स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः २३९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २३८ स्कन्दपुराणम् - नागरखण्डः
अध्यायः २३९
[[लेखकः :|]]
अध्यायः २४० →

॥ नारद उवाच ॥
उपचारैः षोडशभिः पूजनं क्रियते कथम् ॥
ते के षोडश भावाः स्युर्नित्यं ये शयने हरेः ॥ १ ॥
एतद्विस्तरतो ब्रूहि पृच्छतो मे प्रजापते ॥
तव प्रसादमासाद्य जगत्पूज्यो भवाम्यहम् ॥ २ ॥
॥ ब्रह्मोवाच ॥ ॥
विष्णुभक्तिर्दृढा कार्या वेदशास्त्रविधानतः ॥
वेदमूलमिदं सर्वं वेदो विष्णुः सनातनः ॥ ३ ॥
ते वेदा ब्राह्मणाधारा ब्राह्मणाश्चाग्निदैवताः ॥
अग्नौ प्रास्ताहुतिर्विप्रो यज्ञे देवं यजन्सदा ॥ ४ ॥
जगत्संधारयेत्सर्वं विष्णुपूजारतः सदा ॥
नारायणः स्मृतो ध्यातः क्लेशदुःखादिनाशनः ॥ ५ ॥
चातुर्मास्ये विशेषेण जलरूपगतो हरिः ॥
जलादन्नानि जायंते जगतां तृप्तिहेतवे ॥ ६ ॥
विष्णुदेहांशसंभूतं तदन्नं ब्रह्म इष्यते ॥
तदन्नं विष्णवे दत्त्वा ह्यावाहनपुरःसरम् ॥ ७ ॥
पुनर्जन्मजराक्लेशसंस्कारैर्नाभिभूयते ॥
आकाशसंभवो वेद एक एव पुराऽभवत् ॥ ८ ॥
ततो यजुःसामसंज्ञामृग्वेदः प्राप भूतये ॥
ऋग्वेदोऽभिहितः पूर्वं यजुःसहस्रशीर्षेति च ॥ ९ ॥
षोडशर्चं महासूक्तं नारायणमयं परम् ॥
तस्यापि पाठमात्रेण ब्रह्महत्या निव र्तते॥6.239.१०॥।
विप्रः पूर्वं न्यसेद्देहे स्मृत्युक्तेन निजे बुधः॥
ततस्तु प्रतिमायां च शालग्रामे विशेषतः॥११॥
क्रमेण च ततः कुर्यात्पश्चादावाहनादिकम्॥
आवाह्य सकलं रूपं वैकुण्ठस्थानसंस्थितम्॥१२॥
कौस्तुभेन विराजंतं सूर्यकोटिसमप्रभम्।.
दंडहस्तं शिखासूत्रसहितं पीतवाससम् ॥१३॥
महासंन्यासिनं ध्यायेच्चातुर्मास्ये विशेषतः ॥
एवं रूपमयं विष्णुं सर्वपापौघहारिणम् ॥१४॥
आवाहयेच्च पुरतो ध्यानसंस्थं द्विजोत्तम॥
ऋचा प्रथमया चास्योंकारादिसमुदीर्णया ॥१५॥
द्वितीयया चासनं च पार्षदैश्च समन्वितम्॥
सौवर्णान्यासनान्येषां मनसा परिचिन्तयेत् ॥१६॥
चिन्तनैर्भक्तियोगेन परिपूर्णं च तद्भवेत् ॥
पाद्यं तृतीयया कार्यं गंगां तत्र स्मरेद्बुधः ॥ १७ ॥
अर्घ्यः कार्यस्ततो विष्णोः सरिद्भिः सप्तसागरैः ॥
पुनराचमनं कार्यममृतेन जगत्पतेः ॥१८॥
त्रिभिराचमनैः शुद्धिर्ब्राह्मणस्य निगद्यते ॥
