स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वैशाखमासमाहात्म्यम्/अध्यायः २३

विकिस्रोतः तः
Jump to navigation Jump to search

।। ।। श्रुतदेव उवाच ।। ।।
अथातः संप्रवक्ष्यामि माहात्म्यं पापनाशनम् ।।
अक्षय्यायास्तृतीयायाः सिते पक्षे च माधवे ।। १ ।।
ये कुर्वंति च तस्यां वै प्रातः स्नानं भगोदये ।।
ते सर्वे पापनिर्मुक्ता यांति विष्णोः परं पदम् ।। २ ।।
देवान्पितॄन्मुनीन्यस्तु कुर्यादुद्दिश्य तर्पणम् ।।
तेनाऽधीतं च तेनेष्टं तेन श्राद्धशतं कृतम् ।। ३ ।।
मधुसूदनमभ्यर्च्य कथां शृण्वंति ये नराः ।।
अक्षय्यायां तृतीयायां ते नरा मुक्तिभागिनः ।। ।। ४ ।।
ये दानं तत्र कुर्वंति मधुद्विट्प्रीतये शुभम् ।।
तदक्षय्यं फलत्येव मधुशासनशासनात् ।। ५ ।।
देवर्षिपितृदैवत्या तिथिरेषा महाशुभा ।।
त्रयाणां तृप्तिदात्री च कृते धर्मे सनातने ।। ६ ।।
प्रख्यातिश्च तिथेरस्याः केन चास्ति तदप्यहम्।।
वक्ष्यामि नृपशार्दूल सावधानमनाः शृणु ।। ।। ७ ।।
पुरा पुरंदरस्याऽऽसीद्युद्धं च बलिना सह ।।
देवानां चैव दैत्यानां द्वंद्वं युद्धमभूत्ततः ।। ८ ।।
स निर्जित्य बलिं दैत्यं पातालतलवासिनम्।।
पुनर्भुवं समासाद्य चोतथ्यस्याऽऽश्रमं ययौ ।। ९ ।।
तत्रापश्यच्च तत्पत्नीं गुर्विणीं मंदगामिनीम्।।
चलच्छ्रोणितटाबद्ध कांचीदाम्ना सुमंडिताम् ।। 2.7.23.१० ।।
क्वणत्कंकणनिर्घोष जितमत्तालिकोकिलाम् ।।
वल्गुचित्रांबरां रामां मंजुवाचं शुचिस्मिताम् ।। ११ ।।
लसत्कुंभस्थलाभ्यां च कुचाभ्यामुपशोभिताम् ।।
हसत्पद्ममुखां दिव्यां नीलोत्पलसुलोचनाम्।। १२ ।।
केतक्युदरपांडुभ्यां गंडाभ्यां च मनोरमाम् ।।
श्रमोच्छ्वसंतीं दीनाक्षीं पर्णशालामुखे स्थिताम् ।। १३ ।।
स्वपतीं शयने क्वाऽपि तां दृष्ट्वा मोहमागतः ।।
बलात्कारेण बुभुजे गुर्विणीं पाकशासनः।।१४ ।।
गर्भस्थस्तु तदा पिंडः स्वस्य पातविशंकया ।।
छादयामास वै योनिं द्वारे पादेन दुःखितः ।। १५ ।।
ततश्चस्कन्द वीर्यं तद्भूमावेव बलिद्विषः ।।
गर्भस्थाय चुकोपासौ भगवान्पाकशासनः ।। १६ ।।
तं शशाप च गर्भस्थं रुषा ताम्रांतलोचनः ।।
जात्यन्धो भव दुर्बुद्धे माऽवमंस्था यतः पदा ।। १७ ।।
प्रच्छाद्य योनिद्वारं च ततो दीर्घतपाह्वयः ।।
पदा प्रस्कंदिताद्वीर्याज्जालतः समजायत ।। १७ ।।
