स्कन्दपुराणम्/खण्डः ३ (ब्रह्मखण्डः)/सेतुखण्डः/अध्यायः ०५

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

।। श्रीसूत उवाच ।। ।।
प्रस्तुत्य चक्रतीर्थं तु पुण्यं पापविनाशनम् ।।
पुनरप्यद्भुतं किञ्चित्प्रब्रवीमि मुनीश्वराः ।। १ ।।
विधूमनामा हि वसुर्देवस्त्री चाप्यलंबुषा ।।
ब्रह्मशापान्महाघोरात्पुरा प्राप्तौ मनुष्यताम्।। ।। २ ।।
चक्रतीर्थे महापुण्ये स्नात्वा शापाद्विमोचितौ ।।
।। ऋषय ऊचुः ।। ।।
सूतसूत महाप्राज्ञ पुराणार्थविशारद।। ३ ।।
प्राज्ञत्वाद्व्यासशिष्य त्वादज्ञातं ते न किंचन ।।
ब्रह्मा केनापराधेन सहालंबुसया वसुम् ।। ४ ।।
पुरा विधूमनामानं शप्तवांश्चतुराननः ।।
ब्रह्मशापेन घोरेण कयोस्तौ पुत्रतां गतौ ।। ५ ।।
शापस्यान्तः कथमभूद्ब्रह्मणा शप्तयोस्तयोः ।।
एतन्नः श्रद्दधानानां विस्तराद्वक्तुमर्हसि ।। ६ ।।
।। श्रीसूत उवाच ।। ।।
पुरा हि भगवान्ब्रह्मा स्वयम्भूश्चतुराननः ।।
सावित्र्या च सरस्वत्या पार्श्वयोः प्रविराजितः ।। ७ ।।
सनातनेन मुनिना सनकेन च धीमता ।।
सनत्कुमारनाम्ना च नारदेन महात्मना ।। ८ ।।
सनन्दनादिभिश्चान्यैः सेव्यमानो मुनीश्वरैः ।।
सुपर्ववृन्दजुष्टेन स्तूयमानो बिडौजसा ।। ९ ।।
आदित्यादि ग्रहैश्चैव स्तूयमानपदांबुजः ।।
सिद्धैः साध्यैर्मरुद्भिश्च किंनरैश्च समावृतः ।। 3.1.5.१० ।।
गणैः किंपुरुषाणां च वसुभिश्चाष्टभिर्वृतः ।।
उर्वशीप्रमुखानां च स्वर्वेश्यानां मनोरमम् ।। ११ ।।
नृत्यं वादित्रसहितं वीक्ष्यमाणो मुहुर्मुहुः ।।
गोष्ठीं चक्रे सभामध्ये सत्यलोके कदाचन ।। १२ ।।
मेघगर्जितगम्भीरो जनानां नंदयन्मुहुः ।।
वीणावेणुमृदंगानां ध्वनिस्तत्र व्यसर्पत ।। १३ ।।
गंगातरंगमालानां शीकरस्पर्शशीतलः ।।
पवमानः सुखस्पर्शो मन्दं मन्दं ववौ तदा ।। १४ ।।
पर्यायेण तदा सर्वा ननृतुर्देवयोषितः ।।
नृत्यश्रमेण खिन्नासु वेश्यास्वन्यासु सादरम् ।। १५ ।।
अलंबुसा देवनारी रूपयौ वनशालिनी ।।
मदयन्ती जनान्सर्वान्सभामध्ये ननर्त वै ।। १६ ।।
तस्मिन्नवसरे तस्या नृत्यंत्याः संसदि द्विजाः ।।
वस्त्रमाभ्यंतरं वायुर्लीलया समुदक्षिपत् ।। १७ ।।
तत्क्षिप्ते वसने स्पष्टमूरुमूलमदृश्यत ।।
तथाभूतां तु तां दृष्ट्वा सर्वे ब्रह्मादयो ह्रिया ।। १९ ।।
सभामध्ये समासीना निमीलित दृशोऽभवन् ।।
विधूमनामा तु वसुः कामबाणप्रपीडितः ।। १९ ।।
तामेव ब्रह्मभवने दृष्ट्वानिलहृतांशुकाम् ।।
हर्षसंफुल्लनयनो हृष्टरोमा ततोऽभवत् ।। 3.1.5.२० ।।
