स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः २३२
← अध्यायः २३१ | स्कन्दपुराणम् - नागरखण्डः अध्यायः २३२ [[लेखकः :|]] |
अध्यायः २३३ → |
॥ ऋषय ऊचुः ॥ ॥
प्रसुप्ते देवदेवेशे शंखचक्रगदाधरे ॥
यच्चान्यदपि कर्तव्यं नियमो व्रतमेव वा ॥ १ ॥
होमो वाथ जपो वाथ दानं वा तद्वदस्व नः ॥
॥ सूत उवाच ॥
यः कश्चिन्नियमो विप्राः प्रसुप्ते गरुडध्वजे ॥ २ ॥
अनंतफलदः स स्यादित्युवाच पितामहः ॥
तस्मात्सर्वप्रयत्नेन कश्चिद्बाह्यो विजानता ॥ ३ ॥
नियमो वा जपो होमः स्वाध्यायो व्रतमेव वा ॥
कर्तव्यं ब्राह्मणश्रेष्ठास्तुष्ट्यर्थं चक्रपाणिनः ॥ ४ ॥
चतुरो वार्षिकान्मासानेकभुक्तेन यो नयेत् ॥
वासुदेवं समुद्दिश्य स धनी जायते नरः ॥ ५ ॥
नक्षत्रैर्भोंजनं कुर्याद्यः प्रसुप्ते जनार्दने ॥
स धनी रूपसंपन्नः सुमतिश्च प्रजायते ॥ ६ ॥
एकांतरोपवासैश्च यो नयेद्द्विजसत्तमाः ॥
चतुरो वार्षिकान्मासान्वैकुंठे स सदा वसेत् ॥ ७ ॥
षष्ठान्नकालभोजी स्याद्यः प्रसुप्ते जनार्दने ॥
राजसूयाश्वमेधाभ्यां स कृत्स्नं फलमाप्नुयात्॥ ८ ॥
त्रिरात्रोपोषितो यस्तु चतुर्मासान्सदा नयेत् ॥
न स भूयोऽपि जायेत संसारेऽत्र कथंचन ॥ ९ ॥
सायंप्रातः परो भूत्वा चतुर्मासान्सदा नयेत्॥
अग्निष्टोमस्य यज्ञस्य स फलं लभते नरः ॥ ६.२३२.१० ॥
अयाचितं चरेद्यस्तु प्रसुप्ते मधुसूदने ॥
न विच्छेदो भवेत्तस्य कदाचित्सह बंधुभिः ॥ ११ ॥
तैलाभ्यंगं च यो जह्याद्घृताभ्यंगं विशेषतः ॥
चतुरो वार्षिकान्मासान्स स्वर्गे भोगभाग्भवेत् ॥ १२ ॥
ब्रह्मचर्येण यो मासांश्चतुरोऽपि नयेन्नरः ॥
विमानवरमारूढः स स्वर्गे स्वेच्छया वसेत् ॥ १३ ॥
यः स्नानं चतुरो मासान्कुरुते तैलवर्जितम् ॥
मधुमांसपरित्यागी स भवेन्मुक्तिभाक्सदा ॥ १४ ॥
वर्जयेच्छ्रावणे शाकं दधि भाद्रपदे च यः ॥
क्षीरमाश्वयुजे मासि कार्तिके च सदामिषम्॥ १८ ॥
न स पापेन लिप्येत संवत्सरकृते पुनः ॥
एतत्प्राह द्विजश्रेष्ठा मनुः स्वायंभुवो वचः ॥ १६ ॥
शाके संक्रमते ब्रह्मा श्रावणे मासि संस्थिते ॥
दध्नि भाद्रपदे विष्णुः क्षीरे चाश्वयुजे हरः ॥ १७ ॥
त्रयोऽपि कार्तिके मासि संक्रमंति तथाऽऽमिषे ॥
तस्मादेतान्स देवेषु सर्वथा परिवर्जयेत् ॥ १८ ॥
यः कांस्यं वर्जयेन्मर्त्यः प्रसुप्ते गरुडध्वजे ॥
स फलं प्राप्नुयात्कृत्स्नं वाजपेयातिरात्रयोः ॥ १९ ॥
अक्षारलवणाशी च यो भवेद्ब्राह्मणोत्तमः ॥
तस्यापि सकलाः पूर्ताः प्रभवंति सदा ततः ॥ ६.२३२.२० ॥
