स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्/अध्यायः २०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १९ स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्
अध्यायः २०
वेदव्यासः
अध्यायः २१ →

।। सनत्कुमार उवाच ।। ।।
मासमेकं नरो भक्त्या पश्येद्वा वटयक्षिणीम् ।।
पूजयेत्स्वर्णपुष्पैश्च तस्य सिद्धिर्न हीयते ।। १ ।।
इति वटयक्षिणीमाहात्म्यम् ।।
पिशाचके नरः स्नात्वा चतुर्दश्यां विशेषतः ।।
तिलान्ददाति यो भक्त्या न पिशाचः प्रजायते ।। २ ।।
यं समुद्दिश्य यद्दत्तं तदक्षयतरं भवेत् ।।
तत्कुलं हि पिशाचत्वान्मुच्यते नात्र संशयः ।। ३ ।।
यस्य नाम्ना नरः स्नाति पिशाच त्वात्स मुच्यते ।।
कुंभान्वा करकान्वापि योऽत्र दद्यात्समंडकान् ।। ४ ।।
तस्य वै शाश्वती मुक्तिः कुले प्रेतो न जायते ।।
शिप्रागुंफेश्वरं दृष्ट्वा रुद्र भक्तो जितेंद्रियः ।। ५ ।।
मुच्यते सर्वपापेभ्यः कंचुकेन फणी यथा ।।
स्नात्वागस्त्येश्वरं पश्येद्योऽतिभक्त्या च मानवः ।। ६ ।।
त्यक्त्वा यमगृहं व्यास रुद्रलोकं स गच्छति ।।
शिप्रायां यो नरः स्नात्वा पश्येड्ढुंढेश्वरं शिवम् ।। ७ ।।
सोऽश्वमेधफलं व्यास लभते नात्र संशयः ।।
देवेनात्र पुरा व्यास वादितो डमरुर्यतः ।। ८ ।।
देवस्तेन समाख्यातो नाम्ना डमरुकेश्वरः ।।
भक्त्या पश्येन्नरो यस्तु देवं डमरुकेश्वरम् ।। ९ ।।
नैव व्याधिभयं तस्य मृतः शिवपुरं व्रजेत् ।।
अनादिकल्पेश्वरं यस्तु भक्त्या पश्यति मानवः ।। 5.1.20.१० ।।
राज्यं स लभते स्वर्गं यथा देवः पुरंदरः ।।
देवानामप्यसौ व्यास स्पर्धनीयः सदा भवेत् ।। ११।।
कल्पकोटिशतं साग्रं भोगयुक्तस्तु मोदते ।।
पश्येत्सिद्धेश्वरं यस्तु वीरभद्रं च चंडिकाम्।। ।। १२ ।।
सोत्रैव लभते सिद्धिं जयं सर्वत्र मानवः ।।
स्वर्णजालेश्वरं दृष्ट्वा स्नातस्तीर्थे त्रिविष्टपे ।।१३।।
स्वर्णेन पूजयेद्देवं सर्वपापैः प्रमुच्यते ।।
स्नात्वा पश्येन्नरो भक्त्या यः कर्कोटेश्वरं शिवम् ।। १४ ।।
सर्पतो न भयं तस्य दारिद्यं नैव जायते ।।
यः पश्येत्परया भक्त्या महामायां सनातनीम् ।। ।। १५ ।।
विष्णुमायाविनिर्मुक्तः स याति परमं पदम् ।।
अर्चयेत्परया भक्त्या यः कपालेश्वरं नरः ।। १६ ।।
स मुच्येत महापापैर्यद्यपि ब्रह्महा भवेत् ।।
स्वर्गद्वारे नरः स्नात्वा दृष्ट्वा देवं च भैरवम् ।। १७ ।।
दर्शनात्तस्य देवस्य शतयज्ञफलं भवेत् ।। १८ ।।
इतिश्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये चतुर्दशतीर्थयात्रावर्णनंनाम विंशोऽध्यायः ।। २० ।। ।। छ ।।