स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्/अध्यायः ०३

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
← अध्यायः ०२ स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)
अध्यायः ०३
वेदव्यासः
अध्यायः ०४ →


।। सनत्कुमार उवाच ।। ।।
 छिन्ने वक्त्रे ततो ब्रह्मा क्रोधेन तमसा वृतः ।।
ललाटे स्वदमुत्पन्नं गृहीत्वाऽताडयद्भुवि ।। १ ।।
तत्स्वेदात्कुंडली जज्ञे सधनुः समहेषुधिः ।।
सहस्रकवचो वीरः किं करोमीत्युवाच ह ।। २ ।।
तमुवाच विरंचिस्तु दर्शयन्रुद्रमोजसा ।।
वध्यतामेष दुर्बुद्धिर्जायते न यथा पुनः ।। ३ ।।
ब्रह्मणो वचनं श्रुत्वा धनुरुद्यम्य पृष्ठतः ।।
स प्रतस्थे महेशस्य बाणहस्तोऽतिरोषभृत् ।। ४ ।।
स दृष्ट्वा पुरुषं चोग्रमगमद्विस्मितो भवः ।।
दिव्यबाणधनुर्हस्तं वेगविक्रांतगामिनम् ।। ५ ।।
मया न वध्योऽतिबलः सखा विष्णोर्भविष्यति ।।
अनुग्राह्यो ह्यहं तेन सख्यार्थं तपसि स्थितः ।। ६ ।।
चिंतयन्नित्थमीशोऽपि विष्णोराश्रममभ्यगात् ।।
हुंकारध्वनिना ब्रह्मन्मोहयित्वा ततो नरम् ।। ७ ।।
प्रपात्य च तदा हृष्टः क्रीडां कुर्वञ्जगत्स्थितौ ।।
यत्र नारायणः श्रीमांस्तपस्तेपे प्रतापवान् ।। ८ ।।
अदृश्यः सर्वभूतानां विश्वात्मा विश्वसृग्विभुः ।।
तत्र प्राप्तो विरूपाक्षो ददर्श मधुसूदनम् ।। ९ ।।
एकांगुष्ठस्थितं भूमौ तपोऽत्यंतमनातुरम् ।।
युगांतार्कसहस्रस्य तेजसा वृतमद्भुतम् ।। 5.1.3.१० ।।
पुण्या धारसमायुक्तं पुराणपुरुषोत्तमम् ।।
दृष्ट्वा नारायणं देवं भिक्षां देहीत्युवाच ह ।। ११ ।।
कपालं दर्शयित्वाग्रे ज्वलज्ज्वलनसोत्कटम् ।।
कपालपाणिं संप्रेक्ष्य रुद्रं विष्णुरचिंतयत् ।। १२ ।।
कोऽन्यो योग्यो भवेद्भिक्षुर्भिक्षादानस्य सांप्रतम् ।।
योग्योऽयमिति संकल्प्य दक्षिणं भुजमर्पयत् ।। १३ ।।
तं बिभेदांतर्गतज्ञः शूलेन शशिशेखरः ।।
ततः प्रवाह उत्पन्नः शोणितस्य विभोर्भुजात् ।। १४ ।।
जांबूनदरसाकारा वह्निज्वालेव निर्मला ।।
निष्पपात कपालांते शंभुना संप्रतीच्छिता ।। १५ ।।
ऋज्वी वेगवती शिप्रा दीधितीवांबरे रवेः ।।
पंचाशद्योजना दीर्घा विस्तारे दशयोजना ।। १६ ।।
दिव्यं वर्षसहस्रं सा समुवाह हरेर्भुजात् ।।
कियंतं कालमीशो हि भिक्षां जग्राह भावितः ।। १७ ।।
दत्तां नारायणेनाथ सत्पात्रे पात्र उत्तमे ।।
ततो नारायणः प्राह हरं परमिदं वचः ।। १८ ।।
संपूर्णं तव पात्रं हि ततो वै परमेश्वरः ।।
सतोयांबुदनिर्घोषं श्रुत्वा वाक्यं हरेर्हरः ।। १९ ।।
शशिसूर्याग्नि नयनः शशिशेखरशोभितः ।।
