच
प्रीतोहं मणिमध्यस्थ भक्त्या ते विनयेन च ।
ब्रूहि कार्यं यथेष्टं त्वं तत्सर्वं ते भविष्यति५१ । ।८८।।

४४ प्रवेशो (?) । ४५ शक्तोसि - ख. । ४६ यथाप्येष - क. । ४७ जातवेदो - क. । ४८ वह्नेय - -ख । ४९ भावयत् - क. । ५० वचसा - ख. । ५१ वर एष भविष्यति - ख. ।

420
अग्निरुवाच
देवास्त्वां द्रष्टुमिच्छन्ति बहिःस्था भुवनेश्वर ।
भगवँस्ते यथा सर्वे पश्येयुस्त्वां तथा कुरु ।।८९। ।
देवदेव उवाच
एवमस्तु सुरश्रेष्ठ निर्गत्य त्रिदिवौकसाम् ।
ददामि५२ दर्शनं वह्ने भवतः प्रियकाम्यया । ।8.72.९० । ।
तथेति समनुज्ञातो वह्निस्तस्माद्५३ विनिर्गतः ।
देवेभ्यः कार्यमावेद्य तस्थौ योगं समास्थितः ।।९१। ।
अथ निष्क्रम्य भगवान् देवदेवः पिनाकधृक् ।
जगाम त्वरितं तत्र यत्र देवाः समासते । ।९२।।
अथ दृष्टवा महादेवं देवास्सर्वे वृषध्वजम् ।
प्रणेमुर्मूर्धभिर्हष्टास्तुष्टुवुश्च मुदा युताः । ।९३ ।।
नमस्सहस्रनेत्राय सहस्रचरणाय च ।
महतां पतये नित्यं देवानां पतये नमः । ।९४।।
नमः श्मशानरतये व्याघ्रचर्मसुवाससे ।
ब्रह्मणश्च शिरोहर्त्रे५४ विष्णोर्वै५५ वरदाय च ।।९५। ।
नमो दक्षमखघ्नाय नमस्ते त्र्यम्बकाय च ।
नमो भूताधिपतये प्रधानमथनाय च । ।९६।।
पिनाकपाणये नित्यं सर्वयोगात्मयोगिने ।
नमो नीलशिखण्डाय सपत्नीकाय वै नमः । ।९७।।
नमः कामेष्वसक्ताय कामसक्ताय वै नमः ।
नमस्सर्वाय५६ शर्वाय५७ दण्डिने५८ जटिने नमः ।
नमः सर्वात्मभूताय दिश नो यन्मनोगतम् ।।९८। ।
एवं संस्तूयमानोथ सर्वैरेव सुरोत्तमैः ।
प्रत्युवाच महादेवस्तान्सुरान्प्रणतान् स्थितान् । ।९९। ।

५२ ददानि ख.। ५३ स्तम्भाद् ख.। ५४ नमो ब्रह्मशिरोहर्त्रे (?) ५५ विष्णवे क. ख. ५६ नमश्शर्वाय - ख. । ५७ सर्वाय - ख । ५८ मुण्डने - ख. ।

421
परितुष्टोस्मि भो५९ देवा ब्रूत किं६० प्रददानि वः६१ ।
पुनः प्रणम्य ते देवाः प्राहुर्वचनमुत्तमम् । । 8.72.१०० ।।
यो नस्स्वयंवरे देव वरो दत्तस्त्वया विभो ।
तं प्रार्थयाम सहितास्तन्नो दातुं त्वमर्हसि । ।१ ०१ ।।
देव्या य एष पुत्रार्थं योगस्ते भुवनेश्वर ।
कृतोब्दानि बहूनि स्म तं६२ संहर नमस्तव । ।१ ० २।।
अशुभानि निमित्तानि दृश्यन्ते सुमहाद्युते ।
पृथिवी दुःस्थिता देव वयञ्च भृशमाकुलाः ।।१० ३ ।।
तेनैष न यथा देव्या देहे सञ्जायते सुतः ।
जायेत च यथा देव तथा नः कर्तुमर्हसि । । १ ०४। ।
तेषां तद्वचनं श्रुत्वा देवदेवोब्रवीद्वचः ।
महानेष वरः सर्वैः प्रार्थितः सुरपुङ्गवैः६३ ।। १० ५। ।
तथापि च प्रयच्छामि युष्मत्प्रियचिकीर्षया ।
महान्तं किन्त्विदं कालं तेजस्सन्धारितं६४ मया ।।१ ०६ ।।
अस्य६५ प्रपश्यत६६ स्थानममोघं ह्येतदुत्तमम् ।
अथैवमुक्ता देवेन ते देवा मुनिसत्तम । ।१ ०७।।
बभूवुस्सहितास्तूष्णीं सुरा ब्रह्मपुरोगमाः ।
तेषां मध्ये तदा वह्निः६७ प्रोवाच भुवनेश्वरम् ।। १ ०८। ।
जुहुध्येतत्परन्तेजो मयि देव त्रिलोकप ।
जुहावाग्नौ ततस्तेजस्तदा स्वीयं६८ परं भवः । ।१ ०९। ।
हुत्वा तस्मिन्ततः कृत्स्नं६९ तुष्टोभूत्परमेश्वरः ।
वरं वृणु हुताश त्वमिति प्रोवाच शङ्करः ।।8.72.१ १० ।।
ततो वह्निः प्रणम्येशं वरानभ्यर्थयद्७० विभुम्७१ ।
इच्छेयमेतं७२ पुत्रन्ते मम नाम्ना प्रकीर्तितम् । । १११ । ।

५९ वो - क ख. । ६० तं ब्रूत - ख । । ६१ च - क । ६२ तत् - क ख. । ६३ सुपङ्गवाः - ख. । ६४ ...स्स्वन्धारितं (?) । ६५ अथ - क । ६६ प्रयच्छत - ख. । ६७ तेषामग्निस्तदा मध्ये - .क. । ६८ ..स्तदात्मीयं - क. । ६९ कृत्स्न ततस्तस्मिन - ख । ७० प्रार्थयद् - क ख. । ७१ विभु - क. । ७२ मेनं - ख ।


422
शापस्याहमगम्यः स्यां पश्येयं त्वाञ्च नित्यशः ।
धारयेयं सुखेनैतदुत्सृजेयञ्च शङ्कर ।। १ १२। ।
सर्वभक्षोप्यलेपः७३ स्यां पापन्न च७४ भवेन्मम ।
मयि देवाश्च यज्ञाश्च प्रतिष्ठां यान्तु शूलधृक् ।। ११३।।
अहं भूतेश्वरश्च स्यामहं पशुपतिश्च ह ।
अहं तव तनुः स्याञ्च त्वन्मूर्त्तिस्त्वदुपाश्रयः७५ ।।११४।।
वरमिच्छामि देवेश दीयमानमिमं७६ त्वया ।
एवमस्त्विति तत्सर्वं वह्नये प्रददौ विभुः ।।१ १५। ।
विसृज्य च ततो देवान् देवदेवो वृषध्वजः ।
पुनर्विवेश भवनं देवी चैन७७मभाषत ।। ११ ६। ।
क्व गत्वा त्वमिहायातः क्षिप्रं त्रिभुवनेश्वर ।
किन्तद् गुरुतरं कार्यं येन निर्गतवानसि ।। १ १७। ।
ततः प्रोवाच देवेशः पार्वतीं रुषिताननाम् ।
गतोस्मि त्वरितो देवि देवैर्विज्ञापितः प्रिये ।।१ १८।।
बहिःस्थैः पद्मपत्राक्षि भक्तिमद्भिस्सुदुःखितैः ।
अथोवाच ततो देवी देवं सर्वजगत्पतिम् ।। १ १९।।
कथं त्वमागतान्देव बहिःस्थान् त्रिदिवौकसः ।
ज्ञातवानसि सन्त्रस्तान् केनाख्यातञ्च ते विभो ।।8.72.१२० । ।
देवदेव उवाच
प्रविश्य हुतभुग् देवि मणिस्तम्भं समास्थितः ।
न्यवेदयत्स्तुवन्मह्यं सर्वान्देवान्७८ बहिःस्थितान् ।।१२१।।
तवैवानुज्ञया७९ देवि तस्मै८० दत्तो वरो मया ।
ततो भगवती क्रुद्धा८१ नन्दिनं प्राह८२ पार्वती । । १ २२।।

७३ सर्वभक्षोपलेप्यः - क. । ७८ स्यामापन्न च - ख- । ७५ ...स्त्वदपाश्रयः - क. ख. । ७६ दीयमानमीदं - ख. । ७७ ञ्चैव - क. ख. । ७८ सर्वदेवान् - ख. । ७९ तवैषाज्ञा मया - ख. । ८० यस्मै - क, यस्ते - ख. । ८१ ...भवत्सुसंक्रुद्धा - क. । ८२ प्रति - क. ।

423
कथं प्रविष्ट८३स्ते वह्निर्द्वारस्थस्येह दुर्मते८४ ।
ततस्सास्य भृशं क्रुद्धा श्रवण८५ न्यस्तमुत्पलम् ।।१२३ ।।
गृहीत्वा वज्रसंकाशं नन्दीशाय व्यसर्जयत् ।
द्वादशादित्यसंकाशं प्रज्वलत्तत्तदोत्पलम्८६ । ।१ २४।।
वधार्थं नन्दिनो८७ घोरं प्रससार स्फुटन्निव ।
हतो नन्दीश्वर इति प्रोच्योत्थाय च शङ्करः८८ । ।१२५।।
भद्रं भवोत्पलक्षिप्रमित्युक्त्वा गृह्णदुत्पलम् ।
अथोमापि ततो देवी प्रत्यापत्तिञ्जगाम ह ।।१२६।।
अहो बत महत्कष्टं कृतं क्रोधवशान्मया ।
कथञ्चिन्न हतो८९ नन्दी महागणपनायकः ।।१२७।।
तद् गृहीत्वा ततो हस्ताद् देवस्य श्रवणोत्पलम् ।
चिक्षेप त्वरितं देवी भद्रं भवतु ते सरः । ।१ २८।।
एवमुक्त्वा ततः क्षिप्तं९० देव्या तच्छ्रवणोत्पलम् ।
विन्ध्यपृष्ठे सरस्तत्र बहुपद्मोत्पलं बभौ ।। १२९।।
हंससारससंकीर्णं चक्रवाकोपशोभितम् ।
नाम्ना भद्रोत्पलमिति हेमशृङ्गसमीपतः९१ ।।8.72.१३० ।।
तत्र स्नात्वा नरः९२ क्षिप्रं सर्वपापैः प्रमुच्यते ।
तत्राक्षयं सदा दानं पितृतर्पणमेव च ।।१३ १ ।।
मृतश्चात्र नरो याति नन्दीश्वरसलोकताम् ।
ततो देवं९३ पुनर्देवी वाक्यमाह गिरेः सुता ।।१३२।।
किमूचुस्त्वां सुरा देव कीदृशं चार्चयन् वरम् ।
कथयामास देवेशस्ततो देव्यै बृषध्वजः ।।१३३।।
देवैर्विज्ञापितो देवि निर्गतोहं वरानने ।
देव्या य एष पुत्रार्थं योगस्ते भुवनेश्वर ।।१ ३४।।

८३ प्रतिष्टवान् - क. । ८४ स्य सुदुर्मतेः - ख । ८५ श्रवणे - ख. । ८६ ज्वलन्तन्तन्तदोत्पलम् - क. ख । ८७ नन्दिने - क. । ८८ प्रोवाच्योत्थाय शङ्करः - क., प्रोत्थाय च स शङ्करः - -ख. । ८९ कदाचिन्नि हतो? - ख. । ९० क्षिप्रं - क. । ९१ हैमशृङ्गसमीपतः - ख । ९२ स्नातो - ख. । ९३ देव - ख। - -

424
अशुभान्यत्र दृश्यन्ते दारुणानि सहस्रशः ।
सन्त्रस्ता पृथिवी कृत्स्ना वयञ्च भृशमाकुलाः । ।१ ३५ ।।
तेनैष न यथा देव्या गर्भे सञ्जायते सुतः ।
भवेच्च तनयः श्लाघ्यो वर एष प्रदीयताम् ।। १३ ६। ।
ततोग्नौ तदद्भुतं तेजो मया पुत्रार्थमीश्वरि ।
सुतस्ते भविता श्रीमान् षट्शिरा द्वादशेक्षणः । । १ ३७।।
तस्य तद्वचनं श्रुत्वा शशाप गिरिजामरान् ।
यस्मान्मम सुतो देहे नेप्सितं तैर्दुरात्मभिः ।
स्वासु पत्नीषु तस्मात्ते न प्राप्स्यन्ति सुराः सुतम् ।।१ ३८। ।
पृथिवी चापि संमूढा मच्छापोपहतेन्द्रिया ।
बहून्पतीन्समासाद्य न पुत्रं प्राप्स्यते क्वचित् । ।१ ३९ । ।
सनत्कुमार उवाच९४
विरराम ततो देवी शप्त्वा देवान्सवासवान् ।
कैटभा नाम नाम्ना च पुण्या नैकवरप्रदा । ।8.72.१४० ।।
विन्ध्यस्य शिखरे हैमे तत्राभूद् गरिजा शुभा ।
पुण्यमायतनं तद्धि शिलाञ्च रमणाह्वयाम् । ।१४१ । ।
योभिगच्छेन्नरो व्यास मृतस्स गणपो भवेत् ।
अथाजग्मुः सुरास्सर्वे सार्धं तत्र हविर्भुजा । । १४२। ।
विवर्णाः कश्मलोपेताः सगर्भा लज्जयान्विताः ।
तान्द्वाःस्थानागतान्नन्दी शङ्कराय न्यवेदयत् । ।१४३ ।।
प्रविश्य समनुज्ञाता देवमूचुर्दिवौकसः ।
तेजो न शक्नुमः सोढुमिदं त्रिभुवनेश्वर ।। १४४।।
त्राहि नः सुरलोकेश यथा स्याम गतज्वराः ।
अन्धकश्चासुरोत्यर्थं तप्यते दुश्चरं तपः ।
भयञ्च नस्ततो देव दृश्यते सुमहद्विभो ।।१४५ ।।

९४ वाक्यमेतद् 'विररामे' त्यादिपरवर्तिपद्यार्धानन्तरं पठितं क पुस्तके ।

425
देवदेव उवाच
मा भीर्भवतु वो देवा हनिष्याम्यहमन्धकम्९५ ।
युष्मदर्थे पराक्रान्तं हिरण्याक्षसुतं वरम् ।।१४६। ।
यूयञ्च मेरुमध्यस्थं वनं यात सुविस्तृतम् ।
नाम्ना शरवणं९६ नाम पुण्यं द्वादशयोजनम् । । १४७।।
युष्माकं तत्र संभिद्य९७ कुक्षीन्दैवतपुङ्गवाः ।
मदीयं तत्परं तेजो निर्गमिष्यति दीप्तिमत् । । १४८।।
सुवर्णत्वं९८ च यास्यन्ति कुक्षयो वः सुरोत्तमाः ।
ततस्ते तद्वचः श्रुत्वा प्रणम्य शिरसा भवम् ।।१४९ । ।
श्रीमन्तं मेरुमाजग्मुः शरधानं च तच्छुभम् ।
यत्र तेषां तदा भित्त्वा कुक्षीन्तेजो निरक्रमीत्९९ ।।8.72.१ ५० ।।
युगान्तानलसंकाशं दुर्निरीक्ष्यं सुरासुरैः१०० ।
मेरुश्चैवाभवत् क्षिप्रं श्रीमानति मनोहरः ।।१ ५१ ।।
सर्वं हिरण्मयं चक्रे तेजो माहेश्वरं परम् ।
वाति गन्धवहो१०१ दिव्यस्सर्वर्तुकुसुमावहः । । १ ५२। ।
तेषाञ्च कुक्षिभेदास्ते सुवर्णत्वं परं ययुः ।
स्वर्गे दुन्दुभयो दिव्या नेदुः स्वयमनाहताः । । १५३ । ।
पुष्पाणां वृष्टयः पेतुस्सुगन्धीनामनेकशः१०२।
नमस्कारैश्च भूतानामदृश्यानामभूत्स्वनः ।। १ ५४। ।
एवमादीनि पश्यन्तः शृण्वन्तश्च सुरोत्तमाः ।
गत्वा पिनाकिने हृष्टास्सर्वमावेद्य सुव्रत१०३ ।
प्रेषिताः स्थाणुना जग्मुः स्वाँल्लोकान् हृषिताननाः । ।१५५।।

