स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः २०१

विकिस्रोतः तः
Jump to navigation Jump to search

॥ विश्वामित्र उवाच ॥ ॥
अथ ते ब्राह्मणाः सर्वे भर्तृयज्ञं महामतिम् ॥
कृतांजलिपुटा भूत्वा स्तुतिं कृत्वा वचोऽब्रुवन् ॥ १ ॥
यदेतद्भवता प्रोक्तं शोधितो यो भवेद्द्विजः ॥
श्राद्धस्य कन्यकायाश्च सोमपानस्य सोऽर्हति ॥ २ ॥
कथं शुद्धिः प्रकर्तव्या तस्य सर्वं ब्रवीहि नः ॥
नागरस्य समस्तस्य देशांतरगतस्य च ॥३॥
देशांतरप्रजातस्य तत्र जातस्य वा पुनः ॥
अज्ञातपितृवर्गस्य सामा न्यं पदमिच्छतः ॥ ४ ॥
एतन्नः सर्वमाचक्ष्व विस्तरेण महामते ॥ ५ ॥
॥ विश्वामित्र उवाच ॥ ॥
तेषां तद्वचनं श्रुत्वा ब्राह्मणानां नृपोत्तम ॥
अब्रवीद्भर्तृयज्ञस्तु स्वाभिप्रायं सुसंमतम् ॥ ६ ॥
॥ भर्तृयज्ञ उवाच ॥ ॥
प्रश्नभारो महानेष भवद्भिः समुदाहृतः ॥
तथापि कथयिष्यामि नमस्कृत्य स्वयंभुवम्॥ ७॥
अज्ञातपितृवंशो यो दूरादपि समागतः ॥
सामान्यं वांछते पद्यं नागरोऽस्मीति कीर्तयन् ॥ ८ ॥
तस्य शुद्धिः प्रदा तव्या मुख्यैः शांतैः शुभैर्द्विजैः ॥
गर्तातीर्थोद्भवं विप्रं कृत्वा चैव पुरःसरम् ॥९ ॥
विशुद्धिं याचमानस्य यदि यच्छंति नो द्विजाः ॥
कामाद्वा यदि वा क्रोधात्प्रद्वेषाद्वा च्युतेर्भयात् ॥ ६.२०१.१० ॥
ब्रह्महत्योद्भवं पापं सर्वेषां तत्र जायते ॥
तस्मादभ्यागतो यस्तु दूरादपि विशेषतः ॥ ११ ॥
तस्य शुद्धिः प्रदातव्या प्रयत्नेन द्विजोत्तमैः ॥
शुद्धिं तु त्रिविधां प्राप्तो मम वाक्यसमुद्भवाम् ॥ १२ ॥
स शुद्धो नागरो ज्ञेयो जातो देशांतरेष्वपि ॥
पूर्वं विशोधयेद्वंशं ततो मातृकुलं स्मृतम् ॥ १३ ॥
ततः शीलं त्रिभिः शुद्धः सामान्यं पदमर्हति ॥ १४ ॥
सर्वेषामपि विप्राणां वर्षांते समुपस्थिते ॥
शुद्धिः कार्या प्रयत्नेन स्वस्थानस्य विशुद्धये ॥ १५ ॥
तदर्थं शरदश्चांते शुभर्त्तौ ब्राह्मणोत्तमाः ॥
चातुश्चरणसंपन्नाः संस्थाप्याः षोडशैव तु ॥ १६ ॥
ब्राह्मणाः पुरतः सर्वे शांता दांता जितेंद्रियाः ॥
गर्त्तातीर्थोद्भवं विप्रं तेषां मध्ये निवेशयेत् ॥ १७ ॥
तदग्रे पीठिका देयाश्चतस्रो लक्षणान्विताः ॥
यावत्कार्त्तिकपर्यंतं चातुश्चरणकल्पिताः ॥ १८ ॥
प्रथमा बह्वृचस्यार्थे याजुषस्य तथाऽपरा ॥
सामगस्य तथैवान्या तथाऽऽद्यस्य चतुर्थिका ।। ॥ १९ ॥
मुद्रिकार्थं तथैवान्या पंचमी परिकीर्तिता ॥
श्रीसूक्तं पावमानं च शाकुनं विष्णुदैवतम्॥ ६.२०१.२० ॥
पारावतं तथा सूक्तं जीवसूक्तेन संयुतम्॥
बह्वृचः कीर्तयेत्तत्र शांतिकं च तथापरम् ॥ २१ ॥
