स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्/अध्यायः ०२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०१ स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)
अध्यायः ०२
वेदव्यासः
अध्यायः ०३ →


।। सनत्कुमार उवाच ।। ।।
पुरा त्वेकार्णवे प्राप्ते नष्टे स्थावरजंगमे ।।
नाग्निर्न वायुरादित्यो न भूमिर्न दिशो नभः ।।१।।
 न नक्षत्राणि न ज्योतिर्न द्यौर्नेंदुर्ग्रहा स्तथा ।।
न देवासुरगंधर्वाः पिशाचोरगराक्षसाः ।। २ ।।
सरांसि नैव गिरयो नापगा नाब्धयस्तथा ।।
सर्वमेवतमोभूतं न प्राज्ञायत किंचन ।। ३ ।।
तदैको हि महाकालो लोकानुग्रहकारणात् ।।
तस्थौ स्थानान्यशेषाणि काष्ठास्वालोकयन्प्रभुः ।। ४ ।।
सृष्ट्यर्थं स महाकालः करे कामं प्रतिष्ठितम्।।
दक्षिणस्य तु तर्जन्यां स ममंथाविशोषितम् ।।५।।
कललं बुद्बुदं भूत्वा तविवेगविवर्द्धितम् ।।
जज्ञे तदंडं सुदृढं सुष्ठु वृत्तं हिरण्मयम् ।।६।।
करेण ताडितं तद्धि बभूव द्विदलं महत् ।।
अधःखंडं स्मृता भूमिरूर्ध्वं द्यौस्तारकान्वितम् ।। ७ ।।
मध्येऽभवत्तदा ब्रह्मा पंचवक्त्रश्चतुर्भुजः ।।
महेश्वरोऽनुमान्यैव तमयोजदनंतरम् ।। ८ ।।
कुरु सृष्टिं महाबाहो विचित्रां मदनुग्रहात् ।।
इत्युक्त्वांतर्हितः क्वापि देवो ब्रह्मा न जग्मिवान् ।। ९ ।।
प्रेर्यमाणोऽपि वै स्रष्टुं ब्रह्मा देवमचिंतयत् ।।
ब्रह्मणा ध्यायमानश्च ज्ञानार्थं भगवान्भवः ।। 5.1.2.१० ।।
ब्रह्मणस्तपसा दृष्टः प्रादाद्वेदं षडंगकम् ।।
लब्धे वेदेऽपि न चिरात्सष्टिं कर्तुं शशाक सः ।।११।।
तपसाऽतिष्ठदा भूयः समाराधयितुं भवम् ।।
नापश्यत्स यदा देवं तदा तुष्टाव भावितः ।। १२ ।।।
।। ब्रह्मोवाच ।। ।।
नमः शिवायामलसत्त्वचेतसे गुणत्रयातीतविसारितेजसे ।।
षडंगवेदस्य ममापि वेधसे परस्वरूपानुभवाय चक्षुषे ।। १३ ।।
नमोऽ स्तु ते सृष्टिविधौ रजोजुषे जगत्स्थितौ सत्त्वमधिष्ठिताय ते ।।
 विनाशहेतौ तमसा महीयसे शिवाय निर्वाणसुखप्रदायिने ।।१४।।
अशेषभूतप्रकृतेः परा य वै परात्मरूपाय नमः शिवाय वै ।।
नृबुद्ध्यहंकारमनोविधायिने भर्त्रे च षड्विंशकरूपकाय वै ।। १५ ।।
भूतोयवह्न्यम्बरवायुचंद्रसूर्यात्मरूपाभिरिदं तनूभिः ।।
व्याप्तं जगद्यस्य नमोऽस्तु तस्मै भूतं भविष्यमथ वर्तमानम् ।। १६ ।।
यानीह तेजांसि जगंति यानि भूतानि भव्यान्यथ कारणानि ।।
भवंति सृष्टौ विलयं विनाशे व्रजंति यस्यात्मनि तं नमामि ।। १७ ।।