९५ हंस्ये तमहमन्धकम् - क. । ९६ शरवन - क. । ९७ संमित्त्वा - क. । ९८ सपर्णत्वं - क. । ९९ तेजोभिश्च व्यतिक्रमं (न) - क । १०० सुरैरपि - क ख. । १०१ गन्धर्वरो - क. । १०२ सुगन्धाना- मनेकशः - क. । १०३ सुव्रताः - क ।

426
श्रुत्वा देवैरभिहितमिदं प्रीतियुक्तैर्वचोग्र्यं
प्रीता देवी हृदयमहिता पुत्रजन्मप्रवृत्तिम् ।
ज्ञात्वा तस्थौ विबुधवरदा योगमाता विधात्री
तुष्टिञ्चागाद्धृदि सुरशिरःस्पृष्टपादारविन्दा ।।१ ५६।।
इति स्कन्दपुराणे स्कन्दजन्मप्रवृत्तिर्नाम द्विसप्ततितमो१०४ध्यायः
व्यास उवाच
अन्धकः कस्य पुत्रोसौ किं वीर्यः किं पराक्रमः ।
कथञ्च निहतः संख्ये सर्वमेतद्वदस्व मे ।। १ ।।
सनत्कुमार उवाच
शृणु व्यास महाबुद्धे सर्वमेतद्यथाभवत् ।
अन्धकस्य पुरावृत्तं सर्वं वक्ष्यामि ते द्विज ।।२ ।।
कश्यपस्य सुतौ दित्यां दैत्यौ तौ संबभूवतुः ।
हिरण्यकशिपुर्ज्येष्ठो हिरण्याक्षस्ततोनुजः । ।३।।
ज्येष्ठस्तत्राभवद्राजा हिरण्यकशिपुस्तदा ।
तस्मिन्विनिहते वीरे नरसिंहेन धीमता ।।४। ।
हिरण्याक्षोभवद्राजा सर्वदैत्यनमस्कृतः ।
अपुत्रः स तपस्तेपे पुत्रहेतोरिति श्रुतिः ।।५।।
स शंकुकर्णं संप्राप्य सिन्धुसागरसङ्गमे ।
तपस्तेपे दितेः पुत्रो देवं द्रष्टुं पिनाकिनम् । ।६।।
व्यास उवाच
कथं तदभवद्दिव्यं पवित्रं लोकविश्रुतम् ।
शंकुकर्णं महेशस्य क्षेत्रं सर्वार्थसाधकम् ।
यत्फलं पुण्यसंपच्च तन्मे व्याख्यातुमर्हसि । ।७।।

१०४ एकसप्ततितमो क.।

427
सनत्कुमार उवाच
पुरा हि भगवान्देवः कपर्दी नीललोहितः१ ।
सिन्धुसागरमागम्य लोकानुग्रहहेतवे ।।८।।
तपःकर्तुं समारेभे यदचिन्त्यं सुरासुरैः२ ।
दशस्वपि ततो दिक्षु रक्षणार्थं जगत्पतिः । ।९ । ।
स्थापयामास गणपान् निकुम्भादीन्सहस्रशः ।
शकुकर्णं महादंष्ट्रं स्थूलाक्षं स्थूलनासिकम् ।। 8.73.१० । ।
ह्रस्वपादकरं चैव दारितास्यं विभीषणम् ।
शार्दूलचर्मसंछन्नं द्वीपिचर्मोत्तरच्छदम् । ।१ १ । ।
शंकुकर्णमिति ख्यातं गणेशं सुमहाबलम् ।
समाहूय समीपन्तु भगवानिदमब्रवीत् ।। १ २।।
स्वैस्त्वं गणेश्वरैस्सार्धं न विशेयुर्यथा सुराः।
तथा पाहि वनं वत्स यावदेतद् व्रतं मम । ।१ ३ ।।
एवं स कृत्वा रक्षां तु महादेवो वृषध्वजः ।
तपस्तेपे महत्तत्र घोरं परमदुश्चरम् ।। १४। ।
अथाजग्मुस्सुरास्तत्र सर्वे शक्रपुरोगमाः ।
निरुद्धाः शकुकर्णेन न चेलुः पदमग्रतः । । १५ । ।
देवा ऊचुः
भो गणेशा वयं देवं शर्वमुग्रं कपर्दिनम् ।
द्रष्टुं कार्येण संप्राप्तास्तन्नो दर्शयतानघाः४ ।
आकुलास्तमपश्यन्तो नश्याम५ प्रमथेश्वराः६ । ।१ ६ । ।
शंकुकर्ण उवाच
न युष्माभिः सुराः शक्यो देवो द्रष्टुं कथञ्चन ।
तपः कुरुत भद्र वस्ततो द्रक्ष्यथ शङ्करम् ।। १७।।

१ नीललोचनः - ख. । २ सुरैरपि - क. । ३ कृत्वा स - ख. । ४ दर्शय ( दंशय?) मानघाः - क. । ५ न स्याम (? ), पश्याम - ख. । ६ प्रमथेश्वरं - क, । ७ शक्यं - क. ।

428
देवा ऊचुः
मा लोकानां विनाशः स्याद् गणेश्वर महाद्युते ।
इति प्रयच्छ नो द्वारं प्रसादं कुरु नः प्रभो८ । । १८।।
शंकुकर्ण उवाच
लोका नश्यन्तु यूयं वा न प्रवेशः प्रदीयते ।
विनष्टान्९ पुनरेवेशः स्रक्ष्यते भुवनेश्वरः । । १ ९। ।
स्रष्टा स एव भूतानां स विनाशयिता तथा ।
तं विना कः सुराः शक्तो लोकान्नाशयितुं विभुम् । ।8.73.२० ।।
यच्छाम न वयं द्वारमाज्ञा नः पारमेश्वरी ।
त एवमुक्ताः१० संचिन्त्य जग्मुर्ब्रह्मसदः सुराः ।।२१ । ।
ततो निवेदयामासुर्ब्रह्मणस्ते सुरोत्तमाः ।
अथ ब्रह्मा सुरानाह मया सह पुनः सुराः । ।२२ । ।
गच्छध्वं गणपान् यावत् प्रत्यापत्तिं नयामि वः११ ।
ततस्ते ब्रह्मणा सार्धं विष्णुना च दिवौकसः ।।२३ ।।
तमेव पुनराजग्मुस्तिष्ठते यत्र शङ्करः ।
अथ तान्पुनरेवासौ१२ रुरोध गणपेश्वरः । ।२४। ।
शंकुकर्णो गणाध्यक्षस्तेजसा प्रज्वलन्निव ।
अथ ब्रह्मा तमाहेदं सान्त्वमर्थयुतं वचः ।। २५।।
गणेश्वर न देवानां दौष्ट्यं किञ्चिद्धि विद्यते ।
तव प्रसादात्पश्यन्तु देवा देवं१३ वृषध्वजम् । ।२६। ।
शिरसा प्रणातास्तुभ्यं देवाश्चेन्द्रपुरोगमाः१४ ।
अहं च विष्णुना सार्धं प्रयाचेम गणेश्वर१५ ।।२७।।
तस्य तद्वचनं श्रुत्वा ब्रह्मणः स गणेश्वरः ।
क्रुद्धः पट्टिशमुद्यम्य वचः प्रोवाच निष्ठुरम् । ।२८।।

८ तत्प्रसाद कुरु प्रभो - ख. । ९ विनष्टे - क. । १० एवमुक्तस्तु - क । ११ च - क. । १२ पुनरेवाशु - क. ख. । १३ देवदेवं - क ख । १८. सेन्द्रपुरोगमाः - क ख. । १५ गणपेश्वरः - ख. ।

429
न मे गुरुतरो देवाः प्रणामो भवतां न्वयम् ।
आज्ञा गरीयसी शम्भोर्न प्रवेशोस्ति कश्चन ।।२९ । ।
प्रतिषिद्धान्१६ कथं ब्रह्मन्नियुक्ता रक्षणाय च ।
ईशाज्ञां समतिक्रम्य प्रयच्छाम प्रवेशनम् ।।8.73.३ ० । ।
तस्य तद्वचनं श्रुत्वा गणेशस्य महात्मनः ।
एकान्तं प्रययौ ब्रह्मा लज्जया परयान्वितः ।।३ १ ।।
देवाः सर्वे ततो१७ दृष्ट्वा व्रीडायुक्तं पितामहम् ।
क्रुद्धा मन्युपरीताङ्गा वाक्यमूचुर्गणेश्वरम् । । ३२ ।।
गणाधिप न ते लज्जा गुरुमाक्रोशसे कथम् ।
नैवं१८ त्वां विब्रुवन्तं हि शंस्यते वृषभध्वजः ।।३ ३ । ।
अवमानं पुनर्मैवं१९ त्वमस्माकं कृथा गण ।
माद्य ते वयमुद्युक्ता नाशयिष्याम जीवितम् । ।३४। ।
तेषां तद्वचनं श्रुत्वा शंकुकर्णो रुषान्वितः ।
वचः२० प्रोवाच संक्रुद्धस्तिर्यग् वीक्ष्य दिवौकसः ।।३ ५ । ।
गुरवः किं भवन्तो मे२१ येन शङ्केमराधिपाः ।
प्रसाद्य शङ्करं यूयं गता देवत्वमुत्तमम् । ।३ ६ ।।
गणभूताः सुरेशस्य यूयमप्यमरोत्तमाः ।
वयमप्यतियोगीशा गणपास्तस्य शूलिनः ।। ३७। ।
समाना यूयमस्माकं हीना वा त्रिदिवौकसः ।
यस्माद्वयं सुरेशानं पश्यामोनुचराम च ।।३८। ।
सर्वैरेव सुरैस्तस्माद्वयं पूज्याः सदाधिकाः ।
पश्यामो निर्भया यूयं प्रवेशं कुरुतामराः ।।३९। ।
यावदद्य गणेशानां बलं द्रक्ष्यथ दारुणम् ।
यद्वो बलं च योगश्च२२ यत्तपो यश्च वः श्रमः ।।8.73.४० ।।

१६ प्रतिषिद्धं (?), .. द्धा - क । १७ ततो देवास्तथा - ख. । १८ नैव - क. । १९ अपमानं पुनश्चैव - ख. । २० तदा - ख । २१ भवन्त्येते - ख. २२ योगश्च - क. ख. ।

430
तत्सर्वं दर्शयध्वं वै ततो द्रक्ष्यथ२३ मे बलम् ।
तस्य तद्वचनं श्रुत्वा सर्वे देवाः सुगर्विताः । ।४१ ।।
प्रगृहीतायुधाः क्षिप्रं शंकुकर्णं विदुद्रुवुः ।
तेषामापततां व्यास सुराणां शूरमानिनाम् ।।४२।।
बलं जग्राह योगेन शंकुकर्णो महाबलः ।
निगृहीतबलास्ते तु सर्व एव सुरोत्तमाः ।।४३ ।।
नाशक्नुवन् पदं दातुं तस्थुः स्तम्भा इवाचलाः ।
निगृहीतेषु देवेषु विष्णुः प्रहरतां वरः ।।४४। ।
अभिदुद्राव वेगेन शंकुकर्णं गणेश्वरम् ।
स योगेन तदा विष्णोर्देहमस्तम्भयद्बली ।।४५।।
स योगं पुनरास्थाय विष्णुरैश्वर्यसंयुतः ।
युयुधे शंकुकर्णेन स चैनं प्रत्ययुध्यत । ।४६ । ।
तयोस्तु योगेश्वरयो२४ र्युक्तयोर्मुनिसत्तम ।
बभूव सुमहद् युद्धं२५ योगेनैव परस्परम् ।।४७।।
विनिगृह्य स तं विष्णुं गणेशः शर्ववल्लभः ।
पितरं मम योगेन युयोध परमाद्भुतः२६ । ।४८। ।
स२७ सूक्ष्मं योगमास्थाय ब्रह्मा२८ भूतान्यथाविशत् ।
यद्यद्विशत्यसौ भूतं ब्रह्मा लोकपितामहः ।।४९ । ।
तत्र तत्र स्थितं२९ ह्यग्रे शकुकर्णमवैक्षत ।
स भूतानि समुत्सृज्य तन्मात्राण्याविशत् प्रभुः । ।8.73.५० । ।
इन्द्रियाण्यथ तत्त्वानि भावाँश्चैव पितामहः ।
तत्र तत्र स योगात्मा योगं परममास्थितम् ।।५१ । ।
अपश्यत् स्थूलशिरसं शकुकर्णं महाबलम् ।
अथास्मिन्नन्तरे व्यास देवदेवस्य शूलिनः । ।५२। ।

२३ ज्ञास्थथ - ख. । २४ योगीश्वरयो - क. ख. । २५ दुद्रुवुश्च मुहुस्तत्त्वं - ख- । २६ परमाद्भुतं - ख । २७ सु - क. ख. । २८ महा - ख. । २९ तत्रास्थितं - ख. ।

431
दिव्यं वर्षसहस्रं तु प्रययौ द्वादशात्मकम् ।
समाप्तं चाभवद् व्यास व्रतं तस्य महात्मनः । ।५३।।
स समाप्ते३० व्रते तस्मिन् युगान्ताग्निसमद्युतिः३१ ।
अवैक्षत दिशः सर्वा जीवयन्निव३२ शङ्करः ।।५४।।
सोपश्यन्निगृहीताँस्तान्३३ सर्वानेव दिवौकसः ।
साम्नैव स तदा देवः शकुकर्णं न्यवारयत्३४ ।।५५।।
सम्यगाज्ञा कृता वत्स त्वया मे गणपेश्वर ।
मुञ्च देवानिमान्सर्वान् मावमंस्था गणेश्वर । ।५६ ।।
एवं देवेन संप्रोक्तः३५ शंकुकर्णो गणाधिपः ।
विमुच्य देवताः सर्वास्तस्थो३६ देवसमीपतः ।।५७।।
सुरा अपि तदा सर्वे व्रीडया परया युताः३७ ।
प्रणेमुर्देवदेवेशं भक्त्या परमया विभुम्३८ ।।५८। ।
तांस्तदा३९ व्रीडितान्देवः प्रहस्य विदितात्मवान् ।
उवाच ब्रह्मणा सार्धं विष्णुमाभाष्य सुस्वरम्४० ।।५९। ।
गणेश्वरोयं देवेशा मच्छासनपरस्सदा ।
यदनेन कृतं किञ्चिद् व्येतु तद्वः सुरोत्तमाः ।
कर्तव्यं यच्च तद् ब्रूत यदर्थं यूयमागताः ।।8.73.६० ।।
ब्रह्मोवाच
शंकुकर्णो ह्ययं श्रीमान गणेशो येन नो बलम् ।
हतं योगेन देवेश वरोस्मै संप्रदीयताम् ।
अस्मभ्यं परतो दद्यास्सदा४१ दर्शनमात्मनः ।।६१ ।।
देवदेव उवाच
अस्यैवेदं भवेन्नाम्ना पवित्रं लोकविश्रुतम् ।
शंकुकर्णमिति ख्यातं तथा स्थूलेश्वरं४२ शुभम् ।।६२।।

३० समाप्ते च - ख. । ३१ समप्रभः - ख । ३२ क्षीवयन्निव - ख. । ३३ ..तास्त्रान् - ख. । ३४ निवारयत् - क. । ३५ स प्रोक्तः - क । ३६ देवतान् सर्वान्तस्थौ - क ख. । ३७ परयान्विता? - ख। ३८ परमयान्विताः - ख. । ३९ ताँस्तथा - (?) । ४० सर्वशः - ख. । ४१ ... त्सदा - क., शर्वः - ख । ४२ शूलेश्वरम् - क. ।