अलंबुसायां तस्यां तु जातकामं विलोक्य तम् ।।
वसुं विधूमनामानं शशाप चतुराननः ।। २१ ।।
यस्मात्त्वमीदृशं कार्यं विधूम कृतवानसि ।।
तस्माद्धि मर्त्यलोके त्वं मानुषत्वमवाप्स्यसि ।। २२ ।।
इयं च देवयोषित्ते तत्र भार्या भविष्यति ।।
एवं स ब्रह्मणा शप्तो विधूमः खिन्नमानसः ।। २३ ।।
प्रसादयामास वसुर्ब्रह्माणं प्रणिपत्य तु ।।
।। विधूम उवाच ।। ।।
अस्य शापस्य घोरस्य भगवन्भक्तवत्सल ।। २४ ।।
नाहमर्होऽस्मि देवेश रक्ष मां करुणानिधे ।।
एवं प्रसादितस्तेन भारतीपतिरव्ययः ।। २५ ।।
कृपया परया युक्तो विधूमं प्राह सांत्वयन् ।।
।। ब्रह्मोवाच ।। ।।
त्वयि शापोऽप्ययं दत्तो न चासत्यं ब्रवीम्यहम् ।। २६ ।।
ततोऽवधिं कल्पयामि शापस्यास्य तवाधुना ।।
मर्त्यभावं समापन्नः सहालंबुसयाऽनया ।। २७ ।।
तत्र भूत्वा महाराजः शासयित्वा चिरं महीम् ।।
पुत्रमप्रतिमं त्वस्यां जनयित्वा महीपतिम् ।। २८ ।।
अभिषिच्य च राज्ये तं राज्यरक्षाविचक्षणम् ।।
एतच्छापस्य शांत्यर्थं दक्षिणस्योदधेस्तटे ।।
फुल्लग्रामसमीपस्थे चक्रतीर्थे महत्तरे ।। २९ ।।
अनया भार्यया सार्द्धं यदा स्नानं करिष्यसि ।।
तदा त्वं मानुषं भावं जीर्णत्वचमिवोरगः ।। 3.1.5.३० ।।
विसृज्य भार्यया सार्द्धं स्वं लोकं प्रतिपत्स्यसे ।।
चक्रतीर्थे विना स्नानं न नश्येच्छाप ईदृशः।।३१।।
इति ब्रह्मवचः श्रुत्वा विधूमो नातिहृष्टवान् ।।
स्ववेश्म प्राविशत्तूर्णमामंत्र्य चतुराननम्।।३२।।
चिंतयामास तत्रासौ मर्त्यतां यास्यतो मम।।
को वा पिता भवेद्भूमौ का वा माता भविष्यति।।३३।।
बहुधेत्थं समालोच्य विधूमो निश्चिकाय सः।।
कौशांबीनगरे राजा शतानीक इति श्रुतः ।।३४।।
अस्ति वीरो महाभागो भार्या चापि पतिव्रता ।।
तस्य विष्णुमतीनाम विष्णोः श्रीरिव वल्लभा ।।३५।।
तमेव पितरं कृत्वा मातरं च विधाय ताम् ।।
संभविष्यामि भूलोके स्वकर्मपरिपाकतः ।।३६।।
ततः स माल्यवन्तं च पुष्पदंतं बलोत्कटम्।।
त्रीनाहूयात्मनो भृत्यान्वृत्तमेतन्न्यवे दयत् ।। ३७ ।।
भृत्याः शृणुत भद्रं वो ब्रह्मशापान्महाभयात् ।।
जनिष्यामि शतानीकाद्विष्णुमत्यामहं सुतः ।। ३८ ।।
इति श्रुत्वा वचो भृत्यास्तस्या प्राणा बहिश्चराः ।।
वाष्पपूर्णमुखाः सर्वे विधूमं वाक्यमब्रुवन् ।।३९ ।।
।। भृत्या ऊचुः ।। ।।
त्वद्वियोगं वयं सर्वे त्रयोऽपि न सहामहे ।।
तस्मान्मानुष भावत्वमस्माभिः सह यास्यसि ।। 3.1.5.४० ।।
