स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः २३१
← अध्यायः २३० | स्कन्दपुराणम् - नागरखण्डः अध्यायः २३१ [[लेखकः :|]] |
अध्यायः २३२ → |
॥सूत उवाच॥
वृकोऽपि तत्समासाद्य राज्यं त्रैलोक्यसंभवम्॥
यदृच्छया जगत्सर्वं समाज्ञापयत्तदा॥१॥
सोंऽधकस्य बले वीर्ये धैर्ये कोपे च दानवः॥
सहस्रगुणितश्चासीद्रौद्रः परमदारुणः॥२॥
एतस्मिन्नंतरे कश्चिन्न मर्त्यो यजति क्षितौ॥
न होमं नैव जाप्यं च दैत्याञ्ज्ञात्वा सुरास्पदे॥३॥
अथ यः कुरुते धर्मं होमं वा जपमेव वा।
सुगुप्तस्थानमासाद्य करोत्यमरतुष्टये॥४॥
अथ स्वर्गस्थिता दैत्या यज्ञभागविवर्जिताः॥
तथा मर्त्योद्भवैर्भागैः संदेहं परमं गताः॥५॥
ततः कोपपरीतात्मा प्रेषयामास दानवः॥
मर्त्यलोके चरान्गुप्तान्निपुणांश्चाब्रवीत्ततः॥६॥
यः कश्चिद्देवतानां च प्रगृह्णाति करोति च॥
तदर्थं यजनं होमं दानं वा पृथिवीतले॥
स च वध्यश्च युष्माभिर्मम वाक्यादसंशयम्॥७॥
अथ ते तद्वचः श्रुत्वा दानवा बलवत्तराः॥
गत्वा च मेदिनीपृष्ठं गुप्ताः सर्पंति सर्वतः॥८॥
यं कञ्चिद्वीक्षयंतिस्म जपहोमपरायणम॥
स्वाध्यायं वा प्रकुर्वाणं तं निघ्नंति शितासिभिः॥ ९॥
एतस्मिन्नेव काले तु सांकृतिर्मुनिसत्तमः॥
गुप्तश्चक्रे ततस्तस्यां गर्तायां छन्नवर्ष्मकः॥
यत्र पूर्वं तपस्तप्तं वृकेण च द्विजाः पुरा॥६.२३१.१०॥
अथ ते तं तदा दृष्ट्वा तद्गुहायां व्यवस्थितम्॥
भर्त्समानास्तपस्तच्च प्रोचुश्च परुषाक्षरैः॥११॥
दृष्ट्वा तस्याग्रतः संस्थां गन्धपुष्पैश्च पूजिताम्॥
वासुदेवात्मिकां मूर्तिं चतुर्हस्तां द्विजोत्तमाः॥१२॥
ततस्ते शस्त्रमुद्यम्य निर्जघ्नुस्तं क्रुधान्विताः॥
न शेकुस्ते यदा हंतुं संवृतं विष्णुतेजसा॥
कुण्ठतां सर्वशस्त्राणि गतानि विमलान्यपि॥१३॥
अथ वैलक्ष्यमापन्ना निर्विण्णाः सर्व एव ते॥
तां वार्तां दानवेन्द्राय वृकायोचुश्च ते तदा॥१४॥
कश्चिद्विप्रः समाधाय वैष्णवीं प्रतिमां पुरः॥
तपस्तेपे महाभाग क्षेत्रे वै हाटकेश्वरे॥१५॥
यत्र त्वया तपस्तप्तं भीत्या सर्वदिवौकसाम्॥
अपि चौर्येण चास्माकं तपस्तपति तादृशम्॥ १६॥
येन सर्वाणि शस्त्राणि कुण्ठतां प्रगतानि च॥
तस्य गात्रे प्रहारैश्च तस्मात्कुरु यथोचितम्॥ १७॥
तेषां तद्वचनं श्रुत्वा वृकः कोपसमन्वितः॥
जगाम सत्वं तत्र यत्रासौ सांकृतिः स्थितः॥१८॥
