स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः २००

विकिस्रोतः तः
← अध्यायः १९९ स्कन्दपुराणम् - नागरखण्डः
अध्यायः २००
[[लेखकः :|]]
अध्यायः २०१ →

॥ विश्वामित्र उवाच ॥ ॥
ततः प्रभाते संजाते प्रोद्गते रविमण्डले ॥
सा चापि दुहिता तस्य दीक्षितस्य महात्मनः ॥ १ ॥

रोरूयमाणाऽभ्यगमत्पितरं मातरं प्रति ॥
प्रोवाच गद्गदं वाक्यं बाष्पव्याकुललोचना ॥ २ ॥

ताताम्ब किमिदं पापं युवाभ्यां समनुष्ठितम् ॥
अन्त्यजस्य प्रदत्ताऽहं यत्पापस्य दुरात्मनः ॥ ३ ॥

स नष्टो रजनीवक्त्रे ममावेद्य निजं कुलम्॥
तस्मादहं प्रवेक्ष्यामि प्रदीप्ते हव्यवाहने ॥ ४ ॥

तस्यास्तद्वचनं श्रुत्वा दीक्षितः स सुभद्रकः ॥
निश्चेष्टः पतितो भूमौ वातभग्न इव द्रुमः ॥ ५ ॥

ततः स शीततोयेन संसिक्तश्च पुनःपुनः ॥
लब्ध्वाशु चेतनां कृच्छ्रात्स्वजनैः परिवारितः ॥
प्रलापान्विविधांश्चक्रे ताडयन्स्वशिरो मुहुः ॥ ६ ॥

अथ ते ब्राह्मणाः सर्वे तस्य संपर्कदूषिताः ॥
भर्तृयज्ञं समासाद्य तेनैव सहितास्ततः ॥ ७ ॥

प्रोचुर्विनयसंयुक्ताः प्रोच्चैस्तत्सुतया सह ॥
सुभद्रेण निजे हर्म्ये सुतां दत्त्वा निवेशितः ॥ ८ ॥

चण्डालो द्विजरूपोत्र चंद्रप्रभ इति स्मृतः ॥ ९ ॥

यावत्संवत्सरं सार्धं दैवे पित्र्ये च योजितः ॥
पापकर्मा न विज्ञातः सोऽधुना प्रकटोऽभवत् ॥ ६.२००.१० ॥

सुभद्रस्यानुषंगेण स्थानं सर्वं प्रदूषितम् ॥
अन्त्यजेन महाभाग तत्कुरुष्व विनिग्रहम्॥ ११ ॥

कैश्चित्तस्य गृहे भुक्तं जलं पीतं तथा परैः ॥
अन्यैश्च गृहमानीय प्रदत्तं भोजनं तथा ॥ १२ ॥

किं वा ते बहुनोक्तेन न स कोऽस्ति द्विजोत्तम ॥
संकरो यस्य नो जातस्तस्य पापस्य संभवः ॥ १३ ॥

त्वया स्थानमिदं पुण्यं कृतं पूर्वं महामते ॥
सर्वेषां च गुरुस्त्वं हि तस्माच्छुद्धिं वदस्व नः ॥ १४ ॥

ततः संचिन्त्य सुचिरं स्मृतिशास्त्राण्यनेकशः ॥
प्रायश्चित्तं ददौ तेषां सर्वेषां स द्विजन्मनाम् ॥ १५ ॥

चांद्रायणशतं प्रादात्सुभद्रायाहिताग्नये ॥
सर्वभंडपरित्यागं पुनराधानमेव च ॥ १६ ॥

लक्षहोमविधानं च गृहमध्यविशुद्धये ॥
वह्निप्रवेशनं तस्यास्तत्सुतायाः प्रकीर्तितम् ॥ १७ ॥

येन यावंति भोज्यानि तस्य भुक्तानि मंदिरे ॥
तस्य तावंति कृच्छ्राणि तेनोक्तानि महात्मना ॥ १८ ॥

यैर्जलानि प्रपीतानि यावन्मात्राणि तद्गृहे ॥
प्राजापत्यानि दत्तानि तेभ्यस्तावंति पार्थिव ॥ १९ ॥