शतानीकस्य राजर्षेर्मंत्री योऽयं युगन्धरः ।।
सेनानीर्विप्रतीकश्च योऽयं प्राग्रसरो रणे ।।४१।।
नर्मकर्मसु हृद्विप्रो वल्लभाख्यो महांश्च यः ।।
तेषां पुत्रास्त्रयोऽप्येते भविष्यामो न संशयः ।। ४२ ।।
शतानीकस्य राजर्षेः पुत्रभावं गतस्य ते ।।
शुश्रूषां संविधास्यामस्तेषु तेषु च कर्मसु ।।
तानेवंवादिनः सोऽयं विधूमो वाक्यमब्रवीत् ।। ४३ ।।
।। विधूम उवाच ।। ।।
जानेऽहं भवतां स्नेहं तादृशं मय्य नुत्तमम् ।। ४४ ।।
तथापि कथयाम्यद्य तच्छृणुध्वं हितं वचः ।।
ब्रह्मशापेन घोरेण स्वेन दुष्कर्मणा कृतम्।। ४५ ।।
कुत्सितं मानुषं भावमहमेकोऽनुवर्तये ।।
विहितं न हि युष्माकमेतच्छापानुवर्तनम् ।। ४६ ।।
जुगुप्सितेऽतो मानुष्ये मा कुरुध्वं मनोऽधुना ।।
अतः शापावधिर्यावन्मद्वियोगो विषह्यताम् ।। ४७ ।।
इत्युक्तवन्तं ते सर्वे माल्यवत्प्रमुखास्तदा ।।
ऊचुः प्रणम्य शिरसा प्रार्थयंतः पुनःपुनः ।। ४८ ।।
रक्षित्वा कृपया ह्यस्मान्मा कुरुष्व च साहसम् ।।
परित्यजसि नः सर्वान्भक्तानद्य निरागसः ।। ४९ ।।
त्वद्वियोगान्महाघोरान्मानुष्यमपि कुत्सितम् ।।
बहु मन्यामहे देव तस्मान्नस्त्राहि सांप्रतम् ।। 3.1.5.५० ।।
एवं स याचमानांस्त्रीनन्वमन्यत भृत्यकान् ।।
तैस्त्रिभिः सहितः सोऽयं कौशांबीं गन्तुमैच्छत ।। ५१ ।।
एतस्मिन्नेव काले तु सोमवंशविवर्द्धनः ।।
अर्जुनाभिजने जातो जनमेजयसंभवः ।। ५२ ।।
शतानीको महीपालः पृथिवीमन्वपालयत् ।।
बुद्धिमान्नीतिमान्वाग्मी प्रजापालनतत्परः ।। ५३ ।।
चतुरंगबलोपेतो विक्रमैकधनो युवा ।।
स कौशांबीं महाराजो नगरीमध्युवास वै ।। ५४ ।।
तस्य मन्त्ररहस्यज्ञो मन्त्री जातो युगंधरः ।।
सेनानीर्विप्रतीकश्च तस्य प्राग्रसरो रणे ।। ५५ ।।
नर्मकर्मसु तस्यासीद्वल्लभाख्यः सखा द्विजः ।।
तस्य विष्णुमती नाम विष्णोः श्रीरिव वल्लभा ।। ५६ ।।
स सर्वगुणसंपन्नः शतानीको महामतिः ।।
पुत्रमात्मसमं तस्यां भार्यायां नान्वविंदत ।। ५७ ।।
आत्मानमसुतं ज्ञात्वा स भृशं पर्यतप्यत ।।
स युगंधरमाहूय मंत्रिणं मन्त्रवित्तमम् ।। ५८ ।।
पुत्रलाभः कथं मे स्यादिति कार्यममन्त्रयत् ।।
युगन्धरो मही पालं पुत्रालाभेन पीडितम् ।।
हर्षयन्वचसा स्वेन वाक्यमेतदभाषत ।। ५९ ।।
।। युगन्धर उवाच ।। ।।
अस्ति शांडिल्यनामा तु महर्षिः सत्यवाक्छुचिः ।। 3.1.5.६० ।।
शत्रुमित्रसमो दांतस्तपःस्वाध्यायतत्परः ।।
तमेव मुनिमासाद्य ज्वलंतमिव पावकम् ।। ६१ ।।
पुत्रमात्मसमं राजन्प्रार्थयेथा विनीतवत् ।।
