स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः २२८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २२७ स्कन्दपुराणम् - नागरखण्डः
अध्यायः २२८
[[लेखकः :|]]
अध्यायः २२९ →

सूत उवाच ॥ ॥
तथान्यच्च बिलद्वारि शयनार्थे व्यवस्थितम् ॥
दृष्ट्वा प्रमुच्यते पापी देवं च जलशायिनम् ॥ १ ॥
स्नात्वा तस्मिन्बिलद्वारे पवित्रे लोकसंश्रये ॥
यस्तं पूजयते भक्त्या शेषपर्यंकशायिनम् ॥
आजन्ममरणात्पापात्स च मुक्तिमवाप्नुयात् ॥ २ ॥
चतुरो वार्षिकान्मासान्सुप्रसुप्तं सुरेश्वरम्॥
संपूजयति यो भक्त्या न स भूयोऽत्र जायते ॥ ३ ॥
तत्र पूर्वं महाभागा मुनयः सेव्य तं प्रभुम् ॥
मृत्तिकाग्रहणं कृत्वा तस्य चायतने शुभे ॥ ४ ॥
संप्राप्ताः परमं स्थानं तद्रिष्णोः परमं पदम् ॥
यत्फलं सर्वतीर्थेषु सर्वयज्ञेषु यत्फलम् ॥
तत्फलं तस्य पूजायां चातुर्मास्यां प्रजायते ॥ ५ ॥
यत्फलं गोग्रहे मृत्युं संप्राप्ता यांति मानवाः ॥
तत्फलं चतुरो मासान्पूजया जलशायिनः ॥ ६ ॥
अपि पापसमाचारः परदाररतोऽपिच ॥
ब्रह्मघ्नोऽपि सुरापोऽपि स्त्रीहन्ताऽपि विगर्हितः ॥
पूजया चतुरो मासांस्तस्य देवस्य मुच्यते ॥ ७ ॥
॥ ऋषय ऊचुः ॥ ॥
यदेतद्भवता प्रोक्तं तत्रस्थं जलशायिनम् ॥
बिलद्वारे कथं सूत तत्र नः संशयो महान् ॥ ८ ॥
स किल श्रूयते देवः क्षीराब्धौ मधुसूदनः ॥
सदैव भगवाञ्छेते योगनिद्रां समाश्रितः । ९ ॥.
कथं स भगवाञ्छेते बिलद्वारे व्यवस्थितः ॥
एतत्कीर्तय कार्त्स्न्येन परं कौतूहलं हि नः ॥ ६.२२८.१० ॥
॥ सूत उवाच ॥ ॥
सत्यमेतन्महाभागाः क्षीराब्धौ मधुसूदनः ॥
योगनिद्रां गतः शेते शेषपर्यंकशा यकः ॥ ११ ॥
स यथा तत्र क्षेत्रे तु संश्रितो भगवान्स्वयम् ॥
जलशायिस्वरूपेण तच्छृशुध्वं समाहिताः १२ ॥
यथा च चतुरो मासान्पूजितस्तत्र संस्थितः ॥
मुक्तिं ददाति पुंसां स तथा संकीर्तयाम्यहम् ॥ १३ ॥
चत्वारोऽपि यथा मासा गर्हणीया धरातले ॥
सर्वकर्मसु मुख्येषु यज्ञोद्वा हादिषु द्विजाः ॥ १४ ॥
तद्वोऽहं कीर्तयिष्यामि नमस्कृत्य द्विजोतमाः ॥
तस्मै देवाधिदेवाय निर्गुणाय गुणात्मने ॥ १५ ॥
अव्यक्तायाऽप्रमेयाय सर्वदेवमयाय च ॥
सर्वज्ञाय कवीशाय सर्वभूतात्मने तथा ॥ १६ ॥
पुरासीद्दानवो रौद्रो हिरण्यकशिपुर्महान् ॥
नारसिंहं वपुः कृत्वा विष्णुना यो निपातितः ॥ १७ ॥
तस्य पुत्रद्वयं जज्ञे सर्वलक्षणलक्षितम् ॥
प्रह्लादश्चांधकश्चैव वीर्येणाप्रतिमौ युधि ॥ १९ ॥
हिरण्यकशिपौ प्राप्ते परं लोकं महासुरे ॥
अमात्यैरभिषेकाय प्रह्लादः स नियोजितः ॥ १९ ॥
स नैच्छत तदा राज्यं पितृपैतामहं महत्॥
समागतमपि प्राज्ञो यस्मात्तद्वो वदाम्यहम् ॥ ६.२२८.२० ॥
दानवानां सदा द्वेषो देवेन सह चक्रिणा ॥
