स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः १९४

विकिस्रोतः तः
Jump to navigation Jump to search

अध्याय १९४
श्रीमार्कण्डेय उवाच -
तच्छ्रुत्वानान्तदेवेन विश्वरूपमुदाहृतम् ।
देवराजस्तथा देवाः परं विस्मयमागताः ॥ १९४.१ ॥
दृष्ट्वा चाप्सरसं पुण्यामुर्वशीं कमलाननाम् ।
संत्रस्तो विस्मितश्चाभूदिन्द्रो राजश्रिया वृतः ॥ १९४.२ ॥
न किंचिदुत्तरं वाक्यमुक्तवाञ्जोषमास्थितः ।
इति वृत्तान्तभूतं हि नारायणविचेष्टितम् ॥ १९४.३ ॥
भृगोः खात्यां(?) समुत्पन्ना लक्ष्मीः श्रुत्वा तु वै नृप ।
वैश्वरूपं परं रूपं विस्मिताचिन्तयत्तदा ॥ १९४.४ ॥
केनोपायेन स स्यान्मे भर्ता नारायणः प्रभुः ।
व्रतेन तपसा वापि दानेन नियमेन च ॥ १९४.५ ॥
वृद्धानां सेवनेनाथ देवताराधनेन वा ।
इति चिन्तापरां कन्यां सती ज्ञात्वा युधिष्ठिर ॥ १९४.६ ॥
प्राह प्राप्तो मया भर्ता शङ्करस्तपसा किल ।
प्रजापतिश्च गायत्र्या ह्यन्याभिरभिवाञ्छिताः ॥ १९४.७ ॥
तपसैव हि ते प्राप्यस्तस्मात्तच्चर सुव्रते ।
तपस्त्वं हि महच्चोग्रं सर्ववाञ्छितदायकम् ॥ १९४.८ ॥

मार्कण्डेय उवाच -
सागरान्तं समासाद्य लक्ष्मीः परपुरंजय ।
चचार विपुलं कालं तपः परमदुश्चरम् ॥ १९४.९ ॥
स्थाणुवत्संस्थिता साभूद्दिव्यं वर्षसहस्रकम् ।
तत इन्द्रादयो देवाः शङ्खचक्रगदाधराः ॥ १९४.१० ॥
भूत्वा जग्मुस्तदर्थं ते सा तु पृष्टवती सुरान् ।
विश्वरूपं वैष्णवं यत्तद्दर्शयत माचिरम् ॥ १९४.११ ॥
विलक्षा व्रीडिता देवा गत्वा नारायणं तदा ।
अब्रुवन् वैश्वरूपं नो शक्ता दर्शयितुं वयम् ॥ १९४.१२ ॥
ततो यथेष्टं ते जग्मुः स च विष्णुरचिन्तयत् ।
उग्ररूपा स्थिता देवी देहं दहति भार्गवी ॥ १९४.१३ ॥
तां तस्मात्तत्र गत्वाहं वरं दत्त्वा तु वाञ्छितम् ।
पुनस्तपः करिष्यामि दर्शयिष्यामि वा पुनः ।
वैष्णवं विश्वरूपं यद्दुर्दश्यं देवदानवैः ॥ १९४.१४ ॥

मार्कण्डेय उवाच -
ततो गत्वा हृषीकेशः सागरान्तस्थितां श्रियम् ।
प्राह तुष्टोऽस्मि ते देवि वरं वृणु यथेप्सितम् ॥ १९४.१५ ॥

श्रीरुवाच -
यदि तुष्टोऽसि मे देव प्रपन्नाया जनार्दन ।
तदा दर्शय यद्दृष्टमप्सरोभिस्तवानघ ॥ १९४.१६ ॥
विश्वरूपमनन्तं च भूतभावन केशव ।
गन्धमादनमासाद्य कृतं यच्च तपस्त्वया ॥ १९४.१७ ॥
तद्वदस्व विभो विष्णो न मिथ्या यदि केशव ।
श्रद्दधामि न चैवाहं रूपस्यास्य कथंचन ॥ १९४.१८ ॥
बहुभिर्यक्षरक्षोभिर्मायाचारिप्रचारिभिः ।
छन्दिता मम जानद्भिर्भावमन्तर्गतं हरौ ॥ १९४.१९ ॥
भूत्वा विष्णुस्वरूपास्ते चक्रिणश्च चतुर्भुजाः ।
सुव्रीडिता गताः सर्वे विश्वरूपो सहायतः ॥ १९४.२० ॥