कृपावान्स महर्षिस्तु पुत्रं ते दास्यति ध्रुवम् ।। ६२ ।।
इति तद्वचनं श्रुत्वा हर्षसंफुल्ललोचनः ।।
मंत्रिणा तेन संयुक्तस्तस्यागादाश्रमं मुनेः ।। ६३ ।।
तमाश्रमे समासीनं प्रणनाम महीपतिः ।।
शांडिल्यस्तु महातेजा राजानं प्राप्तमाश्रमम् ।। ६४ ।।
दृष्ट्वा पाद्यादिभिः पूज्य स्वागतं व्याजहार सः ।।
।। शांडिल्य उवाच ।। ।।
शतानीक किमर्थं त्वमाश्रमं प्राप्तवान्मम ।। ६५ ।।
यत्कर्तव्यभिदानीं ते तद्वदस्व करोम्यहम् ।।
मुनिमेवं वदंतं तं प्रत्यवादीद्युगंधरः ।। ६६ ।।
भगवन्नेष वै राजा पुत्रालाभेन कर्षितः ।।
भवंतं शरणं प्राप्तः सांप्रतं पुत्रकारणात् ।। ६७ ।।
अस्यापुत्रत्वजं दुःखं त्वमपाकर्तुमर्हसि ।।
इति तस्य वचः श्रुत्वा शांडिल्यो मुनिसत्तमः ।।६८।।
पुत्रलाभवरं तस्मै प्रतिजज्ञे नृपाय वै ।।
स राज्ञो वरदः श्रीमान्कौशांबीमेत्य सादरम् ।। ६९ ।।
पुत्रेष्ट्या पुत्रकामस्य याजकोऽभून्महामुनिः ।।
ततो मुनिप्रसादेन राजा दशरथोपमः ।। 3.1.5.७० ।।
यज्वा राममिव प्राप सहस्रानीकमात्मजम् ।।
एवं विधूमः संजज्ञे शतानीकान्नृपोत्तमात् ।। ७१ ।।
अत्रांतरे मंत्रिवरस्सेनानीस्तु महीपतेः ।।
द्विजो नर्मवयस्यश्च पुत्रान्प्रापुः कुलोचितान् ।। ७२ ।।
पुत्रो युगंधरस्यासीन्माल्यवान्नाम भृत्यकः ।।
यौगंधरायणो नाम्ना मन्त्रशास्त्रेषु कोविदः ।। ।। ७३ ।।
विप्रतीकस्य तनयः पुष्पदन्तो बभूव ह ।।
रुमण्वानिति विख्यातः परसैन्यविमर्दनः ।। ७४ ।।
वल्लभस्य तदा जज्ञे तनयो वै बलोत्कटः ।।
वसंतक इति ख्यातो नर्मकर्मसु कोविदः ।। ७५ ।।
अथ ते ववृधुः सर्वे राजपुत्रपुरोगमाः ।।
पञ्चहायनतां तेषु यातेषु तदनंतरम् ।। ७६ ।।
अलंबुसापि स्वर्वेश्या भूपतेः कृतवर्मणः ।।
अयोध्यायां महापुर्यां कन्या जाता मृगावती ।। ७७ ।।
एवं विधूममुख्यास्ते जज्ञिरे क्षितिमण्डले ।।
अत्रांतरे महासत्त्वो दुष्टसानुचरो बली ।। ७८ ।।
अहिदंष्ट्र इति ख्यातो महादैत्यो बलोत्कटः ।।
युक्तः स्थूलशिरोनामा सहायेन दुरात्मना ।।७९।।
रुरोध देवनगरं बबाध विबुधानपि ।।
वर्तमाने दिवि महासमरे सुररक्षसाम् ।। 3.1.5.८० ।।
आनिनाय शतानीकं सहायार्थं पुरंदरः ।।
स यौवराज्ये तनयं विधाय विधिना नृपः ।। ८१ ।।
प्रतस्थे रथमास्थाय युद्धाय दितिजैः सह ।।
नीतो मातलिनाभ्येत्य सादरं स धनुर्धरः ।। ८२ ।।
विधाय प्रेक्षकान्देवाञ्जघान दितिजान्रणे ।।
अथ दैत्याधिपः सोऽपि निहतः समरे दिवि ।। ८३ ।।
