कथासरित्सागरः/लम्बकः २/तरङ्गः १

विकिस्रोतः तः
Jump to navigation Jump to search

कथामुखं नाम द्वितीयो लम्बकः ।

इदं गुरुगिरीन्द्रजाप्रणयमन्दरान्दोलना-
त्पुरा किल कथामृतं हरमुखाम्बुधेरुद्गतम् ।
प्रसह्य रसयन्ति ये विगतविघ्नलब्धर्द्धयः
पुरं दधति वैबुधीं भुवि भवप्रसादेन ते ।।
गौरीनवपरिष्वङ्गे विभोः स्वेदाम्बु पातु वः ।
नेत्राग्निभीत्या कामेन वारुणास्त्रमिवाहितम् ।। १
कैलासे धूर्जटेर्वक्त्रात्पुष्पदन्तं गणोत्तमम् ।
तस्माद्वररुचीभूतात्काणभूतिं च भूतले ।। २
काणभूतेर्गुणाढ्यं च गुणाढ्यात्सातवाहनम् ।
यत्प्राप्तं शृणुतेदं तद्विद्याधरकथाद्भुतम् ।। ३
अस्ति वत्स इति ख्यातो देशो दर्पोपशान्तये ।
स्वर्गस्य निर्मितो धात्रा प्रतिमल्ल इव क्षितौ ।। ४
कौशाम्बी नाम तत्रास्ति मध्यभागे महापुरी ।
लक्ष्मीविलासवसतिर्भूतलस्येव कर्णिका ।। ५
तस्यां राजा शतानीकः पाण्डवान्वयसंभवः ।
जनमेजयपुत्रोऽऽभूत्पौत्रो राज्ञः परीक्षितः ।। ६
अभिमन्युप्रपौत्रश्च यस्यादिपुरुषोऽर्जुनः ।
त्रिपुरारिभुजस्तम्भदृष्टदोर्दण्डविक्रमः ।। ७
कलत्रं भूरभूत्तस्य राज्ञी विष्णुमती तथा ।
एका रत्नानि सुषुवे न तावदपरा सुतम् ।। ८
एकदा मृगयासङ्गाद्भ्राम्यतश्चास्य भूपतेः ।
अभूच्छाण्डिल्यमुनिना समं परिचयो वने ।। ९
सोऽस्य पुत्रार्थिनो राज्ञः कौशाम्बीमेत्य साधितम् ।
मन्त्रपूतं चरुं राज्ञीं प्राशयन्मुनिसत्तमः ।। १०
ततस्तस्य सुतो जज्ञे सहस्रानीकसंज्ञकः ।
शुशुभे स पिता तेन विनयेन गुणो यथा ।। ११
युवराजं क्रमात्कृत्वा शतानीकोऽथ तं सुतम् ।
संभोगैरेव राजाभून्न तु भूभारचिन्तनैः ।। १२
अथासुरैः समं युद्धे प्राप्ते साहायकेच्छया ।
दूतस्तस्मै विसृष्टोऽभूद्राज्ञे शक्रेण मातलिः ।। १३
ततो युगंधराख्यस्य हस्ते धूर्यस्य मन्त्रिणः ।
सुप्रतीकाभिधानस्य मुख्यसेनापतेश्च सः ।। १४
समर्प्य पुत्रं राज्यं च निहन्तुमसुरान्रणे ।
शक्रान्तिकं शतानीकः सह मातलिना ययौ ।। १५
असुरान्यमदंष्ट्रादीन्बहून्पश्यति वासवे ।
हत्वा तत्रैव सङ्ग्रामे प्राप मृत्युं स भूपतिः ।। १६
मातल्यानीतदेहं च देवी तं नृपमन्वगात् ।
राजलक्ष्मीश्च तत्पुत्रं सहस्रानीकमाश्रयत् ।। १७
चित्रं तस्मिन्समारूढे पित्र्यं सिंहासनं नृपे ।
भरेण सर्वतो राज्ञां शिरांसि नतिमाययुः ।। १८
ततः शक्रः सुहृत्पुत्रं विपक्षविजयोत्सवे ।
स्वर्गं सहस्रानीकं तं निनाय प्रेष्य मातलिम् ।। १९
स तत्र नन्दने देवान्क्रीडतः कामिनीसखान् ।
दृष्ट्वा स्वोचितभार्यार्थी राजा शोकमिवाविशत् ।। २०
विज्ञायैतमभिप्रायं तमुवाचाथ वासवः ।