न करोति पुनर्द्वेषं तं समुद्दिश्य सर्वदा ॥ ॥ २१ ॥
एतस्मात्कारणात्सर्वे तेन त्यक्ता दितेः सुताः ॥
स्वराज्यमपि संत्यज्य विष्णुस्तेन समाश्रितः ॥ २२ ॥
ततस्तैर्दानवैः क्षुद्रैर्विष्णुद्वेषपरायणैः ॥
अन्धकः स्थापितो राज्ये पितृपैतामहे तदा ॥ २३ ॥
अन्धकोऽपि समाराध्य देवदेवं चतुर्मुखम्॥
अमरत्वं ततो लेभे यावच्चन्द्रार्कतारकम् ॥ २४ ॥
वरपुष्टस्ततः सोऽपि चक्रे शक्रेण विग्रहम् ॥ २५ ॥
जित्वा शक्रं महासंख्ये यज्ञांशाञ्जगृहे स्वयम् ॥
गत्वाऽमरावतीं दैत्यो निःसार्य च शतक्रतुम् ॥
स्ववर्गेण समोपेतः स्वर्गं समहरत्तदा ॥ २६ ॥
शक्रोऽपि च समाराध्य शंकरं लोकशंकरम् ॥
सर्वदेवसमोपेतो भृत्यवत्परिवर्तते ॥२७॥
ततः कालेन महता तस्य तुष्टः पिनाकधृक् ॥
तं प्राह वरदोऽस्मीति वद शक्र करोमि किम् ॥ २८ ॥
॥ इन्द्र उवाच ॥ ॥
अंधकेन हृतं राज्यं मम वीर्यात्सुरेश्वर ॥
यज्ञभागैः समोपेतं हत्वाऽऽशु तत्प्रयच्छ मे ॥२९॥
तच्छ्रुत्वा तस्य दीनस्य भगवाञ्छशिशेखरः ॥
प्रोवाच तव दास्यामि राज्यं त्रैलोक्यसंभवम् ॥ ६.२२८.३० ॥
ततः संप्रेषयामास दूतं तस्य विचक्षणम् ॥
गणेशं वीरभद्राख्यं गत्वा तं ब्रूहि चांधकम् ॥ ३१ ॥
ममादेशात्परित्यज्य स्वर्गं गच्छ धरातलम् ॥
पितृपैतामहं स्थानं राज्यं तत्र समाचर ॥ ३२ ॥
परित्यजस्व यज्ञांशान्नो चेद्धंतास्मि सत्वरम् ॥
स गत्वा चांधकं प्राह यथोक्तं शंभुना स्फुटम् ॥ ३३ ॥
सविशेषमहाबुद्धिः स्वामिकार्यप्रसिद्धये ॥
अथ तं चाधकः प्राह प्रविहस्य महाबलः ॥ ॥ ३४ ॥
अवध्यो हि यथा दूतस्तेन त्वां न निहन्म्यहम् ॥
क स्याद्वै शंकरोनाम यो मामेवं प्रभाषते ॥ ३५ ॥
न मां वेत्ति स किं मूढः किं वा मृत्यु मभीप्सते । ३६ ॥
अथवा सत्यमेवैतान्निर्विण्णो जीविताच्च सः॥
दरिद्रोपहतो नित्यं सर्वभोगविवर्जितः ॥ ३७ ॥
स्मशाने क्रीडनं यस्य भस्म गात्रविलेपनम् ॥
भूषणं चाहयो वस्त्रं दिशो यस्य जटालका ॥ ३८ ॥
कस्तस्य जीवितेनार्थस्तेनेदं मां ब्रवीति सः॥
तस्माद्गत्वा द्रुतं ब्रूहि मद्वाक्यं दूत सस्फुटम्॥ ३९ ॥
त्यक्त्वा कैलासमेनं त्वं वाराणस्यां तपः कुरु ॥
मया स्थानमिदं दत्तं कैलासं स्वसुतस्य च ॥ ६.२२८.४० ॥
वृकस्यापि न सन्देहो विभवेन समन्वितम् ॥
नो चेत्प्राणान्हरिष्यामि सेंद्रस्य तव शंकर ॥ ४१ ॥
तच्छ्रुत्वा वीरभद्रस्तु निर्भर्त्स्य च मुहुर्मुहुः ॥
क्रोधेन महताविष्टः कैलासं समुपाविशत्॥ ४२ ॥
ततः स कथयामास तद्वाक्यं च पिनाकिनः ॥
अतिक्रूरं विशेषेण तत क्रुद्धः पिनाकधृक् ॥ ४३ ॥
इति श्रीस्कान्दे महा पुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये जलशाय्युपाख्याने ब्रह्मदत्तवरप्रदानोद्धतान्धकासुरकृतशंकराज्ञाव माननवर्णनंनामाष्टाविंशत्युत्तरद्विशततमोऽध्यायः ॥ २२८ ॥