ततः शक्रस्य वचसा परेतं नृपपुंगवम् ।।
रथमारोप्य सहसा कौशांबीं मातलिर्ययौ ।। ८४ ।।
नीत्वा महीतलमसौ तत्सुताय न्यवेदयत् ।।
ततः सहस्रानीकोपि विलप्य वहुदुखितः ।। ८५ ।।
मंत्रिभिः सह संभूय प्रेतकार्यं न्यवर्तयत् ।।
मृतं ज्ञात्वा पतिं राज्ञी सहैवानुममार च ।। ८६ ।।
महिष्या सह संप्राप्ते भूपाले कीर्तिशेषताम् ।।
भेजे राज्यं शतानीकतनयो मंत्रिणां गिरा ।। ८७ ।।
युगन्धरे विप्रतीके वल्लभे च मृते सति ।।
यौगन्धरायणमुखास्तत्पुत्राः सर्व एव हि ।। ८८ ।।
शतानीक सुतस्यास्य तत्तत्कार्यमकुर्वत ।।
एवं स पालयामास महीं राजसुतो बली ।। ८९ ।।
याते काले महेन्द्रेण सनन्दनमहोत्सवे ।।
निमंत्रितस्तत्कथितां भाविनीमशृणोत्कथाम् ।। 3.1.5.९० ।।
स्वर्योषिद्ब्रह्मणः शापादयोध्यायायामलंबुसा ।।
जाता मृगावती कन्या भूपतेः कृतवर्मणः ।। ९१ ।।
विधूम नामा च वसुस्त्वं नाकललनां पुरा ।।
तामेव ब्रह्मसदने दृष्ट्वानिलहृतांशुकाम् ।। ९२ ।।
तदैव मादनाक्रांतः शापान्मर्त्यत्वमागतः ।।
सैव ते दयिता राजन्भाविनी न चिरात्सखे ।। ९३ ।।
यदा त्वमात्मनः पुत्रं राज्ये संस्थाप्य भूपते ।।
मृगावत्या स्त्रिया सार्द्धं दक्षिणस्योदधेस्तटे ।। ९४ ।।
चक्रतीर्थे महापुण्ये फुल्लग्रामसमीपतः ।।
स्नानं करिष्यसि तदा शापान्मुक्तो भविष्यसि ।। ९५ ।।
इति प्रोवाच भगवन्सत्यलोके पितामहः ।।
इतींद्रवचनं श्रुत्वा सहस्रानीकभूपतिः ।। ९६ ।।
तथोद्वाहकृतोत्साहः समामंत्र्य शचीपतिम् ।।
कौशांबीं प्रस्थितो हृष्टः स तिलोत्तमया पथि ।। ।। ९७ ।।
स्मरन्किमपि तां कांतां भाषमाणामनन्यधीः ।।
ध्यायञ्छतक्रतुवचो नालुलोके महीपतिः ।। ९८ ।।
सा शशाप नृपं सुभ्रूरनादरतिर स्कृता ।।
आहूयमानोपि मया सहस्रानीक भूपते ।। ९९ ।।
मृगावतीं हृदा ध्यायन्किमर्थं मामुपेक्षसे ।।
सौभाग्यमत्ता मानिन्यो न सहंतेऽवधीर णाम्।। 3.1.5.१०० ।।
मामवज्ञाय यां राजन्हृदा ध्यायसि सांप्रतम् ।।
तया चतुर्दशसमा वियुक्तस्त्वं भविष्यसि ।। १०१ ।।
इति शप्तवतीं राजा तामु वाच तिलोत्तमाम्।।
तामेव यदि लभ्येयं तनुजां कृतवर्मणः ।। १०२ ।।
चतुर्दशसमा दुःखं सहिष्ये तद्वियोगजम्।।
इत्युक्त्वा तद्गतमना नृपः प्राया न्निजां पुरीम् ।। १०३ ।।
ततः कालेन तनया भूपतेः कृतवर्मणः ।।
तमाससाद दयिता सर्वस्वं पुष्पधन्वनः ।। १०४ ।।
मृगावती समासाद्य विला सतरुवल्लरीम्।।
विभ्रमांभोधिलहरीं ननंद मदनद्युतिः ।। १०५ ।।
