स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः १९५

विकिस्रोतः तः

अध्याय १९५
युधिष्ठिर उवाच -
देवतीर्थे तु किं नाम माहात्म्यं समुदाहृतम् ।
फलं किं स्नानदानादिकारिणां जायते मुने ॥ १९५.१ ॥

मार्कण्डेय उवाच -
पृथिव्यां यानि तीर्थानि देवैर्मुनिगणैरपि ।
सेवितानि महाबाहो तानि ध्यातानि विष्णुना ॥ १९५.२ ॥
समागतान्येकतां वै तत्र तीर्थे युधिष्ठिर ।
तत्तीर्थं वैष्णवं पुण्यं देवतीर्थमिति श्रुतम् ॥ १९५.३ ॥
कुरुक्षेत्रं भुवि परमन्तरिक्षे त्रिपुष्करम् ।
पुरुषोत्तमं दिवि परं देवतीर्थं परात्परम् ॥ १९५.४ ॥
देवतीर्थसमं नास्ति तीर्थमत्र परत्र च ।
यत्प्राप्य मनुजस्तप्येन्न कदाचिद्युधिष्ठिर ॥ १९५.५ ॥
देवैरुक्तानि तीर्थानि योऽत्र स्नानं समाचरेत् ।
देवतीर्थे स सर्वत्र स्नातो भवति मानवः ॥ १९५.६ ॥
एवमस्त्विति तैरुक्ता देवा ऋषिगणा अपि ।
संतुष्टाः श्रीशमभ्यर्च्य स्वं स्वं स्थानं तु भेजिरे ॥ १९५.७ ॥
सूर्यग्रहेऽत्र वै क्षेत्रे स्नात्वा यत्फलमश्नुते ।
स्नात्वा श्रीशं समभ्यर्च्य समुपोष्य यथाविधि ॥ १९५.८ ॥
यद्ददाति हिरण्यानि दानानि विधिवन्नृप ।
तदनन्तफलं सर्वं सूर्यस्य ग्रहणे यथा ॥ १९५.९ ॥
भूमिदानं धेनुदानं स्वर्णदानमनन्तकम् ।
वज्रदानमनन्तं च फलं प्राह शतक्रतुः ॥ १९५.१० ॥
सोमो वै वस्त्रदानेन मौक्तिकानां च भार्गवः ।
सुवर्णस्य रविर्दानं धर्मराजो ह्यनन्तकम् ॥ १९५.११ ॥
देवतीर्थे तु यद्दानं श्रद्धायुक्तेन दीयते ।
तदनन्तफलं प्राह बृहस्पतिरुदारधीः ॥ १९५.१२ ॥
देवतीर्थे भृगुक्षेत्रे सर्वतीर्थाधिक नृप ।
देवतीर्थे नरः स्नात्वा श्रीपतिं योऽनुपश्यति ॥ १९५.१३ ॥
सोमग्रहे कुलशतं स समुद्धृत्य नाकभाक् ।
दानानि द्विजमुख्येभ्यो देवतीर्थे नराधिप ॥ १९५.१४ ॥
यैर्दत्तानि नरैर्भोगभागिनः प्रेत्य चेह ते ।
देवतीर्थे विप्रभोज्यं हरिमुद्दिश्य यश्चरेत् ॥ १९५.१५ ॥
स सर्वाह्लादमाप्नोति स्वर्गलोके युधिष्ठिर ।
देवतीर्थे नरो नारी स्नात्वा नियतमानसौ ॥ १९५.१६ ॥
उपोष्यैकादशीं भक्त्या पूजयेद्यः श्रियः पतिम् ।
रात्रौ जागरणं कृत्वा घृतेनोद्बोध्य दीपकम् ॥ १९५.१७ ॥
द्वादश्यां प्रातरुत्थाय तथा वै नर्मदाजले ।
विप्रदाम्पत्यमभ्यर्च्य विधिवत्कुरुनन्दन ॥ १९५.१८ ॥
वस्त्राभरणताम्बूलपुष्पधूपविलेपनैः ।
अक्षये विष्णुलोकेऽसौ मोदते चरितव्रतः ॥ १९५.१९ ॥
यः सदैकादशीतिथौ स्नात्वोपोष्यार्चयेद्धरिम् ।
रात्रौ जागरणं कुर्याद्वेदशास्त्रविधानतः ॥ १९५.२० ॥
धर्मराजकृतां पापां न स पश्यति यातनाम् ।