कपाले दृष्टिमावेश्य त्रिनेत्रैश्च जनार्दनम् ।। 5.1.3.२० ।।
अंगुल्या घटयन्प्राह कपालं चातिपूरितम् ।।
श्रुत्वा हरिरिदं वाक्यं रक्तधारां समाहरत् ।। २१ ।।
पार्श्वतोथ हरेरीशः स्वांगुल्या रुधिरं तदा ।।
दिव्यं वर्षसहस्रं च दृष्टिपातं ममंथ वै ।। २२ ।।
मथ्यमाने ततो रक्ते कललं बुद्बुदं क्रमात् ।।
बभूव च ततः पश्चात्किरीटी सशरासनः ।। २३ ।।
सहस्रबाहू रक्ताक्षो धनुर्ज्यां संस्पृशन्मुहुः ।।
बभूव तूणीरगलो वृषस्कंधोंऽगुलित्रवान् ।। २४ ।।
पुरुषोऽर्जुनसंकाशः कपाले संप्रकाशयन् ।।
तं दृष्ट्वा भगवान्विष्णुः प्राह रुद्रमिदं वचः ।। २५ ।।
कपाले भगवन्कोऽयं प्रादुर्भूतोऽभवन्नरः ।।
उक्तिं श्रुत्वा हरेरीशस्तमुवाच हरे शृणु ।। २६ ।।
नरो नामेति पुरुषः परमास्त्रविदांवरः ।।
यस्त्वयोक्तो नर इति नरस्तस्माद्भ विष्यति ।। २७ ।।
नरनारायणौ चोभौ युगे ख्यातौ भविष्यतः ।।
संग्रामे देवकार्येषु लोकानां परिपालने ।। २८ ।।
एष नारायण सखा नरस्तव भविष्यति ।।
तव एकाकिनः संख्ये तपसश्च महामुनिः ।। २९ ।।
विज्ञानस्य परीक्षायै तेजो लोके भविष्यति ।।
तेजोधिकमिदं दिव्यं ब्रह्मणः पंचमं शिरः ।। 5.1.3.३० ।।
तेजसा ब्रह्मणो दीप्तो भुजस्य तव शोणितात् ।।
मम दृष्टिनिपाताच्च त्रीणि तेजांसि यान्यतः ।। ३१ ।।
तत्संयोगात्समुत्पन्नः शत्रूनुद्वेजयिष्यति ।।
अवध्या ये भविष्यंति दुर्जयास्तव चापरे ।। ३२ ।।
शक्रस्य चामरारीणां तेषामेव भयंकरः ।।
एवमुक्तवतः शंभोर्विस्मितस्तस्य तेजसा ।। ३३ ।।
हरिरपि स तत्रैव तुष्टाव हरकेशवौ ।।
नमो हर हरे तुभ्यं नमः शंकर विष्णवे ।। ३४ ।।
नमस्ते शूलहस्ताय नमस्ते खङ्गपा णये ।।
नमोनमस्ते मेध्याय हृषीकेश नमोऽस्तु ते ।। ३५ ।।
नमोऽस्तु वाचां पतये श्रीधराय नमोनमः ।।
एवं स्तुवन्तं तं भक्त्या कृतांजलि पुटं नरम्।। ३६ ।।
तथैवांजलिसंबद्धं गृहीत्वाशु करद्वयम्।।
उद्धृत्याथ कपालात्तु पुनर्वचनमब्रवीत् ।। ३७ ।।
य एव पुरुषो रौद्रो ब्रह्मणः स्वेदसं भवः ।।
मम हुंकारशब्देन मोहनिद्रामुपागतः ।। ३८ ।।
निबोध तं च त्वरितमित्युक्त्वांतर्हितो हरः ।।
नारायणस्य प्रत्यक्षं बोधयित्वा द्रुतं हि तम्।। ३९ ।।
वामपादेन हत्वा च समुत्तस्थौ नरो रुषा ।।
तयोर्युद्धं समभवत्स्वेदरक्तजयोर्महत् ।। 5.1.3.४० ।।
विस्फारितधनुःशब्दैर्नादिताशेषभूत लम्।।
कवचं स्वेदजस्यैकं रक्तजस्य तथा भुजौ ।।४१।।
एवं समेन वै युद्धं दिव्यं जातं तु भूतले ।।
त्रिवर्षोनानि वर्षाणां शतानि दश सुद्विज।।४२।।
युध्यतो समतीतानि स्वेदरक्तजयोर्मुने ।।