सा तस्माद्गर्भमाधत्त भवानीवेंदुशेखरात् ।।
पांडिम्ना शशिलेखेव पीपूषक्षालिता बभौ ।। १०६ ।।
सुन्दरी दौर्हृदव्यक्तेरथ पौरंदरीव दिक् ।।
रराज राजमहिषी रजनीकरगर्भिणी ।। १०७ ।।
सा दौर्हृदवशाद्राज्ञी यंयं काममकाम यत् ।।
सुदुर्लभमपिप्रेम्णा तत्तत्सर्वं समाहरत् ।। १०८ ।।
पत्यौ समीहितकरे सा कदाचिन्मृगावती ।।
स्वेच्छया वै मतिं चक्रे रक्तवापीनिमज्जने ।। १०९ ।।
अभिलाषं सविज्ञाय मृगावत्या महीपतिः ।।
कौसुम्भसलिलैः पूर्णां क्षणाद्वापीमकारयत् ।। 3.1.5.११० ।।
तस्मिन्रक्तजले राज्ञी स्नानं सादरमातनोत्।।
ततस्तां रक्ततोयार्द्रां फुल्लकिंशुकसन्निभाम्।।१११।।
राजस्त्रीमामिषधिया सुपर्णकुलसंभवः।।
जहार विकटः पक्षी मुग्धां दग्धविधेर्वशात्।। ।।११२।।
नीत्वा विहायसा दूरं स तामचलसन्निभः।।
तत्याजमोहविवशामुदयाचलकंदरे।।११३।।
लब्धसंज्ञा शनैः कंपविलोलतनुवल्लरी।।
दृग्भ्यामुत्पलतुल्याभ्यां मुहुरश्रूण्यवर्तयत्।।११४।।
हा नाथ मंदभाग्याहं त्वद्वियोगेनपीडिता।।
का गतिः क्व नु गच्छामि द्रक्ष्यामि त्वन्मुखं कदा।।११५।।
इत्युक्त्वा गजसिंहानां पुरोभूद्वधकांक्षिणी ।।
सा सर्वकेसरिगजैस्त्यक्ता न निधनं गता।।११६।।
आपत्काले नृणां नूनं मरणं नैव लभ्यते।।
अतिदीनं समाकर्ण्य तस्याः क्रंदितमुन्मुखाः।।११७।।
मृगा निष्पंदगतयो न तृणान्यप्यभक्षयन्।।
ततस्तां करुणासिंधुर्मुनिपुत्रस्तथास्थिताम्।।११८।।
रुदतीं कृपया राज्ञीं समानीय स्वमाश्रमम् ।।
न्यवेदयच्च तां राज्ञीं गुरवे जमदग्नये ।।
जमदग्निस्तु धर्मात्मा तामाश्वासयदंतिके ।। ११९ ।।
।। जमदग्निरुवाच ।। ।।
तथा जानीहि मां भद्रे कृतवर्मा यथा तव ।। 3.1.5.१२० ।।
एवमाश्वासिता तत्र कृपया जमदग्निना ।।
चक्रे तत्रैव सा वासमाश्रमे मुनिसंकुले ।। १२१ ।। ।
ततस्स्वल्पेन कालेन विशाखमिव पार्वती ।।
असूत तनयं बाला शौर्यधैर्यगुणान्वितम् ।। १२२ ।।
सूतिकागृहकृत्यानि यानि कार्याणि बंधुभिः ।।
चक्रिरे मातृवत्तानि मृगावत्या मुनिस्त्रियः ।। १२३ ।।
तं सुजातं नृपसुतं कापि वागशरीरिणी ।।
उदयाचलजातत्वाच्चकारोदयनाभिधम्।। ।। १२४ ।।
आश्रमे स मुनीन्द्रेण कृतचूडादिकव्रतः ।।
जग्राह सकला विद्या जमदग्नेर्महामुनेः ।।१२५।।
युवा नृपसुतः सोऽयं कदाचिन्मृगयापरः ।।
अपश्यदेकं भुजगं व्याधेन दृढसंयतम् ।। १२६ ।।
उवाच स कृपायुक्तो व्याध मुंच भुजंगमम् ।।
किं करिष्यस्यनेन त्वं नैनं हिंसितुर्महसि ।।१२७।।
तमुवाच ततो व्याधः सर्पेणानेन पूरुष ।।