पञ्चरात्रविधानेन श्रीपतिं योऽर्चयिष्यति ॥ १९५.२१ ॥
दीक्षामवाप्य विधिवद्वैष्णवीं पापनाशिनीम् ।
स्वर्गमोक्षप्रदां पुण्यां भोगदां वित्तदामथ ॥ १९५.२२ ॥
राज्यदां वा महाभाग पुत्रदां भाग्यदामथ ।
सुकलत्रप्रदां वापि विष्णोर्भक्तिप्रदामिति ॥ १९५.२३ ॥
तरिष्यति भवाम्भोधिं स नरः कुरुनन्दन ।
योऽर्चयिष्यति तत्रैव देवतीर्थे श्रियः पतिम् ॥ १९५.२४ ॥
विश्वरूपमथो सम्यङ्मूलश्रीपतिमेव वा ।
नारायणगिरिं वापि गृहे वैकादशीतिथौ ॥ १९५.२५ ॥
भक्तिमाञ्छ्रद्धया युक्तः क्षीरैस्तीर्थोदकैरपि ।
सुसूक्ष्मैरहतैर्वस्त्रैर्महाकौशेयकैर्नृप ॥ १९५.२६ ॥
विचित्रैर्नेत्रजैर्वापि धूपैरगुरुचन्दनैः ।
गुग्गुलैर्घृतमिश्रैश्च नैवेद्यैर्विविधैरपि ॥ १९५.२७ ॥
पायसाद्यैर्मनुष्येन्द्र पयसा वा युधिष्ठिर ।
पिष्टदीपैः सुविमलैर्वर्धमानैर्मनोहरैः ॥ १९५.२८ ॥
पूजयित्वा नरो याति यथा तच्छृणु भारत ।
शङ्खी चक्री गदी पद्मी भूत्वासौ गरुडध्वजः ॥ १९५.२९ ॥
देवलोकानतिक्रम्य विष्णुलोकं प्रपद्यते ।
यस्तु वै परया भक्त्या श्रीपतेः पादपङ्कजम् ॥ १९५.३० ॥
चतुर्धाधिष्ठितं पश्येच्छ्रियं त्रैलोक्यमातरम् ।
नृत्यगीतविनोदेन मुच्यते पातकर्ध्रुवम् ॥ १९५.३१ ॥
नीराजने तु देवस्य प्रातर्मध्ये दिने तथा ।
सायं च नियतो नित्यं यः पश्येत्पूजयेद्धरिम् ॥ १९५.३२ ॥
स तीर्त्वा ह्यापदं दुर्गां नैवार्तिं समवाप्नुयात् ।
आयुःश्रीवर्धनं पुंसां चक्षुषामपि पूरकम् ॥ १९५.३३ ॥
उपपापहरं चैव सदा नीराजनं हरेः ।
तदा नीराजनाकाले यो हरेः पठति स्तवम् ॥ १९५.३४ ॥
स धन्यो देवदेवस्य प्रसन्नेनान्तरात्मना ।
हरेर्नीराजनाशेषं पाणिभ्यां यः प्रयच्छति ॥ १९५.३५ ॥
संगृह्य चक्षुषी तेन योजयेन्मार्जयन्मुखम् ।
तिमिरादीनक्षिरोगान्नाशयेद्दीप्तिमन्मुखम् ॥ १९५.३६ ॥
भवत्यशेषदुष्टानां नाशायालं नरोत्तम ।
दीपप्रज्वलनं यस्य नित्यमग्रे श्रियः पतेः ॥ १९५.३७ ॥
स्नात्वा रेवाजले पुण्ये प्रदद्यादधिकं व्रती ।
सप्तद्वीपवती तेन ससागरवनापगा ॥ १९५.३८ ॥
प्रदक्षिणीकृता स्याद्वै धरणी शङ्करोऽब्रवीत् ।
इदं यः पठ्यमानं तु शृणुयात्पठतेऽपि वा ॥ १९५.३९ ॥
स्मरणं सोऽतसमये विपाप्मा प्राप्नुयाद्धरेः ।
इदं यशस्यमायुष्यं स्वर्ग्यं पितृगुणप्रियम् ॥ १९५.४० ॥
माहात्म्यं श्रावयेद्विप्राञ्छ्रीपतेः श्राद्धकर्मणि ।
घृतेन मधुना तेन तर्पिताः स्युः पितामहाः ॥ १९५.४१ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे श्रीपतिमाहात्म्यवर्णनं नाम पञ्चनवत्युत्तरशततमोऽध्यायः ॥