स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः २२९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २२८ स्कन्दपुराणम् - नागरखण्डः
अध्यायः २२९
[[लेखकः :|]]
अध्यायः २३० →

॥ सूत उवाच ॥ ॥
एतस्मिन्नंतरे शम्भुर्गणैः सर्वैः समावृतः ॥
इन्द्राद्यैश्च सुरैः सर्वेः क्रोधसंरक्तलोचनः ॥
जगाम वृषमारुह्य पुरीं चैवामरावतीम् ॥ १ ॥
अंधकोऽपि समालोक्य संप्राप्तां देववाहिनीम् ॥
सगणां च महादेवं परितोषं परं गतः ॥ २ ॥
निश्चक्रामाथ युद्धाय बलेन चतुरंगिणा ॥
वरं स्यंदनमारुह्य सुश्वेताश्ववहं शुभम् ॥ ३ ॥
ततः समभवद्युद्धं देवानां दानवैः सह ॥
गणैश्च विकृताकारैर्मृत्युं कृत्वा निवर्तनम् ॥ ४ ॥
एकवर्षसहस्रांतं यावद्युद्धमवर्तत ॥
दिनेदिने क्षयं यांति तत्र देवा न दानवाः ॥
ततो वर्षसहस्रांते संक्रुद्धः शशिशेखरः॥
त्रिशूलेन समुद्यम्य स्वहस्तेन व्यभेदयत् ॥ ६ ॥
स विद्धोऽपि स्वयं तेन त्रिशूलेन महासुरः॥
ब्रह्मणो वरमाहात्म्यान्नैव प्राणैविर्युज्यते ॥ ७ ॥
ततो भूयोऽपि चोत्थाय चक्रे युद्धं महात्मना ॥
जघान च स संक्रुद्धो विशेषेण बहून्गणान् ॥ ८ ॥
शंकरं ताडयामास गदाघातैर्मुहुर्मुहुः ॥ ९ ॥
एवं वर्षसहस्रांतमभूत्सार्द्धं पिनाकिना ॥
रौद्रं युद्धमन्धकस्य सर्वलोकभयावहम् ॥ ६.२२९.१० ॥
त्रिशूलभिन्नो दैत्यः स यदा मृत्युं न गच्छति ॥
उत्थायोत्थाय कुरुते प्रहारान्गदया बली ॥ ११ ॥
तथा तं शंकरो ज्ञात्वा मृत्युना परिवर्जितम्॥
ब्रह्मणो वरदानेन सर्वेषां च दिवौकसाम्॥ १२ ॥
ततो निर्भिद्य शूलाग्रैः प्रोत्क्षिप्य गगनांगणे ॥
छत्रवद्धारयामास लंबमानमधोमुखम् ॥
अक्षरद्रुधिरं भूमौ गात्रेभ्यो वर्ष्मसंभवम् ॥ १३ ॥
यावद्वर्षसहस्रांते चर्मास्थि स्नायुरेव च ॥
धातुत्रयं स्थितं तस्य नष्टमन्यच्चतुष्टयम् ॥ १४ ॥
स ज्ञात्वा बल संहीनमात्मानं धातुसंक्षयात् ॥
सामोपायं ततश्चके स्तुत्वा सार्धं पिनाकिना ॥ १५ ॥
॥ अन्धक उवाच ॥ ॥
न त्वं देवो मया ज्ञातो वाग्दुष्टेन दुरात्मना ॥
ईदृग्वीर्यसमोपेतस्तद्युक्तं भवता कृतम् ॥ १६ ॥
अनुरूपं मदांधस्याविवेकस्य सुरोत्तम ॥
स्ववीर्यमदयुक्तस्य विवेक रहितस्य च ॥ १७ ॥
दुर्विनीतः श्रियं प्राप्य विद्यामैश्वर्यमेवच ॥
न तिष्ठति चिरं कालं यथाऽहं मदगर्वितः ॥ १८ ॥
पापोऽहं पापकर्माऽहं पापात्मा पापसंभवः ॥
त्राहि मां देव ईशान सर्वपापहरो भव ॥ १९ ॥
दुःखितोऽहं वराकोऽहं दीनोऽहं शक्तिवर्जितः ॥
त्रातुमर्हसि मां देव प्रपन्नं शरणं विभो ॥ ६.२२९.२० ॥
दुष्टोऽहं पापयुक्तोऽहं सांप्रतं परमेश्वर ॥
तेन बुद्धिरियं जाता तवोपरि ममानघ ॥ २१ ॥
सर्वपापक्षये जाते शिवे भवति भावना ॥ २२ ॥
नाममात्रमपि त्र्यक्ष यस्ते कीर्तयति प्रभो ॥
सोऽपि मुक्तिमवाप्नोति किं पुनः पूजने रतः ॥ २३ ॥
तव पूजा विहीनानां दिनान्यायांति यांति च ॥
यानि देव मृतानां च तानि यांति न जीवताम् ॥ २४ ॥
कुष्ठी वा रोगयुक्तो वा पंगुर्वा बधिरोऽपि वा ॥
मा भूत्तस्य कुले जन्म शंभुर्यत्र न देवता ॥ २५ ॥
तस्मान्मोचय मां देव स्वागतं कुरु सांप्रतम् ॥
गतो मे दानवो भावस्त्यक्तं राज्यं तथा विभो ॥ । २६ ॥
त्यक्ताः पुत्राश्च पौत्राश्च पत्न्यश्च विभवैः सह ॥
त्रिः सत्येन सुरश्रेष्ठ तव पादौ स्पृशाम्यहम् ॥ २७ ॥
तस्य तद्वचनं श्रुत्वा ज्ञात्वा तं गतकल्मषम्॥
उत्तार्य शनकैः शूलाद्विनयावनतं स्थितम्॥२८॥
ततो नाम स्वयं चक्रे भृंगिरीटिरिति प्रभुः॥
अब्रवीच्च सदा मे त्वं वल्लभः संभविष्यसि॥२९॥
नन्दिनोऽपि गजास्यस्य महाकालस्य पुत्रक॥
तिष्ठ सौम्य मया सौख्यं न स्मरिष्यसि बांधवान्॥६.२२९.३०॥।
स तथेति प्रतिज्ञाय प्रणम्य शशिशेखरम् ॥
तस्थौ सर्वगणैर्युक्तः प्रभुसंश्रयसंयुतः ॥ ३१ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वर क्षेत्रमाहात्म्ये भृंगीरिट्युत्पत्तिवर्णनंनामैकोनत्रिंशदुत्तरद्विशततमोऽध्यायः ॥ २२९ ॥