धनधान्यादिकं लप्स्ये ग्रामेषु नगरेषु च ।। १२८ ।।
अतोहं जीविकामेनं नैव मोक्ष्ये कथंचन ।।
इत्युक्त्वा पेटिकायां तं वबंध शबराधमः ।। १२९ ।।
बद्धमालोक्य भुजगं शबराय धनार्थिने ।।
अमोचयत्स्वजननीदत्तं दत्त्वा स कंकणम् ।। 3.1.5.१३० ।।
मोचितस्तेन सर्पोऽसौ नरो भूत्वा कृतांजलिः ।।
सख्यं कृत्वा च सहसा तं पातालं निनाय वै ।। १३१ ।।
किन्नराख्येन नागेन धृतराष्ट्रसुतेन सः।।
पातालं प्राविशत्तत्र न्यवसत्पूजितस्सुखम् ।। १३२ ।।
धृतराष्ट्रस्य तनयां भगिनीं किन्नरस्य च ।।
ललिताख्यां गुणोपेतां प्रियां भेजे नृपात्मजः ।। ।। १३३ ।।
सा तस्माज्जनयामास पुत्रमप्रतिमौजसम् ।।
ततः सा ललिता प्राह त्वरितोदयनं प्रति ।। १३४ ।।
।। ललितोवाच ।। ।।
अहं विद्या धरी पूर्वं सुकर्णी नाम नामतः ।।
शापात्सर्पत्वमाप्तास्मि शापांतो गर्भ एष मे ।। १३५ ।।
ततोऽमुं प्रतिगृह्णीष्व पुत्रमप्रतिमौजसम् ।।
तांबूलीं स्रजमम्लानां वीणां घोषवतीमपि ।। १३६ ।।
तथेति प्रतिजग्राह तत्सर्वं नृपनंदनः.।।
पश्यतां सर्वसर्पाणां साप्यगच्छद्विहायसम् ।। १३७ ।।
ततः सोऽपि गृहीत्वा तु वीणां मालां च पुत्रकम् ।।
दुःखितामात्मजननीं द्रषुकामस्त्वरान्वितः ।। १३८ ।।
श्वशुरादीननुज्ञाप्य सहसा स्वाश्रमं ययौ ।।
जननीं शोकसंतप्तामाश्वस्तां जमदग्निना ।। १३९ ।।
समेत्य तोषयामास वृत्तं चास्यै न्यवेदयत् ।।
तदा प्रहृष्टहृदया सा बभूव मृगावती ।। 3.1.5.१४० ।।
अत्रांतरे स शबरः कौशांब्यां वणिजं ययौ ।।
सहस्रानीकनामांकं विक्रेतुं मणिकंकणम्।।१४१।।
राजमुद्रां समालोक्य कंकणे स वणिग्वरः ।।
शबरेण समं गत्वा सर्वं राज्ञे न्यवेदयत्।।१४२।।
ततः सहस्रानीकोऽयं तत्प्राप्य मणिकंकणम् ।।
मृगावतीविप्रयोगविषाग्निपरिपीडितः ।। १४३ ।।
तद्बाहुसंगपीयूष शीकरासारशीतलम्।।
कंकणं हृदये न्यस्य विललाप सुदुःखितः ।। १४४ ।।
उवाच च कथं लब्धं कंकणं शबर त्वया ।।
स चैवमुक्तस्तत्प्राप्ति क्रमं तस्मै न्यवेदयत् ।। १४५ ।।
शबरस्य वचः श्रुत्वा सहस्रानीकभूपतिः ।।
प्रतस्थे मंत्रिभिः सार्द्धं प्रियालोकनकौतुकी ।। १४६ ।।
यत्रेंदुभास्क रमुखा लभंते सहसोदयम् ।।
तमेव गिरिमुद्दिश्य सहसा सोऽभ्यगच्छत ।। १४७ ।।
किंचिन्मार्गं समुल्लंघ्य तस्थौ विश्रांतसैनिकः ।।
तस्मिन्विनिद्रे दयितासंगमध्यानतत्परे ।। १४८ ।।
वसंतको विचित्रास्तु कथयामास वै कथाः ।।
तत्कथाश्रवणेनैव तां रात्रिं स निनाय वै ।। १४९ ।।