।। सनत्कुमार उवाच ।। ।।
एवं संस्तुवतो व्यास ब्रह्मणो भगवान्परः ।।
अन्तर्हित उवाचेदं ब्रह्मन्संयाच्यतां वरः ।। १८ ।।
स वव्रे मनसा पुत्रं भवं गौरवकारणात् ।।
विज्ञायांतर्गतं तस्य परमेश उवाच तम् ।। १९ ।।
यस्मान्मां मनसा पुत्रं चतुर्मुख समीहसे ।।
कस्मिंश्चित्कारणे तस्मादहं छेत्स्यामि ते शिरः ।। 5.1.2.२० ।।
अयाच्यं याचितं यस्मान्ममांशो नीललोहितः ।।
रुद्रो भविष्यति सुतः स च ते हिंस्यति प्रभाम् ।। २१ ।।
अन्यद्यस्मात्स्मृतो भक्त्या त्वयाहं पितृभावतः ।।
परब्रह्मस्वरूपेण जिज्ञासा मम या कृता ।। ।। २२ ।।
तस्माद्ब्रह्मेति लोकेऽत्र नाम ख्यातं भविष्यति ।।
पितामहत्वं तेनापि पितामहस्ततो ह्यसि ।। २३ ।।
लब्ध्वा शापवरावेवं पुत्रसृष्टिं चकार सः ।।
स्वतेजोजनितं वह्निं जुह्वतः स्वेदमावहत् ।।२४।।
समिद्युक्तेन हस्तेन ललाटं मार्जतोऽभवत् ।।
स्विन्नभ्रष्टस्ततो रक्तबिंदुरेको विभावसौ ।।२५।।।
स नीललोहितोऽभूद्वै स च रुद्रो भवाज्ञया ।।
तदनन्तरमासाद्य उत्ततार सुतोंऽतिकात् ।। २६ ।।
पंचवक्त्रो दशभुजः शूलचापासिशक्तिमान् ।।
त्रिपंच नयनो रौद्रो व्यालयज्ञोपवीतकः ।। २७ ।।
सेन्दुः कपर्दं बिभ्राणः सिंहचर्मांबरंधरः ।।
जातमेवं स दृष्ट्वा तु ब्रह्मा नामाकरोत्तदा ।। २८ ।।
नीललोहितनामेति भव रुद्र पिनाकधृक् ।।
ततः प्रववृते सृष्टिः स्रष्टुर्लोकपितामहात् ।। २९ ।।
सप्तादौ मानसाञ्जज्ञे सनकादींस्ततोऽपरान् ।।
मरीचि दक्षप्रभृतीन्मन्वादींश्च प्रजासृजः ।। 5.1.2.३० ।।
अष्टभेदान्सुरान्कृत्वा तिर्यग्योनिं च पंचधा ।।
मनुष्यानेकभेदांश्च सृष्टिमेवं ससर्ज ह ।। ३१ ।।
सृष्टिः सुरादिका जाता कृत्वा ब्रह्माणमप्यधः ।।
प्रणम्याथ सिषेवुस्ते केवलं नीललोहितम् ।। ३२ ।।
ततो ब्रह्माऽवदद्रुद्रमपूज्यो हि त्वया कृतः ।।
स्वतेजसा भवान्पूज्यो यतो याहि हिमालयम् ।।३३।।
तं नीललोहितः प्रोचे भवता नार्चितो ह्यहम् ।।
ततो जगाम रुद्रोऽसौ स यत्र भगवान्भवः ।।३४।।
ततो ब्रह्माऽभवन्मूढो रजसा चोपबृंहितः ।।
तताप तेजसा सृष्टिं मन्यमानो मया कृताम् ।। ३५।।
 मत्तुल्यो नास्ति वै देवो येन सृष्टिः प्रवर्द्धिता ।।
सदेवासुरगन्धर्वा पशु पक्षिमृगाकुला ।। ३६ ।
एवं मूढः स पंचास्यो विरंच्योऽभवद्दर्पितः ।।
प्राग्वक्त्रं सुस्वरं तस्य सामवेदप्रवर्तकम् ।। ३७ ।।
द्वितीयं वदनं तस्य ऋग्वे दस्य प्रवर्तकम्।।
