स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ००४

विकिस्रोतः तः


अध्याय ४

श्रीमार्कण्डेय उवाच -
ततोऽर्णवात्समुत्तीर्य त्रिकूटशिखरे स्थितम् ।
महाकनकवर्णाभे नानावर्णशिलाचिते ॥ ४.१ ॥
महाशृङ्गे समासीनं रुद्रकोटिसमन्वितम् ।
महादेवं महात्मानमीशानमजमव्ययम् ॥ ४.२ ॥
सर्वभूतमयं तात मनुना सह सुव्रत ।
भूयो ववन्दे चरणौ सर्वदेवनमस्कृतौ ॥ ४.३ ॥
तत्काले युगसाहस्रं सह रुद्रेण मानद ।
तस्मिन्नेकार्णवे घोरे स्थितोऽहं कुरुनंदन ॥ ४.४ ॥

युधिष्ठिर उवाच -
एतच्छ्रुत्वा तु मे तात परं कौतूहलं हृदि ।
जातं तत्कथयस्वेति शृण्वतः सह बान्धवैः ॥ ४.५ ॥
का सा पद्मपलाशाक्षी तमोभूते महार्णवे ।
योगिवद्भ्रमते नित्यं रुद्रजां स्वां च याब्रवीत् ॥ ४.६ ॥

श्रीमार्कण्डेय उवाच -
एतमेव मया प्रश्नं पुरा पृष्टो मनुः स्वयम् ।
तदेव तेऽद्य वक्ष्यामि अबलायाः समुद्भवम् ॥ ४.७ ॥
व्यतीतायां निशायां तु ब्रह्मणः परमेष्ठिनः ।
ततः प्रभाते विमले सृज्यमानेषु जन्तुषु ॥ ४.८ ॥
मनुं प्रणम्य शिरसा पृच्छाम्येतद्युधिष्ठिर ।
केयं पद्मपलाशाक्षी श्यामा चंद्रनिभानना ॥ ४.९ ॥
एकार्णवे भ्रमत्येका रुद्रजास्मीति वादिनी ।
सावित्री वेदमाता च ह्यथवा सा सरस्वती ॥ ४.१० ॥
मन्दाकिनी सरिच्छ्रेष्ठा लक्ष्मीर्वा किमथो उमा ।
कालरात्रिर्भवेत्साक्षात्प्रकृतिर्वा सुखोचिता ॥ ४.११ ॥
एतदाचक्ष्व भगवन्का सा ह्यमृतसंभवा ।
चरत्येकार्णवे घोरे प्रनष्टोरगराक्षसे ॥ ४.१२ ॥

मनुरुवाच -
शृणु वत्स यथान्यायमस्या वक्ष्यामि संभवम् ।
यया रुद्रसमुद्भूता या चेयं वरवर्णिनी ॥ ४.१३ ॥
पुरा शिवः शान्ततनुश्चचार विपुलं तपः ।
हितार्थं सर्वलोकानामुमया सह शंकरः ॥ ४.१४ ॥
ऋक्षशैलं समारुह्य तपस्तेपे सुदारुणम् ।
अदृश्यः सर्वभूतानां सर्वभूतात्मको वशी ॥ ४.१५ ॥
तपतस्तस्य देवस्य स्वेदः समभवत्किल ।
तं गिरिं प्लावयामास स स्वेदो रुद्रसंभवः ॥ ४.१६ ॥
तस्मादासीत्समुद्भूता महापुण्या सरिद्वरा ।
या सा त्वयार्णवे दृष्टा पद्मपत्रायतेक्षणा ॥ ४.१७ ॥
स्त्रीरूपं समवस्थाय रुद्रमाराधयत्पुरा ।
आद्ये कृतयुगे तस्मिन्समानामयुतं नृप ॥ ४.१८ ॥
ततस्तुष्टो महादेव उमया सह शंकरः ।
ब्रूहि त्वं तु महाभागे यत्ते मनसि वर्तते ॥ ४.१९ ॥

सरिदुवाच -
प्रलये समनुप्राप्ते नष्टे स्थावरजंगमे ।
प्रसादात्तव देवेश अक्षयाहं भवे प्रभो ॥ ४.२० ॥
सरित्सु सागरेष्वेव पर्वतेषु क्षयिष्वपि ।
तव प्रसादाद्देवेश पुण्या क्षय्या भवे प्रभो ॥ ४.२१ ॥
पापोपपातकैर्युक्ता महापातकिनोऽपि ये ।
मुच्यन्ते सर्वपापेभ्यो भक्त्या स्नात्वा तु शंकर ॥ ४.२२ ॥
उत्तरे जाह्नवीदेशे महापातकनाशिनी ।
भवामि दक्षिणे मार्गे यद्येवं सुरपूजिता ॥ ४.२३ ॥
स्वर्गादागम्य गंगेति यथा ख्याता क्षितौ विभो ।
तथा दक्षिणगङ्गेति भवेयं त्रिदशेश्वर ॥ ४.२४ ॥
पृथिव्यां सर्वतीर्थेषु स्नात्वा यल्लभते फलम् ।
तत्फलं लभते मर्त्यो भक्त्या स्नात्वा महेश्वर ॥ ४.२५ ॥
ब्रह्महत्यादिकं पापं यदास्ते संचितं क्वचित् ।
मासमात्रेण तद्देव क्षयं यात्ववगाहनात् ॥ ४.२६ ॥
यत्फलं सर्ववेदेषु सर्वयज्ञेषु शंकर ।
अवगाहेन तत्सर्वं भवत्विति मतिर्मम ॥ ४.२७ ॥
सर्वदानोपवासेषु सर्वतीर्थावगाहने ।
तत्फलं मम तोयेन जायतामिति शंकर ॥ ४.२८ ॥
मम तीरे नरा ये तु अर्चयन्ति महेश्वरम् ।
ते गतास्तव लोकं स्युरेतदेव भवेच्छिव ॥ ४.२९ ॥
मम कूले महेशान उमया सह दैवतैः ।
वस नित्यं जगन्नाथ एष एव वरो मम ॥ ४.३० ॥
सुकर्मा वा विकर्मा वा शान्तो दान्तो जितेन्द्रियः ।
मृतो जन्तुर्मम जले गच्छतादमरावतीम् ॥ ४.३१ ॥
त्रिषु लोकेषु विख्याता महापातकनाशिनी ।
भवामि देवदेवेश प्रसन्नो यदि मन्यसे ॥ ४.३२ ॥
एतांश्चान्यान्वरान्दिव्यान्प्रार्थितो नृपसत्तम ।
नर्मदया ततः प्राह प्रसन्नो वृषवाहनः ॥ ४.३३ ॥