432
समन्ताद्योजनमितं४३ सर्वतीर्थसमन्वितम् ।
सर्वयज्ञफलैर्जुष्टं सर्वदानफलैर्युतम् । ।६३ । ।
योत्रागत्य४४ चरुं कृत्वा मां यत्नेनार्चयिष्यति ।
अहोरात्रोपवासेन मम लोकं स४५ यास्यति । ।६४। ।
यत्किञ्चिन्नियमं कृत्वा योत्र संवत्सरं वसेत् ।
स योगं परमं प्राप्य शंकुकर्णसमो भवेत् । ।६५।।
यश्च प्राणानिह क्षेत्रे त्यजेन्नियममास्थितः ।
स देहभेदमासाद्य महागणपतिर्भवेत् । ।६६। ।
पितॄणामक्षयं श्राद्धमिह दत्तं भविष्यति ।
इयं चैश्वर्यसंपन्नास्तपोयोगबलान्विताः । ।६७ ।।
नित्यं द्रक्ष्यथ मां देवाः प्रयात विगतज्वराः ।
ततो देवो वरं दत्त्वा देवेभ्यः प्रभुरीश्वरः ।।६८। ।
प्रकामं दर्शनं नित्यं तत्रैवान्तरधीयत ।
गते तस्मिन्महादेवे ब्रह्मा सुरवरैर्वृतः ।। ६९। ।
तत्र लिङ्गं प्रतिष्ठाप्य चक्रे तीर्थान्यनेकशः ।
दशाश्वमेधिकं तीर्थं४६ पुण्यं४७ पञ्चाश्वमेधिकम् ।।8.73.७० । ।
सुराणां चैव तीर्थानि कृत्वा स्वभवनं ययौ ।
एतत्ते कथितं व्यास सिन्धुसागरसङ्गमे । ।७१ ।।
परं भगवतः स्थानं पवित्रं लोकविश्रुतम् ।
सिद्धचारणसंकीर्णमप्सरोगणसेवितम् ।।७२ ।।
बहुपुष्पफलोपेतं सदा विहगनादितम् ।
तस्मिन् गत्वा वने व्यास हिरण्याक्षः प्रतापवान् । ।७३ ।।
पुत्रहेतोस्तपस्तेपे ध्यायमानस्त्रिलोचनम् ।
अथ देवस्तदा गत्वा सगणो वृषभध्वजः४८ । ।७४। ।

४३ योजनमिदं - क. ख. । ४४ योभ्यागत्य - क., योभ्यासया - ख । ४५ च - ख. । ४६ पुण्यं - क. । ४७ तीर्थं - क. ख. । ४८ सगणेशो वृषध्वजः - ख. ।

433
रम्यं हिमगिरेः शृंगं मैनाकमिति४९ विश्रुतम् ।
तस्थौ परमयोगीशः परं ब्रह्म सनातनम् ।।७५।।
तस्यागत्य तदा देवी संस्थिता पृष्ठतः शनैः ।
कराभ्यां पद्मतुल्याभ्यां नेत्रे शम्भोर्न्यमीलयत् ।।७६ ।।
जानीते नेति संचिन्त्य क्रीडार्थं हिमवत्सुता ।
अथ तस्मिन् क्षणे व्यास जगदन्धमजायत ।।७७।।
अप्रदृश्यं हि तमसा तथाभूतं पुरा यथा ।
अथ देवस्तदा बुद्ध्वा तृतीयं नेत्रमव्ययम् । ।७८। ।
ललाटेसृजदूर्ध्वस्थं युगान्ताग्निसमप्रभम् ।
तेजसा तस्य नेत्रस्य स गिरिर्भस्मसादभूत्५० । ।७९ ।।
पार्वती पितरं दृष्ट्वा तथा दग्धं पिनाकिना ।
अपनीय करौ तस्थौ५१ विषण्णा पतिपार्श्वतः । ।8.73.८० ।।
अथ देवस्तदा दृष्ट्वा विषण्णवदनामुमाम् ।
सौम्येन चक्षुषापश्यच्छैलं तं५२ पुनरेव तु । ।८ १ ।।
स तथा५३ दृष्टमात्रस्तु पुनः पौराणिकोभवत् ।
प्रकृतिस्थं पुनर्दृष्ट्वा देवी पितरमव्ययम् ।
प्रणम्योवाच भर्तारं हृषितास्या५४ गिरीन्द्रजा । ।८२ ।।
शैल एष त्वया देव किमर्थं भस्मसात् कृतः ।
किमर्थं प्रकृतिस्थश्च पुनरेव कृतः प्रभो ।।८३ ।।
तस्यास्तद्वचनं श्रुत्वा प्रोवाच परमेश्वरः ।
लोचने मे त्वया देवि यस्मिन्काले निमीलिते । ।८४।।
अन्धास्समभवँल्लोकास्तदा सर्वे तमोवृताः ।
प्रकाशार्थं ततो देवि नेत्रमेतन्मया कृतम्५५ ।।८५। ।
ललाटे सुमहद्येन दग्धोयमचलोत्तमः ।
त्वाञ्च दीनां पितृवधादुपलक्ष्य ततः शुभे । ।८६ ।।

४९ इति (?) । ५० भस्मसाद्भवत् - क. ख. । ५१ तस्मिन - ख. । ५२ शैलमपश्यत् - ख । ५३ अथवा ( अथासौ?) - ख. । ५४ सा - ख । ५५ नेत्रमुन्मीलयावृतं - ख. ।

434
प्रियार्थं तव सुश्रोणि प्रकृतिस्थः पुनः कृतः ।
अस्मिंश्च तमसा ग्रस्ते लोके तीव्रेण सर्वतः ।।८७। ।
उत्पन्नोन्धः प्रभावेण मम देवि तथैव च ।
तप्यमानाय दास्यामि हिरण्याक्षाय तं सुतम् ।।८८ ।।
एवमुक्त्वा स भगवान् प्रगृह्यान्धं गणैर्वृतः ।
सिन्धुसागरमागम्य हिरण्याक्षमुवाच ह ।।८९।।
पश्य मां त्वं दितेः पुत्र चक्षुर्दिव्यं ददामि५६ ते ।
शर्वोहमागतो दैत्य वरं ब्रूहि यथेप्सितम् । ।8.73.९० । ।
स प्रोत्थाय५७ हिरण्याक्षः प्रणम्य शिरसा भवम् ।
वरं संप्रार्थयद्५८ देवं पुत्रं दत्त्वेति सत्वरम् ।।९१ ।।
तमुवाच सुरश्रेष्ठः शिरसा५९ पादयोर्नतम् ।
अयन्ते सुरशार्दूल पुत्रः६० पुत्रशताग्रजः६१ ।।९२। ।
मावज्ञामन्ध६२ इत्यस्य कुर्यास्त्वमसुराधिप ।
भविता ते महानेष तपोवीर्थबलान्वितः ।।९३ । ।
न कस्यचित्वयं६३ वध्यो मत्तोन्यस्य भविष्यति ।
ततः स भगवान्देवस्तस्मै दत्त्वा सुतं शुभम् ।।९४।।
जगाम शिखरं रम्यं मैनाकं पुनरेव तु६४ ।
आदायान्धं सुतं सोपि हिरण्याक्षो महासुरः ।।९५।।
स्वमश्मकपुरं६५ यात्वा भार्यामाह मनस्विनीम्६६ ।
अयं तुभ्यं सुतो देवि दत्तो भगवता स्वयम् । ।९६।।
संवर्द्धयैनं योगेन मा प्रमादं कृथाः क्वचित् ।
तस्याः स्नेहेन तं दृष्टवा स्तनाभ्यां प्रस्नुतं६७ पयः ।।९७।।
संवर्ध्यमानः६८ कालेन सोन्धकः समवर्द्धत ।
यदा६९ तु यौवनं प्राप्तस्तदैवं७० समचिन्तयत् ।।९८। ।

५६ ददानि - क ख । ५७ चोत्थाय - ख । ५८ वरमप्रार्थयद् - क. ख. । ५९ चिरया(मा?) । - ख. । ६० पुत्रं - क ख. । ६१ पुत्रशताग्रज - क,.. जः - ख. । ६२ अन्ध - क. । ६३ दयं - ख. । ६४ च - ख. । ६५ स्वकीयं पुन (र) - ख., स्वयमन्तःपुरं - (?) । ६६ यशस्विनीम् - क. । ६७ प्रस्नुतं - क ख. । ६८ संवर्द्धमानः - ख. । ६९ यथा - व । ७० ...स्तुदैव - क. ख. ।

435
धिग् जीवितं ममान्धस्य मृत्युरेव वरो मम ।
योहमन्धो न पश्यामि गृह७१ संबन्धिबान्धवान् । ।९९।।
धन्यास्ते पुरुषा लोके ये स्वयं यान्त्यविक्लवाः ।
दृष्ट्वा दृष्टवा मुखं बन्धूनाभाष्य हि७२ यथासुखम् ।।8.73.१ ०० । ।
कार्यं भवेच्च लोष्टेन तृणेनाथ शवेन७३ वा ।
न मयानुगृहीतेन धिङ्मामशुभकारिणम् । ।१ ०१ । ।
सुतस्नेहादयं दैत्यः सदा मां रक्षते पिता ।
हन्तव्यं न विहन्त्येष कोषक्षयकरं हि माम् ।।१ ०२ ।।
नायं स्नेहेन संमूढो जानातीमां मम व्यथाम् ।
अहमेव करिष्यामि यत्कार्यं बुद्धिमत्तमैः७४ ।। १०३ । ।
तपो महत्समास्थाय चक्षुष्मान् भविता ह्यहम् ।
स एवं परिनिश्चिन्त्य७५ बहुधान्धः सुबुद्धिमान् ।।१ ०४।।
आमन्त्र्य सहितं७६ मात्रा पितरं तं प्रणम्य च ।
जगाम तपसे७७ धीमान् संकल्प्य कृतनिश्चयः । । १ ०५।।
पित्रा शोकपरिप्लुतेक्षणमुखेनायासखिन्नात्मना
मात्रा चासकृदश्रुपातमुखया संवीक्ष्यमाणश्चिरम् ।
तत्तीव्राधृतिखेददृष्टिविरह७८ प्रक्ष्वेडितोन्धः श्वसन्७९
ध्यायन्देवमुमापतिं स८० तपसे यातो गृहादन्धकः ।। १०६ ।।
इति स्कन्दपुराणे अन्धकोपाख्याने तपःप्रयाणं८१ नाम त्रिसप्ततितमो८२ध्यायः

सनत्कुमार उवाच
अथ गत्वा स विप्रेन्द्र हिरण्याक्षसुतस्तदा ।
गङ्गाद्वारं शुभद्वारं तपोवनमनुत्तमम् ।।१ ।।

७१ गृहे - क. । ७२ मुखं हि बन्धूनां भाषन्ते - ख, मुखंस्वबन्धूनामाभाषन्ते (?), सुखं हि बन्धूनां - क । ७३ शरेण (?) । ७४ -..सत्तमैः - क. ख. । ७५ परिनिश्चित्य - (?) । ७६ सहितो - ख.। ७७ तपसो - क. ख. । ७८ दृष्टिखेदविरहं - क. । ७९ प्रक्षोधितोन्तः श्वसनः - ख., प्रख्यापितान्तः, स्मयन् - घ. । ८० ध्यायन्पादमुमापतेः - क. टि., ..मुमापतेस्स - क. । ८१ अन्धकतपः प्रयाणे - ख. । ८२ द्विसप्ततितमो - क. ।

436
दिव्यं कनखलं नाम यत्र हैरण्वती नदी ।
वृक्षाः कनखला यत्र सर्व एव हि काञ्चनाः ।।२।।
यत्र दक्षः पुरा यज्ञमयजद् दैवतैस्सह१ ।
महादेवेन यत्रास्य यज्ञो विनिहतः पुरा । । ३ । ।
तत्रासौ देवमभ्यर्च्य स्नातः प्रयतमानसः ।
नमस्कृत्वा दैवतेभ्य इदं वचनमब्रवीत् । ।४। ।
अन्धक उवाच
येस्मिन् तपोवने देवा भूतानि विविधानि च ।
सर्वांस्ताञ्छरणं यामि तपःसिद्धिं दिशन्तु मे२ ।।५।।
अद्यप्रभृति कर्त्तास्मि तप३ उग्रं सुदुश्चरम् ।
वरान् येनाप्नुयामिष्टान्मृत्युं वा प्राणनाशनम । ।६।।
सनत्कुमार उवाच
स एवमुक्त्वा तु ततः पाराशर्य महाबलः ।
संवत्सरं वायुभक्षो बभूव क्लमवर्जितः ।।७। ।
तथा त्रिषवण४ स्नायी जुह्वानोग्नीँस्तथैव च५ ।
देवार्चनरतश्चैव जपहोमपरस्तथा६ ।।८। ।
वर्षे वर्षे तु७ संपूर्णे स्वाङ्गादुत्कृत्य कार्षिकम्८ ।
पिशितस्य तदा भागं जुहावाग्नौ महासुरः९ ।।९। ।
एवं तस्यागमद्दिव्यं सहस्रं मुनिसत्तम ।
जुह्वतः स्वानि मांसानि वर्षाणां प्रत्यहं तदा । । 8.74.१० ।।
सोसुरः शंखहाराम्बुसुधाकुन्देन्दुपाण्डरः ।
बभूवास्थिसिराशेषः केवलं१० तपसि स्थितः । ।१ १ । ।
स तेन तपसा युक्तो भास्करं निष्प्रभं तदा ११ ।
सोमं च ग्रहताराभिस्सह चक्रे मितात्मवान् ।। १ २। ।

१ देवतैस्सह क. ख. । २ माम् - ख. । ३. .स्मिन्तप - क- । ४ त्रिषवणं - क. । ५ जुह्वानोग्निं तथैव च - क. ख । ६ जप्यहोमपरस्तथा - क ख. । ७ वर्षेथ - ख. । ८ कायिकम् - क. । ९ महासुतः - ख. । १० केवले - ख. । ११ तथा - ख. ।

437
स एव भास्करो यद्वत् प्रकाशयति तेजसा ।
अशोषयत् पल्वलानि नदीकूपसरांसि च ।। १३ ।।
पवनं स्तम्भयामास सोन्धकस्तपसा तदा१२ ।
व्योम्नि सिद्धा न गच्छन्ति विमानानि च पेतिरे१३ । ।१४।।
तस्य तत्तपसो रूपं दृष्टवा विघ्नशतान्युत ।
अकरोत् सहसा शक्रो विक्रियां न च सोन्वगात् ।।१५।।
ततो ब्रह्मा तमभ्येत्य१४ प्रोवाचान्धकदानवम् ।
महासुर तपो घोरं त्वया तप्तं महाबल ।
तुष्टोस्मि ते१५ महाबाहो चक्षुष्मान्भव सुव्रत । ।१६।।
शरीरं प्रकृतिं यातु यथापूर्वञ्च तेसुर ।
ब्रूहि चान्यं वरं भूयो यस्ते मनसि संस्थितः ।। १७।।
सनत्कुमार उवाच
स चक्षुष्माँस्तदा१६ भूत्वा शरीरेणाक्षतेन च ।
उवाच प्रणतः साक्षाद्१७ ब्रह्माणं लोकभावनम् । । १८।।
अन्धक उवाच
भगवन् यदि तुष्टोसि यदि मे चरितं तपः ।
अप्रतिद्वन्द्वतां१८ संख्ये दैवतेभ्यः पितामह ।।१ ९। ।
महाबलत्वं मायाश्च१९ तथा चामरतामपि ।
एतदिच्छामि देवेश यदि त्वं वरदो मम । ।8.74.२० ।।
सनत्कुमार उवाच
तस्य तद् वचनं श्रुत्वा प्रहस्य भगवान् विभुः ।
हिरण्याक्षसुतं प्राह पुनरेव वचः शुभम् ।।२१ ।।
अमरत्वं न दैत्यस्य ददामि२० दितिनन्दन ।
सान्तरं तु भवेत्तत्ते स्वयमेवोत्तरं वद ।।२ २ । ।

१२ स्तपसस्तथा - ख. । १३ पेदिरे - ख. । १४ ब्रह्माणमभ्येत्य - ख. । १५ तुष्टोस्मिन्ते - क. । १६ चक्षुष्माँस्तु तदा - ख. । १७ सार्धं (सोन्धः?) - ख. । १८ अप्रतिद्वन्द्वता - ख. । ११ च - ख । २० ददानि - क., ददाति ख. ।

