स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ०४३
अध्याय ४३
श्रीमार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र विमलेश्वरमुत्तमम् ।
तत्र देवशिला रम्या स्वयं देवैर्विनिर्मिता ॥ ४३.१ ॥
तत्र स्नात्वा तु यो भक्त्या ब्राह्मणान्पूजयेन्नृप ।
स्वल्पेनापि हि दानेन तस्य चान्तो न विद्यते ॥ ४३.२ ॥
युधिष्ठिर उवाच -
कानि दानानि विप्रेन्द्र शस्तानि धरणीतले ।
यानि दत्त्वा नरो भक्त्या मुच्यते सर्वपातकैः ॥ ४३.३ ॥
श्रीमार्कण्डेय उवाच -
सुवर्णं रजतं ताम्रं मणिमौक्तिकमेव च ।
भूमिदानं च गोदानं मोचयत्पशुभान्नरम् ॥ ४३.४ ॥
तत्र तीर्थे तु यः कश्चित्कुरुते प्राणसंक्षयम् ।
रुद्रलोके वसेत्तावद्यावदा भूतसम्प्लवम् ॥ ४३.५ ॥
ततः पुष्करिणीं गच्छेत्सर्वपापक्षयंकरीम् ।
तत्र स्नात्वार्चयेद्देवं तेजोराशिं दिवाकरम् ॥ ४३.६ ॥
ऋचमेकां जपेत्साम्नः सामवेदफलं लभेत् ।
यजुर्वेदस्य जपनादृग्वेदस्य तथैव च ॥ ४३.७ ॥
अक्षरं वा जपेन्मन्त्रं ध्यायमानो दिवाकरम् ।
आदित्यहृदयं जप्त्वा मुच्यते सर्वकिल्बिषैः ॥ ४३.८ ॥
तत्र तीर्थे तु यः स्नात्वा विधिना जपेद्द्विजान् ।
तस्य कोटिगुणं पुण्यं जायते नात्र संशयः ॥ ४३.९ ॥
अनाशकेनाग्निगत्या जले वा देहपातनात् ।
तस्मिंस्तीर्थे मृतो यस्तु स याति परमां गतिम् ॥ ४३.१० ॥
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा नृपसत्तम ।
विहितं कर्म कुर्वाणः स गच्छेत्परमां गतिम् ॥ ४३.११ ॥
युधिष्ठिर उवाच -
व्याधिं सत्त्वक्षयं मोहं ज्ञात्वा वर्णा द्विजोत्तम ।
पापेभ्यो विप्रमुच्यन्ते केन तत्साधनं वद ॥ ४३.१२ ॥
श्रीमार्कण्डेय उवाच -
तिलोदकी तिलस्नायी कामक्रोधविवर्जितः ।
ब्राह्मणोऽनशनैः प्राणांस्त्यजल्लभति सद्गतिम् ॥ ४३.१३ ॥
सङ्ग्रामे सद्गतिं तात क्षत्रियो निधने लभेत् ।
तदभावान्महाप्राज्ञ सेवमानो लभेदिति ॥ ४३.१४ ॥
व्याधिग्रहगृहीतो वा वृद्धो वा विकलेन्द्रियः ।
आत्मानं दाहयित्वाग्नौ विधिना सद्गतिं लभेत् ॥ ४३.१५ ॥
वैश्योऽपि हि त्यजन्प्राणानेवं वै शुभभाग्भवेत् ।
जले वा शुद्धभावेन त्यक्त्वा प्राणाञ्छिवो भवेत् ॥ ४३.१६ ॥
शूद्रोऽपि द्विजशुश्रूषुस्तोषयित्वा महेश्वरम् ।
विमुच्य नान्यथा पापः पतते नरके ध्रुवम् ॥ ४३.१७ ॥
अथवा प्रणवाशक्तो द्विजेभ्यो गुरवे तथा ।
पञ्चाग्नौ शोषयेद्देहमापृच्छ्य द्विजसत्तमान् ॥ ४३.१८ ॥
शान्तदान्तजितक्रोधाञ्छास्त्रयुक्तान् विचक्षणान् ।
तेषां चैवोपदेशेन करीषाग्निं प्रसाधयेत् ॥ ४३.१९ ॥
एवं वर्णा यथात्वेन मूढाहङ्कारमोहिताः ।
पतन्ति नरके घोरे यथान्धो गिरिगह्वरे ॥ ४३.२० ॥
ये शास्त्रविधिमुत्सृज्य वर्तन्ते कामचारतः ।
कृमियोनिं प्रपद्यन्ते तेषां पिण्डो न च क्रिया ॥ ४३.२१ ॥
श्रुतिस्मृत्युदितं धर्मं त्यक्त्वा यथेच्छाचारसेविनः ।
अष्टाविंशतिर्वै कोट्यो नरकाणां युधिष्ठिर ॥ ४३.२२ ॥
प्रत्येकं वा पतन्त्येते मग्ना नरकसागरे ।
दुर्लभं मानुषं जन्म बहुधर्मार्जितं नृप ॥ ४३.२३ ॥
तल्लब्ध्वा मदमात्सर्यं यो वै त्यजति मानवः ।
संनियम्य सदात्मानं ज्ञानचक्षुर्नरो हि सः ॥ ४३.२४ ॥
अज्ञानतिमिरान्धस्य ज्ञानांजनशलाकया ॥ ४३.२५ ॥
यस्य नोन्मीलितं चक्षुर्ज्ञेयो जात्यन्ध एव सः ।
एतत्ते कथितं सर्वं यत्पृष्टं नृपसत्तम ॥ ४३.२६ ॥
तथानिष्टतराणां हि रुद्रस्य वचनं यथा ।
नर्मदा सरितां श्रेष्ठा रुद्रदेहाद्विनिःसृता ॥ ४३.२७ ॥
तारयेत्सर्वभूतानि स्थावराणि चराणि च ।
सर्वदेवाधिदेवेन ईश्वरेण महात्मना ॥ ४३.२८ ॥
लोकानां च हितार्थाय महापुण्यावतारिता ।
मानसं वाचिकं पापं स्नानान्नश्यति कर्मजम् ॥ ४३.२९ ॥
रुद्रदेहाद्विनिष्क्रान्ता तेन पुण्यतमा हि सा ।
प्रातरुत्थाय यो नित्यं भूमिमाक्रम्य भक्तितः ॥ ४३.३० ॥
एतन्मन्त्रं जपेत्तात स्नानस्य लभते फलम् ।
नमः पुण्यजले देवि नमः सागरगामिनि ॥ ४३.३१ ॥
नमोऽस्तु पापनिर्मोचे नमो देवि वरानने ॥ ४३.३२ ॥
नमोऽस्तु ते ऋषिवरसङ्घसेविते नमोऽस्तु ते त्रिनयनदेहनिःसृते ।
नमोऽस्तु ते सुकृतवतां सदा वरे नमोऽस्तु ते सततपवित्रपावनि ॥ ४३.३३ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे विमलेश्वरतीर्थमाहात्म्यवर्णनं नाम त्रिचत्वारिंशोऽध्यायः ॥