शांतिकं शिवसंकल्पमृषिकल्पं चतुर्विधम् ॥
मंडलंब्राह्मणं चैव गायत्रीब्राह्मणं तथा ॥ २२ ।।
तथा पुरुषसूक्तं च मधुब्राह्मणमेव च ॥
अध्वर्युः कीर्तयेत्तत्र रुद्रान्पंचांगसंयुतान् ॥ २३ ॥
देवव्रतं च गायत्रं सोमसूर्यव्रते तथा ॥
एकविंशतिपर्यंतं तथान्यच्च रथंतरम् ॥ २४ ॥
सौव्रतं संहिता विष्णोर्ज्येष्ठसाम तथैव च ॥
सामवेदोक्तरुद्रांश्च भारुंडैः सामभिर्युतान् ॥ २५ ॥
छंदोगः कीर्तयेत्तत्र यच्चान्यच्छांतिकं भवेत् ॥
गर्भोपनिषदं चैव स्कंदसूक्तं तथापरम् ॥ २६ ॥
नीलरुद्रैः समोपेतान्प्राणरुद्रांस्तथापरान् ॥
नवरुद्रांश्च क्षुरिकानाद्यस्तत्र प्रकीर्तयेत् ॥ २७ ॥
ततः पुण्याहघोषेण गीतवादित्रनिस्वनैः ॥
शुक्लमाल्यांबरधरः शुक्लचंदनचर्चितः २८ ॥
शुद्धिकामो व्रजेत्तत्र यत्र ते ब्राह्मणाः स्थिताः ॥
प्रणम्य शिरसा तेषां ततोवाच्यस्तु मध्यगः ॥ २९ ॥
मदर्थं प्रार्थय त्वं हि सर्वानेतान्द्विजोत्तमान् ॥
यतः शुद्धिं प्रयच्छंति प्रसादं कर्तुमर्हसि ॥ ६.२०१.३० ॥
ततस्तु प्रार्थयेद्विप्रांस्तदर्थं च विशुद्धये ॥
गर्तातीर्थोद्भवो विप्रो विनयावनतः स्थितः ॥ ३१ ॥
गोचर्मणि समालग्नः शुद्धिकामस्य तस्य च ॥
प्रष्टव्यास्तु ततस्तेन सर्व एव द्विजोत्तमाः ॥ ३२ ॥
एष शुद्धिकृते प्राप्तः सुदूरान्नागरो द्विजः ॥
अस्य शुद्धिः प्रदातव्या युष्माकं रोचते यदि ॥ ३३ ॥
अथ तैर्वेदसूक्तेन निषेधो वा प्रवर्तनम् ॥
वक्तव्यं वचसा नैव मम वाक्यमिदं स्थितम्॥ ३४ ॥
ततश्च बहुलान्दृष्ट्वा ऋगध्वर्यूंस्ततः परम् ॥
छादोग्यांश्च तथाद्यांश्च क्रमेण तु द्विजोत्तमाः ॥ ३५ ॥
यदि तेषां मनस्तुष्टिर्जायते द्विजसत्तमाः ॥
ततः सूक्तानि वाक्यानि सौम्यानि सुशुभानि च ॥
वारुणानि तथैंद्राणि मांगल्यप्रभवाणि च ॥ ३६ ॥
श्रेष्ठानि मंत्रलिंगानि वृद्धितुष्टिकराणि च ॥
यदि नो मानसी तुष्टि स्तेषां चैव प्रजायते ॥ ३७ ॥
तदा रौद्राणि याम्यानि नैर्ऋत्यानि विशेषतः ॥
आग्नेयानि त्वनिष्टानि तथा नाशकराणि च ॥ ३८ ॥
अथ ये तत्र मूर्खाः स्युर्न वेदपठने रताः ॥
पुष्पदानं तु वक्तव्यं तैः संतुष्टैर्द्विजोत्तमैः ॥ ३९ ॥
सीत्कारः कुपितैः कार्यः संतोषेण विवर्जितैः ॥
एवं सर्वेषु कृत्येषु न च कार्यो विनिर्णयः ॥ ६.२०१.४० ॥
प्राकृतैर्वचनैश्चैव यथा कुर्वंति मानवाः ॥
तथैव निर्णयस्यांते मध्यगेन विपश्चिता ॥ ४१ ॥
देयं तालत्रयं सम्यक्सर्वेषां निर्णयोद्भवे ॥ ४२ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये नागर प्रश्ननिर्णयवर्णनंनामैकोत्तरद्विशततमोऽध्यायः ॥ २०१ ॥