स गत्वा वैष्णवीं मूर्तिं तामुत्क्षिप्य सुदूरतः॥
श्वभ्राद्बहिः प्रचिक्षेप भर्त्समानः पुनः पुनः॥१९॥
जघान पादघातेन दक्षिणेनेतरेण तम्॥
अब्रवीन्मम वध्यस्त्वं यन्मच्छत्रुं जनार्दनम्॥६.२३१.२०॥
संपूजयसि चौर्येण तेन प्राणान्हराम्यहम्॥
एवमुक्त्वाथ खड्गेन तं जघान स दैत्यपः॥२१॥
ततस्तस्य स खड्गस्तु तीक्ष्णोऽपि द्विजसत्तमाः॥
तस्य काये प्रहीणस्तु शतधा समपद्यत॥२२॥
ततः कोपपरीतात्मा तं शशाप स सांकृतिः॥२३॥
यस्मात्पाप त्वयाहं च पादघातैः प्रताडितः ॥
तस्मात्ते पततां पादौ सद्य एव धरातले ॥ २४ ॥
॥ सूत उवाच ॥ ॥
उक्तमात्रे ततस्तेन पादौ तस्य द्विजोत्तमाः ॥
पतितौ मेदिनीपृष्ठे पंचशीर्षाविवोरगौ ॥ २५ ॥
एतस्मिन्नेव काले तु आक्रन्दः सुमहानभूत् ॥
वृकस्य सैनिकानां च नारीणां च विशेषतः ॥ ॥ २६ ॥
अथ देवाः परिज्ञाय तं तदा पंगुतां गतम् ।
आगत्य मेरुपृष्ठं च निजघ्नुस्तत्परिग्रहम् ॥ २७ ॥
हतशेषाश्च दैत्यास्ते पातालांतःसमा गताः ॥
वृकोऽपि पंगुतां प्राप्तस्तस्थौ तपसि सुस्थिरम् ॥ २८ ॥
सर्वैरंतःपुरैः सार्धं दुःखशोकसमन्वितः ॥
इन्द्रोऽपि प्राप्तवान्राज्यं तदा निहत कंटकम् ॥ २९ ॥
धर्मक्रियाः प्रवृत्ताश्च ततो भूयो रसातले ॥ ६.२३१.३० ॥
अथ दीर्घेण कालेन तस्य तुष्टः पितामहः ॥
उवाच तत्र चागत्य गर्त्तामध्ये द्विजोत्तमाः ॥ ३१ ॥
वृक तुष्टोऽस्मि ते वत्स वरं वरय सुव्रत ॥
अहं दास्यामि ते नूनं यद्यपि स्यात्सुदुर्लभम् ॥ ३२ ॥
॥ वृक उवाच ॥ ॥
यदि तुष्टोऽसि मे देव यदि देयो वरो मम ॥
पाददानं तदा देव मम ब्रह्मन्समाचर ॥
पंगुता याति शीघ्रं मे येनेयं ते प्रसादतः ॥ ३३ ॥
तच्छ्रुत्वा तं समानीय सांकृतिं तत्र पद्मजः ॥
प्रोवाच सांत्वपूर्वं च वृकस्यास्य द्विजोत्तम ॥ ३४ ॥
मद्वाक्यात्पंगुता याति येनास्य त्वं तथा कुरु ॥ ३५ ॥ ॥
॥ सांकृतिरुवाच ॥ ॥
अनृतं नोक्तपूर्वं मे स्वैरेष्वपि पितामह ॥
ज्ञायते देवदेवेश तत्कथं तत्करोम्यहम् ॥ ३६ ॥
॥ ब्रह्मोवाच ॥ ॥
मम भक्तिपरो नित्यं वृकोऽयं दैत्यसत्तमः ॥
पौत्रस्त्वं दयितो नित्यं तेन त्वां प्रार्थयाम्यहम् ॥ ३७ ॥
तव वाक्यं च नो मिथ्या कर्तुं शक्नोमि सन्मुने ॥ ३८ ॥
॥ सांकृतिरुवाच ॥ ॥
एष दैत्यः सुदुष्टात्मा देवानामहिते स्थितः ॥
विशेषाद्वासुदेवस्य पुरोर्मम महात्मनः ॥ ३९ ॥
