स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः २३८
← अध्यायः २३७ | स्कन्दपुराणम् - नागरखण्डः अध्यायः २३८ [[लेखकः :|]] |
अध्यायः २३९ → |
॥ ब्रह्मोवाच ॥ ॥
तपः शृणुष्व विप्रेंद्र विस्तरेण महामते ॥
यस्य श्रवणमात्रेण चातुर्मास्येऽ, घनाशनम् ॥ १ ॥
षोडशैरुपचारैश्च विष्णोः पूजा सदा तपः ॥
ततः सुप्ते जगन्नाथे महत्तप उदाहृतम् ॥ २ ॥
करणं पंचयज्ञानां सततं तप एव हि ॥
तन्निवेद्य हरौ चैव चातुर्मास्ये महत्तपः ॥ ३ ॥
ऋतुयानं गृहस्थस्य तप एव सदैव हि ॥
चातुर्मास्ये हरिप्रीत्यै तन्निषेव्यं महत्तपः ॥ ४ ॥
सत्यवादस्तपो नित्यं प्राणिनां भुवि दुर्लभम् ॥
सुप्ते देवपतौ कुर्वन्ननंतफलभाग्भवेत् ॥ ५ ॥
अहिंसादिगुणानां च पालनं सततं तपः ॥
चातुर्मास्ये त्यक्तवैरं महत्तप उदारधीः ॥ ६ ॥
तप एव महन्मर्त्यः पंचायतनपूजनम् ॥
चातुर्मास्ये विशेषेण हरिप्रीत्या समाचरेत् ॥ ७ ॥ ॥
॥ नारद उवाच ॥ ॥
पंचायतनसंज्ञेयं कस्योक्ता सा कथं भवेत् ॥
कथं पूजा च कर्तव्या विस्तरेणाशु तद्वद ॥ ८ ॥
॥ ब्रह्मोवाच ॥ ॥
प्रातर्मध्याह्नपूजायां मध्ये पूज्यो रविः सदा ॥
रात्रौ मध्ये भवेच्चंद्रस्तद्वर्णकुसुमैः शुभैः ॥ ९ ॥
वह्निकोणे तु हेरंबं सर्वविघ्नोपशांतये ॥
रक्तचंदन पुष्पैश्च चातुर्मास्ये विशेषतः ॥ ६.२३८.१० ॥
नैर्ऋतं दलमास्थाय भगवान्दुष्टदर्पहा ॥
गृहस्थस्य सदा शत्रुविनाशं विदधाति सः ॥ ११ ॥
नैर्ऋत्यकोणगं विष्णुं पूजयेत्सर्वदा बुधः ॥
सुगन्धचंदनैः पुष्पैर्नैवेद्यैश्चातिशोभनैः ॥ १२ ॥
गोत्रजा वायुकोणे तु पूजनीया सदा बुधैः ॥
पुत्रपौत्रप्रवृद्ध्यर्थं सुमनोभिर्मनोहरैः ॥ १३ ॥
ऐशाने भगवान्रुद्रः श्वेतपुष्पैः सदाऽर्चितः ॥
अपमृत्युविनाशाय सर्वदोषापनुत्तये ॥ १४ ॥
जागर्ति महिमा यस्य ब्रह्माद्यैर्नैव लिख्यते ॥
पंचायतनमेतद्धि पूज्यते गृहमेधिभिः ॥ १५ ॥
तप एतत्सदा कार्यं चातुर्मास्ये महाफलम् ॥
पर्वकालेषु सर्वेषु दानं देयं तपः सदा ॥
चातुर्मास्ये विशेषेण तदनंतं प्रजायते ॥ १६ ॥
शौचं तु द्विविधं ग्राह्यं बाह्यमाभ्यंतरं सदा ॥
जलशौचं तथा बाह्यं श्रद्धया चांतरं भवेत् ॥ ॥ १७ ॥
इद्रियाणां ग्रहः कार्यस्तपसो लक्षणं परम् ॥
निवृत्त्येंद्रियलौल्यं च चातुर्मास्ये महत्तपः ॥ १८ ॥
इन्द्रियाश्वान्सन्नियम्य सततं सुखमेधते ॥
