स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्/अध्यायः ०९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०८ स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्
अध्यायः ०९
वेदव्यासः
अध्यायः १० →

।। व्यास उवाच ।। ।।
कथं तन्माहिषं कुण्डं मातॄणामाकृतिः कथम्।।
रुद्रस्यैव कथं क्षेत्रे महिषो दानवो हतः ।।१।।
।। सनत्कुमार उवाच ।। ।।
कपालखंडमादायं महादेवोऽप्यतिप्रभम् ।
ब्रह्मतेजो मयं दिव्यं ज्वलंतमिव चार्चिषा ।।२।।
क्रीडमानो जगन्नाथो मोहयामास वै सुरान्।।
निमेषात्स इमं लोकं योगात्मा योगलीलया।।३।।
प्राप्य पुण्यतमं क्षेत्रं यत्रातिष्ठन्महाप्रभुः ।।
तत्रतत्र महद्दिव्यं कपालं देवताधिपः ।। ४ ।।
स्थापयामास दीप्तार्चिर्गणानामग्रतः प्रभुः ।।
त्वत्स्थापितमथो दृष्ट्वा गताः सर्वे महौजसः ।। ५ ।।
विनदत्समहानादं नादयंत दिशो दश ।।
क्षोभार्णवाशनिप्रख्यं नभो येन विदीर्यते ।। ६ ।।
तेन शब्देन घोरेण दानवो देवकंटकः ।।
हालाहल इति ख्यातो देशं तमभिधावितः ।। ७ ।।
अमृष्यमाणः क्रोधार्तो दुरात्मा दुर्जयः सुरैः ।।
ब्रह्मदत्तवरश्चैव माहिषं वपुरास्थितः ।। ८ ।।
दैत्यैः परिवृतो घोरै कोटिभिश्चोद्यतायुधैः ।।
तमायांतं तु सक्रोधं महिषं देवकंटकम् ।। ९ ।।
समावेक्ष्याह वै देवो गणान्सर्वा न्पिनाकधृक् ।।
मायावी गणपा दैत्यस्त्रैलोक्यस्यापि कंटकः ।। 5.1.9.१० ।।
आयाति त्वरितो यूयं तस्मादेनं विनिघ्नथ ।।
कपालस्य गतिं सर्व आश्रिता गणनायकाः ।। ११ ।।
ततो देवगणा दृष्ट्वा तमायांतं महासुरम् ।।
गर्जमानं महानादं भ्रममाणं महाभुजम् ।। १२ ।।
बिभिदुः शलसंघातैरसिभि र्मुसलैस्तथा ।।
संमुह्य शरजालेन ततो भूमौ न्यपातयन् ।। १३ ।।
हते तस्मिन्महादेवो देवान्प्रोवाच वै तदा ।।
अहो दर्पातिमूढः स दर्पेण निधनं गतः ।। १४ ।।
एतस्मिन्नंतरे व्यास तत्कपालात्सुभैरवाः ।।
दीप्तास्या मातरः सर्वाः प्रचंडास्त्रा महाबलाः ।। १५ ।।
अभ्यधावंस्तमुद्देशं महादेवं निवेद्य वै ।।
दैत्यं ता भक्षयंति स्म भित्त्वा भित्त्वा महाबलाः ।। १६ ।।
कपालमातरस्तस्मात्ख्याताः क्षेत्रे महाबलाः ।।
महाकपालस्तस्माद्वै तादृशः परि कीर्तितः ।। १७ ।।
स्थापितस्य कपालस्य भित्त्वा समभवत्पुरा ।।
ख्यातं शिवतडागं च सर्वपापप्रणाशनम् ।। १८ ।।
तदद्यापि महद्दिव्यं सरस्तत्र प्रकाशते ।।
त्रिषु लोकेषु विख्यातं गणगंधर्वसेवितम् ।। १९ ।।
पात्रस्थमुद्धुतं वापि शीतोष्णं क्वथितं जलम् ।।
रौद्रं सरः पुनातीहाश्वमेधावभृथो यथा ।। 5.1.9.२० ।।
प्रागाद्ब्रह्मापि तं देशं देवतानां शतैर्वृतः ।।
स्वर्गलोकस्य निःश्रेणी कीर्तिता ब्रह्मणा स्वयम् ।। २१ ।।
अत्र त्यजंति ये प्राणान्रुद्र लोकं व्रजंति ते ।।
धन्या व्यास नरा मर्त्ये महाकालवने स्थिताः ।। २२ ।।
रौद्रे सरसि ये स्नांति जलं वापि पिबंति ये ।।
स्वधर्माचारनिरताः पश्यंतीशानमीश्वरम् ।। २३ ।।
इति स्वर्गगता देवाः स्पृहां कुर्वंति नित्यशः ।। २४ ।।
इदं शुभं दिव्यमधर्मनाशनं महाकपालं सुरदैत्यपूजितम् ।।
महाप्रभं पापहरं सनातनं सुरेशलोकादपि दुर्लभं सदा ।। २५ ।।
तपोरतैः सिद्धगणैरभिष्टुतं यथा नभःस्थं दिननाथमंडलम् ।।
य एकचित्तः शृणुयात्प्रसादतस्त्रिविष्टपं गच्छति सोऽभिनंदितः ।।२६।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां सहितायां पंचम आवन्त्यखण्डेऽवन्तीक्षेत्र माहात्म्ये महिषकुण्डरुद्रसरोमाहात्म्यवर्णनंनाम नवमोऽध्यायः ।। ९ ।। ।। छ ।।