अद्भिस्तु प्रकृतिस्थाभिर्हीनाभिः फेनबुद्बुदैः ॥१९॥
हृत्कण्ठ तालुगाभिश्च यथावर्णं द्विजातयः ॥
शुध्येरन्स्त्री च शूद्रश्च सकृत्स्पृष्टाभिरंततः ॥6.239.२०॥।
पञ्चम्याऽऽचमनं कार्यं भक्तियुक्तेन चेतसा ॥
भक्तिग्राह्यो हृषीकेशो भक्त्याऽऽत्मानं प्रयच्छति ॥ २१ ॥
ततः सुवासितैस्तोयैः सर्वोषधिसमन्वितैः ॥
शेषोदकैः स्वर्णघटैः स्नानं देवस्य कारयेत् ॥ २२ ॥
तीर्थोदकैः श्रद्धया च मनसा समुपाहृतैः ॥
अश्रद्धया रत्नराशिः प्रदत्तो निष्फलो भवेत् ॥ २३ ॥
वार्यपि श्रद्धया दत्तमनंतत्वाय कल्पते ॥
चातुर्मास्ये विशेषेण श्रद्धया पूयते नरः ॥ २४ ॥
 षष्ठ्या स्नानं ततः कार्यं पुनराचमनं भवेत् ॥
दद्याच्च वाससी स्वर्णसहिते भक्तिशक्तितः ॥ २५ ॥
आच्छादितं जगत्सर्वं वस्त्रेणाच्छादितो हरिः ॥
चातुर्मास्ये विशेषेण वस्त्रदानं महाफलम् ॥ २६ ॥
पुनराचमनं देयं यतये विष्णुरूपिणे ॥
वस्त्रदानं च सप्तम्या कार्यं विष्णोर्मुनीश्वर ॥ २७ ॥
यज्ञोपवीतमष्टम्या तच्चाध्यात्मतया शृणु ॥
सूर्यकोटिसमस्पर्शं तेजसा भास्वरं तथा ॥ २८ ॥
क्रोधाभिभूते विप्रे तु तडित्कोटिसभप्रभम्॥
सूर्येन्दुवह्निसंयोगाद्गुणत्रयसमन्वितम् ।। २९ ॥
त्रयीमयं ब्रह्मविष्णुरुद्ररूपं त्रिविष्टपम् ॥
यस्य प्रभावाद्विप्रेंद्र मानवो द्विज उच्यते ॥ 6.239.३० ॥
जन्मना जायते शूद्रः संस्काराद्द्विज उच्यते ॥
शापानुग्रहसामर्थ्यं तथा क्रोधः प्रसन्नता ॥ ३१ ॥
त्रैलोक्यप्रवरत्वं च ब्राह्मणादेव जायते ॥
न ब्राह्मणसमो बन्धुर्न ब्राह्मणसमा गतिः ॥ ३२ ॥
न ब्राह्मणसमः कश्चित्त्रैलोक्ये सचराचरे ॥
दत्तोपवीते ब्रह्मण्ये सुप्ते देवे जनार्दने ॥ ॥ ३३ ॥
सर्वजगद्ब्रह्ममयं संजातं नात्र संशयः ॥
नवम्या च सुलेपश्च कर्तव्यो यज्ञमूर्तये ॥ ३४ ॥
सुयक्षकर्दमैर्लिप्तो विष्णुर्येन जगद्गुरुः ॥
तेना प्यायितमेतद्धि वासितं यशसा जगत् ॥ ३५ ॥
तेजसा भास्करो लोके देवत्वं प्राप्य मानवः ॥
ब्रह्मलोकादिके लोके मोदते चंदनप्रदः ॥ ३६ ॥
चंदनालेपसुभगं विष्णुं पश्यंति मानवाः ॥
न ते यमपुरं यांति चातुर्मास्ये विशेषतः ॥ ३७ ॥
दशम्या पुष्पपूजा च भक्तिपूजा तथैव च ॥
पुष्पे चैव सदा लक्ष्मीर्वसत्येव निरंतरम् ॥ ३८ १।
लक्ष्म्याः सर्वत्र गामिन्या दोषो नैव प्रजायते ॥