नरके पात्यते प्राणैस्तैरेवोत्पथगामिभिः ॥ १९ ॥
ममतारूपिणीं ग्राहीं दुष्टां निर्भर्त्स्य निग्रहेत् ॥
तप एव सदा पुंसां चातुर्मास्येऽधिगौरवम् ॥ ६.२३८.२० ॥
काम एष महाशत्रुस्तमेकं निर्जयेद्दृढम् ॥
जितकामा महात्मानस्तैर्जितं निखिलं जगत् ॥ २१ ॥
एतच्च तपसो मूलं तपसो मूलमेव तत् ॥
सर्वदा कामविजयः संकल्पविजयस्तथा ॥ २२ ॥
तदेव हि परं ज्ञानं कामो येन प्रजायते ॥
महत्तपस्तदेवाहुश्चातुमास्ये फलोत्तमम् ॥२३॥
लोभः सदा परित्याज्यः पापं लोभे समास्थितम् ॥
तपस्तस्यैव विजयश्चातुर्मास्ये विशेषतः ॥ २४ ॥
मोहः सदाऽविवेकश्च वर्जनीयः प्रयत्नतः ॥
तेन त्यक्तो नरो ज्ञानी न ज्ञानी मोहसंश्रयात ॥२५॥
मद एव मनुष्याणां शरीरस्थो महारिपुः ॥
सदा स एव निग्राह्यः सुप्ते देवे विशेषतः ॥२६॥
मानः सर्वेषु भूतेषु वसत्येव भयावहः ॥
क्षमया तं विनिर्जित्य चातुर्मास्ये गुणाधिकः॥२७॥
मात्सर्यं निर्जयेत्प्राज्ञो महापातककारणम् ॥
चातुर्मास्ये जितं तेन त्रैलोक्यममरैः सह ॥२८॥
अहंकारसमाक्रांता मुनयो विजितेंद्रियाः ॥
धर्ममार्गं परित्यज्य कुर्वत्युन्मार्गजां क्रियाम् ॥२९॥
अहंकारं परित्यज्य सततं सुखमाप्नुयात् ॥
चातुर्मास्ये विशेषेण तस्य त्यागे महाफलम् ॥६.२३८.३॥।
एतद्धि तपसो मूलं यदेतन्मनसस्त्यजेत् ॥
त्यक्तेष्वेतेषु सर्वेषु पर ब्रह्ममयो भवेत् ॥ ३१ ॥
प्रथमं कायशुद्ध्यर्थं प्राजापत्यं समाचरेत् ॥
शयने देवदेवस्य विशेषेण महत्तपः ॥ ३२ ॥
हरेस्तु शयने नित्यमेकांतरमु पोषणम् ॥
यः करोति नरो भक्त्या न स गच्छेद्यमालयम् ॥ ३३ ॥
हरिस्वापे नरो नित्यमेकभक्तं समाचरेत् ॥
दिवसेदिवसे तस्य द्वादशाहफलं लभेत् ॥ ३४ ॥
चातुर्मास्ये नरो यस्तु शाकाहारपरो यदि ॥
पुण्यं क्रतुसहस्राणां जायते नात्र संशयः ॥ ३५ ॥
चातुर्मास्ये नरो नित्यं चांद्राय णव्रतं चरेत् ॥
एकैकमासे तत्पुण्यं वर्णितुं नैव शक्यते ॥ ३६ ॥
सुप्ते देवे च पाराकं यः करोति विशुद्धधीः ॥
नारी वा श्रद्धया युक्ता शतजन्माघ नाशनम् ॥ ३७ ॥
कृच्छ्रसेवी भवेद्यस्तु सुप्ते देवे जनार्दने ॥
पापराशिं विनिर्धूय वैकुण्ठे गणतां व्रजेत् ॥ ३८ ॥
तप्तकृच्छ्रपरो यस्तु सुप्ते देवे जनार्दने ॥
कीर्तिं संप्राप्य वा पुत्रं विष्णुसायुज्यतां व्रजेत् ॥ ३९ ॥
दुग्धाहारपरो यस्तु चातुर्मास्येऽभिजायते ॥