यो होमं चतुरो मासान्प्रकरोति तिलाक्षतैः ॥
स्वाहांतैर्वैष्णवैर्मंत्रैर्न स रोगेण युज्यते ॥ २१ ॥
यो जपेत्पौरुषं सूक्तं स्नात्वा विष्णोः स्थितोऽग्रतः ॥
मतिस्तस्य विवर्धेत शुक्लपक्षे यथोडुराट् ॥ २२ ॥
शतमष्टोत्तरं यावत्फलहस्तः प्रदक्षिणाम् ॥
करोति विष्णोर्मौनेन न स पापेन लिप्यते ॥ २३ ॥
मिष्टान्नं ब्राह्मणेंद्राणां यो ददाति स्वशक्तितः ॥
विशेषात्कार्तिके मासि सोऽग्निष्टोमफलं लभेत्॥ २४ ॥
यः स्वाध्यायं चतुर्वेदैर्विष्णोरायतने चरेत् ॥
चतुरो वार्षिकान्मासान्स विद्वान्सर्वदा भवेत् ॥ २५ ॥
नृत्यगीतादिकं यश्च कुर्याद्विष्णोः सदा गृहे ॥
अप्सरसोऽस्य कुर्वंति पुरतः स्वर्गतस्य च ॥ २६ ॥
यस्तु रात्रिदिनं विप्रो नृत्यगीतादिकं ददेत् ॥
चतुरो वार्षिकान्मासान्स गन्धर्वत्वमाप्नुयात् ॥ २७ ॥
एते च नियमाः सर्वे शक्यंते यदि भो द्विजाः ॥
कर्तुं च चतुरो मासानेकस्मिन्वाऽपि कार्त्तिके ॥ २८ ॥
तथापि चैव कर्तव्यं लोकद्वयमभीप्सता ॥
कार्तिक्यां ब्राह्मणश्रेष्ठा वैष्णवैः पुरुषैरिह ॥ २९ ॥
कांस्यं मांसं क्षुरं क्षौद्रं पुनर्भोजनमैथुने ॥
कार्तिके वर्जयेद्यस्तु य एतान्ब्राह्मणः सदा ॥ ६.२३२.३० ॥
पूर्वोक्तानां तु सर्वेषां नियमानां फलं लभेत् ॥ ३१ ॥
अथ यः कार्तिके मासि प्रासादस्योपरि द्विजाः ॥
जलशाय्याख्यदेवस्य कलशे दीपकं ददेत्॥
पूर्वोक्तनियमानां च स षण्णां फलभाग्भवेत् ॥ ३२ ॥
यद्यदिष्टतमं किंचि त्सुप्राप्यं चैव यद्भवेत् ॥
नियमस्तस्य कर्तव्यश्चातुर्मास्ये शुभार्थिभिः ॥ ३३ ॥
नियमे च कृते दद्याद्ब्राह्मणाय तदेव हि ॥
नियमस्तु कृतो यस्य स्वशक्त्या स्यात्फलं ततः ॥ ३४ ॥
यो विना नियमं मर्त्यो व्रतं वा जाप्यमेव वा ॥
चतुर्मासान्नयेन्मूर्खो जीवन्नपि मृतो हि सः ॥३५॥
यथा काक यवाः प्रोक्ता यथारण्यास्तिलोद्भवाः ॥
नाममात्रप्रसिद्धाश्च तथा ते मानवा भुवि ॥ ३६ ॥
तस्मात्सर्वप्रयत्नेन कार्यो यत्नेन कार्तिके ॥
एकोऽपि नियमः कश्चित्सुसूक्ष्मोऽपि द्विजोत्तमाः ॥ ३७ ॥
एतद्वः सर्वमाख्यातं चातुर्मासीसमुद्भवम्॥
व्रतानां नियमानां च माहात्म्यं विस्तराद्द्विजाः ॥३८॥
यश्चैतच्छृणुयान्नित्यं पठेद्वापि समाहितः ॥
चातुर्मासी कृतात्पापात्सोऽपि मुक्तिमवाप्नुयात् ॥ ३९ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये जलशाय्युपाख्याने चातुर्मास्यव्रतनियमवर्णनंनाम द्वात्रिंशदुत्तरद्विशतमोऽध्यायः ॥२३२ ॥। ॥