438
अन्धक उवाच
या स्त्री स्याल्लोकमाता वै प्रणमेयं न तां यदि ।
तदा स्यान्मम मृत्युस्तु मृत्युहीनोन्यथा२१ ह्यहम् ।।२३ ।।
ब्रह्मोवाच
एवमेतद् भवतु ते त्वया प्रोक्तं यदद्य वै२२ ।
अन्धको भव नाम्ना त्वं लोके ख्यातिं च यास्यसि ।।२४। ।
सनत्कुमार उवाच
एवमुक्त्वा स भगवानन्धकं देवकण्टकम्२३ ।
जगाम स्वं तदावासं विररामान्धकश्च सः । ।२५ । ।
स गङ्गाम्भोभिराप्लुत्य देवमिष्ट्वा यथाविधि ।
अग्निं हुत्वा ततो धीमाननुमान्य तपोवनम् ।
सहायैत्सह दैत्येन्द्रो जगाम२४ पितुरन्तिकम् ।।२६।।
स हृष्टचेतास्तपसा२५ महाबलो विवृद्धकामः सुरशत्रुतोषणः ।
पितुस्सकाशं पुनरेव दीप्तिमानगच्छदुद्धूतबलाहकोपमः ।।२७।।
इति स्कन्दपुराणे अन्धकवरलाभो नाम२६ चतुःसप्ततितमो२७ध्यायः

सनत्कुमार उवाच
सोष्टाभिर्दानवैस्सार्धं गत्वा तत्पुरमन्तिके ।
निवेदयामास पितुः कृतार्थोन्धक आगतः ।। १ ।।
प्रियाख्यातुस्ततो१ व्यास हिरण्याक्षोसुरेश्वरः२ ।
ददौ रत्नान्यनेकानि तथा कामानभीप्सितान् ।।२। ।
स्वयं राजा तदा३ सर्वैः सुहृद्भिः सहवाहनैः ।
सह स्त्रीभिर्ययौ तूर्णं सोमस्तारागणैरिव ।। ३ । ।

२१ यथा - क. । २२ यदन्धक - ख. । २३ लोककण्टकम् - ख । २४ दैत्येन्द्रैर्जगाम - ख. । २५ प्रहृष्टचेतास्तपया - ख., ...सं - ख. । २६ प्रदानो नाम - ख., प्रदान नाम - घ. । २७ त्रिसप्तति- तमो - क. ।
१ प्रियाख्यातुं ततो - ख । २ महासुरः - ख. । ३ ततः - ख. ।

439

 स गत्वा नातिदूरेथ वने साशोकचम्पके ।
आससाद सुतं श्रीमान्४ सोमो बुधमिवापरम् । ।४। ।
कृतार्थं स सुतं५ दृष्ट्वा तुष्टोभूद्दानवेश्वरः ।
स्नेहात्स तं६ परिष्वज्य मूर्ध्न्युपाघ्राय चासकृत् ।।५ । ।
कथं केन च कालेन के च लब्धा वरास्त्वया७ ।
पृष्टः स कथयामास यथावृत्तमशेषतः । ।६। ।
तस्य तद्वरदानञ्च तथा माहात्म्यमेव च ।
श्रुत्वा तेसुरशार्दूलाः८ प्रणेदुः सागरा इव ।।७। ।
सनत्कुमार उवाच
ततस्तं रथमारोप्य९ हिरण्याक्षोन्धकं सुतम् ।
सुहृद्भिस्तैः सहैवाशु प्रविवेश स्वकं पुरम् ।।८।।
स पुत्रसहितो भाति दैत्यः संपूर्णमानसः ।
चरन् राशिमिवादित्यो यथा सह शनैश्चरः । ।९। ।
सनत्कुमार उवाच
ततः प्रविश्य दैत्येन्द्रः सुहृद्वर्गमुवाच सः१० ।
अध्वर्युरिव११ सान्नाय्ये१२ यथान्यानृत्विजः स्थितान्१३ ।। 8.75.१० ।।
हिरण्याक्ष उवाच
शृणुध्वं यदिदानीं मे कृत्यं हृदि चिरस्थितम् ।
कर्तव्यं सह सर्वैस्तु युष्माभिर्भीमविक्रमैः ।।१ १ । ।
मया मनीषितं पूर्व कृतकृत्य इहागते ।
अन्धके नगरेस्मिन्वै कर्ताहं कौमुदीमिति ।।१२।।
मखघ्नस्य च देवस्य देवरात्रिं महाप्रभाम्१४ ।
करिष्यामीति तत्सर्वं क्रियतामविशंकया ।। १ ३।।

४ धीमान् - ख. । ५ तु तं - क ख । ६. त्सुतं (?) ७ इति (?) । ८... सुरपशार्दूलाः(?)- ख. । ९ रथमारोह्य - ख. । १० ह - क. । ११ अध्वयुःसह - ख । १२ सायाह्ने - क, सामाह्नेः ख. । १३ शुभान् - क. ख. । १४ प्रभोः - ख. ।

440
घुष्यतां नगरे ह्यस्मिंश्चत्वरेषु सभासु च ।
कौमुदीदिवसानष्टौ१५ सप्त चैव ममाज्ञया । । १४।।
तावदेव च देवस्य सन्तु मे देवरात्रयः ।
सुहृदो ये च दैत्येन्द्रा दानवाश्च महाबलाः । ।१ ५। ।
सर्वासु दिक्षु तेपीह समायान्तु रमन्तु च ।
अस्मत्पक्षे च ये विप्राः शुक्रप्रभृतयः शुभाः । । १ ६।।
नागा रक्षांसि यक्षाश्च गन्धर्वा मनुजास्तथा ।
तेपि सर्वे समायान्तु रमन्तु च मया१६ सह ।।१७। ।
सनत्कुमार उवाच
त एवमुक्ता दैत्येन्द्रा हिरण्याक्षेण धीमता ।
तथा चक्रुस्तदा सर्वं१७ यथोक्तममरद्विषा । । १८।।
दूतान् संप्रैषयन्१८ क्षिप्रं दैत्यानां दानवैस्सह ।
तथान्येषां च पक्षाणामात्मनः शक्तिनन्दन । । १ ९। ।
निमन्त्रयति वो राजा हिरण्याक्षो महाबलः ।
सुहृद्वर्गैस्तु१९ सहिता गच्छध्वं तं दिदृक्षवः ।।8.75.२ ० ।।
घण्टिक२०श्चाहतैर्वस्त्रैर्वेष्टितः सुविभूषितः ।
आरूढः पाण्डरं मत्तं गजं समवघोषयत् । ।२ १ ।।
राजा जयति दैत्येन्द्रो हिरण्याक्षः प्रतापवान् ।
हता दैत्यद्विषः सर्वे दानवानाञ्च शत्रवः । । २२ ।।
जयाय दितिपुत्राणामादित्यानां भयाय२१ च ।
प्रातःप्रभृति राजा व आज्ञापयति कौमुदीम् ।।२३।।
देव२२रात्रिं च२३ देवस्य रुद्रस्य सुरनाशनीम्२४ ।
सुसंमृष्टोपलिप्ताभी रथ्याभिः क्रियतां पुरम्२५ ।।२४।।

१५ दिवसे चाष्टौ - ख. । १६ हा - क । १७ सर्वे - ख. । १८ दूतानप्रेषयन् - क. ख । १९ .. श्च - ख । २० घण्ठिक ख । २१ जयाय -क । २२ दीप (?) । २२ ... रात्रीश्च - ख. । २४ सुरनाशनीः - ख । २५ परां - क. ।

441
वासोभिरहतैः सर्वे भवन्तु२६ पुरवासिनः ।
स्रग्विणः सशिरःस्नाता दत्तभुक्ता२७ यथाक्रमम् ।। २५। ।
गायन्तु गायनाश्चैव नृत्यन्तु नटनर्तकाः ।
उच्छ्रियन्तां पताकाश्च गृहवीथ्यापणेषु च । । २६ । ।
गृहाणि चोपलिप्तानि नित्यमेव भवन्तु च२८ ।
पुष्पप्रकरजुष्टानि२९ धूपैर्नानाविधैरपि । ।२७। ।
स्रग्दामवन्ति सर्वाणि वनमालाकुलानि च ।
ब्राह्मणाश्चैव३० भोज्यन्तां क्रियन्तां वाचानि३१ च । ।२८।।
ब्रह्मघोषाश्च सर्वत्र पुण्याहोदीरणानि च ।
दीपरात्रौ च सर्वत्र राजमार्गे गृहेषु च३२ । । २९।।
अनन्तराः३३ क्रियन्तां वै प्रचुरस्नेहवर्त्तयः ।
तरुणाः सह योषिद्भिस्समन्तात्पर्यटन्तु३४ च ।।8.75.३ ० । ।
रममाणा हसन्तश्च गायन्तो नृत्तसेविनः ।
भाण्डवाद्यानि वाद्यन्तां नृत्यन्तां दैत्ययोषितः । ।३ १ ।।
महादेवस्य पूजां च३५ गन्धपुष्पादिकीं शुभाम् ।
उपहाराँश्च विविधान् स्नपनानि३६ महान्ति च । ।३ २। ।
वलयः पुष्कला३७ श्चैव भक्ष्यभोज्यैरलंकृताः ।
दीपांश्च विविधाकारान् पानानि च रसाँस्तथा३८ ।।३३ ।।
फलानि च विचित्राणि मांसपक्वमनूपकम् ।
सुवर्णमणिचित्राणि ईश्वराय प्रयच्छत ।।३४। ।
बद्ध्यन्तां पशवश्चात्र भोज्यन्तां द्विजसत्तमाः ।
यो न कुर्यादिदं सर्वं पुरवासी जनः३९ क्वचित् ।
पातयेत्तस्य शारीरं राजा दण्डं४० महायशाः४१ । ।३ ५ ।।

२६ सर्वैर्भवन्तु - क. । २७ दत्तपक्ता - क., दन्तपंक्त्या - ख, दत्तपक्षा (भक्षा?) - घ । २८ वः - क. । २९ पुष्पप्रकारैर्जुष्टानि - ख । ३०. श्चापि - ख. । ३१ वाचकानि - ख. । ३२ गृहेगृहे - ख. । ३३ अनुत्तराः - क. । ३४ रमत्ताः पर्यटन्तु - ख. । ३५ पूजाश्च - क ख । ३६ स्नापनानि - ख । ३७ पुष्कलाः - ख. । ३८ सरसानि च - ख. । ३९ नर. - क. ख. । ४० राजदण्डं - ख । ४१ महायसः - ख.

442
सनत्कुमार उवाच
एवं स४२ घोषयित्वा तु घाण्टिको हस्तिपृष्ठतः४३ ।
जगाम स्वगृहं भूयः कौमुदी चाभ्यवर्तत४४ ।। ३ ६। ।
यथोक्तं तत्तदा सर्वमकुर्वत पुरे जनाः ।
राजापि संयतः स्नातः शुचिः प्रयतमानसः ।। ३७।।
दिवसे दिवसे व्यास स्नपयामास४५ यत्नवान् ।
पञ्चगव्येन शुद्धेन तैलेन च सुगन्धिना ।। ३८ ।।
क्षीरेण सर्पिषा दध्ना रसैश्च बहुभिः शुभैः ।
पुष्पैः फलैश्च बीजैश्च रत्नैश्चाद्भिः समन्वितैः४६ । ।३९।।
भस्मना गन्धयुक्तेन उदकेन सुगन्धिना ।
एकैकस्य स्वयं राजा घटानां४७ दशभिः शतैः ।।8.75.४० ।।
दिवसे दिवसे व्यास त्र्यम्बकं सोभ्यसेचयत् ।
गन्धैः पुष्पैश्च धूपैश्च जप्यैर्बलिभिरेव च ।।४१ । ।
पूजयित्वा ततो राजा विप्रानन्यानभोजयत्४८ ।
स कृत्वा पशुभिर्मेध्यै रत्नैर्मणिभिरेव च ।।४२ ।।
बलिशय्यासनाद्यैश्च स्तूयमानो गृहान्ययौ ।
तथैवान्येपि दैत्येद्राः सोन्धकश्च महाबलः । ।४३ ।।
चक्रुः सर्वे मुनिश्रेष्ठ यथा राजा तथैव ते४९ ।
अन्धकं५० स गृहीत्वा तु५१ हिरण्याक्षः प्रतापवान् । ।४४।।
पद्भ्यामपातयद् व्यास रुद्रस्येदमुदाहरन् ।
एष देवः५२ सदा पुत्र तवास्तु सुमुखः प्रभुः ।।४५।।
अस्मिन् भक्तिस्त्वया कार्या भाविता परमेश्वरे ।
एष वन्द्यश्च पूज्यश्च अतो नास्ति परो गुरुः ।
पूजयेथाः सदैवैनं भक्तितः परमेश्वरम् ।।४६।।

४२ सं - ख. । ४३ हस्तिपृष्ठगः - ख. घ । ४४ चास्य - क., चाप्यवर्तत - घ. । ४५ स्नापयामास - क । ४६ रत्नैश्चापि समन्ततः - ख । ४७ घंटानां - क. । ४८. नन्याँश्च भोजयत् - क. । ४९ च - ख. । ५० अन्ध - क. । ५१ सुगृहीतं तु - ख. । ५२ देव - क ख. ।

443
सनत्कुमार उवाच
स एवमुक्त्वा प्रणिपत्य शंकरं महासुरः सोसुरदानवेश्वरः ।
जगाम धीमान् पुनरेव निर्वृतो५३ निवेशनं देवपतिर्यथा स्वकम् । ।४७।।
इति स्कन्दपुराणे कौमुदीमहोत्सवो नाम५४ पंचसप्ततितमो५५ध्यायः

सनत्कुमार उवाच
अथ तस्यां सह स्त्रीभिः कौमुद्यां दैत्यदानवाः ।
रेमिरे रक्तमनसो देवाः स्वर्गगता इव ।। १ । ।
तत्र काचिच्छुभापाङ्गी पद्मं दिव्यं मुखोपरि ।
मुखारविन्दत्राणार्थं ददौ सोमभयादिव ।।२। ।
अपरा चरणेनैत्य१ प्रियं मत्ताभ्यताडयत् ।
शीतांशुरिव पादेन विकचं शरदम्बुजम्२ ।।३ ।।
अपरा राजमार्गाणामनभिज्ञाः कुलस्त्रियः ।
स्फाटिकोपचितां भूमिं दृष्टवा मुञ्चन्ति पादुकाम् ।।४। ।
उत्कृष्य वसनं चान्या३ विप्रेन्द्र जलशङ्कया ।
राजमार्गेषु गच्छन्ति दृष्ट्वा मणिचितां भुवम् । ५। ।
काचित् प्रियेण सन्त्यक्ता रक्तेनान्येन निर्गता ।
गृहाच्चन्द्रांशुभिः स्पृष्टा पपात मदनालसा ।।६।।
पतितैव४ च सा सोममुवाचेदं कुलाङ्गना ।
भूयो मां त्वं करैस्तीक्ष्णैर्दहसे नलिनीमिव ।।७।।
सूर्येण किल दग्धानि जीवयस्यौषधानि(?) ह ।
मदनेन कथं दग्धां न जीवयसि मां दृढम् ।।८। ।

५३ निर्वृतिं - ख. । ५४ पुरप्रवेशो नाम - घ- । ५५ चतुःसप्ततितमो - क. ।
१ नेत्य - क. ख. । २ शरदविकचाम्बुजं - ख. ३ मान्या - क. । ४ पतिता - ख ।