राजन्नलं विषादेन वाञ्छेयं तव सेत्स्यति ।। २१
उत्पन्ना हि क्षितौ भार्या तुल्या ते पूर्वनिर्मिता ।
इमं च शृणु वृत्तान्तमत्र ते वर्णयाम्यहम् ।। २२
पुरा पितामहं द्रष्टुमगच्छं तत्सभामहम् ।
विधूमो नाम पश्चाच्च ममैको वसुरागमत् ।। २३
स्थितेष्वस्मासु तत्रैव विरिञ्चं द्रष्टुमप्सराः ।
आगादलम्बुषा नाम वातविस्रंसितांशुका ।। २४
तां दृष्ट्वैव स कामस्य वशं वसुरुपागमत् ।
साप्यप्सरा झगित्यासीत्तद्रूपाकृष्टलोचना ।। २५
तदालोक्य ममापश्यन्मुखं कमलसंभवः ।
अभिप्रायं विदित्वास्य तावहं शप्तवान्क्रुधा ।। २६
मर्त्यलोकेऽवतारोऽस्तु युवयोरविनीतयोः ।
भविष्यथश्च तत्रैव युवां भार्यापती इति ।। २७
स वसुस्त्वं समुत्पन्नः सहस्रानीकभूपते ।
शतानीकस्य तनयो भूषणं शशिनः कुले ।। २८
साप्यप्सरा अयोध्यायां कृतवर्मनृपात्मजा ।
जाता मृगावती नाम सा ते भार्या भविष्यति ।। २९
इतीन्द्रवाक्यपवनैरुद्भूतो हृदि भूपतेः ।
सस्नेहे तस्य झगिति प्राज्वलन्मदनानलः ।। ३०
ततः संमान्य शक्रेण प्रेषितस्तद्रथेन सः ।
सह मातलिना राजा प्रतस्थे स्वां पुरीं प्रति ।। ३१
गच्छन्तं चाप्सराः प्रीत्या तमुवाच तिलोत्तमा ।
राजन्वक्ष्यामि ते किंचित्प्रतीक्षस्व मनागिति ।। ३२
तदश्रुत्वैव हि ययौ स तां ध्यायन्मृगावतीम् ।
ततः सा लज्जिता कोपात्तं शशाप तिलोत्तमा ।। ३३
यया हृतमना राजन्न शृणोषि वचो मम ।
तस्याश्चतुर्दशसमा वियोगस्ते भविष्यति ।। ३४
मातलिस्तच्च शुश्राव स च राजा प्रियोत्सुकः ।
ययौ रथेन कौशाम्बीमयोध्यां मनसा पुनः ।। ३५
ततो युगंधरादिभ्यो मन्त्रिभ्यो वासवाच्छ्रुतम् ।
मृगावतीगतं सर्वं शशंसोत्सुकया धिया ।। ३६
याचितुं तां स कन्यां च तत्पितुः कृतवर्मणः ।
अयोध्यां प्राहिणोद्दूतं कालक्षेपासहो नृपः ।। ३७
कृतवर्मा च तद्दूताच्छ्रुत्वा संदेशमभ्यधात् ।
हर्षाद्देव्यै कलावत्यै ततः साप्येनमब्रवीत् ।। ३८
राजन्सहस्रानीकाय देयावश्यं मृगावती ।
इममर्थं च मे स्वप्ने जाने कोऽप्यवदद्द्विजः ।। ३९
अथ हृष्टो मृगावत्या नृत्तगीतादिकौशलम् ।
रूपं चाप्रतिमं तस्मै दूतायादर्शयन्नपः ।।४०
ददौ तां च स कान्तानां कलानामेकमास्पदम् ।
कृतवर्मा सुतां तस्मै राज्ञे मूर्तिमिवैन्दवीम् ।। ४१
परस्परगुणावाप्त्यै स श्रुतप्रज्ञयोरिव ।
अभूत्सहस्रानीकस्य मृगावत्याश्च संगमः ।। ४२
अथ तस्याचिराद्राज्ञो मन्त्रिणां जज्ञिरे सुताः ।
जज्ञे युगंधरस्यापि पुत्रो यौगन्धरायणः ।। ४३
सुप्रतीकस्य पुत्रश्च रुमण्वानित्यजायत ।
योऽस्य नर्मसुहृत्तस्य पुत्रोऽजनि वसन्तकः ।। ४४
ततस्तस्यापि दिवसैः सहस्रानीकभूपतेः ।
