स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ००५

विकिस्रोतः तः
← अध्यायः ४ स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्
अध्यायः ५
वेदव्यासः
अध्यायः ६ →

अध्याय ५

युधिष्ठिर उवाच -
आश्चर्यमेतदखिलं कथितं भो द्विजोत्तम ।
विस्मयं परमापन्ना ऋषिसंघा मया सह ॥ ५.१ ॥
अहो भगवती पुण्या नर्मदेयमयोनिजा ।
रुद्रदेहाद्विनिष्क्रान्ता महापापक्षयंकरी ॥ ५.२ ॥
सप्तकल्पक्षये प्राप्ते त्वयेयं सह सुव्रत ।
न मृता च महाभागा किमतः पुण्यमुत्तमम् ॥ ५.३ ॥
के ते कल्पाः समुद्दिष्टाः सप्त कल्पक्षयंकराः ।
न मृता चेदियं देवी त्वं चैव ऋषिपुंगव ॥ ५.४ ॥
अपक्षिगणसंघाते जगत्येकार्णवीकृते ।
कीदृग्रूपः समभवन्महादेवो युगक्षये ॥ ५.५ ॥
कथं संहरते विश्वं कथं चास्ते महार्णवे ।
कथं च सृजते विश्वं कथं धारयते प्रजाः ॥ ५.६ ॥
कीदृग्रूपा भवेद्देवी सरिदेकार्णवीकृते ।
किमर्थं नर्मदा प्रोक्ता रेवती च कथं स्मृता ॥ ५.७ ॥
अञ्जनेति किमर्थं वा किमर्थं सुरसेति च ।
मन्दाकिनी किमर्थं च शोणश्चेति कथं भवेत् ॥ ५.८ ॥
त्रिकूटेति किमर्थं वा किमर्थं वालुवाहिनी ।
कोटिकोट्यो हि तीर्थानां प्रविष्टा या महार्णवम् ॥ ५.९ ॥
कियत्यः सरितां कोट्यो नर्मदां समुपासते ।
यज्ञोपवीतैरृषिभिर्देवताभिस्तथैव च ॥ ५.१० ॥
विभक्तेयं किमर्थं च श्रूयते मुनिसत्तम ।
वैष्णवीति पुराणज्ञैः किमर्थमिह चोच्यते ॥ ५.११ ॥
केषु स्थानेषु तीर्थेषु पूजनीया सरिद्वरा ।
तीर्थानि च पृथग्ब्रूहि यत्र संनिहितो हरः ॥ ५.१२ ॥
यत्प्रमाणा च सा देवी या रुद्रेण विनिर्मिता ।
कीदृशानि च कर्माणि रुद्रेण कथितानि ते ॥ ५.१३ ॥
कथं म्लेच्छसमाकीर्णो देशोऽयं द्विजसत्तम ।
एतदाचक्ष्व मां ब्रह्मन्मार्कण्डेय महामते ॥ ५.१४ ॥