पश्चादिंद्रो ययौ शीघ्रमृषेः शाप विशंकितः ।।
पलायंतं हरिं दृष्ट्वा जहसुर्बटवोऽखिलाः ।। १९ ।।
ततस्तु व्रीडितो भूत्वा ययौ मेरोर्गुहां शुभाम् ।।
तत्र लीनश्चचाराऽसौ दुस्तरं वै तपो महत् ।। 2.7.23.२० ।।
मेरौ विलीय वसति देवेन्द्रे लज्जयाऽन्विते ।।
गूढैर्विज्ञाय तां वार्तां दैतेया बलिपूर्वकाः ।। २१ ।।
सुरानाक्रम्य बुभुजुर्बलींद्रश्चामरावतीम् ।।
दिक्पालानां विभूतीश्च शंबराद्या बलीयसः ।। २२ ।।
बलाद्बुभुजिरे हीननाथे राष्ट्रे दिवौकसाम् ।।
रक्षितारमजानंतो देवाश्चाग्निपुरोगमाः ।। २३ ।।
पप्रच्छुर्धिषणं देवं देवाचार्यमकल्मषम् ।।
पप्रच्छुरिंद्रवृत्तांतं क्व स्वित्तिष्ठति नः प्रभुः ।। २४ ।।
दैत्याक्रांतमिदं राष्ट्रं हीननाथं दिवौकसाम् ।।
कुतो नाऽऽयाति देवोऽसौ भूयान्कालो गतो विभो ।। २५ ।।
तं यामो यत्र धिषण प्रार्थयामश्च तं विभुम् ।।
इति पृष्टस्तदा देवैर्धिषणस्तानुवाच ह ।। २६ ।।
रसातले बलिं जित्वा चोतथ्यस्याऽऽश्रमं ययौ ।।
भुक्त्वा पत्नीं च दार्ढ्येन तच्छिष्यैरेव निन्दितः ।। २७ ।।
व्रीडितस्तु दिवं यातुं गुहां मेरोर्विवेश ह ।।
तत्रैवाऽऽस्ते शचीयुक्तः स्वकृतं चिन्तयन्विभुः ।। २८ ।।
इति तस्य वचः श्रुत्वा देवा अग्निपुरोगमाः ।।
गुहां मेरोर्ययुः शीघ्रं दृष्ट्वा प्रार्थयितुं विभुम् ।। २९ ।।
तत्र दृष्ट्वा गुहालीनं देवेन्द्रं पाकशासनम् ।।
तुष्टुवुर्विविधैः स्तोत्रैस्तद्वीर्यैर्लोकविश्रुतैः ।। 2.7.23.३० ।।
इंद्र तुभ्यं नमस्तेऽस्तु सर्वदेवाऽधिपाय ते ।।
वयं दैत्यैरर्दिताश्च त्वया हीना भृशार्दिताः ।। ३१ ।।
स्थानभ्रष्टाश्चरामोंऽग नानादेशेषु दुःखिताः ।।
तस्मादागत्य देवेन्द्र जहि शत्रूनरिंदम ।। ३२ ।।
इति स्तुतस्तदा देवैर्निश्चक्राम गुहामुखात् ।।
लज्जया ऽवनतो भूत्वा पश्यन्भूमिं च चक्षुषा ।। ३३ ।।
न किंचिदपि चोवाच दुःखाद्गद्गदभाषणः ।।
तऽऽज्ञात्वा धिषणः प्राह तं सुरेन्द्रं भयानकम् ।।३४।।
मा शंका ते सुरपते कर्माधीनमिदं जगत्।।
मानामानौ सुखं दुःखं लाभालाभौ जयाजयौ।। ३५।।
पूर्वकर्मानुरोधेन भवंत्येते न संशयः।।
जीवः कर्मानुगो दुःखं दिष्टं दैवेन कालतः।। ३६।।
प्राज्ञाः प्रायो न शोचंति न प्रहृष्यंति वै सुखात्।।
तस्मात्प्रारब्धतः प्राप्तं दुःखं चेदं तव प्रभो।। ।। ३७ ।।