मार्कण्डेय उवाच -
नारायणोऽथ भगवाञ्छङ्खचक्रगदाभृतम् ।
तया तथोक्तस्तद्रूपं मुक्त्वा वै सुरपूजितम् ॥ १९४.२१ ॥
रूपं परं यथोक्तं वै विश्वरूपमदर्शयत् ।
दर्शयित्वा वचः प्राह पञ्चरात्रविधानतः ॥ १९४.२२ ॥
योऽर्चयिष्यति मां नित्यं स पूज्यः स च पूजितः ।
धनधान्यसमायुक्तः सर्वभोगसमन्वितः ॥ १९४.२३ ॥
मूलं हि सर्वधर्माणां ब्रह्मचर्यं परं तपः ।
तेनाहं तत्र स्थास्यामि मूलश्रीपतिसंज्ञितः ॥ १९४.२४ ॥
मूलश्रीः प्रोच्यते ब्राह्मी ब्रह्मचर्यस्वरूपिणी ।
सर्वयोगमयी पुण्या सर्वपापहरी शुभा ॥ १९४.२५ ॥
पतिस्तस्याः प्रभुरहं वरदः प्राणिनां प्रिये ।
रेवाजले नरः स्नात्वा योऽर्चयेन्मां यतव्रतः ॥ १९४.२६ ॥
मूलश्रीपतिनामानं वाञ्छिते प्राप्नुयात्फलम् ।
दानानि तत्र यो दद्यान्महादानानि च प्रिये ॥ १९४.२७ ॥
सहस्रगुणितं पुण्यमन्यस्थानादवाप्यते ।
दृष्टं त्वया तत्र देशे सम्यक्चैवावधारितम् ।
तदर्चित्वा परान् कामानाप्स्यसि त्वं न संशयः ॥ १९४.२८ ॥
वरं वृणीष्व देवेशि वाञ्छितं दुर्लभं सुरैः ।
दुर्गसंसारकान्तारपतितैः परमेश्वरि ॥ १९४.२९ ॥

श्रीरुवाच -
नारायण जगद्धातर्नारायण जगत्पते ।
नारायण परब्रह्म नारायणपरायण ॥ १९४.३० ॥
प्रसीद पाहि मां भक्त्या सम्यक्सर्गे नियोजय ।
प्रियो ह्यसि प्रियाहं ते यथा स्यां तत्तथा कुरु ॥ १९४.३१ ॥
गृहं धर्मार्थकामानां कारणं देव संमतम् ।
तदास्थायाश्रमं पुण्यं मां श्रेयसि नियोजय ॥ १९४.३२ ॥

नारायण उवाच -
नारायणगिरा देवि विज्ञप्तोऽस्मि यतस्त्वया ।
नारायणगिरिर्नाम तेन मेऽत्र भविष्यति ॥ १९४.३३ ॥
नारायणस्मृतौ याति दुरितं जन्मकोटिजम् ।
यस्माद्गिरति तस्माच्च गिरिरित्येव शब्दितम् ॥ १९४.३४ ॥
तस्मात्सर्वाश्रयो देवि गिरिः पर्वतराङ्भवेत् ।
सुरासुरमनुष्याणां यथाहमपि चाश्रयः ॥ १९४.३५ ॥
य एतत्पूजयिष्यन्ति मण्डलस्थं परं मम ।
नारायणगिरिर्नाम देवरूपं शुभेक्षणे ॥ १९४.३६ ॥
ते दिव्यज्ञानसम्पन्ना दिव्यदेहविचेष्टिताः ।
दिव्यं लोकमवाप्स्यन्ति दिव्यभोगसमन्विताः ॥ १९४.३७ ॥

मार्कण्डेय उवाच -
तयोरेवं संवदतोर्देवा इन्द्रपुरोगमाः ।
समागता वनोद्देशं सागरान्ते महर्षयः ॥ १९४.३८ ॥
ततो भृगुं देवराजो नारायणविचिन्तितम् ।
वव्रे ज्ञात्वा तु तत्कन्यां धर्मात्मा स ददौ च ताम् ॥ १९४.३९ ॥
धर्मोऽपि विधिवद्वत्स विवाहं समकारयत् ।
देवदेवस्य राजर्षे देवतार्थे समाहितः ॥ १९४.४० ॥