444
काश्चिद्५ रमण्यो दोलासु दोलयन्त्यो परस्त्रियः ।
जलचन्द्र इवाभान्ति वीचिचञ्चलमूर्त्तयः । । ९ । ।
केचिद् गायन्ति सहिताः स्त्रीभिर्दैत्या महाबलाः ।
गन्धर्वा नन्दनवने अप्सरोभिर्यथा सह ।। 8.76.१० ।।
राजमार्गः क्वचिद् भाति स्त्रीभिर्बह्वीभिरावृतः ।
यथा नभसि चित्रोसौ दिव्यो देवपथः शुभः ।।१ १ ।।
क्वचिन्नूपुरकाञ्चीना कोकिलानाञ्च६ निस्वनः ।
बभौ श्रोत्रसुखः श्रोतुः७ कलामदनदीपनः । । १ २। ।
क्वचिद्रमणरक्तानां स्त्रीणां व्यास प्रियैः सह ।
हृदयव्याकुलकरः श्रूयते मधुरः स्वरः८ । । १३ । ।
एवं समभवद् व्यास बहुचित्रः स उत्सवः९ ।
दानवानां तदा प्रीतिसौख्यविश्रम्भवर्द्धनः । । १४।।
तस्मिन्नुपरये भूयः पूर्ववत्संप्रतिष्ठिते ।
प्रकृतिस्ते जने व्यास दानवास्ते समागताः । । १ ५। ।
विविशुर्भीमसंह्रादाः सभां दिव्यां मनोरमाम् ।
जाम्बूनदमयस्तम्भां वज्रवैदूर्यवेदिकाम् । । १६ । ।
मुक्तादामावलम्बाढ्यां१० स्रग्दामोत्तमभूषिताम् ।
वज्रवैदूर्यनीलेन्द्रमहानीलाम्रपल्लवैः । । १७। ।
लोहितैः स्फाटिकैश्चैव तथा मरकतैरपि ।
दिव्यजालोपसन्नद्धां११ किङ्किणीचित्रशोभिताम्१२ ।। १८।।
बहुपुष्पफलैश्चैव सर्वकामप्रदैर्द्रुमैः ।
उपेतां दीर्घिकाभिश्च बहुशय्यासनां शुभाम् । ।१ ९। ।
अक्लमा बहुनिष्यन्दां१३ सर्वदुःखविवर्जिताम् ।
सर्वकामसमृद्धां च बहुस्त्रीपुरुषाकुलाम् ।। 8.76.२० । ।

५ काचिद् - क. । ६ नूपुराणां च-- ख। ७ श्रोतुं - क ख । ८ स्वनः - ख. । ९. स्तदोत्सवः क। १० विलम्बान्तां - ख । ११ दीव्यज्जालोपसन्नद्धां (?), दिव्यलाजो. - ख, दिव्यचित्री (?) १२. -जालशोभिताम् - (?) । १३ निस्पन्नां - घ,

445
विविशुस्तां सभां दिव्यां दैत्या दर्पसमावृताः ।
प्रह्रादश्चानुह्रादश्च सिनिर्वाष्कल एव१४ च । ।२१ । ।
विरोचनो बलिश्चैव बलिपुत्राश्च विश्रुताः ।
सहस्राणि दश द्वे च येषां श्रेष्ठो महाबलः ।।२२ ।।
बाणो नाम महामायो राजा बाहुसहस्रधृक् ।
बाणस्य पुत्रा ये चान्ये सहस्राणि दशैव ते ।।२३ । ।
मुरो धमुषुमण्डश्च (?) विप्रचित्तिश्च दानवः ।
कालो हयशिराश्चैव सम्बरः कालसम्बरः । ।२४।।
विश्रुतश्चेन्द्रदमनः कालनेमी च दानवः ।
तथा सुन्दनिसुन्दौ च विपाकः पाक एव च ।।२५।।
राहुश्च शतकेतुश्च ध्वजस्तारः सतारकः ।
महिषो दुन्दुभिश्चैव कालकश्च महाबलः । ।२६।।
अन्धकश्च तथाटिश्च बकः शरभ एव च ।
स्वर्भानुर्वृषपर्वा च मधुः कैटभ एव च ।।२७। ।
महाकायः शतानन्दः शतदुन्दुभिरेव च ।
कार्त्तस्वनश्च हस्ती च बलो नरक एव च ।।२८ ।।
ध्वाङ्क्षो मूकेल्वलौ चापि वातापी सासृपुञ्जिकः? ।
कण्डलश्चैव मीढश्च दुर्लोमा चैव विश्रुतः ।।२९। ।
धुन्धुश्च शतमायश्च शतावर्तोथ दुस्सहः ।
चन्द्रसूर्यौ नरश्चैव देवान्तकनरान्तकौ ।।8.76.३ ० ।।
ब्रह्महा यज्ञहा चैव इल्वलः (?) पिल्वकस्तथा ।
मयश्च दानवश्रेष्ठो मयपुत्राश्च विश्रुताः । ।३ १ । ।
तेषामष्टौ सहस्राणि सर्वे च कृतनिश्चयाः ।
वृत्रश्च दानवश्रेष्ठो नमुचिर्भजहस्तथा ।।३ २ ।।
शतोदरश्च व्यंसश्च ताथायश्च (?) ह्रदोदरः ।
केशी तथा प्रलम्बश्च कबन्धो धेनुकश्च ह । ।३ ३ ।।

१४ बाष्कलिरेव क।

446
हालो गार्ग्यशिराश्चैव कुशः शम्भुस्तथैव च ।
तथा गगनमूर्धा च सालुकः शाल्व एव च । ।३४। ।
मेघनादश्च विख्यातो महानादस्तथैव च
खरोथ खररोमा च सूचीलोमा च दानवः ।। ३५। ।
परिघोपरिघश्चैव दण्डः काश्यप एव च ।
दुन्दुभिश्च महाकायः सैंहिकेयश्च यो गणः । ।३ ६ ।।
तथा हालाहलश्चैव अन्धकारक एव च ।
पौलोमाः षष्टिसाहस्राः कालकेयाश्च१५ विश्रुताः ।
कालकञ्जाः सहस्राणि अष्टौ ते देवकण्टकाः ।।३७।।
निवातकवचानाञ्च तिस्रः कोट्यो महाबलाः ।
ता एता गणिताः सर्वाः कोट्यः षष्टिः सुरद्विषाम् ।।३८। ।
तत्पक्षान् वर्जयित्वा तु मनुष्यान्पन्नगानपि ।
राक्षसाँश्च१६ पिशाचाँश्च१७ यक्षान्१८ पक्षिण एव च ।
तेषामपि तदा व्यास कोट्यो विंशतिसंमिताः१९ ।।३९। ।
ते तां सभां समाविश्य सर्वे दर्पात् सुरद्विषः ।
सविद्युदुल्का भान्ति स्म प्रावृड्जलधरा इव । ।8.76.४० । ।
ते स्वनन्त२० इवाम्भोदा सधूमा इव पर्वताः ।
महिषा इव नर्दन्तः केतवोनागता इव । ।४१ । ।
उत्पाता इव निर्मुक्ताः सविषा इव पन्नगाः ।
गजा इव च संमत्ताः पवना इव वेगिताः ।।४२। ।
सुराणां विप्रकारार्थं तस्थुरापूर्य तां सभाम् ।
अथ गत्वा सभापालो राजानमिदमब्रवीत् । ।४३ । ।
सुखासीनं तदा व्यास सिंहासनगतं युवा ।
प्रणम्य शिरसा पूर्वं जानुभ्यामवनिं गतः ।।४४।।

१५ कालकेशाश्च क । १६ राक्षसाश्च - क. । १७ पिशाचाश्च - क. । १८ यक्षाः - क. । १९ संगताः - क. । २० स्रवन्त क।

447
बद्धाञ्जलिपुटः सम्यग् वाचा श्लक्ष्णपदाक्षरम् ।
स्वामी२१ जयतु सर्वेषामसुराणां जयावहः । ।४५।।
प्रह्रादाद्याः२२ सभां सर्वे विप्रचित्तिपुरोगमाः ।
प्राप्ता विदितमस्त्वेव यदन्यत् कर्तुमर्हसि२३ ।।४६।।
सनत्कुमार उवाच
ततः सुरद्विषः श्रुत्वा सर्वान्प्राप्तान् सभां तदा ।
उत्तस्थौ सहसा राजा शक्रकेतुरिवोत्सवे ।।४७।।
स किरीटी महादंष्ट्रो मुंजकेशो महाहनुः ।
आकर्णाद्दारितास्यश्च महाच्छत्रशिरास्तथा ।।४८।।
आजानुबाहुर्वृत्ताक्षः पिङ्गाक्षश्चोर्ध्वरोमवान् ।
वज्रसंहननश्चैव महायोगी महाबल ।।४९।।
किरोटेनाति संभाति सवित्रेवोदयस्तथा ।
हारवर्याङ्कितोरस्कः सबलाक इवाम्बुदः ।
सपुत्रः प्रययौ व्यास हिमवानिव मूर्त्तिमान् ।।8.76.५०।।
स तां तदा दानवराजसत्तमो विचित्ररत्नांशुपरीतकुण्डलः ।
सभां विवेशासुरदैत्यपुंगवैः समावृतां द्यामुदितैर्ग्रहैरिव ।।५१ ।।
इति स्कन्दपुराणे हिरण्याक्षस्य सभाप्रवेशो नाम षट्सप्ततितमो२४ध्यायः

सनत्कुमार उवाच
स गत्वा तां सभां व्यास अपश्यद् दैत्यदानवान्१ ।
प्रावृट्कालेम्बुदान्मत्तान् यथेन्द्रः समुपस्थितान् ।।१।।
तस्य प्रविष्टस्य२ तदा सर्व एव सुरद्विषः ।
जयेति चक्रुरुत्थाय वेदा इव पितामहम् । ।२ ।।

२१ स्वामिन् - क. टि. २२ प्रह्रादाभ्यां - क. । २३ .मर्हति (?) । २४ पंचसप्ततितमो - क. । १ इतः परं हिरण्याक्षकर्तृकवराहदर्शनावधिकः त्रयस्त्रिंशदध्यायात्मको ग्रन्थो नष्टः क पुस्तके इति । २ तस्योपविष्टस्य - घ. ।

448
मोत्तिष्ठतेति३ तान्सर्वानवोचदसुराधिपः ।
मायापंचकमासाद्य४ भोगी वायुधरानिव५ । ।३ ।।
स तेषामग्रगो६ भाति हिरण्याक्षो महासुरः ।
मध्ये कलभवृन्दानां यथा मत्तो महागजः । ।४।।
ततो जाम्बूनदे दिव्ये उपविष्टो वरासने ।
- - - - - - - - - - - - - - - - । । ५ । ।
भाति सिंहासनासीनः स राजा सुरविद्विषाम् ।
मेरुशृंगमिवासाद्य७ सबलाको महाम्बुदः । ।६। ।
बभूवुरुपविष्टाश्च तूष्णीमेवासुरास्तदा ।
सिसृक्षवो जलं काले नीलाम्भोदा इवोन्नताः ।।७। ।
सनत्कुमार उवाच
स तेषांमिङ्गितं ज्ञात्वा कालं च सुरतापनः ।
हिरण्याक्षः स्वयं राजा तानुवाच सुरद्विषः ।।८।।
यूयं सर्वे महामाया शृणुध्वं संयताः समम् ।
कालप्राप्तञ्च पथ्यञ्च शिष्या इव गुरोर्वचः । ।९ ।।
मम भ्राता प्रियो ह्यासीज्ज्येष्ठः पूज्यो यथा पिता ।
हिरण्यकशिपू राजा महात्मा सत्यसंगरः ।।8.77.१ ० । ।
धार्मिकश्च वदान्यश्च यज्वा दाता तपोन्वितः ।
आहिताग्निश्चतुर्वेदः सर्वभूतसुखावहः । । ११ ।।
राज्यार्थे स हतो देवैर्विकृत्या८ मूढमानसैः ।
तस्य दुःखेन तप्यामि शुष्यामि च महासुराः । । १२ । ।
सलिलादुद्धृतं ग्रीष्मे पद्मं कुसुमितं यथा ।
तेषां कर्तुमहं दण्डं शक्तोस्म्यसुरविद्विषाम् । । १३ । ।

३ योतिष्ठ (न्न) पि - ख. । ४ समासाद्य (?) । ५ णिव - घ. । ६.. .मग्र्यशो - ख, मध्यगो - घ । ७ ...ख्याय (?) । ८ ...निकृत्या (?) ।

449
भवतां९ तत्र बालानां रक्षार्थं नोद्यतो ह्यहम्१० ।
सोहं दण्डं स्वयं कर्तुमेकाक्यसुरविद्विषाम् ।
गमिष्यामि न सन्देहो मा भीर्भवतु वोसुराः ।।१४।।
सनत्कुमार उवाच
तस्य तद्वचन श्रुत्वा दानवास्ते मुदान्विताः११ ।
परस्परमुदैक्षन्त व्रीडया परयान्विताः । । १ ५। ।
विप्रचित्तिस्तदनुजो भ्रातरं तं महाबलः ।
उवाच प्रणतः सम्यगर्थवन्मधुरं वचः ।।१ ६।।
न सन्देहो महासत्व त्वयैकेनासुरद्विषः ।
? --- --- - - - - - - - - - ।।१७।।
यदि युद्धे न तिष्ठन्ति मायां काञ्चिद्विनाश्रिताः ।
अबलास्ते न सन्देहो निकृत्या बलिनस्तु ते । १८ ।।
प्रसादयित्वा शिरसा यद् ब्रवीमि निबोध तत् ।
बालैरपि१२ हिरण्याक्ष सूपपत्त्या प्रसाधितम्१३ ।।१ ९।।
तद् ग्राह्यमिति - - - १४ शास्त्रविद्भिः समीरितम् ।
हिरण्यकशिपू राजा भ्राता नो ज्येष्ठ उत्तमः । ।8.77.२ ० । ।
सोपि शक्तोहमित्येव एकाकी दैवतैर्हतः ।
महाबलोपि च हरिरशक्तैर्हन्यते बलात् ।।२ १ । ।
आक्रन्दन्तं विना राजन्नतो विज्ञापयामि ते ।
भवतस्तु वयं बाला न तेषामसुरेश्वर ।। २२ । ।
शक्ता वयं सुयुद्धेन तान्हन्तुं कुलपांसनान् ।
तपोयोगबलोपेता मायाभिश्च समन्विताः । । २३ । ।
अनुस्मरन्तो वैरञ्च वयं हंस्याम दैवतान् ।
यथा तव न निद्रास्ति हिरण्यकशिपोर्वधात् ।। २४।।

९ भवता - ख. । १० नोद्यताम्यहं - ख । ११ तिमुदान्विताः - ख. । १२ बलेरवि - ख. । १३.. मुपपत्त्या प्रसादितम् - ख. । १४ वेदोति ( विद्वद्भिः?) - ख ।

450
तथास्माकं महाराज मा नो बालान्यथा चर ।
यत्र नो योक्ष्यसे राजन् समे वा विषमेपि वा ।।२५।।
तरिष्यामो वयं तद् वै बालमत्स्या इवार्णवम् ।
प्रह्रादोयं सहभ्राता ससुतः ससुहृज्जनः ।।२६ । ।
एक एवाह्वयेत्सर्वान्यथा सिंहो महाद्विपान् ।
बलिरेष च दैत्येन्द्र एक एव सवासवान्१५ । । २७। ।
सुरान् सयम१६ वित्तेशाञ्छक्तः सर्वान्प्रबाधितुम् ।
अयं बाणश्च१७ तत्पुत्रो राजा बाहुसहस्रधृक् ।।२८।।
एक एव सुरान्सर्वान् विनाशयितुमुद्यतः ।
इमो सुन्दनिसुन्दौ च भ्रातरौ बाहुशालिनौ१८ । ।२९।।
उभावेकाकिनौ युद्धे देवान् हन्तुं समुद्यतौ ।
अयं मयश्च विक्रान्तः सारकस्तार एव च१९ ।।8.77.३ ० ।।
अन्ये च दानवाः शूराः शक्ता देवान् प्रबाधितुम् ।
एतेप्यतिबलाः सर्वे बलवन्तो वयं सदा ।। ३१ । ।
वधिष्यामः सुरान् सर्वान् व्याधा इव मृगान् वने ।
शूरोयमन्धकः श्रीमान् ब्रह्मदत्तवरस्तदा२० ।।३ २। ।
प्रसह्य सर्वाँस्तान् युद्धे नेष्यते वै यमालयम् ।
एवमेनं समाश्रित्य पालितानेन चैव हि ।।३ ३ ।।
करिष्यामो महद्युद्धं देवतानां भयंकरम् ।
पूर्वं देवा वयं सर्वे पश्चात्ते देवताभवन् ।।३४।।
कथं बिभीम तेषां वै सिंहानां शरभा इव ।
तस्य तद्वचनं श्रुत्वा अन्धकस्सोसुरेश्वरः । ।३ ५।।
उवाच वचनं तत्र हर्षयन् दानवेश्वरान् ।
महाबला वयं राजन् बलहीनाः सुरास्तु ते ।।३ ६। ।