यथा सर्वमयो विष्णुर्न दोषैरनुभूयते ॥ ३९ ॥
तथा सर्वमयी लक्ष्मीः सतीत्वान्नैव हीयते ॥
प्रतिमासु च सर्वासु सर्वभूतेषु नित्यदा ॥ 6.239.४० ॥
मनुष्यदेवपितृषु पुष्पपूजा विधीयते ॥
पुष्पैः संपूजितो येन हरिरेकः श्रिया सह ॥ ४१ ॥
आब्रह्मस्तंबपर्यंतं पूजितं तेन वै जगत् ॥
अतः सुश्वेतकुसुमैर्विष्णुं संपूजयेत्सदा ॥४२ ॥
चातुर्मास्ये विशेषेण भक्तियुक्तः सदा शुचिः ॥
भक्त्या सुविहिता ब्रह्मन्पुष्पपूजा नरैर्यदि ॥ ४३ ॥
यंयं काममभिध्यायेत्तस्य सिद्धिर्निरंतरा ॥
पुष्पैरुपचितं विष्णुं यद्यन्ये प्रणमंति च ॥ ४४ ॥
तेषामप्यक्षया लोकाश्चातुर्मास्येऽधिकं फलम् ॥
एकादश्या धूपदानं कर्तव्यं यतये हरौ ॥ ४५ ॥
वनस्पति रसो दिव्यो गंधाढ्यो गन्ध उत्तमः॥
आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥ ४६ ॥
इमं मंत्रं समुच्चार्य धूपमागुरुजं शुभम् ॥
दद्याद्भगवते नित्यं चातुर्मास्ये महाफलम् ॥ ४७ ॥
कर्पूरचन्दनदलैः सितामधुसमन्वितम् ॥
मांसीजटाभिः सहितं सुप्ते देवेऽथ सत्तम ॥ ४८ ॥
देवा घ्राणेन तुष्यंति धूपं घ्राणहरं शुभम्॥
द्वादश्या दीपदानं तु कर्तव्यं मुक्तिमिच्छुभिः ॥ ४९ ॥
दीपः सर्वेषु कार्येषु प्रथमस्तेजसां पतिः ॥
दीपस्तमौघनाशाय दीपः कांतिं प्रयच्छति ॥ 6.239.५० ॥
तस्माद्दीपप्रदानेन प्रीयतां मे जनार्दनः ॥
अयं पौराणजो मंत्रो वेदर्चेन समन्वितः ॥
दीपप्रदाने सकलः प्रयुक्तो नाशयेदघम् ॥ ५१ ॥
चातुर्मास्ये दीपदानं कुरुते यो हरेः पुरः ॥
तस्य पापमयो राशिर्निमेषादपि दह्यते ॥ ५२ ॥
तावत्पापानि गर्जंति तावद्बिभेति पातकी ॥
यावन्न विहितो भास्वान्दीपो नारायणालये ॥ ५३ ॥
दर्शनादपि दीपस्य सर्वसिद्धिर्नृणां भवेत् ॥ ५४ ॥
कामनां यां समुद्दिश्य दीपं कारयते हरौ ॥
सासा सिद्ध्यति निर्विघ्ना सुप्तेऽनंते गुणोत्तरम् ॥ ५५ ॥
पंचायतनसंस्थेषु तथा देवेषु पंचसु ॥
विहितं दीपदानं च चातुर्मास्ये महाफलम् ॥ ५६ ॥
एको विष्णुस्तुष्यते मुक्तिदाता नित्यं ध्यातः पूजितः संस्तुतश्च ॥
यच्चाभीष्टं यच्च गेहे शुभं वा तत्तद्देयं मुक्तिहेतोर्नृवर्यैः ॥ ५७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये तपोऽधिकारषोडशोपचारदीपमहिमवर्णनंनामैकोनचत्वारिंशदुत्तर द्विशततमोऽध्यायः ॥ २३९ ॥