युधिष्ठिर उवाच -
धर्मो विवाहमकरोद्विधिवद्यत्त्वयोदितम् ।
को विधिस्तत्र का दत्ता दक्षिणा भृगुणापि च ॥ १९४.४१ ॥
विवाहयज्ञे समभूत्स्रुक्स्रुवग्रहणे च कः ।
ऋत्विजः के सदस्याश्च तस्यासन् द्विजसत्तम ॥ १९४.४२ ॥
किं तस्यावभृथं त्वासीत्तत्सर्वं वद विस्तरात् ।
त्वद्वाक्यामृतपानेन तृप्तिर्मम न विद्यते ॥ १९४.४३ ॥

मार्कण्डेय उवाच -
नारायणविवाहस्य यज्ञस्य च युधिष्ठिर ।
तपसस्तस्य देवस्य सम्यगाचरणस्य च ॥ १९४.४४ ॥
वक्तुं समर्थो न गुणान्ब्रह्मापि परमेश्वरः ।
तथाप्युद्देशतो वच्मि शृणु भूत्वा समाहितः ॥ १९४.४५ ॥
ब्रह्मा सप्तर्षयस्तत्र स्रुक्स्रुवग्रहणे रताः ।
अग्नीञ्जुहुविरे राजन्वेदिर्धात्री ससागरा ॥ १९४.४६ ॥
ददुः समुद्रा रत्नानि ब्रह्मर्षिभ्यो नृपोत्तम ।
धनदोऽपि ददौ वित्तं सर्वब्राह्मणवाञ्छितम् ॥ १९४.४७ ॥
विश्वकर्माऽपि देवानां ब्रह्मर्षीणां परंतप ।
वेश्मानि सुविचित्राणि सर्वरत्नमयानि च ॥ १९४.४८ ॥
कृत्वा प्रदर्शयामास देवेन्द्राय यशस्विने ।
शतक्रतुस्ततो विप्रान्कापिष्ठलपुरोगमान् ॥ १९४.४९ ॥
शौनकादींश्च पप्रच्छ बष्कलाञ्छागलानपि ।
आत्रेयानपि राजेन्द्र वृणुध्वमभिवाञ्छितम् ॥ १९४.५० ॥
दृष्ट्वा ते चित्ररत्नानि प्राहुः सर्वेश्वरेश्वरम् ।
देवानां च ऋषीणां च सङ्गमोऽयं सुपुण्यकृत् ॥ १९४.५१ ॥
अस्मिन्पुण्ये सुरेशान वस्तुं वाञ्छामहे सदा ।
शतक्रतुः प्राह पुनर्वासो वात्र भविष्यति ।
सत्यधर्मरता यूयं यावत्कालं भविष्यथ ॥ १९४.५२ ॥

मार्कण्डेय उवाच -
पृष्टं यद्राजशार्दूल के मखे होत्रिणोऽभवन् ।
तत्प्रोच्यमानमधुना शृणु भूत्वा समाहितः ॥ १९४.५३ ॥
सनत्कुमारप्रमुखाः सदस्यास्तस्य चाभवन् ।
औद्गात्रमत्र्यङ्गिरसौ मरीचिश्च चकार ह ॥ १९४.५४ ॥
हौत्रं धर्मवसिष्ठौ च ब्रह्मत्वं सनको मुनिः ।
षट्त्रिंशद्ग्रामसाहस्रं प्रादात्तेभ्यः शतक्रतुः ॥ १९४.५५ ॥
लक्ष्मीर्भर्त्रा च संयुक्ताभवत्तत्कृतवान्प्रभुः ।
ब्रह्मणो जुह्वतो वह्निं यावद्देशस्थितैः सुरैः ॥ १९४.५६ ॥
दृष्टं ललाटं देशोऽसौ ललाट इति संज्ञितः ।
स देशः श्रीपतेः क्षेत्रपुण्यं देवर्षिसेवितम् ॥ १९४.५७ ॥
सर्वाश्चर्यमयं दिव्यं दिव्यसिद्धिसमन्वितम् ।
ब्राह्मणानां ततः पङ्क्तिं निवेशयितुमुद्यता ॥ १९४.५८ ॥
लक्ष्मीः श्रीपतिनामानमाह देवं वचस्तदा ।

श्रीरुवाच -
य एते ब्राह्मणाः शिष्या भृग्वादीनां यतव्रताः ॥ १९४.५९ ॥
तान्निवेशयितुमिच्छामि त्वत्प्रसादादधोक्षज ।
मरीच्यादयः सुरेन्द्रेण स्थापिता गरुडध्वज ॥ १९४.६० ॥
नैष्ठिकव्रतिनो विप्रा बहवोऽत्र यतव्रताः ।
प्राजापत्ये व्रते ब्राह्मे केचिदत्र व्यवस्थिताः ।
तानहं स्थापयिष्यामि त्वत्प्रसादादधोक्षज ॥ १९४.६१ ॥