बभार गर्भमापाण्डुमुखी राज्ञी मृगावती ।। ४५
ययाचे साथ भर्तारं दर्शनातृप्तलोचनम् ।
दोहदं रुधिरापूर्णलीलावापीनिमज्जनम् ।। ४६
स चेच्छां पूरयन्राज्ञ्या लाक्षादिरसनिर्भराम् ।
चकार धार्मिको राजा वापीं रक्तावृतामिव ।। ४७
तस्यां स्नान्तीमकस्माच्च लाक्षालिप्तां निपत्य ताम् ।
गरुडान्वयजः पक्षी जहारामिषशङ्कया ।। ४८
पक्षिणा क्वापि नीतां तामन्वेष्टुमिव तत्क्षणम् ।
ययौ सहस्रानीकस्य धैर्यं विह्वलचेतसा ।। ४९
प्रियानुरक्तं चेतोऽपि नूनं तस्य पतत्त्रिणा ।
जह्रे येन स निःसंज्ञः पपात भुवि भूपतिः ।। ५०
क्षणाच्च लब्धसंज्ञेऽस्मिन्राज्ञि बुद्ध्वा प्रभावतः ।
अवतीर्य द्युमार्गेण तत्र मातलिराययौ ।। ५१
स राजानं समाश्वास्य सावधिं प्राग्यथा श्रुतम् ।
तस्मै तिलोत्तमाशापं कथयित्वा ततोऽगमत् ।। ५२
हा प्रिये पूर्णकामा सा जाता पापा तिलोत्तमा ।
इत्यादि च स शोकार्तो विललाप महीपतिः ।। ५३
विज्ञातशापवृत्तान्तो बोधितश्च स मन्त्रिभिः ।
कथंचिज्जीवितं दध्रे पुनः संगमवाञ्छया ।। ५४
तां च राज्ञीं स पक्षीन्द्रः क्षणान्नीत्वा मृगावतीम् ।
जीवन्तीं वीक्ष्य तत्याज दैवादुदयपर्वते ।। ५५
त्यक्त्वा तस्मिन्गते चाथ राज्ञी शोकभयाकुला ।
ददर्शानाथमात्मानं दुर्गमाद्रितटस्थितम् ।। ५६
एकाकिनीमेकवस्त्रां क्रन्दन्तीमथ तां वने ।
ग्रासीकर्तुं प्रवृत्तोऽभूदुत्थायाजगरो महान् ।। ५७
निहत्याजगरं तं च शुभोदर्का तथैव सा ।
दिव्येन मोचिता पुंसा दृष्टनष्टेन केनचित् ।। ५८
ततो वनगजस्याग्रे सा स्वयं मरणार्थिनी ।
आत्मानमक्षिपत्सोऽपि ररक्ष दययेव ताम् ।। ५९
चित्रं यच्छ्वापदोऽप्येनां पतितामपि गोचरे ।
नावधीदथवा किं हि न भवेदीश्वरेच्छया ।। ६०
अथ प्रपाताभिमुखी बाला गर्भभरालसा ।
स्मरन्ती तं च भर्तारं मुक्तकण्ठं रुरोद सा ।। ६१
तच्छ्रुत्वा मुनिपुत्रोऽथ तत्रैकस्तां समाययौ ।
आगतः फलमूलार्थं शुचं मूर्तिमतीमिव ।। ६२
स च पृष्ट्वा यथावृत्तमाश्वास्य च कथंचन ।
जमदग्न्याश्रमं राज्ञीं निनायैनां दयार्द्रधीः ।। ६३
तत्र मूर्तमिवाश्वासं जमदग्निं ददर्श सा ।
तेजसा स्थिरबालार्कं कुर्वाणमुदयाचलम् ।। ६४
सोऽपि तां पादपतितां मुनिराश्रितवत्सलः ।
राज्ञीं वियोगदुःखार्तां दिव्यदृष्टिरभाषत ।। ६५
इह ते जनिता पुत्रि पुत्रो वंशधरः पितुः ।
भविष्यति च भर्ता ते संगमो मा शुचं कृथाः ।। ६६
इत्युक्ता मुनिना साध्वी सा जग्राह मृगावती ।
आश्रमेऽवस्थितिं तस्मिन्नाशां च प्रियसंगमे ।। ६७
ततश्च दिवसैस्तत्र श्लाघनीयमनिन्दिता ।
सत्संगतिरिवाचारं पुत्ररत्नमसूत सा ।। ६८
श्रीमानुदयनो नाम्ना राजा जातो महायशाः ।