रक्तजो द्विभुजो दृष्ट्वा कवचैकेन स्वेदजम् ।। ४३ ।।
बिभेद बाणवेगेन ब्रह्मणस्तं नरं परम् ।।
ससंभ्रममु वाचेदं ब्रह्माणं मधुसूदनः ।। ४४ ।।
मन्नरेणोच्छ्रितो ब्रह्मंस्त्वदीयो विनिपातितः ।।
श्रुत्वा तदाकुलो ब्रह्मा बभाषे मधुसूदनम् ।। ४५ ।।
हरेऽन्यजन्मनि नरो मदीयो यदि हीयते ।।
तेन तुष्टेन संप्रोक्तं हरिणैवं भविष्यति ।। ४६ ।।
कृत्वा तयो रणमपि निवार्य तावुवाच ह ।।
अथान्यजन्मनि नरो मदीयो भविता कलौ ।। ४७ ।।
ततो महारणे जाते तत्राहं योजयामि तम् ।।
विष्णुनाथ समाहूय महेश्वरसुरेश्वरौ ।। ४८ ।।
उक्ताविमौ नरौ रुद्रौ पालनीयौ स्वशक्तितः ।।
स्वेदजातासृग्जातौ तु स्वकीयांशौ धरातले ।।
स्वांशभूतौ द्वापरांते नियोज्यौ भूतले त्वया ।। ४९ ।।
ततोऽब्रवीत्तदा विष्णुं सुरेशो दुःखितं वचः ।। 5.1.3.५० ।।
अस्मिन्मन्वंतरे देव त्रेतायुगं तदा यदा ।।
त्वद्रूपेणेह महता सूर्यपुत्रहितार्थिना ।।
वालीनाम महाबाहुः सुग्रीवार्थे निपातितः ।। ५१ ।।
तेन दुःखेन तप्तोऽहं नाहं गृह्णामि ते नरम् ।।
अगृह्णमानं देवेशं कारणांतरवादिनम् ।। ५२ ।।
विष्णुः प्रोवाच मघवन्भुवो भारावतारणे।।
अवतारं करिष्यामि मर्त्यलोकेऽप्यहं विभो।।५३।।
ततो हृष्टोऽभवच्छक्रो विष्णुवाक्येन तेन वै।।
प्रतिगृह्य नरं हृष्टः सत्यमस्तु वचस्तव ।। ५४ ।।
इत्युक्त्वा तु रवीन्द्रौ स प्रेषयित्वा च तौ पुनः ।।
गत्वा च पुण्डरीकाक्षो ब्रह्माणं ब्रह्मवेश्मनि ।। ५५ ।।
कृतं जुगुप्सितं कर्म ब्रह्मन्नीशं जिघांसता ।।
यत्त्वया देवदेवेश पुमान्कोपेन भाषितः ।। ५६ ।।
शुद्ध्यर्थमस्य पापस्य प्रायश्चित्तं परं कुरु ।।
गृह्णन्वह्नित्रयं ब्रह्मन्नग्नि होत्रमुपास्व ह ।। ५७ ।।
एको वै गार्हपत्योऽस्तु द्वितीयाहवनीयकः ।।
दक्षिणाग्निस्तृतीयस्तु त्रिकुण्डेषु प्रकल्पय ।। ५८ ।।
वर्तुले तर्पयात्मानं मामथो धनुषाकृतौ ।।
चतुष्कोणे हरं देवमृग्यजुःसामनामभिः ।। ५९ ।।
हुत्वा त्वग्निं च तपसा हरमेवार्च्य तत्क्षणात् ।।
दिव्यं वर्षसहस्रं तु हुत्वाग्निं सिद्धिमाप्स्यसि ।। 5.1.3.६० ।।
प्रायश्चित्तविशुद्धात्मा प्रतिपद्य महेश्वरम्।।
ततो निष्कल्मषो भूत्वा विषादस्ते गमिष्यति ।। ६१ ।।
इत्येवमुक्त्वा हरिरुग्रतेजा गतः स्वकीयं निलयं महात्मा ।।
ब्रह्मापि चित्तं तपसे निधाय समादधे सर्वमथाच्युतोक्तम् ।।६२।।
इति श्रीस्कांदे महापुराण एकाशीतिसाह स्र्यां संहितायां पंचम आवंत्यखण्डेऽवंतीक्षेत्रमाहात्म्ये ब्रह्मणः प्रायश्चित्तवर्णनंनाम तृतीयोऽध्यायः ।। ३ ।।छ।।।