तत्प्राप्य मघवन्दुःखं नैव शोचितुमर्हसि ।।
इत्युक्तो गुरुणा चाह मघवानमराधिपान् ।। ३८ ।।
।। इन्द्र उवाच ।।
परस्त्रीसंगदोषेण बलं वीर्यं यशोऽमलम् ।।
मंत्रशक्तिःशास्त्रशक्तिर्विद्याशक्तिश्च मानद ।। ३९ ।।
अभवन्नष्टवीर्यं मे तूष्णीं तेन वसाम्यहम् ।।
पाकशासनवाक्यं तु श्रुत्वा स्वाचार्यसंयुऽताः ।। 2.7.23.४० ।।
मंत्रयामासुरेकान्ते पुनस्तस्य बलाप्तये ।।
तदा गुरुश्च तान्प्राह करुणं च विदुत्तमः ।। ४१ ।।
बृहस्पतिरुवाच।।
मासो वैशाखनामाऽयं प्रियो वै मधुघातिनः।।
सर्वाश्च तिथयः पुण्या मासेऽस्मिन्माधवप्रिये।।४२।।
तत्राऽपि च सिते पक्षे मासेऽस्मिन्नक्षयाह्वया ।।
या तस्यां स्नानदानादि श्रद्धया च करोति वै ।।४३।।
तस्य पापसहस्राणि नश्यंत्येव न संशयः।।
अनवद्यं तथैश्वर्यं बलं धैर्यं भवंति च ।।४४।।
तस्मात्तस्यां तृतीयायां हरिणा बलविद्विषा ।।
स्नानदानादिसद्धर्मान्कारयामो हिताऽऽप्तये ।।४५।।
भविष्यति च सा शक्तिर्विद्याया मन्त्रशास्त्रयोः ।।
बलं धैर्यं यशश्चैव यथापूर्वं भविष्यति ।। ४६ ।।
इत्येवं तु विचार्याथ गुरुर्देवैः समाहितः ।।
इन्द्रेण कारयामास धर्मानेतान्हरिप्रियान्।। ४७ ।।
अक्षय्यायां तृतीयायां भुक्तिमुक्तिफलप्रदान् ।।
तेन पूर्ववदेवाऽऽसीद्बलं धैर्यादिकं विभोः ।। ।। ४८ ।।
परस्त्रीसंगदोषोऽपि सद्य एव व्यलीयत ।।
पश्चाद्धताशुभः शक्रो राहोर्मुक्त इवोडुपः ।। ४९ ।।
देवतानां तथा मध्ये शुशुभे च हरिर्यथा ।।
पश्चाद्देवैः समायुक्तो विनिर्जित्य तथाऽसुरान् ।। 2.7.23.५० ।।
तृतीयायाश्च माहात्म्याद्भाग्ययुक्तोऽमरावतीम् ।।
विवेश विभवैः सार्द्धं शंखतूर्यादिनिःस्वनैः ।। ५१ ।।
अनुज्ञाताश्च शक्रेण स्वधामानि ययुः सुराः ।।
ततस्ते यज्ञभागांश्च लेभिरे च यथा पुरा ।। ५२ ।।
पिंडभागांश्च पितरो यथापूर्वं प्रपेदिरे ।।
स्वाध्याये मुनयस्तुष्टा दैत्यानां च पराजयः ।। ५३ ।।
तदा प्रभृति लोकेऽस्मिंस्तृतीया चाऽक्षयाऽऽह्वया ।।
प्रख्याता सर्वलोकेषु देवर्षिपितृतुष्टिदा ।।५४।।
तस्मात्पुण्यतमा चैषा सर्वकर्मनिकृंतनी ।।
भुक्तिमुक्तिप्रदा नृणां तृतीया चाऽक्षयाऽऽह्वया ।। ५५ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे वैशाखमासमाहात्म्ये नारदाम्बरीषसंवादेऽक्षय्यतृतीयायाः श्रेष्ठत्वकथनं नाम त्रयोविंशोऽध्यायः ।।२३।।