भविष्यति च पुत्रोऽस्य सर्वविद्याधराधिपः ।। ६९
इत्यन्तरिक्षादुदभूत्तस्मिन्काले सरस्वती ।
आदधाना मृगावत्याश्चित्तविस्मृतमुत्सवम् ।। ७०
क्रमादुदयनः सोऽथ बालस्तस्मिंस्तपोवने ।
अवर्धत निजैः सार्धं वयस्यैरिव सद्गुणैः ।। ७१
कृत्वा क्षत्रोचितान्सर्वान्संस्काराञ्जमदग्निना ।
व्यनीयत स विद्यासु धनुर्वेदे च वीर्यवान् ।। ७२
कृष्ट्वा च स्वकरान्माता तस्य स्नेहान्मृगावती ।
सहस्रानीकनामाङ्कं चकार कटकं करे ।। ७३
हरिणाखेटके जातु भ्राम्यन्नुदयनोऽथ सः ।
शबरेण हठाक्रान्तमटव्यां सर्पमैक्षत ।। ७४
सदयः सुन्दरे तस्मिन्सर्पे तं शबरं च सः ।
उवाच मुच्यतामेष सर्पो मद्वचनादिति ।। ७५
ततः स शबरोऽवादीज्जीविकेयं मम प्रभो ।
कृपणोऽहं हि जीवामि भुजगं खेलयन्सदा ।। ७६
विपन्ने पन्नगे पूर्वं मन्त्रौषधिबलादयम् ।
वष्टब्धश्च मया लब्धश्चिन्वतैतां महाटवीम् ।। ७७
श्रुत्वेत्युदयनस्त्यागी दत्त्वास्मै शबराय तम् ।
कटकं जननीदत्तं स तं सर्पममोचयत् ।। ७८
गृहीतकटके याते शबरे पुरतो गतिम् ।
कृत्वा स भुजगः प्रीतो जगादोदयनं तदा ।। ७९
वसुनेमिरिति ख्यातो ज्येष्ठो भ्रातास्मि वासुकेः ।
इमां वीणां गृहाण त्वं मत्तः संरक्षितात्त्वया ।। ८०
तन्त्रीनिर्घोषरम्यां च श्रुतिभागविभाजिताम् ।
ताम्बूलीश्च सहाम्लानमालातिलकयुक्तिभिः ।। ८१
तद्युक्तो जमदग्नेस्तं नागोत्क्षिप्तः स चाश्रमम् ।
आगादुदयनो मातुर्दृशि वर्षन्निवामृतम् ।। ८२
अत्रान्तरे स शबरोऽप्यटवीं प्राप्य पर्यटन् ।
आदायोदयनात्प्राप्तं कटकं तद्विधेर्वशात् ।। ८३
विक्रीणानश्च तत्तत्र राजनामाङ्कमापणे ।
वष्टभ्य राजपुरुषैर्निन्ये राजकुलं च सः ।। ८४
कुतस्त्वयेदं कटकं संप्राप्तमिति तत्र सः ।
राज्ञा सहस्रानीकेन स्वयं शोकादपृच्छत ।। ८५
अथोदयाद्रौ सर्पस्य ग्रहणात्प्रभृति स्वकम् ।
कटकप्राप्तिवृत्तान्तं शबरः स जगाद तम् ।। ८६
तद्बुद्ध्वा शबराद्दृष्ट्वा दयितावलयं च तम् ।
विचारदोलामारोहत्सहस्रानीकभूपतिः ।। ८७
क्षीणः शापः स ते राजन्नुदयाद्रौ च सा स्थिता ।
जमदग्न्याश्रमे जाया सपुत्रा ते मृगावती ।। ८८
इति दिव्या तदा वाणी नन्दयामास तं नृपम् ।
विप्रयोगनिदाघार्तं वारिधारेव बर्हिणम् ।। ८९
अथोत्कण्ठादीर्घे कथमपि दिनेऽस्मिन्नवसिते तमेवाग्रे कृत्वा शबरमपरेद्युः स नृपतिः ।
सहस्रानीकस्तां सरभसमवाप्तुं प्रियतमां प्रतस्थे तत्सैन्यैः सममुदयशैलाश्रमपदम् ।। ९०
इति महाकविश्रासोमदेवभट्टविरचिते कथासरित्सागरे कथामुखलम्बके प्रथमस्तरङ्गः ।

तुलनीय- स्कन्दपुराणे उदयनोत्पत्तिः

उदय एवं उदयनोपरि टिप्पणी