यजुर्वेदधरं चान्यदथर्वाख्यं चतुर्थकम् ।। ३८ ।।
सांगोपांगेतिहासांश्च सरहस्यान्ससंग्रहान् ।।
वेदानधीते वक्त्रेण पंचमेनोपचक्षुषा ।। ।। ३९ ।।
तस्याऽसुराः सुराः सर्वे वक्त्रस्याद्भुततेजसः ।।
तेजसा न प्रकाशंते दीपः सूर्योदये यथा ।। 5.1.2.४० ।।
सपुत्रा अपि सोद्वेगा बभूवुर्नष्ट चेतसः ।।
नाभिगन्तुं न च द्रष्टुं चिरं तेजोऽपसर्पितुम् ।। ४१ ।।
अभिभूतमिवात्मानं मन्यमाना अविद्विषः ।।
सर्वे ते मन्त्रयामासुर्देवा वै हितमा त्मनः ।। ४२ ।।
गच्छाम शरणं देवं निस्तेजा ब्रह्मतेजसा ।।
किं तु तस्य न जानीमः स्थानं यत्र व्यवस्थितः ।। ४३ ।।
तं भीममत्र दक्ष्यामो भक्त्या नान्येन केनचित् ।।
एवं संमन्त्र्य ते देवाः कृतांजलिपुटास्तदा ।।
चक्रुः स्तोत्रं महेशस्य परया स्वरसंपदा ।। ४४ ।।
।। देवा ऊचुः ।।।
नमस्ते देवदेवेश महेश्वर नमोनमः ।। ४५ ।।
न विद्मः परमं मूढा महिमानं तवातुलम् ।।
यद्योगेन परं ब्रह्म भूतानां त्वं सनातनः ।। ४६ ।।
प्रतिष्ठा सर्वभूतानां हेतुः सर्वस्य सर्जने ।।
बिभर्षि चैव नेत्रस्थान्सोमसूर्यविभावसून् ।। ४७ ।।
नामसंकीर्तनादेव मुच्यन्ते जंतवोऽशुभात् ।।
पृथिव्यबग्निचन्द्रार्कव्योमवायूपलक्षणाः ।। ४८ ।।
मूर्तयस्ते महादेव व्याप्तमाभिरशेषतः ।।
रजःसत्त्वतमोभावैर्भ्राम्यमाणं त्वया जगत् ।। ४९ ।।
नावबुध्यति सर्वेश सर्वमूर्तिधरो यतः ।।
ब्रह्मादीनां सुरेशानां संमोहनविमोहनम् ।।
त्वं करोषि युगावर्तकाले काले च दुःसहम् ।। 5.1.2.५० ।।
।। सनत्कुमार उवाच ।। ।।
प्रत्यक्षं दर्शनं दत्त्वा देवानामनुकंपया ।।
प्रसन्नवदनो भूत्वा देवैश्चापि नमस्कृतः ।। ५१ ।।
वासयन्मोहनाम्ना तु सह देवैर्महेश्वरः ।।५२।।
एवं संस्तूयमानोऽसौ देवर्षिपितृमानवैः ।।
अन्तर्हित उवाचेदं देवा ब्रूत यथेप्सितम् ।। ५३ ।।
।। देवा ऊचुः ।। ।।
प्रत्यक्षं दर्शनं स्थाणो प्रार्थयाम सदा तव ।।
त्वया कारुण्यतोऽस्माकं वरश्चापि प्रदीयताम् ।। ५४ ।।
यदस्माकं महद्वीर्यं तेजश्चैव पराक्रमम् ।।
तत्सर्वं ब्रह्मणा ग्रस्तं पंचमास्यस्य तेजसा ।। ५५ ।।
विनेशुः सर्वतेजांसि त्वत्प्रसादात्पुनः प्रभो ।।
जायते तद्यथापूर्वं तथा कुरु महेश्वर ।। ५६ ।।
।। सनत्कुमार उवाच ।। ।।
प्रत्यक्षमेत्य वै पश्चाच्चलितः शर्व एव हि ।।
जगाम तत्र यत्रासौ रजोऽहंकारमूर्त्तिमान्।।
देवाः स्तुवंतो देवेशं परिवार्य उपाविशन् ।। ।। ५७ ।।
ब्रह्मा तमागतं देवं नाजानात्तमसा वृतः ।।