ब्राह्मणानां तथान्येषां तत्र स्थाने निवासिनाम् ॥
तत्स्पर्शदूषितानां च प्राजापत्यं पृथक्पृथक् ॥ ६.२००.२० ॥

स्त्रीशूद्राणां तदर्धं च तदर्ध बालवृद्धयोः ॥
मृन्मयानां च भांडानां परित्यागो निवेदितः ॥ २१ ॥

सर्वेषामेव लोकानां रसत्यागस्तथैव च ॥
कोटिहोमस्तु निर्दिष्टो ब्रह्मस्थाने यथोदितः ॥
सर्वस्थानविशुद्ध्यर्थं स्थानवित्तेन केवलम् ॥ ॥ २२ ॥

अथोवाच पुनर्विप्रान्स कृत्वा चोच्छ्रितं भुजम ॥
तारनादेन महता सर्वांस्तान्नागरोद्भवान् ॥ २३ ॥

सुभद्रेण च सर्वस्वं देयं विप्रेभ्य एव च ॥
चतुर्थांशश्च यैर्भुक्तं तद्गृहे स्वधनस्य च ॥ २४ ॥

अष्टांशं यैर्जलं पीतं गोदानं स्पर्शसंभवम् ॥
शेषाणामपि लोकानां यथाशक्त्या तु दक्षिणा ॥ २५ ॥

दीक्षितेन जपः कार्यो लक्षगायत्रिसंभवः ॥
शेषैर्विप्रैर्यथा वित्तं तथा कार्यो जपोऽखिलः ॥ २६ ॥

अहं चैव करिष्यामि प्राणायामशतत्रयम् ॥
नित्यमेव द्विजश्रेष्ठाः षष्ठकालकृताशनः ॥ २७ ॥

यावत्संवत्सरस्यांतं ततः शुद्धिर्भविष्यति ॥
जन संपर्कसंजाता सैवं तस्य दुरात्मनः ॥ २८ ॥

एवमुक्त्वा ततो भूयः स प्रोवाच द्विजोत्तमान् ॥
अथाऽऽद्यान्मध्यगास्येन ब्रह्मस्थानसमाश्रयान् ॥ ॥ २९ ॥

अद्यप्रभृति यः कन्यामविदित्वा तु नागरम् ॥
नागरो दास्यति क्वापि पतितः स भविष्यति ॥६.२००. ३० ॥

अश्राद्धेयो ह्यपांक्तेयो नागराणां विशेषतः ॥ ३१ ॥

यः श्राद्धं नागरं मुक्त्वा ह्यन्यस्मै संप्रदास्यति ॥
विमुखास्तस्य यास्यंति पितरो विबुधैः सह ॥ ३२ ॥

नागरेण विना यस्तु सोमपानं करिष्यति ॥
स करिष्यत्यसंदिग्धं मद्यपानं तु नागरः ॥
तन्मतेन विना यस्तु श्राद्धकर्म करिष्यति ३३ ॥

ततः सर्वं वृथा तस्य भविष्यति न संशयः ॥
विशुद्धिरहितं यस्तु नागरं भोजयिष्यति ॥ ३४ ॥

श्राद्धे तस्यापि तत्सर्वं व्यर्थतां संप्रयास्यति ॥
सर्वेषां नागराणां च मर्यादेयं कृता मया ॥ ३५ ॥

तस्मात्सर्वप्रयत्नेन शुद्धिः कार्या द्विजोत्तमैः ॥
वर्षेवर्षे तु संप्राप्ते स्वस्थानस्य विशुद्धये ॥ ३६ ॥

॥ विश्वामित्र उवाच ॥ ॥
एतत्ते सर्वमाख्यातं यत्पृष्टोऽस्मि नृपोत्तम ॥
श्राद्धार्हा नागरा येन नागराणां व्यवस्थिताः ॥
भर्तृयज्ञेन मर्यादा कृता तेषां यथा पुरा ॥ ३७ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये भर्तृयज्ञकृतनागरज्ञातिमर्यादावर्णनं नाम द्विशततमोऽध्यायः ॥ २०० ॥ ॥ छ ॥