पंगुतामर्हति प्रायः पापात्मा द्विजदूषकः ॥
बलेन महता युक्तो जरामरणवर्जितः ॥ ६.२३१.४० ॥
पुरा कृतस्त्वया देव स चेत्पादाववाप्स्यति ॥
हनिष्यति जगत्सर्वं सदेवासुरमानुषम् ॥ ४१ ॥
तस्मात्तिष्ठतु तद्रूपो न कल्पं कर्तुमर्हसि ॥
त्वयापि चिन्ता कर्तव्या त्रैलोक्यस्य यतः प्रभो ॥ ॥ ४२ ॥
॥ ब्रह्मोवाच ॥ ॥
प्रावृट्काले तु सञ्जाते यानं कर्तुं न युज्यते ॥
विजिगीषोर्विशेषेण मुक्त्वा शीतातपागमम् ॥ ४३ ॥
तस्माच्च चतुरो मासान्वार्षिकान्पादसंयुतः ॥
अगम्यः सर्वलोकानां कुर्यात्कर्माणि धैर्यतः ॥ ४४ ॥
तद्भूयात्पादसंयुक्तः स वृको दान वोत्तमः ॥
येन क्षेमं च देवानां द्विजानां जायते द्विज ॥ ४५ ॥
एवं कृते न मिथ्या ते वाक्यं विप्र भविष्यति ॥
फलं च तपसस्तस्य न वृथा संभविष्यति ॥ ४६ ॥
॥ सूत उवाच ॥ ॥
बाढमित्येव तेनोक्ते सांकृतेन महात्मना ॥
उत्थितौ सहसा पादौ तस्य गात्रात्पुनर्नवौ॥ ४७ ॥
पुनश्च दानवो रौद्रः पशुत्वं समपद्यत॥
तस्यामेव तु गर्तायां संतिष्ठति द्विजोत्तमाः॥४८॥
मासानष्टौ स दुःखेन सकलत्रः सबांधवः ॥
स्मरमाणो महद्वैरं दैवैः सार्धं दिवानिशम्॥४९॥
अन्यांश्च चतुरो मासान्निष्क्रम्य स रुषान्वितः॥
सदा पीडयते देवान्सहेंद्रान्मानुषानपि ॥६.२३१.५॥।
विध्वंसयति सर्वाणि धर्मस्थानानि यानि च ॥५१॥
विध्वंसयति देवानां स्त्रियो मासचतुष्टयम् ॥
उद्यानानि च सर्वाणि सपुराणि गृहाणि च ॥५२॥
ततो देवाः समभ्येत्य देवदेवं जनार्दनम् ॥
क्षीराब्धौ संस्थितं नित्यं शेषपर्यंकशायिनम्॥५३॥
चतुरो वार्षिकान्मासांस्तत्र स्थित्वा तदंतिके ॥
मासानष्टौ पुनर्जग्मुस्त्रिदिवं प्रति निर्भयाः ॥ ५४ ॥
तस्मिन्पंगुत्वमापन्ने दैत्ये परमदारुणे ॥
कस्यचित्त्वथ कालस्य देवराजो बृहस्पतिम् ॥
प्रोवाच दुःखसंतप्त आषाढांते सुरो त्तमः ॥ ५५ ॥
गुरो स मासः संप्राप्तः प्रावृट्कालो भयावहः ॥
आगमिष्यति यत्रासौ लब्धपादो वृकासुरः ॥५६॥
गन्तव्यं च ततोऽस्माभिः क्षीरोदे केशवालये ॥
मैवं दीनैस्तथा भाव्यं पराश्रयनिवासिभिः ॥ ५७ ॥
स्वगृहाणि परित्यज्य शयनान्यासनानि च ॥
वाहनानि विचित्राणि यच्चान्य द्दयितं गृहे ॥ ५८ ॥
तस्मात्कथय चास्माकमुपायं कञ्चिदेव हि ॥
व्रतं वा नियमं वाथ होमं वा मुनिसत्तम ॥ ५९ ॥
अशून्यं शयनं येन स्वकलत्रेण जायते ॥
तथा न गृहसंत्यागः स्वकीयस्य प्रजायते ॥ ६.२३१.६० ॥