१५ शरीरवान् - क. ख. । १६ समय - ख. । १७ मानश्च - ख. । १८ बाहसादिनो - ख. । १९...स्तारक (?), प्रभुस्तारक एव च - घ - । २० स्तथा (?) ।

451
पश्य त्वं दैवतान्सर्वान् हतान् यमपुरोगमान् ।
अद्य तं राजहन्तारं दुरात्मानं कुलाधमम् ।। ३७।।
अद्य माता दितिस्तेषां दुःख - - - - - - ।
      . .. . . . . . .. . .. .. .. . . ... .. .।
मयैकेन हतं पश्य आदित्यानां कनीयसम् । ।३८। ।
तिष्ठध्वं दानवाः सर्वे पर्याप्तोहं दुरात्मनाम् ।
अस्माकं राजहन्तॄणां मृत्युरस्मि समागतः ।।३ ९।।
सनत्कुमार उवाच
तस्य तद्वचनं श्रुत्वा हिरण्याक्षः प्रतापवान् ।
उवाच दानवान् व्यास जयेप्सुः सुरविद्विषाम् । ।8.77.४० ।।
अद्य पुष्यं च नक्षत्रमस्माकं बलकारणम् ।
अद्यैव दंशिताः सर्वे द्रुतं निर्यात दानवाः ।।४१ ।।
अथ ते दानवाः शीघ्रं वाहनानि मुदा युताः ।
प्रावारयन्त२१ संग्रामे योग्यानि रिपुबाधने । ।४२। ।
शीघ्रं कुरुध्वं सज्जानि गच्छामो दैवतान्प्रति ।
तेषां सुतुमुलः२२ शब्दो बाहनानां२३ बभूव ह । ।४३ ।।
मन्दवातप्रेरितस्य क्षीरोदस्य स्वनो यथा२४ ।
ममाश्वस्तव सिंहोयं ममायं गजयूथपः । ।४४।।
रथोयं कस्य संपन्नो युद्धोपकरणैर्भृशम् ।
एहि निर्याहि वेगेन मुहूर्तं प्रतिपालय ।।४५।।
निर्यान्तु सर्वे दैत्येन्द्रा यास्यामः पृष्ठतो वयम् ।
आरोह स्वं रथं वीर किं रथेन ममाद्य वै ।
पदातिरेव संग्रामे हंस्याम्यद्य सुरद्विषः । ।४६ । ।
एवं तेषाममूच्छब्दः सुमनोज्ञः सुरद्विषाम् ।
वंशवीणास्वनोन्मिश्रः२५ प्रलाप इव योषिताम् ।।४७। ।

२१ प्रोक्षावयन्तु (?) - घ. । २२ सतुमुलः - ख. । २३ साहनानां - ख. । २४ महान, - घ, । २५, खगोन्मिश्रः (स्वरो?) - ख., -...रवोन्मिश्रः - घ. ।

452
अथ शुक्रस्तदाभेत्य भृगोः पुत्रो महातपाः ।
हिरण्याक्षमुवाचेदं हर्षयन्दानवेश्वरम् । ।४८। ।
मया शान्तिः२६ कृता तेद्य रक्षा च२७ सह दानवैः ।
जहि सर्वान्सुरान् युद्धे न तवास्ति पराजयः ।।४९।।
अहं त्वा स्वेन तपसा सहभृत्यं२८ सबान्धवम् ।
धारयिष्यामि युध्यन्तं लोकान्यज्ञ इवापरः ।। 8.77.५० । ।
सनत्कुमार उवाच
ततः प्रदक्षिणं कृत्वा शुक्रं मूर्ध्ना प्रणम्य च ।
भार्गवं२९ पुरतः कृत्वा निर्जगाम स मन्दिरात् ।।५१ ।।
ततो भेर्यश्च शंखाश्च पणवानकगोमुखाः ।
साडस्तमा(?) दिण्डिमाश्च भाण्डाश्च पटहैः सह । ।५२ ।।
झंर्झर्यो दर्दुराश्चैव सुनवा३० मर्दलास्तथा ।
कटंकटाः पेपुकाश्च तथा चैवैकपुष्कलाः । । ५३ ।।
पञ्चाक्षाः सरिधीकाश्च मुकुन्दा३१ मुरजास्तथा ।
लभका जलमत्ताश्च अवाद्यन्त सहस्रशः । ।५४। ।
गायनै३२श्चैव गायद्भिः स्तुवद्भिः सूतमागधैः ।
दिव्याभिः कुलवृद्धाभिः स्त्रीभिश्च कृतमङ्गला ।। ५५। ।
द्वार्य३३ पश्यन् रथं क्लृप्तं यया देवमयं हरः ।
शतनल्वप्रमाणाङ्कं३४ दिव्यं जाम्बूनदं दृढम् । ।५६ ।।
असंगतुरगैः श्वेतै३५स्त्रिसाहस्रैर्मनोजवैः ।
अमरैः कामगैर्दिव्यैः श्रमदुःखविवर्जितैः ।।५७। ।
यन्ता रथस्य तस्यसिल्मकरो नाम विश्रुतः ।
पुत्रो गरुत्मतो व्यास खगः कामगमःशुभः ।। ५८। ।

२६ महाशान्तिः - घ । २७ मे दाना दष्टजागत्य दृशा - ख. । २८ सह भृत्यैः - ख. । २९ तमेव - (?) । ३० सुघोषा - घ. । ३१ मुक्यन्दा - ख. । ३२ गायना - ख. । २३ धार्य (?) - ख । ३४ शतकल्प- प्रमाणाङ्क - ख. । ३५ संयुक्तं तुरगैर्दिव्यै (?) - घ ।

453
तमसौ राजशब्देन३६ आशीर्भिश्चाभिपूजितः।
आरुरोह रथं राजा एकचक्रं यथा रविः ।।।५९।।
कवची बद्धतूणीरः शरी खड्गी शरासनी ।
बद्धगोधांगुलित्रश्च कण्ठत्राणकृतस्तथा । ।8.77.६ ०।।
ध्वजेन महता चैव छत्रेण च विभूषितः ।
बह्वीभिर्वैजयन्तीभिः सबलाक इवाम्बुदः ।।६१।।
तस्य छत्रं तदा भाति किरीटोपरि संस्थितम् ।
आविष्कृतपयोदाभः पौर्णमास्यां यथा शशी ।।६२। ।
खट्वाङ्गस्तस्य चाभाति ध्वजो दिवमिवाक्रमन् ।
त्रैलोक्यस्योपघातार्थं३७ केतुर्दीप्त इवोदितः ।।६३ ।।
तादृगेव रथो ह्यासीत् सुतस्य सुमहात्मनः ।
अन्धकस्य तदा व्यास महाजलदनिस्वनः ।।।६४।।
अथ याहीति तेनोक्तौ३८ रथयन्ता सुरद्विषः ।
त्रिसाहस्रान्३९ हयाग्र्याँस्तु रथे४० प्रस्यचूचुदत्? ।।६५।।
प्रचोदितास्तमूढुस्ते४१ जवना वातरंहसः ।
हयाः कामगमाः सप्त रवेरिव महारथम् ।।६६।।
तस्याग्रतस्तदा शुक्रो रथेनाम्बुदनादिना ।
उद्गच्छत इव व्योम्नि तस्याभूद् यथा बुधः ।।६७। ।
दक्षिणे तस्य पार्श्वे च अभूदन्धकदानवः ।
दक्षिणायनमासाद्य यथा लोकस्य भास्करः ।।६८। ।
द्वितीयं पार्श्वमाश्रित्य विप्रचित्तिरभूत् स्थितः ।
भारतस्येव वर्षस्य हिमवान् पर्वतोत्तमः ।।६९ ।।
पृष्ठतश्चाग्रतश्चैव यथाप्रीति ययुस्तदा ।
अपरे दानवाः शूराः शशाङ्कस्य यथा ग्रहाः । ।8.77.७० ।।

३६ जयशब्देन - घ. । ३७ त्रैलोक्यस्योपघाताय - घ । ३८ .. .नोक्तो (?) । ३९ द्विसाहस्रान् - ख. । ४० सारथिः - घ । ४१.. स्तमूचुस्ते - ख ।

454
तत्सैन्यं प्रचलद् भाति व्रजतां मुनिसत्तम ।
सविद्युत्स्तनयित्नूनामभ्भोदानामिवात्यये । ।७१ ।।
हयह्रेषितशब्दञ्च मत्तद्विरद बृंहितम् ।
वल्गितास्फोटितोत्क्रुष्टं सिंहनादोद्धतं ययौ ।।७२। ।
तद्धि तूर्यरवसिंहनादितैरश्वहेषितगजोग्रबृंहितैः ।
बाहुशब्दकुचितावनादितैर्याति दानवबलं भयावहम् ।।७३ ।।
इति स्कन्दपुराणे हिरण्याक्षनिर्याणं नाम सप्तसप्ततितमो४२ध्यायः

कृष्णद्वैपायन उवाच
भगवन् दितिपुत्रेषु प्रयातेष्वमरावतीम् ।
अमराः किमकुर्वन् त एतदिच्छामि देदितुम् ।।१ । ।
कथमन्तर्हितं१ तेषां को मन्त्रश्चेष्टितं च किम् ।
उत्तरं किञ्च देवास्ते प्रत्यपद्यन्त यत्नतः ।।२।।
धार्मिकाश्च वदान्याश्च विद्वांसश्छिन्नसंशयाः ।
इष्टाः सर्वस्य लोकस्य किमकुर्वत देवताः । । ३ । ।
सनत्कुमार उवाच
शृणु व्यास यथा देवा उत्तरं प्रतिपेदिरे ।
असुराणाञ्च यद्युक्तं प्रत्यकुर्वत दंशिताः ।।४।।
उद्युक्तेष्वेव दैत्येषु देवानां भयसूचकाः ।
संजज्ञिरेमरावत्या३मुत्पाता दारुणा भृशम् । ।५।
पिशिताशाः खगास्तत्र भ्रमन्त्युपरि सर्वतः ।
मम्लुर्माल्यानि देवानां गन्धश्चैवाशुभं ववौ४। ।६। ।

४२ अध्यायः १३३ ख., क.पुस्तकानुसारं ७६ तमेन भाव्यम् ।
१ कथमन्तर्द्धितं - ख. । २ प्रत्यकुर्वन्त ख. । ३ संजज्ञुरमरावत्या - ख. । ४ बभौ - ख. ।

455
हयादयो न हेषन्ते विमनाश्च गजोभवत् ।
अनभ्रं५ भयदं सर्वमपतद्रुधिरं बहु । ।७। ।
आयुधानि च दीप्यन्ते सधूमं शक्तिनन्दन ।
कबन्धाश्च तथादित्ये६ युद्धं चात्र प्रदृश्यते ।।८।।
द्वयोः पुरुषयोर्व्यास हाहाकारश्च सर्वशः ।
देवानामरतिञ्चैव७ चित्तं चापि समश्नुते८ ।।९।।
स्फुरन्ति वामनेत्राणि जृम्भिका चोपजायते ।
वयांसि च विकूजन्ति९ भयदान्यपरे यथा ।
अग्निश्च दीप्यते तत्र सशब्दो रूक्ष एव च ।। 8.78.१० ।।
एताँश्चान्यांश्च विविधानुत्पातान्भयसूचकान् ।
दृष्ट्वा प्राह गुरुं शक्रो बृहस्पतिमिदं वचः ।।११ ।।
भगवन् किमिदं घोरं भयं नः समुपस्थितम् ।
यदिमे सूचयन्त्युग्रा उत्पाता नः सुदारुणाः ।।१ २ ।।
नेमे निष्कारणं मन्ये न चाप्यल्पं हि तद्धि नः ।
यदिमे सूचयन्त्युग्राः कल्पान्त इव दारुणाः । । १३ ।।
तस्य तद्वचनं श्रुत्वा देवाचार्यो बृहस्पतिः ।
निरीक्ष्य बुद्ध्या संचिन्त्य प्रोवाचेदं ततो वचः । ।१४।।
यद् भवानाह तत्तथ्यं नेमे निष्कारणं तथा ।
निमित्तमत्र सुमहद् भविष्यति न संशयः ।। १५।।
निमित्तमादिदैत्येन्द्रो हिरण्यकशिपुः पुरा ।
स' हतो नरसिंहेन प्राप्तं राज्यं च नः पुनः ।।१ ६।।
अद्य वर्षसहस्राणि द्वादशैव सुनिर्वृतैः१० ।
युष्माभिरखिला लोका भुज्यन्ते सुमहात्मभिः ।।१७।।
दैत्याधिपा निरुत्साहा दानवैः सह शेरते ।
पाताले दनुपुत्राश्च दुःखशोकसमाहताः । ।१८।।

५ अनभ्रे - ख, अदभ्र (?) । ६ यथादित्यो - ख। ७ मरतिश्चैव - घ. । ८ समुत्सुकं - घ. । ९ धूमो गायन्ति - ख., खगादयो विकूजन्ति - घ. । १० सुनिर्वृताः - ख. ।

456
हिरण्याक्षस्तु दैत्येन्द्रो हिरण्यकशिपोर्वरः११ ।
स नूनं भ्रातुरन्विच्छन् हतस्य प्रतिकारिताम् । ।१ ९। ।
सर्वैरभ्येति दैत्येन्द्रैर्दानवैश्च समावृतः ।
सपुत्रपौत्रो दैत्येन्द्रो महाबलपराक्रमः ।।8.78.२० ।।
अन्धकश्चास्य पुत्रोपि ब्रह्मणा ह्यमरः कृतः ।
न स शक्यो युवा हन्तुं१२ ततो वो भयमुत्थितम् ।।२१ ।।
तद्भवन्तः१३ सुसन्नद्धाः सर्वे युद्धाय दंशिताः ।
प्रतीक्षध्वं महासत्वा यावदौत्पातिकं स्थितम् ।।२२ ।।
तस्य तद्वचनं श्रुत्वा शक्रः सर्वान् तदा सुरान् ।
उवाच सज्जीभवत युद्धाय कृतनिश्चयाः ।।२३ ।।
भयं महदिदं प्राप्तं मा तिष्ठत निरुद्यमाः ।
मा नः संप्राप्य दैत्येंद्रा हन्युर्मत्तानिवामराः ।।२४।।
अथ वायुस्तदाभ्येत्य शक्रं सर्वासुरान्तकम् ।
उवाच प्राञ्जलिर्भूत्वा देवानामेव संसदि । ।२५।।
एष दैत्यो हिरण्याक्षः सर्वासुरसमावृतः ।
आयाति देवता हन्तुं भ्रातुर्वधमनुस्मरन् ।।२६। ।
तद्भवान् दंशितः सम्यक् सहास्माभिर्महाबलः ।
जयायोत्तिष्ठ१४ देवेन्द्र विनाशाय सुरद्विषाम्१५ ।।२७।।
सनत्कुमार उवाच
ततः स भगवान् व्यास महात्मा देवराट् स्वयम् ।
अभेद्यं कवचं दिव्यं जाम्बूनदविभूषितम् ।।२८।।
दत्तं मन्त्रेण विधिवत् पुत्रेणाङ्गिरसः स्वयम् ।
आबबद्धात्मना१६ शक्रो मेघदुन्दुभिनिस्वनः । ।२९। ।
स तेन कवचेन स्म भाति शक्रः प्रतापवान् ।
सविद्युदुल्कैरम्भोदैर्बद्धो मेरुरिवाचलः । ।8.78.३ ० । ।

११ हिरण्यकशिपोर्वंशः? -ख., परः(?) १२ युद्ध्य हन्तुं - घ. । १३ समुद्भवन्तः - ख. । १४ जयाय तिष्ठ - ख. । १५ सुरद्विषाः (षः) - ख. । १६ आबबद्धात्मने - ख., -आबबन्धात्मना - घ. ।