ततः कालेन ककुभं प्राप्य जंभारिपालिताम् ।।
जमदग्न्याश्रमं गत्वा निर्वैरहरिकुंजरम् ।। 3.1.5.१५० ।।
तपस्यंतं मुनिं दृष्ट्वा शिरसा प्रणनाम सः ।।
आशीर्वादेन स मुनिः प्रतिजग्राह तं नृपम् ।। १५१ ।।
विधिवत्पूजयामास पाद्यार्घ्याचमनीयकैः ।।
उवाच च महीपालं धर्मार्थसहितं वचः ।। १५२ ।।
नरनाथ मृगावत्यां जातोऽयं तनयस्तव ।।
यशोनिधिर्महातेजा रामचंद्र इवापरः ।। १९३ ।।
भविष्यति दिशां जेता सिंहसंहननो युवा ।।
पौत्र एष महाभाग तथा द्युदयनात्मजः ।। १५४ ।।
इयं मृगावती भार्या पाति व्रत्यपरायणा ।।
तदेतांस्त्रीन्महाराज प्रतिगृह्णीष्व मा चिरम् ।। १५५ ।।
उक्त्वैवं मुनिना दत्तांस्तान्गृहीत्वा महीपतिः ।।
प्रियासहायः स्वपुरीं प्रतस्थे मंत्रिभिर्वृतः ।। १५६ ।।
ततः प्रविश्य कौशांबीं नगरीं स नृपोत्तमः ।।
स्मरञ्छक्रस्य वचनं मानुषं जन्म कुत्सयन् ।। १५७ ।।
महीमुदयनायैव ददौ पुत्राय धीमते ।।
तस्मिन्नुदयने पुत्र राज्यपालनदक्षिणे ।।१५८।।
राज्यभारं विनिक्षिप्य स शापविनिवृत्तये।।
वसंतकरुमण्वद्भ्यां मृगावत्या च भार्यया ।। १५९।।
यौगन्धरायणेनापि मंत्रिपुत्रेण संयुतः ।।
चक्रतीर्थे महापुण्ये दक्षिणस्योदधेस्तटे ।। 3.1.5.१६० ।।
स्नानं कर्तुं ययौ तूर्णं सर्वतीर्थोत्त मोत्तमे ।।
वाहनैर्वातरंहोभिरचिराल्लवणोदधिम् ।। १६१ ।।
संप्राप्य चक्रतीर्थं च स्नानं चक्रुर्यथाविधि ।।
तेषु च स्नातमात्रेषु चक्रतीर्थे नृपादिषु ।। ।।१६२।।
विनष्टं तत्क्षणादेव मानुष्यमतिकुत्सितम् ।।
ततो विधूतपापास्ते स्वं रूपं प्रतिपेदिरे ।।१६३।।
दिव्यांबरधराः सर्वे दिव्यमाल्यानुलेपनाः ।।
विमानानि महार्हाणि समारुह्य विभूषिताः ।। १६४ ।।
तत्तीर्थं बहु मन्वानाः स्वशापच्छेदकारणम् ।।
पश्यतां सर्वलोकानां स्वर्गलोकं ययुस्तदा ।। ।।१६५।।
तदाप्रभृति ते सर्वे ज्ञात्वा तत्तीर्थवैभवम् ।।
पावने चक्रतीर्थेऽस्मिन्स्नानं कुर्वंति सर्वदा ।।१६६।।
एवं प्रभावं तत्तीर्थं ये समागत्य मानवाः ।।
स्नानं सकृच्च कुर्वंति ते सर्वे स्वर्गवासिनः ।। १६७ ।।
एवं वः कथितं विप्रा विधूमचरितं महत् ।।
यः पठेदिममध्यायं शृणुयाद्वा समाहितः ।।
यं यं कामयते कामं तं सर्वं शीघ्रमाप्नुयात्।। १६८ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीयेब्रह्मखण्डे सेतुमाहात्म्ये चक्रतीर्थप्रशंसायामलंबुसाविधूमशापविमोचनंनाम पञ्चमोऽध्यायः ।। ५ ।। ।। छ ।।

तुलनीय - कथासरित्सागरे उदयनस्य जन्मकथा