निर्विण्णोऽहं निजस्थानभ्रंशाद्द्विजवरोत्तम ॥
वर्षेवर्षे च सम्प्राप्ते स्थानकस्य च्युतिर्भवेत् ॥ ६१ ॥
पुनर्भूमौ शयिष्यामि यावन्मासचतुष्टयम् ॥
निष्कलत्रो भयोद्विग्नो ब्रह्मचर्यपरायणः ॥ ६२ ॥
तस्य तद्वचनं श्रुत्वा भयार्तस्य बृहस्पतिः ॥
प्रोवाच सुचिरं ध्यात्वा ततो देवं शतक्रतुम् ॥ ६३ ॥
अशून्यशयनंनाम व्रतमस्ति महत्तपः ॥
विष्णोराराधनार्थाय तत्कुरुष्व समा हितः ॥ ६४ ॥
देवो यत्रास्ति विष्णुः स क्षीराब्धौ मधुसूदनः ॥
जलशायी जगद्योनिः स दास्यति हितं च ते ॥ ६५ ॥
यथा न शून्यं शयनं गृह भंगः प्रजायते ॥
सर्वशत्रुविनाशश्च तत्प्रसादेन वासव ॥ ६६ ॥
॥ सूत उवाच ॥ ॥
तस्मिन्व्रते ततश्चीर्णे ह्यशून्यशयनात्मके ॥
तुतोष भगवान्विष्णुस्ततः प्रोवाच देवपम् ॥ ६७ ॥
शक्र तुष्टोऽस्मि भद्रं ते वरं वरय सुव्रत ॥
व्रतेनानेन चीर्णेन चातुर्मास्योद्भवेन च ॥
तस्मात्प्रार्थय देवेन्द्र नित्यं यन्मनसि स्थितम् ॥ ६८ ॥
॥ इन्द्र उवाच ॥ ॥
कृष्ण जानासि त्वं चापि यश्च मेऽत्र पराभवः ॥
क्रियते दानवेन्द्रेण वृकेण सुदुरात्मना ॥ ६९ ॥
ममाष्टमासिकं राज्यं त्रैलोक्येऽपि व्यवस्थितम् ॥
शेषांश्च चतुरो मासान्वर्षेवर्षे समेति सः ॥ ६.२३१.७० ॥
एवं ज्ञात्वा सुरश्रेष्ठ दयां कृत्वा ममोपरि ॥
तथा कुरु यथा राज्यं मम स्यात्सार्वकालिकम् ॥ ७१ ॥
॥ विष्णुरुवाच ॥ ॥
अजरश्चामरश्चापि स कृतः पद्मयोनिना ॥
तत्कथं जीवमानेन तेन राज्यं भवेत्तव ॥ ७२ ॥
परं तथापि देवेन्द्र करिष्यामि हितं तव ॥ ७३ ॥
क्षीरार्णवं परित्यज्य हाटकेश्वरसंज्ञिते ॥
क्षेत्रे गत्वा समं लक्ष्म्या तस्योपरि ततः परम् ॥ ७४ ॥
करिष्यामि त्वहं शक्र शयनं यत्नमास्थितः ॥
यावच्च चतुरो मासान्यथा स न चलिष्यति ॥ ७८५ ॥
तस्मात्स्थानात्सहस्राक्ष मद्भारेण प्रपीडितः ॥
वर्षेवर्षे सदा कार्यं मया तत्सुहितं तव ॥ ७६ ॥
तस्माद्गच्छाधुना स्वर्गे कुरु राज्यमकंटकम् ॥
प्रावृट् काले तु संप्राप्ते न भीः कार्या तदुद्भवा ॥ ७७ ॥
यो मां तत्र शयानं तु व्रतेनानेन देवप॥
पूजयिष्यति सद्भक्त्या तस्य दास्यामि वांछितम् ॥ ७८ ॥।
॥ सूत उवाच ॥
एवमुक्त्वा हृषीकेशो विससर्ज शतक्रतुम् ॥
निःशेषभयनिर्मुक्तं स्वराज्यपरिवृद्धये ७९॥
आषाढस्य सिते पक्ष एकादश्या दिने सदा॥
हाटकेश्वरजे क्षेत्रे तत्रागत्य स्वयं विभुः ॥ ६.२३१.८० ॥
