स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ०४४

विकिस्रोतः तः
Jump to navigation Jump to search

श्रीमार्कण्डेय उवाच -
तीर्थानां परमं तीर्थं तच्छृणुष्व नराधिप ।
रेवाया दक्षिणे कूले निर्मितं शूलपाणिना ॥ ४४.१ ॥
मोक्षार्थं मानवेन्द्राणां निर्मितं नृपसत्तम ।

युधिष्ठिर उवाच -
श्रुता मे विविधा धर्मास्तीर्थानि विविधानि च ।
दानधर्माः समस्ताश्च त्वत्प्रसादाद्द्विजोत्तम ॥ ४४.२ ॥
अन्यच्च श्रोतुमिच्छामि संसारश्छिद्यते यथा ।
पुनरागमनं नास्ति मोक्षप्राप्तिर्भवेद्यथा ॥ ४४.३ ॥
एतदाख्याहि मे सर्वं प्रसादाद्द्विजसत्तम ॥ ४४.४ ॥

मार्कण्डेय उवाच -
शृणुष्वैकमना भूत्वा तीर्थात्तीर्थान्तरं महत् ।
श्रुते यस्य प्रभावे तु मुच्यते चाब्दिकादघात् ॥ ४४.५ ॥
वाचिकैर्मानसैर्वापि शारीरैश्च विशेषतः ।
कीर्तनात्तस्य तीर्थस्य मुच्यते सर्वपातकैः ॥ ४४.६ ॥
पञ्चक्रोशप्रमाणं तु तच्च तीर्थं महीपते ।
भुक्तिमुक्तिप्रदं दिव्यं प्राणिनां पापकर्मिणाम् ॥ ४४.७ ॥
रेवाया दक्षिणे कूले पर्वतो भृगुसंज्ञितः ।
तस्य मूर्ध्नि च तत्तीर्थं स्थापितं चैव शम्भुना ॥ ४४.८ ॥
शूलभेदेति विख्यातं त्रिषु लोकेषु भूपते ।
तत्र स्थिताश्च ये वृक्षास्तीर्थाच्चैव चतुर्दिशम् ॥ ४४.९ ॥
पतिता निलयं यान्ति रुद्रस्य नात्र संशयः ।
मृतास्तत्रैव ये केचिज्जन्तवो भुवि पक्षिणः ॥ ४४.१० ॥
ते यान्ति परमं लोकं तत्र तीर्थे न संशयः ।
पातालान्निःसृता गङ्गा भोगवतीतिसंज्ञिता ॥ ४४.११ ॥
निष्क्रान्ता शूलभेदाच्च सर्वपापक्षयंकरी ।
या सा गीर्वाणनाम्न्यन्या वहेत्पुण्या महानदी ॥ ४४.१२ ॥
पतिता कुण्डमध्ये तु यत्र भिन्नं त्रिशूलिना ।
शम्भुना च पुरा तात उत्पाद्य च सरस्वती ॥ ४४.१३ ॥
सा तत्र पतिता राजन् प्राचीनाघविमोचिनी ।
भास्वत्या त्रितयं यत्र शिला गीर्वाणसंज्ञिता ॥ ४४.१४ ॥
तत्र तीर्थे च तत्तीर्थं न भूतं न भविष्यति ।
केदारं च प्रयागं च कुरुक्षेत्रं गया तथा ॥ ४४.१५ ॥
अन्यानि च सुतीर्थानि कलां नार्हन्ति षोडशीम् ।
पञ्च स्थानानि तीर्थानि पृथग्भूतानि यानि च ॥ ४४.१६ ॥
वक्ष्यामि च समासेन एकैकं च पृथक्पृथक् ।
गया नाभ्यां यथा पुण्या चक्रतीर्थं च तत्समम् ॥ ४४.१७ ॥
धर्मारण्ये यथा कूपं शूलभेदं च तत्समम् ।
ब्रह्मयूपं यथा पुण्यं देवनद्यास्तथैव च ॥ ४४.१८ ॥
यथा गयाशिरः पुण्यं सुराणां च यथा शिला ।
यथा च पुष्करं स्थानं मार्कण्डह्रद एव च ॥ ४४.१९ ॥
दत्त्वा पिण्डोदकं तत्र पिण्डाणां च तथाक्षयम् ।
यस्तत्र कुरुते श्राद्धं तोयं पिबति नित्यशः ।
मुच्यते सर्वपापैस्तु उरगः कञ्चुकैरिव ।
अनिन्द्यान्पूजयेद्विप्रान् दम्भक्रोधविवर्जितान् ॥ ४४.२० ॥
त्रयोदशदिनं दानं त्रयोदशगुणं भवेत् ।
अभ्यर्चितं सुरं दृष्ट्वा गणनाथं गजाननम् ॥ ४४.२१ ॥
सर्वे विघ्ना विनश्यन्ति दृष्ट्वा कम्बलक्षेत्रपम् ॥ ४४.२२ ॥
पूजयेत्परया भक्त्या शूलपाणिं महेश्वरम् ॥ ४४.२३ ॥
देवस्य पूर्वभागे तु उमा पूज्या प्रयत्नतः ।
मार्कण्डेशं ततो भक्त्या पूजयेद्गुहवासिनम् ॥ ४४.२४ ॥
मुच्यन्ते पातकैः सर्वैरज्ञानज्ञानसंचितैः ।
गुहामध्ये प्रविष्टस्तु जपेत्सूक्तं तु त्र्यक्षरम् ॥ ४४.२५ ॥
नीलपर्वतजं पुण्यं षष्ठांशेन लभेत सः ।
त्रिनरास्तत्र तिष्ठन्ति सादित्यमरुतैः सह ॥ ४४.२६ ॥
सर्वदेवमयं स्थानं कोटिलिङ्गमनुत्तमम् ।
यथा नदीनदाः सर्वे सागरे यान्ति संक्षयम् ॥ ४४.२७ ॥
तथा पापानि नश्यन्ति शूलभेदस्य दर्शनात् ।
प्रत्यक्षो दृश्यतेऽद्यापि प्रत्ययो ह्यवनीपते ॥ ४४.२८ ॥
विस्फुलिङ्गा लिङ्गमध्ये स्पन्दन्ते स्नानयोगतः ।
द्वितीयः प्रत्ययस्तत्र तैलबिन्दुर्न सर्पति ॥ ४४.२९ ॥
एवं हि प्रत्ययस्तत्र शूलभेदप्रभावजः ।
यः स्मरेच्छूलभेदं तु त्रिकालं नित्यमेव च ॥ ४४.३० ॥
स पूतश्च भवेत्साक्षात्सबाह्याभ्यन्तरो नृप ।
न कस्यचिन्मया ख्यातं पृष्टोऽहं त्रिदशैरपि ॥ ४४.३१ ॥
गुह्याद्गुह्यतरं तीर्थं सदा गोप्यं कृतं मया ।
सर्वपापहरं पुण्यं सर्वदोषघ्नमुत्तमम् ॥ ४४.३२ ॥
सर्वतीर्थमयं तीर्थं शूलभेदं जनेश्वर ।
श्रुते यस्य प्रभावे तु मुच्यते सर्वपातकैः ॥ ४४.३३ ॥
शूलभेदं मया तात संक्षेपात्कथितं तव ।
यः शृणोति नरो भक्त्या मुच्यते सर्वपातकैः ॥ ४४.३४ ॥


॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शूलभेदप्रशंसावर्णनं नाम चतुश्चत्वारिंशोऽध्यायः॥