स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्/अध्यायः २१

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २० स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्
अध्यायः २१
वेदव्यासः
अध्यायः २२ →

।। सनत्कुमार उवाच ।। ।।
अथान्यत्संप्रवक्ष्यामि देवं त्रिदशपूजितम् ।।
हनुमत्केश्वरंनाम भुक्तिमुक्तिफलप्रदम् ।। १ ।।
शैवे सरसि यः स्नात्वा पश्येद्धनुमत्केश्वरम् ।।
कल्पकोटिसहस्राणि वायुलोके स मोदते ।। २ ।।
।। व्यास उवाच ।। ।।
हनुमत्केश्वरो यस्तु ह्युक्तः पूर्वं त्वयाऽनघ ।।
कथां कथय ह्येतस्य वृत्तपूर्वां सनातनीम् ।। ३ ।।
।। सनत्कुमार उवाच ।। ।।
त्रैलोक्यकण्टकः पूर्वं रावणो नाम राक्षसः ।।
विष्णुना रामरूपेण लंकायां विनिपातितः ।। ४ ।।
घातयित्वा तु तं दुष्टं सीतामादाय जानकीम् ।।
वानरैः सह ऋक्षैश्च नगरीं स्वामुपागतः ।। ५ ।।
तत्र राज्यमनुप्राप्य ऋषिभिः परिवारितः ।।
कथावसाने रामेण ह्यगस्त्यो मुनिसत्तमः ।। ६ ।।
पप्रच्छ च द्वयोर्वीर्यं शंभुवातजयोस्तदा ।।
तदा दाशरथिं प्राह अग स्तिर्मुनिसत्तमः ।। ७ ।।
अनौपम्यो यथा देवो युद्धे शौर्यं? महेश्वरः ।।
ज्ञेयो वायुसुतस्तद्वत्सत्यमेतद्ब्रवीमि ते ।। ८ ।।
एतच्छुत्वाथ हनुमान्यद्धरेणो पमा मम ।।
कृता मुनिवरेणेह प्रत्यक्षं राघवस्य ह ।। ९ ।।
गमिष्ये नगरीं लंकां लिंगमेकं प्रयाचितुम् ।।
राक्षसेन्द्रं महाभागं विभीषणमकल्म षम् ।। 5.1.21.१० ।।
ततो गतः स लंकायां विभीषणमुवाच ह ।।
देहि मे त्वं महाभाग लिंगमेकं च शोभनम् ।। ११ ।।
उक्तं च राक्षसेन्द्रेण गृहाणैतद्यथा रुचि ।।
एतानि षट् च लिंगानि रावणस्थापितानि वै ।। १२ ।।
त्रैलोक्यविजयात्पूर्वं मम भ्रात्रा महात्मना ।।
एतेषु यदभीष्टं ते लिंगं कथय सुव्रत ।।
तत्प्रयच्छामि तेऽद्यैव सत्यमेतत्प्लवंगम ।। १३ ।।
ततो जग्राह हनुमाँल्लिंगं मौक्तिकसंनिभम् ।।
यदेतद्दृश्यते वीर तत्प्रयच्छ ममानघ ।। ।। १४ ।।
श्रुत्वा हनुमतो वाक्यमथोवाच विभीषणः ।।
दत्तमेतन्महावीर लिंगं यद्धृतवानसि ।। १५ ।।
श्रूयते हि पुरावृत्तं लिंगमेतद्धनेश्वरः ।।
रुद्र भक्त्या समायुक्तस्त्रिकालमप्यपूजयत् ।। १६ ।।
रावणेन यदा बद्धस्तदानीं हि धनेश्वरः ।।
लिंगस्यास्य प्रभावेन विमुक्तः समपद्यत ।। १७ ।।
प्रसादात्तस्य लिंगस्य धनेशो धनरक्षकः ।।
गृहीत्वा तन्महालिंगं स्वस्थो जातोऽथ वानरः ।। १८ ।।
।। सनत्कुमार उवाच ।। ।।
गृहीत्वा तु ततो लिंगं प्रस्थितो विमलेंऽबरे ।।
सप्तमे दिवसे चैव संप्राप्तोऽवंतिकां पुरीम् ।। १९ ।।
तत्र रुद्रसरस्तीरे स्थाप्य स्नानमथाकरोत् ।।
महाकालस्य पूजार्थं गमनं प्रत्यचिंतयत् ।। 5.1.21.२० ।।
उद्धर्तुकामस्तल्लिगमुद्धर्तुं न शशाक सः ।। २१ ।।
ततो व्यवस्थितो देवः प्राह तं वायुनन्दनम् ।।
अस्मिन्क्षेत्रे हनूमन्मां त्वन्नाम्नैव प्रतिष्ठापय ।। २२ ।।
हनुमत्केश्वरं चाथ लोके ख्यातं भविष्यति ।।
शैलवच्चोन्नतं लिंगं स्थापितं वायुसूनुना ।। २३ ।।
शनौ पश्येन्नरो यस्तु हनुमत्केश्वरं शिवम् ।।
तस्य शत्रुभयं नास्ति संग्रामे जयमाप्नुयात् ।। २४ ।।
न च चौरभयं तस्य न दारिद्र्यं न दुर्गतिः ।।
तैलाभिषेकं यः कुर्याद्धनुमत्केश्वरे शिवे ।।२५।।
तस्य रोगाः प्रलीयन्ते ग्रहपीडा न जायते ।।
ये द्रक्ष्यंति नराः भक्त्या तेषां मोक्षो भविष्यति ।।२६।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये हनुमत्केश्वरमाहात्म्यवर्णनंनामै कविंशोऽध्यायः ।।२१।। ।। छ ।।