श्रीमहेश उवाच -
एवं भवतु कल्याणि यत्त्वयोक्तमनिन्दिते ।
नान्या वरार्हा लोकेषु मुक्त्वा त्वां कमलेक्षणे ॥ ४.३४ ॥
यदैव मम देहात्त्वं समुद्भूता वरानने ।
तदैव सर्वपापानां मोचिनी त्वं न संशयः ॥ ४.३५ ॥
कल्पक्षयकरे काले काले घोरे विशेषतः ।
उत्तरं कूलमाश्रित्य निवसन्ति च ये नराः ॥ ४.३६ ॥
अपि कीटपतङ्गाश्च वृक्षगुल्मलतादयः ।
आ देहपतनाद्देवि तेऽपि यास्यन्ति सद्गतिम् ॥ ४.३७ ॥
दक्षिणं कूलमाश्रित्य ये द्विजा धर्मवत्सलाः ।
आ मृत्योर्निवसिष्यन्ति ते गताः पितृमन्दिरे ॥ ४.३८ ॥
अहं हि तव वाक्येन कस्मिंश्चित्कारणान्तरे ।
त्वत्तीरे निवसिष्यामि सदैव ह्युमया समम् ॥ ४.३९ ॥
एवं देवि महादेवि एवमेव न संशयः ।
ब्रह्मेन्द्रचन्द्रवरुणैः साध्यैश्च सह विष्णुना ॥ ४.४० ॥
उत्तरे देवि ते कूले वसिष्यन्ति ममाज्ञया ।
दक्षिणे पितृभिः सार्द्धं तथान्ये सुरसुन्दरि ॥ ४.४१ ॥
वसिष्यन्ति मया सार्द्धमेष ते वर उत्तमः ।
गच्छ गच्छ महाभागे मर्त्यान्पापाद्विमोचय ॥ ४.४२ ॥
सहिता ऋषिसंघैश्च तथा सिद्धसुरासुरैः ।
एवमुक्ता महादेव उमया सहितो विभुः ॥ ४.४३ ॥
वन्द्यमानोऽथ मनुना मया चादर्शनं गतः ।
तेन चैषा महापुण्या महापातकनाशिनी ॥ ४.४४ ॥
कथिता पृच्छ्यते या ते मा ते भवतु विस्मयः ।
एषा गंगा महापुण्या त्रिषु लोकेषु विश्रुता ॥ ४.४५ ॥
दशाभिः पञ्चभिः स्रोतैः प्लावयन्ती दिशो दश ।
शोणो महानदश्चैव नर्मदा सुरसा कृता ॥ ४.४६ ॥
मन्दाकिनी दशार्णा च चित्रकूटा तथैव च ।
तमसा विदिशा चैव करभा यमुना तथा ॥ ४.४७ ॥
चित्रोत्पला विपाशा च रञ्जना वालुवाहिनी ।
ऋक्षपादप्रसूतास्ताः सर्वा वै रुद्रसंभवाः ॥ ४.४८ ॥
सर्वपापहराः पुण्याः सर्वमंगलदाः शिवाः ।
इत्येतैर्नामभिर्दिव्यैः स्तूयते वेदपारगैः ॥ ४.४९ ॥
पुराणज्ञैर्महाभागैराज्यपैः सोमपैस्तथा ।
इत्येतत्सर्वमाख्यातं महाभाग्यं नरोत्तम ॥ ४.५० ॥
मनुनोक्तं पुरा मह्यममृतायाः समुद्भवम् ।
पुण्यं पवित्रमतुलं रुद्रोद्गीतमिदं शुभम् ॥ ४.५१ ॥
ये नराः कीर्तयिष्यन्ति भक्त्या शृण्वन्ति येऽपि च ।
प्रातरुत्थाय नामानि दश पञ्च च भारत ॥ ४.५२ ॥
ते नराः सकलं पुण्यं लभिष्यन्त्यवगाहजम् ।
विमानेनार्कवर्णेन घण्टाशतनिनादिना ॥ ४.५३ ॥
त्यक्त्वा मानुष्यकं भावं यास्यन्ति परमां गतिम् ॥ ४.५४ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदापञ्चदशनामवर्णनं नाम चतुर्थोऽध्यायः ॥