श्रीमार्कण्डेय उवाच -
शृण्वन्तु ऋषयः सर्वे त्वं च तात युधिष्ठिर ।
पुराणं नर्मदायां तु कथितं च त्रिशूलिना ॥ ५.१५ ॥
वायोः सकाशाच्च मया तेनापि च महेश्वरात् ।
अशक्यत्वान्मनुष्याणां संक्षिप्तमृषिभिः पुरा ॥ ५.१६ ॥
मायूरं प्रथमं तात कौर्म्यं च तदनन्तरम् ।
पुरं तथा कौशिकं च मात्स्यं द्विरदमेव च ॥ ५.१७ ॥
वाराहं यन्मया दृष्टं वैष्णवं चाष्टमं परम् ।
न्यग्रोधाख्यमतः चासीदाकाङ्क्षं पुनरुत्तमम् ॥ ५.१८ ॥
पद्मं च तामसं चैव संवर्तोद्वर्तमेव च ।
महाप्रलयमित्याहुः पुराणे वेदचिन्तकाः ॥ ५.१९ ॥
एतत्संक्षेपतः सर्वं संक्षिप्तं तैर्महात्मभिः ।
विभक्तं च चतुर्भागैर्ब्रह्माद्यैश्च महर्षिभिः ॥ ५.२० ॥
तदहं सम्प्रवक्ष्यामि पुराणार्थविशारद ।
सप्त कल्पा महाघोरा यैरियं न मृता सरित् ॥ ५.२१ ॥
आ जङ्गमं तमोभूतमप्रज्ञातमलक्षणम् ।
नष्टचन्द्रार्ककिरणमासीद्भूतविवर्जितम् ॥ ५.२२ ॥
तमसोऽतो महानाम्ना पुरुषः स जगद्गुरुः ।
चचार तस्मिन्नेकाकी व्यक्ताव्यक्तः सनातनः ॥ ५.२३ ॥
स चौंकारमयोऽतीतो गायत्रीमसृजद्द्विजः ।
स तया सार्द्धमीशानश्चिक्रीड पुरुषो विराट् ॥ ५.२४ ॥
स्वदेहादसृजद्विश्वं पञ्चभूतात्मसंज्ञितम् ।
क्रीडन्समसृजद्विश्वं पञ्चभूतात्मसंज्ञितम् ॥ ५.२५ ॥
क्रीडन् सृजद्विराट्संज्ञः सबीजं च हिरण्मयम् ।
तच्चाण्डमभवद्दिव्यं द्वादशादित्यसन्निभम् ॥ ५.२६ ॥
तद्भित्त्वा पुरुषो जज्ञे चतुर्वक्त्रः पितामहः ।
सोऽसृजद्विश्वमेवं तु सदेवासुरमानुषम् ॥ ५.२७ ॥
सतिर्यक्पशुपक्षीकं स्वेदाण्डजजरायुजम् ।
एतदण्डं पुराणेषु प्रथमं परिकीर्तितम् ॥ ५.२८ ॥
पूर्वकल्पे नृपश्रेष्ठ क्रीडन्त्या परमेष्ठिना ।
उमया सह रुद्रस्य क्रीडतश्चार्णवीकृतः ॥ ५.२९ ॥
हर्षाज्जज्ञे शुभा कन्या उमायाः स्वेदसंभवा ।
शर्वस्योरःस्थलाज्जज्ञे उमा कुचविमर्दनात् ॥ ५.३० ॥
स्वेदाद्विजज्ञे महती कन्या राजीवलोचना ।
द्वितीयः संभवो यस्या रुद्रदेहाद्युधिष्ठिर ॥ ५.३१ ॥
सा परिभ्रमते लोकान् सदेवासुरमानवान् ।
त्रैलोक्योन्मादजननी रूपेणऽप्रतिमा तदा ॥ ५.३२ ॥
तां दृष्ट्वा देवदैत्येन्द्रा मोहिता लभते कथम् ।
मृगयन्ति स्म तां कन्यामितश्चेतश्च भारत ॥ ५.३३ ॥
हावभावविलासैश्च मोहयत्यखिलं जगत् ।
भ्रमते दिव्यरूपा सा विद्युत्सौदामिनी यथा ॥ ५.३४ ॥
मेघमध्ये स्थिता भाभिः सर्वयोषिदनुत्तमा ।
ततो रुद्रं सुराः सर्वे दैत्याश्च सह दानवैः ॥ ५.३५ ॥
वरयन्ति स्म तां कन्यां कामेनाकुलिता भृशम् ।
ततोऽब्रवीन्महादेवो देवदानवयोर्द्वयोः ॥ ५.३६ ॥
बलेन तेजसा चैव ह्यधिको यो भविष्यति ।
स इमां प्राप्स्यते कन्यां नान्यथा वै सुरोत्तमाः ॥ ५.३७ ॥
ततो देवासुराः सर्वे कन्यां वै समुपागमन् ।
अहमेनां ग्रहीष्यामि अहमेनामिति ब्रुवन् ॥ ५.३८ ॥
पश्यतामेव सर्वेषां सा कन्यान्तरधीयत ।
पुनस्तां ददृशुः सर्वे योजनान्तरधिष्ठिताम् ॥ ५.३९ ॥
जग्मुस्ते त्वरिताः सर्वे यत्र सा समदृश्यत ।
त्रिभिश्चतुर्भिश्च तथा योजनैर्दशभिः पुनः ॥ ५.४० ॥
धिष्ठितां समपश्यंस्ते सर्वे मातंगगामिनीम् ।
योजनानां शतैर्भूयः सहस्रैश्चाप्यधिष्ठिताम् ॥ ५.४१ ॥
तथा शतसहस्रेण लघुत्वात्समदृश्यत ।
अग्रतः पृष्ठतश्चैव दिशासु विदिशासु च ॥ ५.४२ ॥
तां पश्यन्ति वरारोहामेकधा बहुधा पुनः ।
दिव्यवर्षसहस्रं तु भ्रामितास्ते तया पुरा ॥ ५.४३ ॥
न चावाप्ता तु सा कन्या महादेवाङ्गसंभवा ।
सहोमया ततो देवो जहासोच्चैः पुनःपुनः ॥ ५.४४ ॥
गणास्तालकसंपातैर्नृत्यन्ति च मुदान्विताः ।
अकस्माद्दृश्यते कन्या शंकरस्य समीपगा ॥ ५.४५ ॥
तां दृष्ट्वा विस्मयापन्ना देवा यान्ति पराङ्मुखाः ।
तस्याश्चक्रे ततो नाम स्वयमेव पिनाकधृक् ॥ ५.४६ ॥
नर्म चैभ्यो ददे यस्मात्तत्कृतैश्चेष्टितैः पृथक् ।
भविष्यसि वरारोहे सरिच्छ्रेष्ठा तु नर्मदा ॥ ५.४७ ॥
स्वरूपमास्थितो देवः प्राप हास्यं यतो भुवि ।
नर्मदा तेन चोक्तेयं सुशीतलजला शिवा ॥ ५.४८ ॥
सप्तकल्पक्षये जाते यदुक्तं शंभुना पुरा ।
न मृता तेन राजेन्द्र नर्मदा ख्यातिमागता ॥ ५.४९ ॥
ततस्तामददात्कन्यां शीलवतीं सुशोभनाम् ।
महार्णवाय देवेशः सर्वभूतपतिः प्रभुः ॥ ५.५० ॥
ततः सा ऋक्षशैलेन्द्रात्फेनपुञ्जाट्टहासिनी ।
विवेश नर्मदा देवी समुद्रं सरितां पतिम् ॥ ५.५१ ॥
एवं ब्राह्मे पुरा कल्पे समुद्भूतेयमीश्वरात् ।
मात्स्ये कल्पे मया दृष्टा समाख्याता मया शृणु ॥ ५.५२ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे पञ्चमोऽध्यायः ॥