वृकोपरि ततश्चक्रे शयनं यत्नमास्थितः ॥
तेनाक्रांतस्ततः सोऽपि शक्नोति चलितुं न हि ॥ ८१ ॥।
मृतप्रायस्ततो नित्यं तद्भारेण प्रपीडितः ॥
कार्तिकस्य सिते पक्ष एकादश्या दिने स्थिते ॥ ८२ ॥
उत्थानं कुरुते विष्णुः क्षीरोदं प्रति गच्छति ॥ा।
सोऽपि सांकृतिशापेन वृकः पंगुत्वमाप्नुयात् ॥ ८३ ॥
एवं च चतुरो मासान्न त्यजेच्छयनं हरिः ।।
भयात्तस्यासुरेंद्रस्य दानवस्य दुरात्मनः ॥ ॥ ८४ ॥
तत्र मर्त्यैः क्रिया सर्वाः क्रियते न मखोद्भवाः ॥
यस्मात्स यज्ञपुरुषो न सुप्तो भागमश्नुते ॥ ८५ ॥
तथा यज्ञाश्च ये सर्वे क्त्वयादानादि काः शुभाः ॥
ते सर्वे न क्रियंते च चूडाकरणपूर्वकाः ॥ ८६ ॥
मुक्त्वान्नप्राशनंनाम सीमंतोन्नयनं तथा ॥
तस्मात्सुप्ते जगन्नाथे ताः सर्वाः स्युर्वृथा द्विजाः ॥ ८७ ॥
व्रतं वा नियमं वाथ तस्मिन्यः कुरुते नरः ॥
प्रसुप्ते देवदेवेशे तत्सर्वं निष्फलं भवेत् ॥८८॥
तस्मात्सर्वप्रयत्नेन संप्रसुप्ते जनार्दने ॥
व्रतस्थैर्मानवैर्भाव्यं तस्य देवस्य तुष्टये ॥ ८९ ॥
एकादश्यां दिने प्राप्ते शयने बोधने हरेः ॥
यत्किंचित्क्रियते कर्म श्रेष्ठं तच्चाक्षयं भवेत् ॥ ६.२३१.९० ॥
किंवात्र बहुनोक्तेन क्रियते यद्व्रतं नरैः ॥
तेन तुष्टिं परां याति दैत्योपरि स्थितो हरिः ॥९१॥
एवं स भगवान्प्राह सुप्तस्तत्र जनार्दनः ॥
किं वा तस्य ज्वरो जातो महती वेदनापि च ॥ ९२ ॥
तस्मिन्नहनि पापात्मा योन्नमश्नाति मानवः ॥
तस्मात्सर्वप्रयत्नेन संप्राप्ते हरिवासरे ॥ ९३ ॥
अन्यस्मिन्नपि भोक्तव्यं न नरेण विजानता ॥
किं पुनः शयनं यत्र कुरुते यत्र बोधनम् ॥ ९४ ॥
॥ सूत उवाच ॥ ॥
एतद्वः सर्वमाख्यातं यत्पृष्टोऽस्मि द्विजो त्तमाः ॥
हाटकेश्वरजे क्षेत्रे यस्माच्छेते जनार्दनः ॥ ९५ ॥
क्षीराब्धिं संपरित्यज्य सदा मासचतुष्टयम् ॥
श्रूयतां च फलं यत्स्यात्तस्मिन्नाराधिते विभो ॥ ९६ ॥
चतुरो वार्षिकान्मासान्यस्तं पूजयते विभुम् ॥
व्रतस्थः स नरो याति यत्र देवः स संस्थितः ॥ ९७ ॥
किं दानैर्बहुभिर्दत्तैः किं व्रतैः किमुपोषितैः ॥
तत्र यः पुंडरीकाक्षं सुप्तं पूजयति ध्रुवम् ॥ ९८ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये जलशाय्युपाख्यान एकादशीव्रतमाहात्म्यवर्णनंनामैकत्रिंशदुत्तरद्विशततमोऽध्यायः । २३१ ॥
टिप्पणी