तस्य पापसहस्राणि विलयं यांति देहिनः ॥ ६.२३८.४० ॥
मितान्नाशनकृद्धीरश्चातुर्मास्ये नरो यदि ॥
निर्धूय सकलं पापं वैकुण्ठपदमाप्नुयात् ॥ ४१ ॥
एकान्नाशनकृन्मर्त्यो न रोगैरभि भूयते ॥
अक्षारलवणाशी च चातुर्मास्ये न पापभाक् ॥ ४२ ॥
कृताहारो महापापैर्निर्मुक्तो जायते ध्रुवम् ॥
हरिमुद्दिश्य मासेषु चतुर्षु च न संशयः ॥ ४३ ॥
कन्दमूलाशनकरः पूर्वजान्सह चात्मना ॥
उद्धृत्य नरकाद्घोराद्याति विष्णुसलोकताम् ॥ ४४ ॥
नित्यांबुप्राशनकरश्चातुर्मास्ये यदा भवेत् ॥
दिनेदिनेऽश्वमेधस्य फलमाप्नोत्यसंशयम् ॥ ४५ ॥
शीतवृष्टिसहो यस्तु चातुर्मास्ये नरो भवेत् ॥
हरिप्रीत्यै जगन्नाथस्तस्यात्मानं प्रयच्छति ॥ ४६ ॥
महापाराकसंज्ञं तु महत्तप उदाहृतम् ॥
मासैकमुपवासेन सर्वं पूर्णं प्रजायते ॥ ४७ ॥
देवस्वापदिनादौ तु यावत्पवित्रद्वादशी ॥
पवित्रद्वादशीपूर्वं यावच्छ्रवणद्वादशी ॥ ४८ ॥
महापाराकमेतद्धि द्वितीयं परिकीर्तितम् ॥
श्रवणद्वादशीपूर्वं प्राप्ता चाश्विनद्वादशी ॥४९॥
महापाराक तृतीयं प्राज्ञैश्च समुदाहृतम् ॥
आश्विनद्वादशी चादौ प्राप्ता देवसुबोधिनी ॥ ६.२३८.५० ॥
महापाराकमेतद्धि चतुर्थं परिकथ्यते ॥
एतेषामेकमपि च नारी वा पुरुषोऽपि वा ॥ ५१ ॥
यः करोति नरो भक्त्या स च विष्णुः सनातनः ॥
इदं च सर्वतपसां महत्तप उदाहृतम् ॥ ५२ ॥
दुष्करं दुर्लभं लोके चातुर्मास्ये मखाधिकम् ॥
दिवसेदिवसे तस्य यज्ञायुतफलं स्मृतम् ॥ ५३ ॥
महत्तप इदं येन कृतं जगति दुर्लभम् ॥
इदमेव महापुण्यमिदमेव महत्सुखम् ॥
इदमेव परं श्रेयो महापाराकसेवनम् ॥ ५४ ॥
नारायणो वसेद्देहे ज्ञानं तस्य प्रजायते ॥
जीवन्मुक्तः स भवति महापातककारकः ॥ ५५ ॥
तावद्गर्जंति पापानि नरकास्तावदेव हि ॥
तावन्मायासहस्राणि यावन्मासो पवासकः ॥ ५६ ॥
चातुर्मास्युपवासी यो यस्य प्रांगणिको भवेत् ॥
सोऽपि हत्यासहस्राणि त्यक्त्वा निष्कल्मषो भवेत् ॥ ५७ ॥
य इदं श्रावयेन्मर्त्यो यः पठेत्सततं स्वयम् ॥ ५८ ॥
सोऽपि वाचस्पतिसमः फलं प्राप्नोत्यसंशयम् ॥ ५९ ॥
इदं पुराणं परमं पवित्रं शृण्वन्गृणन्पापविशुद्धिहेतु ॥
नारायणं तं मनसा विचिन्त्य मृतोऽभिगच्छत्यमृतं सुराधिकम् ॥ ६.२३८.६० ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये तपोमहिमावर्णनं नामाष्टत्रिंशदुत्तरद्विशततमोऽध्यायः ॥ २३८ ॥