स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्/अध्यायः १०

विकिस्रोतः तः
← अध्यायः ०९ स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्
अध्यायः १०
वेदव्यासः
अध्यायः ११ →


।। सनत्कुमार उवाच ।। ।।
अथातः संप्रवक्ष्यामि तीर्थ त्रैलोक्य विश्रुतम्।।
स्वयंभूतं महेशस्य विख्यातं कुटुंबिकेश्वरम्।। १ ।।
मुच्यते सर्वपापैस्तु सप्तजन्मकृतैरपि ।।
शुचिः पश्यति यो देवं कृत्वा श्राद्धं यथा विधि ।। २ ।।
सर्वाँल्लोकानतिक्रम्य शिवलोकं स गच्छति ।।
यस्तु सर्वाणि शाकानि कन्दानि विविधानि च ।। ३ ।।
तीरे तस्य प्रयच्छेत स प्राप्नोति परां गतिम् ।।
पौषे प्रतिपदि सिते अष्टम्यां वा समाहितः ।। ४ ।।
एकेनैवोपवासेन अश्वमेधफलं लभेत् ।।
आश्विन्यां पौर्णमास्यां च शुचिः पश्यति मानवः ।। ५ ।।
पट्टबंधं महेशस्य स विपाप्मा दिवं व्रजेत् ।।
चैत्रे मासि सिते पक्षे पञ्चम्यां समुपोषितः ।। ६ ।।
कर्पूरं कुङ्कुमं चैव मृगनाभि सचन्दनम्।।
निवेदयति देवाय नैवेद्यं घृतपायसम् ।। ७ ।।
स्वरूपं चैव विप्रेन्द्र सभार्यं भोजयेद्द्विजम् ।।
रुद्रलोकमवाप्नोति यावदिंद्राश्चतु र्दश ।। ८ ।।
इति श्रीस्कांदे महापुराणएकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये कुटुम्बिकेश्वरमाहात्म्यवर्णनंनाम दशमोऽध्यायः ।। १० ।। ।। छ ।। ।।