सूर्यकोटिसहस्राणां तेजसा रंजयञ्जगत् ।। ५८ ।।
तदाऽदृश्यत विश्वात्मा विश्वसृग्विश्वभाव नः ।।
स पितामहमासीनं सकले देवमण्डले ।। ५९ ।।
तेजसाभिभवन्रुद्रस्तेन मत्तोऽग्रतः स्थितः ।।
रुद्रतेजोभिभूतं च ब्रह्मवक्त्रं न राजते ।। 5.1.2.६० ।।
रात्रौ प्रकाशकिरणश्चंद्रः सूर्योदये यथा ।।
सगर्वोथात्मजं दृष्ट्वा रुद्रदेवं सनातनम् ।। ६१ ।।
अवन्दत करेणैव प्राह वै सस्मितं वचः ।।
प्रत्युवाच विरूपाक्षो ब्रह्माणं तं हसन्निव ।। ६२ ।।
यतो न वेद परमं देवं तत्तेजसावृतः ।।
ततोऽट्टहासं भगवान्मुमोच शशिशेखरः ।। ६३ ।।
पश्यतां सर्वदेवानां शृण्वतां वाचमुक्तवान् ।।
तेनादृहासशब्देन मोहयित्वा पितामहम् ।। ६४ ।।
 तेजोराशिशशांकाभः शशांकार्काग्निलोचनः ।।
वामांगुष्ठनखाग्रेण ब्रह्मणः पञ्चमं शिरः ।। ६५ ।।
चकर्त कदलीगर्भं नरः कररुहैरिव ।।
छिद्यमानं च तद्वक्त्रं बुबुधे न पितामहः ।। ६६ ।।
रुद्रस्य तेजसा तस्मान्मो हितो न नतिं गतः ।।
छिन्नं तस्य शिरः पश्चाद्रुद्रहस्ते स्थितं तदा ।। ६७ ।।
अपश्यद्दैवतैः सार्धं रौद्रमतिभयाज्ज्वलत् ।।
महेश्वरकरांतस्थनखै र्वक्त्रं विराजते ।। ६८ ।।
ग्रहमण्डलमध्यस्थो द्वितीय इव चन्द्रमाः ।।
उत्क्षिप्य तत्कपालेन ननर्त शशिशेखरः ।। ६९ ।।
शिखरस्थेन सूर्येण कैलास इव पर्वतः ।।
छिन्ने वक्त्रे ततो देवा हृष्टपुष्टा वृषध्वजम् ।।
तुष्टुवुर्विविधैः स्तोत्रैर्देवदेवं कपालिनम् ।। 5.1.2.७० ।।
।। देवा ऊचुः ।। ।।
नमः कपालिने नित्यं महाकालाय शंखिने ।। ७१ ।।
ऐश्वर्यज्ञानयुक्ताय सर्वभोगप्रदायिने ।।
नमो दर्पविनाशाय सर्वदेवमयाय च ।। ७२ ।।
कालसंहारकर्ता त्वं महाकालस्ततो ह्यसि ।।
भक्तानां दुःखशमनो दुःखांतस्तेन रोचसे ।। ७३ ।।
शंकरोप्याशु भक्तानां तेन त्वं शंकरः स्मृतः ।।
छित्त्वा ब्रह्मशिरो यस्मात्कपालं च बिभर्षि च ।।७४।।
तेन देव कपाली त्वं स्तुतो ह्यसि प्रसीद नः ।।
एवं स्तुतः प्रसन्नात्मा देवानुत्थाप्य शंकरः ।।७५।।
कृपानिधिः स भगवांस्तत्रैवांतरधीयत ।।
शशिशकलमयूखैर्भासित यत्कपर्दं द्रवति गगनगंगातोयवीचीविचेयम्।।
सितविधृतकपालो मालया रुद्रपार्श्वे स जयति जितवेधा ऊर्जितः प्राज्यतेजाः ।।७६।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चमआवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये ब्रह्मशिरश्छेद वर्णनं नामद्वितीयोऽध्यायः ।। २ ।।।छ।।।