मार्कण्डेय उवाच -
ततः कौतूहलधरो भगवान्वृषभध्वजः ।
पप्रच्छ व्रतिनः सर्वान्वृत्तिभेदे व्यवस्थितान् ॥ १९४.६२ ॥
नारदोऽपि महादेवमुपेत्य च सतीपतिम् ।
प्राह कृष्णाजिनधरो नैष्ठिका ब्राह्मणा ह्यमी ॥ १९४.६३ ॥
अमी कार्याः सुवस्त्रेण छन्नगुह्या द्विजोत्तमाः ।
प्राजापत्याश्चतुर्विंशसहस्राणि नरेश्वर ॥ १९४.६४ ॥
ब्रह्मचर्यव्रतस्थानां व्रतब्रह्मविचारिणाम् ।
द्वादशैषां सहस्राणि सन्ति वै वृषभध्वज ॥ १९४.६५ ॥
नारदस्य वचः श्रुत्वा देवा देवर्षयोऽपि च ।
साधु साध्वित्यमन्यन्त नोचुः केचन किंचन ॥ १९४.६६ ॥
समाह्वयत्ततो लक्ष्मीस्तान् विप्रान् भक्तिसंयुता ।
उवाच चरणान्गृह्य प्रसादः क्रियतां मयि ॥ १९४.६७ ॥
षट्त्रिंशच्च सहस्राणि वेश्मनामत्र संस्थितिः ।
विश्वकर्मकृतानां तु तेषु तिष्ठन्तु वोऽखिलाः ॥ १९४.६८ ॥
ते तथेति प्रतिज्ञाय स्थिताः संप्रीतमानसाः ।
धनधान्यसमृद्धाश्च वाञ्छितप्राप्तिलक्षणाः ।
सर्वकामसमृद्धाश्च ह्यनारम्भेषु कर्मणाम् ॥ १९४.६९ ॥
इति संस्थाप्य तान् विप्रान् सा स्थिता पर्यपालयत् ।
चतुर्धा तु स्थितो विष्णुः श्रिया देव्याः प्रिये रतः ॥ १९४.७० ॥
एवं वैवाहिकमखे निवृत्ते ऋषयस्तु तम् ।
ऊचुश्चावभृथस्नानं कुत्र कुर्मो जनार्दन ॥ १९४.७१ ॥
इति श्रुत्वा तु वचनं श्रीपतिः पादपङ्कजात् ।
मुमोच जाह्नवीतोयं रेवामध्यगमं शुचि ॥ १९४.७२ ॥
हरेः पादोदकं दृष्ट्वा निःसृतं मुनयस्तु ते ।
विस्मिताः समपद्यन्त जानन्तस्तस्य गौरवम् ॥ १९४.७३ ॥
रुद्रेण सहिताः सर्वे देवता ऋषयस्तथा ।
संकथा विस्मिताश्चक्रुर्विधुन्वन्तः शिरांसि च ॥ १९४.७४ ॥
ऋषय ऊचुः ।
ब्रूहि शम्भो किमत्रायं अकस्माद्वारिसम्भवः ।
विष्णोः पादाम्बुजोत्थश्च सम्मोहकरणः परः ॥ १९४.७५ ॥

ईश्वर उवाच -
पादोदकमिदं विष्णोरहं जानामि वै सुराः ।
दशाश्वमेधावभृथैः स्नानमत्रातिरिच्यते ॥ १९४.७६ ॥
युष्माभिः श्रीपतिः पूज्यः स्नानं चावभृथं कुतः ।
भविष्यतीति तेनाशु इदं वोऽर्थे विनिर्मितम् ॥ १९४.७७ ॥
स्नात्वात्र त्रिदशेशाना यत्फलं सम्प्रपद्यते ।
वक्तुं न केनचिद्याति ततः किमुत्तरं वचः ॥ १९४.७८ ॥

मार्कण्डेय उवाच -
एवमुक्त्वा तु ते सर्वे स्नानं कृत्वा यथागतम् ।
जग्मुर्देवा महेशानपुरोगा भरतर्षभ ॥ १९४.७९ ॥
ब्राह्मणाश्च ततः सर्वे स्ववेश्मान्येव भेजिरे ।
देवतीर्थे महाराज सर्वपापप्रणाशने ॥ १९४.८० ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे श्रीपतिविवाहवर्णनं नाम चतुर्नवत्युत्तरशततमोऽध्यायः ॥