457
ततो गोधांगुलित्राणि१७ तलत्रं चैव भासुरम् ।
आबबद्ध स्वयं मन्त्रैस्तस्य देवो बृहस्पतिः । । ३१ । ।
इषुधीनक्षयाँश्चैव खङ्गः चैवामृतोद्भवम् ।
आबबद्धास्य मन्त्रेण यदजर्यं शरादिभिः । ।३ २ । ।
ततोस्मै सशरं चापं पञ्चवज्रं सुदारुणम्१८ ।
मन्त्राभिमन्त्रितं सम्यक् प्रददौ जयवर्द्धनम् ।। ३ ३। ।
मंगलानि ततस्तस्य दर्शयामास वीर्यवान् ।
घटञ्च पूर्णमस्त्रञ्च१९ ऐरावतमथापि च । । ३४।।
कल्पितं बहुभिर्दिव्यै२०राचार्यैः कल्पवासिभिः ।
अर्चितं धूपितं चैव धूपितं क्रोधदर्पणैः । ।३ ५। ।
ततस्तं स तदा देव आरुरोह मतङ्गजम् ।
भद्रलक्षणसंपन्नं चतुर्दन्तं क्षरन्मदम् । ।३ ६ । ।
आरूढः स तदा भाति ऐरावतगजं विभुः ।
उदयाचलमौलिस्थ उद्यन्निव दिवाकरः ।।३७ । ।
पाण्डरेणातपत्रेण सुरराट् संबभौ तदा ।
श्वेतपर्वतराजोसौ शशिनेव महामुने ।।३८ । ।
चामराबीजितं भाति तस्य वक्त्रमतिप्रभम् ।
हंससंबीजितं फुल्लं२१ शरदीव महोत्पलम् । ।३९। ।
तस्य पार्श्वे जयन्तश्च पुत्रः शक्रस्य धार्मिकः ।
कार्तिकेय इवाभाति रुद्रस्य दयितः सुतः ।।8.78.४० । ।
ततो यमश्च पुण्ड्रेण२२ महिषेण महाबलः ।
कालदण्डं पुरस्कृत्य कोटीभिर्दशभिर्वृतः । ।४१ ।।
निर्जगाम कुबेरश्च राक्षसैर्बहुभिर्वृतः ।
यक्षैः पुण्यजनैश्चापि तथान्यैर्देवतैरपि ।।४२। ।

१७ गोधाङ्गुलित्राणं - घ. । १८ वज्रं चासुरदारणं - घ । १९ पूर्णमश्वञ्च (?) । २० .. र्देव्यै (वै?) - ख-, र्मन्त्रैः - घ. । २१ हंसाबीजितमुत्कुल्लं - घ., हसा सा? - ख. । २२ पुण्डौ - ख., पुत्रेण - घ. ।

458
तेषां द्वादश कोट्यस्ताः सहस्राणि च विंशतिः ।
शतानि च तथाशीतिस्तथैवाष्टाधिका पुनः ।।४३ ।।
वरुणो निर्ययौ देवः पुत्राणां दशभिः शतैः ।
यादोभिस्ते वृताः सर्वे कोट्यस्ताश्चैकविंशतिः२३ ।।४४।।
अनलश्च ततो देवः कोटीभिर्दशभिर्वृतः ।
निर्ययौ सह पुत्रेण ससुहृद्वर्गबान्धवः ।।४५।।
ततो वायुर्महातेजाः सर्वव्यापी महाजवः२४ ।
अक्षौहिणीभिर्दशभिर्निर्जगाम महाबलः ।।४६।।
आदित्या निर्ययुः सर्वे द्वादशाक्षौहिणीवृताः२५ ।
एकैकशश्च ते२६ व्यास सर्वे दिव्यास्त्रयोधिनः ।।४७।।
तथा रुद्राश्च निर्जग्मुर्महामायामहाबलाः ।
एकैकशस्तदा सर्वे षोडशाक्षौहिणीवृताः ।।४८। ।
वसवो दशभिश्चैव अष्टाभिश्चाश्विनावुभौ ।
तथैवांगिरसो देवाः सर्वे तेक्षौहिणीवृताः । ।४९।।
यामा दामाश्च साध्याश्च लेखा ये च महाबलाः ।
तेपि कोटीशतैः सर्वे दशभिः सह संगताः ।।8.78.५०।।
अभूवन् विंशतिः२७ कोट्यो गन्धर्वाणां२८ महात्मनाम् ।
पन्नगानां चतुःषष्टिः खगानां चैव विंशतिः ।।५१ ।।
पिशाचानां च कोट्यस्ताः पंचाशत्तत्र संगताः ।
राज्ञां स - - - - - - - - नां महात्मनाम् ।।५२। ।
एतद्देवबलं दे हं सर्वमभूत्तत्राभिसंगतम् ।
दृष्ट्वा तद् बह्वपर्यन्तं देवानां बलमुत्तमम् ।।५३ ।।
उवाच जीवजीवानां राजा परमधर्मवित् ।
भगवन् क्रियतां व्यूहो यस्मात्तेषां दुरात्मनाम् । ।५४।।

२३ एकविंशतिः - घ., इतः परं ततो देवबलं पश्यन सन्नद्धान् युद्धकांक्षिणः । कोटिभिदशभिश्चैव रथनाग- हयैर्वृतः इति पद्यमुपलभ्यते घ. पुस्तके । २४ महाबलः - ख. । २५ युताक्षौहिणिकर्षिणः -ख । २६ एकैकश्च शते - ख. । २७ गन्धर्वाणामभूत् - ख. । २८ विंशत्येव - ख. । २९ एते देवबलं... - ख. ।

459
अधृष्यश्चाप्रमेयश्च यन्न३० वेत्ति च भार्गवः ।
तस्य तद्वचनं श्रुत्वा बृहद्बुद्धिर्बृहस्पतिः । ।५५ ।।
उवाच देवताध्यक्षं शक्रं दैवतसन्निधौ ।
न तदस्ति महेष्वास मयि यद् भार्गवो महान् ।।५६।।
न वेत्ति यस्य वा३१ भेदं न कुर्यात् पाकशासन ।
उशनाः स तु यद्वेत्ति महायोगी महायशाः ।।५७।।
न चैव तदहं वेद्मि मत्तो वरतरो हि सः ।
स तु तीक्ष्णतया चैव मानाच्चैव शचीपते ।।५८।।
प्रमादं कुरुते तेषु न च सर्वत्र लभ्यते ।
अहं च विज्ञभावेन मार्दवेन परेण च ।।५९।।
अप्रमत्तश्च सर्वत्र तव सैन्यैश्च रक्षितः ।
बुद्ध्या तमतिरिच्यामि विबुधेश्वर नित्यशः ।।8.78.६० । ।
तस्मात्तेहं करिष्यामि व्यूहं श्येनमतिप्रभम् ।
येन तान्दानवान् संख्ये कञ्चित् कालं विजेष्यथ । ।६१ ।।
ततः स भगवान् जीवश्चक्रे व्यूहमतिप्रभम् ।
श्येनं नाम महायोगी देवानां हितमादधत् ।।६२। ।
ग्रीवायां तस्य संचक्रे वित्तेशं वरुणं तथा ।
अनलं चैव वायुञ्च जयन्तं चैव शक्रजम् । ।६३ ।।
शिरश्चूडां३२ यमं तस्य३३ मृत्युं कालं च तावुभौ ।
वक्त्रं तस्याकरोज्जीव३४ श्चन्द्रसूर्यौ च चक्षुषी ।।६४।।
एकं पक्षं चकारास्य रुद्रान्सर्वान्स वै द्विजः ।
द्वितीयं पक्षमादित्यान्मध्यं तस्य पुरन्दरम् ।।६५।।
पादौ च वसवस्तस्य अश्विनौ च महातलौ ।
गन्धर्वाः पन्नगाश्चैव नखान् तस्य समाश्रिताः । ।६६।।

३०. यथा - घ. । ३१ वो - ख. । ३२ शिरश्चूडा - ख. । ३३ यमस्तस्य - ख. । ३४ वक्त्रमस्याकरोज्जीव - ख. ।

460
पक्षिणश्च महासत्वाः पिशाचाश्च महाबलाः ।
पुच्छं३५ तस्याकरोत् सर्पान्३६ देवानन्याँस्तदोदरम्३७ ।।६७। ।
राजानस्तस्य पादस्थास्तले३८ भूतान् न्यवेशयत ।
महाबलान्महोत्साहान्सर्वान् देवान् सभासदः । ।६८।।
सनत्कुमार उवाच
स कृत्वा तं खगव्यूहं मन्त्रेणैवाभिमन्त्र्य च ।
उवाच देवराजं तं बृहस्पतिरिदं वचः । ।६९ ।।
कल्पितोयं मया व्यूहः कृत्वा राक्षसपार्थिवम् (?) ।
अतः परं विधानस्य कर्म नास्मासु विद्यते । ।8.78.७० । ।
जय शत्रून् रणे शक्र देवतैरभिरक्षितः ।
मया चार्थवणैर्मन्त्रैस्तपसां च बलेन च ।।७१ ।।
कुरु कर्म यथाशक्ति ह्यमरो ह्यसि पार्थिव३९ ।
देवाश्चाप्यमराः सर्वे युध्यन्तु सुरपार्थिव । ।७२ । ।
भाग्यान्नो जय लाभाय नान्यत्र सुरपुंगव४० ।
जहि शत्रून् महाबाहो माभीर्भवतु ते रणे । ।७३ ।।
ततः शंखाश्च भेर्यश्च पटहा डिण्डिमास्तथा ।
आडम्बराश्च नम्भा(?)श्च कृकवा गोविषाणकाः ।।७४। ।
मर्दलाः पेपुकाश्चित्रा नेदु४१ स्तूर्याणि सर्वशः ।
तेन शब्देन योधानां युद्धहर्षो महानभूत् ।
सिंहनादा४२ नकुर्वन् ते४३ वादितास्फोटितानि च । ।७५।।
देवास्ततः४४ शंखमृदङ्गवाद्यैरमोघसर्वायुधदीप्तहस्ताः ।
निर्जग्मु४५रिन्द्रादिसुरप्रधाना जयैषिणः शत्रुवधेप्सवश्च ।।७६। ।
इति स्कन्दपुराणे व्यूहरचनो नामष्टसप्ततितमो४६ ध्यायः

३५ पृष्ठं - घ. । ३६ सर्वान् - ख । ३७ .. म्तदोदरान् - ख । ३८.. .न्तले - ख । ३९ पार्थिवः - ख । ४० - पुंगवे - घ, संगवे (?) । ४१ मेघ - ख. । ८२ सिंहनादा - ख । ४३ नकुर्वन्त - ख. घ. । ४४ ...देवता - ख. । ४१ निर्जघु (घ्नु?) - ख ४२ सन्नहतिकाध्यायः? - घ, १३४ इति ख. पुस्तके ।

461
सनत्कुमार उवाच
व्यूढे सुराणां सैन्येथ स्थिते युद्धाय दंशिते ।
दानवानां बलं घोरं समदृश्यत भीषणम् । ।१ । ।
तद्१ दानवबलं दृष्ट्वा देवाः सर्वे सवासवाः ।
सिंहनादानकुर्वँस्ते२ वादित्ररवमिश्रितान् ।।२।।
स नादः सुमहान् व्यास सागरस्येव मथ्यतः ।
आपूरयज्जगत्३ सर्वं युगान्ताम्बुदनिस्वनः ।। ३। ।
ततो दानवशार्दूलाः सर्वे दृष्ट्वा सुरोत्तमान् ।
व्यूह्य सैन्यं स्थितान्४ सम्यग् वीक्षाञ्चक्रुः५ परस्परम् ।।४।।
तान् वीक्षमाणान्६ सन्दृश्य स्थितो दानवयूथपान ।
उवाच भार्गवं व्यास हिरण्यनयनः स्वयम् ।।५। ।
एते व्यूहमिमं कृत्वा देवास्तिष्ठन्त्यभीतवत् ।
मन्यन्ते७ दानवान् युद्धे वयं जेष्याम सर्वशः ।।६।।
स भवान्युक्तमस्यैव८ देवव्यूहस्य भेदकम् ।
कुरु मायाप्रतिव्यूहमस्माकमपि मा चिरम् ।।७।।
सनत्कुमार उवाच
एवमस्त्विति स प्रोच्य९ ह्यर्धचन्द्रञ्चकार सः१० ।
खगस्य तस्य यच्छेत्तुं शिरः कायादियेष च११ ।।८ ।।
चकार तस्य शृंगे तु प्रह्लादान्धकदानवौ ।
धारान्१२ निवातकवचान्पौलोमान्कालकासुतान् ।।९।।
विरोचनं बलिं चैव विप्रचित्तिं सहानुजैः ।
प्रह्लादभ्रातरं चैव ससुहृद्वर्गबान्धवान्१३ । ।8.79.१ ० ।।
पृष्ठं चक्रे महायोगी मध्यं राजानमेव१४ च ।
उवाच चैनं१५ विश्रब्धो भार्गवः शत्रुतापनः ।।१ १ । ।

१ ते - ख । २.. नकुर्वन्त - ख. घ- । ३ अपूरयञ्जगत् - घ. । ४ व्यूहस्कन्धास्थितान् । ५ चक्रे - ख. । ६ वीक्षमाणो (णः?) - ख । ७ मन्यन्तो (?) । । ८ श्येन (?) । ९ स प्रोच्य - ख । १० ...मकुर्वत - ख ११ कायादिवेषवः - ख. । १२ धारो - ख. । १३ बान्धवं (?) । १४ तथैव - ख. । - १५ चेदं - ख. ।

462
हिरण्याक्षमिदं युक्तं काले पथ्यञ्च सर्वशः१६ ।
दैवतभव्यूहभेत्तायं महाव्यूहो हि वः कृतः ।।१ २। ।
युक्तं कुरुत भद्रं वो मया नु१७ परिपालिताः ।
परस्परं च रक्षन्तः सर्वे चित्रास्त्रयोधिनः ।
महामायाः सुराः सर्वे यथा नैवाभिमन्यत१८ ।।१ ३ ।।
सनत्कुमार उवाच
ततः शंखाश्च भेर्यश्च पणवानकगोमुखाः ।
आडम्बरा डिण्डिमाश्च पटहाश्च महास्वनाः ।।१४। ।
नानाविधानि चान्यानि१९ प्रावाद्यन्त सहस्रशः ।
देवानां दानवानाञ्च मदसत्वप्रदानि वै ।।१ ५।।
ततः प्रमथ्नते२०त्युक्ता२१ दानवा दानवेश्वरैः ।
ममर्दुर्देवतानीकं प्रहताः सर्वशस्तथा ।।१ ६ । ।
देवास्तेपि च संयत्तास्तपोयोगबलान्विताः ।
दानवान् विविधैः शस्त्रैरभिजघ्नुः कृतागसः ।। १७।।
असीनां पात्यमानानां शिरसां हस्तिनामपि ।
आसीच्छब्दो महाघोरो वंशानामिव पाट्यताम् ।। १८ ।।
विकृष्यतां च धनुषां बाणानां च विमुच्यताम् ।
आसीत्तत्र महाञ्छब्दो गिरीणामिव भिद्यताम् ।। १९।।
गच्छद्भिर्भिन्दिपालैश्च शक्तिभिस्तोमरैस्तथा ।
आकाशमभवत् सर्वं खद्योतैरिव संवृतम् ।।8.79.२ ० ।।
शिरोभिश्चरणैश्चैव बाहुभिश्च निपातितैः ।
क्षणेन युद्धभूमिः सा विषमा समपद्यत ।।२१ ।।
दन्तिभिः पर्वताकारै२२ र्हयवर्यैरथोत्तमैः२३ ।
कबन्धैश्चाभिनृत्यद्भिर्दुर्निरीक्ष्यमभूद्रणे२४ । ।२२। ।

१६ मद्यशः? - ख. । १७ (वः) पद्यं तु (पर्यन्त?) - ख- । १८ नैवातिमन्यत - ख. । १९ म... - ख । २०. प्रमर्दते (?) । २१ ...त्युक्त्वा - ख. । २२ गिरिसंकाशैः (?) । २३ हयैर्युद्धैरिवोत्तमैः - घ. । १४... रन्तरीक्षमभूत्क्षणात् - घ. ।

463
आतपत्रैश्च हारैश्च कवचैस्तलचै (?) रपि ।
निष्कसूत्रैः सुमुकुटैः केयूरैः कुण्डलैरपि२५ । ।२३ ।।
कण्ठत्राणैर्विचित्रैश्च२६ दुकूलैर्मणिभिश्च ह ।
कुथाभिश्च विचित्राभिर्भुजैः साभरणैरपि । ।२४।।
मुशलैः शूलदण्डैश्च घण्टाभिश्चांकुशैरपि ।
विभाति भूतलं तत्र ज्योतिर्भिर्द्यौरिवावृतम् ।।२५। ।
क्रुद्धः केशेषु संगृह्य विरथोपि महारथः ।
रथिनं रथमाप्लुत्य निजघान बलाद्बली ।।२६।।
तत्र चान्यो गजे२७ चाशुरभिहत्य महाभुजः ।
रथं चिक्षेप च वृतैः (?) कुशमुष्टिमिवाध्वरे२८ ।।२७।।
क्षिप्तो गजात् समुत्पत्य - नसं - - - य - ।
शरैराशीविषाकारैरनयद्यमसादनम् ।।२८।।
हतमप्येष तुरगः सादिनं पतितं क्षितौ ।
उपास्ते पादतः सुप्तं गुरुं शिष्यो यथात्मवान् ।।२९।।
ससूते निहते योधे रथमेते हयोत्तमाः ।
वहन्ति पुरुषाः क्षीवा ज्ञानवन्त इवागमान् ।।8.79.३ ०।।
अयमन्यः सुबद्धोपि दैत्येन सुरपुंगवः ।
बाहुभ्यां वेष्टयित्वा तं प्रययौ देवतान्तिकम्२९ (?) ।।३ १ ।।
अयमाधावतः पश्य गजस्य भुजमाच्छिनत् ।
स तेनैव गजेनोर्व्यां पपात३० विनिषूदितः । ।३२।।
अयमन्येन संयुक्त अन्येनागत्य घातितः ।
स चाप्यन्येन देवेन सोप्यन्येन पुनर्हतः ।।३ ३ ।।
एते पदातयश्चान्ये३१ बहवः संहता भृशम् ।
रथिनं मोहयित्वा तु जघ्नुरेनमभीतवत् । ।३४।।

२५ कुड्मलैरपि - ख. । २६ कण्ठत्राणविचित्रैश्च - ख. । २७ तत्रान्ये च गजे - - । २८ कुशमुष्टिं यथाध्वरे - ख. । २९ चैव चान्तिकम् - ख. । ३० निपात्य (?) । ३१ पादत्रये चान्ये - ख. ।

464
एवमाकाशगाः सिद्धा ऋषयश्चारणास्तथा ।
शाधथन्ति३२ रमन्ते च स्मयन्ति३३ च जपन्ति३४ च । ।३५ । ।
हरन्त्यप्सरसश्चैव योधाँस्तत्र रणे हतान् ।
पिशाचाश्चापि मोदन्ते३५ नृत्यन्ति च निकुम्भिलाः ।। ३ ६। ।
तत् प्रवादितगान्धर्वं छिन्नभिन्नविदारितम् ।
युद्धगान्धर्वमभवद् भीरूणां भयवर्द्धनम् ।।३७।।
अन्योन्यघातक्षतसर्वदेहाः सुरासुरा वैरमनुस्मरन्तः ।
जघ्नुस्तदा राक्षसतुल्यरूपाः स्वाराज्यहेतो३६र्जयमीप्समानाः३७ ।।३ ८।।
इति स्कन्दपुराणे देवासुरसंग्राम३८ नामैकोनाशीतितमोध्यायः

सनत्कुमार उवाच
तस्मिन् महति युद्धे१ तु वर्तमाने महाभये ।
दानवान् वै तदा२ देवा३ समन्तात् पर्यवारयन् ।। १ ।।
मृत्युः कालो यमश्चैव कृतान्तः कलहस्तथा ।
निकृतिर्व्याधयश्चैब वैरं क्रोधश्च वीर्यवान् । ।२। ।
नरकाश्चैव ते सर्वे यमदूताश्च सर्वशः ।
प्रेताश्च पितरश्चैव चत्वारो ये४ गणास्त्विति५ ।। ३ ।।
वामनश्चैव यो देवाः किंकराश्च महाबलाः ।
एते सर्वे तदाविश्य संजघ्नुर्दानवं बलम् । ।४। ।
यमदूतैर्विभिन्नांगा भग्नवक्षत्रिकोरसः ।
निष्टनन्ति क्षितौ दैत्या निरयेष्विव पापिनः । ।५। ।
असिचर्मविनिष्पिष्टा मृत्युपाशोवपाशिताः ।
कृतान्तवशगास्सर्वे संभज्यन्ति दितेः सुताः ।।६।।

३२ योधयन्ति - घ. । ३३ गायन्ति - घ. । ३४ जयन्ति - घ । ३५ मोदन्ति - ख. । ३६ स्वराज्यहेतो - ख. । ३७ ...नेति - ख. । ३८ ...मो - ख. ।
१ हतनियुद्धे - य. । २ दानवाँस्ताँस्तदा - घ., देवा वै - ख. । ३ देवान. - ख. । ४ स्वत्वा ये च । घ. । ५ गणेष्विति - घ. ।

465
ते हन्यमाना दैत्येन्द्रा मृत्युना च यमेन च ।
त्रातारमलभन्तो वै तत्र तत्रैव बभ्रमुः । ।७।।
तथा तांस्तत्र तत्रैव भ्रमन्तो जघ्नुरार्दिताः ।
ततो हाहाकृतः शब्दो६ दानवानां बलेभवत् । ।८ ।।
साधुसाध्विति देवानां यभं पूजयतामभूत् ।
अथ प्रह्रादतनयो विरोचन इति श्रुतः । ।९। ।
स गजेन ततोभ्येत्य देवानां बलमार्दयत्७ ।
सह तेन महामायो गजेन समधावत । । 8.80.१० ।।
यमं प्रदक्षिणं कृत्वा द्रोणमेघ इवापरः ।
स शरैर्बहुभिस्तीक्ष्णैरकुण्ठाग्रैरयोमयैः८ । । ११ ।।
वरुणञ्च धनेशञ्च वायुञ्चैवाभ्यवर्षत ।
स संछाद्य तदा भासं भास्करस्य शितैः शरैः ।
अवाकिरत्तदा देवान् संवर्त्तक इवाम्बुदः । १२।।
ते शरार्चितसर्वाङ्गा वध्यमानाः पुनः पुनः ।
क्षणेन समपद्यन्त देवाः सर्वे विचेतसः । । १३ । ।
यान्तमायान्तमप्राप्तं प्राप्तं दूरस्थमेव च ।
यं यतो वीक्षते दैत्यस्तं ततोभिजघान सः । । १४। ।
नित्यायतधनुर्देत्यः परिवेषीव९ भास्करः ।
दुर्निरीक्ष्यः१० समभवद् युगान्ताग्निरिवोत्थितः । ।१ ५।।
अथैवमस्यतो व्यास वरुणः कार्मुकं तदा ।
चिच्छेद सुमहद्धीमाँस्तर्जयन्दानवेश्वरम् ।। १ ६। ।
वायुस्तीक्ष्णशरैस्तस्य कवचं सर्वतोहरत् ।
धनेशोशनिघातेन गजमस्य न्यसूदयत् । । १७। ।
तं तथा निकृतं दृष्टवा बलिर्बाणश्च तावुभौ ।
प्रह्लादो भ्रातृभिः सार्ध लोकपालानुपाद्रवन् ।।१८।।

६ कृतं सर्वे- ख. । ७ वलमदर्शयत् - ख- । ८ ... यन्मयैः ? - ख. । ९ पारिवेषीव - ख. । १० दुर्निरीक्षः ख.।

466
तेषामापततामेव लोकपाला महाबलाः ।
शरैराशीविषाकारैश्चक्ररक्षानपोथयन्११ ।। १ ९। ।
वायुर्बाणस्य विशिखैः कार्मुकाणि विकर्षतः ।
चिच्छेद युगपद् व्यास तदद्भुतमिवाभवत् ।।8.80.२ ० ।।
विच्छिन्नधन्वा स१२ क्रुद्धस्तोमराणि तदासृजत् ।
चिक्षेप तानि वेगेन वायुरन्यां दिशं पुनः । ।२ १ । ।
हयाँश्च पुनरेवास्य शरैः सन्नतपर्वभिः ।
ससूतान् परमायस्तो१३ ह्यनयद्यमसादनम् ।। २२ ।।
स रथाद्बलिजः क्रोधादवप्लुत्य महाबलः ।
गदां गृहीत्वा वेगेन श्वसनं समुपाद्रवत् । ।२३ । ।
तस्यापतत एवाशु सगदस्यानिलस्तथा१४ ।
शरैराशीविषाकारैर्गदां तां समकृन्तत ।।२४।।
स निकृत्तगदश्चापि बाणः प्रहरतां वरः ।
प्रगृह्य तु गदामन्यां चिक्षेप च जहास च ।। २५।।
तामापतन्तीं वेगेन गदां बाणस्य१५ खेचरीम् ।
आक्षिप्य वायुर्व्यधमदन्यां दिशमदीनवत् । ।२ ६ ।।
विरथं तमथालक्ष्य१६ वायुना च भृशार्द्दितम्१७ ।
पुत्रं बलिर्द्रुतं व्यास स्वरथे१८ समपादयत् । ।२७।।
तावेकरथसंयत्तौ१९ बभतु२०र्दानवेश्वरौ ।
सूर्याचन्द्रमसौ यद्वत् पूर्णमास्यां२१ समागतौ ।।२८। ।
अथ तेषाञ्च तेषाञ्च तद्युद्धमभवत्तदा२२ ।
. . . .. . . . .. . . . - - - - - - ।
तान्निरुद्धानथाज्ञाय लोकपालैर्महाबलैः । ।२९। ।

११ न्यपोथयन् - ख. । १२ सं - ख. । १३ परयापस्तो - ख. । १४ भगवाननिलस्तथा - ख. । १५ मानस्य - घ. । १६ विमुखं तमनालक्ष्य - थ. । १७ शरार्दितम् - ख. । १८ सरथे - घ., स्वरथे (?), रथेन - ख. । १९ अथैकरथसंपन्नौ - घ. । २० बभूवु - ख., बिभिदु - घ. । २१ पौर्णमास्यां - घ. । २२ तद्युद्धमभवद् घोरवत्तदा - घ. ।

467
निवातकवचाः सर्वे कालकेयाश्च दंशिताः ।
पौलोमाः सैंहिकेयाश्च शम्बरः कालशम्बरः । ।8.80.३ ० । ।
अन्धकश्च महादैत्यो हिरण्याक्षश्च विश्रुतः ।
सर्वे व्यूहममुञ्चन्तो दानवा युद्धलालसाः ।। ३१ । ।
चक्रुर्वेगं२३ महावेगाः समेघा इव सानवः ।
तानापतत एवाथ यमो दण्डेन वीर्यवान् ।।३ २। ।
अवारयत२४ ते तस्थुश्चित्रपट्ट२५ इवार्पिताः ।
तान् यमस्य भयाद् दैत्यान्२६ दृष्ट्वा सर्वानवस्थितान् ।।३ ३। ।
अन्धको यममभ्येत्य तिष्ठतिष्ठेति चाब्रवीत् ।
महता स रथेनैत्य२७ धनुर्विस्फाल्य२८ चासकृत् ।।३४।।
यमं ललाटे दशभिर्बाणैर्विव्याध वीर्यवान् ।
पञ्चभिर्महिषं चास्य षड्भिः कालं तथाग्रतः ।।३ ५ ।।
मृत्युञ्च दशभिश्चैव कृतान्तं चैव सप्तभिः ।
भ्रामयन् स पुनश्चापमिन्द्रायुधसमप्रभम् ।।३ ६। ।
ननादाम्बुदवच्चैव पुनर्विव्याध दैवतम् ।
हिरण्याक्षसुतो ज्येष्ठो ह्यन्धकोहं महाबलः । । ३७। ।
ब्रह्मणा च वरो दत्तो मह्यमित्यवघोषयन् ।
तस्यैवं वदतस्तूर्णं सूर्यपुत्रः प्रतापवान् । ।३८ ।।
रथं चिच्छेद२९ संक्रुद्धो दण्डेन विनिपातयन्३० ।
सकार्मुके रथे तत्र मथिते ह्यन्धकस्तदा३१ । ।३ ९। ।
गदामुद्यम्य वेगेन प्रेताधिपमथाद्रवत् ।
तस्य तां दण्डघातेन गदां सोप्यवचूर्णयत् । ।8.80.४० ।।
शिरस्येनं पुनः क्रुद्धो दण्डेन समताडयत् ।
 ' ' ' ' - - - - - - - । ।४१ ।।

२३ ... र्वेगान् - ख । २ अवारयन्त - ख. । २५ .पट्टा - ख. । २६ दैत्या - ख. । २७ रथेनेत्य - ख. । २८ विस्फार्य (?) । २९ धनुश्चिच्छेद (?) । ३० रथे दण्डं न्यपातयत् (?) रथं दण्डेन पातयत् (?) । ३१ ...स्तथा - ख. ।

468
जितेन्द्रियो मुनिर्यद्वत् स्पृष्टो विषयगोचरैः (?) ।
अथाप्रतिहतं दण्डमन्धकेन पराहतम् ।।४२ । ।
पुरः३२ प्रतिहतं दृष्टवा जहसुर्दानवेश्वराः ।
सिंहनादान् सवादित्रान् बाहुशब्दाँश्च सुस्वरान् । ।४३ । ।
चक्रुः साध्वन्धकेत्येवं चुक्रुशुश्च मुहुर्मुहुः ।
अन्धकोपि तदाभ्येत्य नर्दमानो यथार्णवः । ।४४। ।
तलेनाहत्य३ महिषाद्यमं भूमौ न्यपातयत् ।
ततो हाहाकृतं देवैर्गृह्णगृह्णेति दानवैः ।।४५।।
व्यूहभंगश्च देवानामभवच्छक्तिनन्दन ।
अथ मृत्युश्च कालश्च कृतान्तश्चेति ते त्रयः ।।४६। ।
अन्धकं बहुभिः३४ पाशैर्बबन्धुः क्रोधमूर्च्छिताः ।
पाशाँश्चैव स दैत्येन्द्रो विच्छिद्य सुमहाबलः ।
बाहुपाशेन बलवान्कृतान्तमवबध्नत । ।४७। ।
स बद्धो बाहुपाशेन कृतान्तः क्रोधमूर्छितः ।
उत्क्षिप्यान्धकमुद्धूतो निनाय बलवान् बलात् ।।४८। ।
तं नीयमानं संप्रेक्ष्य हिरण्याक्षः सुतं स्वकम् ।
जघान सायकैस्तीक्ष्णैः कृतान्तं सुभृशं दृढम् । ।४९। ।
तस्य गात्राणि सर्वाणि सन्धीँश्चैव महाबलः ।
विव्याध निशितैर्बाणैः स विष्टब्धो व्यतिष्ठत । ।8.80.५० ।।
तं बाणैर्विवृतं३५ दृष्ट्वा देवाः सर्वे सवासवाः ।
रक्षन्तः समपद्यन्त भीमोद्यतकरायुधाः ।। ५१ ।।
अथ किखर३६ मृदंगवेणुवीणापणवसुघोषकडिण्डिमानकानाम् ।
असुरसुरबले महान् तदानीं समभवदुग्रतरः३७ स तूर्यनादः३८ । ।५२ ।।
इति स्कन्दपुराणे युद्धे अशीतितमोध्यायः

३२ पुनः - ख. । ३३ तालानाहत्य - ख. । ३४ बाहुभिः (?) ३। । ३५ वाणविवृतं - ख., बाणैर्विधृतं (?) । ३६ मुरज - घ. । ३७.. .दग्रवर. - ख. । ३८ सतूर्यनादमिति - ख. ।