स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वैशाखमासमाहात्म्यम्/अध्यायः २२

विकिस्रोतः तः
Jump to navigation Jump to search

।। मैथिलेय उवाच ।। ।।
का ह्यस्मिंस्तिथयः पुण्या मासे वैशाखसंज्ञके ।।
कानि दानानि शस्तानि तासु तासु विशेषतः ।। १ ।।
काः प्रख्याताश्च वै लोक एतदाचक्ष्व विस्तरात् ।।
।। श्रुतदेव उवाच ।। ।।
त्रिंशच्च तिथयः पुण्या वैशाखे मेषगे रवौ ।। २ ।।
एकादश्यां कृतं पुण्यं कोटिकोटिगुणं भवेत् ।।
सर्वदानेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम् ।। ३ ।।
समवाप्नोति वैशाख एकादश्यां जलाप्लुतः ।।
स्नानं दानं तपो होमो देवतार्चनसत्क्रियाः ।। ४ ।।
कथायाः श्रवणं चैव सद्यो मुक्तिविधायकम् ।।
रोगाद्युपहतो यस्तु दारिद्र्येणाऽपि पीडितः ।। ५ ।।
श्रुत्वा कथामिमां पुण्यां कृतकृत्यो भवेन्नरः ।।
अस्नात्वा चाप्यदत्त्वा च येन नीता इमाः शुभाः ।। ६ ।।
स गोघ्नश्च कृतघ्नश्च पितृघ्नश्च महान्स्मृ तः ।।
जलाशयाश्च स्वाधीनाः स्वाधीनं च कलेवरम् ।।७।।
माधवो मनसा सेव्यः कालश्च सुगुणोत्तमः ।।
साधवश्च दयावंतः को न सेवेत माधवम् ।। ८ ।।
दरिद्रैश्च धनाढ्यैश्च पंगुभिश्चांधकैस्तथा ।।
षंढैश्च विधवाभिश्च नारीभिश्च नरैस्तथा ।। ९ ।।
कुमारयुववृद्धैश्च रोगार्तैरपि भूमिप ।।
अतीवसुखसाध्यो हि धर्मो वैशाखगोचरः ।। 2.7.22.१० ।।
मासमेनमनुप्राप्य धर्मान्कुरु इमाञ्च्छुभान् ।।
को न यत्नं च कुरुते तस्मात्को न्वपरः शुभः ।। ११ ।।
योऽतीव सुलभान्धर्मान्न करोति नराऽधमः ।।
तस्यैव सुलभा लोका नारका नात्र संशयः ।। १२ ।।
अथातः संप्रवक्ष्यामि तस्मिन्मासे च कोत्तमा ।।
तां तिथिं सर्वपापघ्नीं दध्नः सारमिवोद्धृताम् ।।१३।।
चैत्रे मासि महापुण्ये मेषसंस्थे दिवाकरे ।।
पापघ्नी पितृदैवत्या गयाकोटिफलप्रदा ।। १४ ।।
अत्रैव श्रूयते पुण्या पितृगाथा पुरातनी ।।
शृणु तां सत्कथां राजन्सावर्णौ शासति क्षितिम् ।। १५ ।।
त्रिंशत्कलियुगस्यांते सर्वधर्मविवर्जिते ।।
आनर्ते तु द्विजः कश्चिद्धर्मवर्ण इति श्रुतः ।। १६ ।।
दृष्ट्वा कलियुगे राजञ्जनान्पापरतान्मुनिः ।।
तस्यैव प्रथमे पादे वर्णधर्मविवर्जिते ।।१७।।
स कदाचित्सत्रयागं मुनीनां तु महात्मनाम् ।।
अगमत्पुष्करे क्षेत्रे कुर्वतां मौनधारिणाम् ।।१८।।
तत्र चासन्पुण्यकथा ऋषीणां शास्त्रगोचराः।।
तत्र केचित्कलियुगं प्रशशंसुर्धृतव्रताः ।।१९।।
कृते यद्वत्सरात्साध्यं पुण्यं माधवतोषणम् ।।
त्रेतायां मासतः साध्यं द्वापरे पक्षतो नृप ।। 2.7.22.२० ।।
तस्माद्दशगुणं पुण्यं कलौ विष्णुस्मृतेर्भवेत् ।।
अत्यल्पमपि वै पुण्यं कलौ कोटिगुणं भवेत् ।। २१ ।।
दया पुण्यविहीने तु दानधर्मविवर्जिते ।।
दयादानं च कुरुते सकृदुच्चार्य वै हरिम् ।। २२ ।।
स एव चोर्ध्वगो नूनं दुर्भिक्षे चान्नदस्तथा ।।
एतत्प्रसंगावसरे नारदोऽभ्येत्य वै मुनिः ।। २३ ।।
करेणैकेन शिश्नं च जिह्वां चैकेन वै हसन् ।।
प्रगृह्योन्मत्तवत्तत्र ननर्त मुनिसत्तमः ।। २४ ।।
सभ्यास्तदा तमित्यूचुः किमेतदिति नारद ।।
प्रत्युवाच स तान्सर्वान्नृत्यं कुर्वन्हसन्सुधीः ।। २५४
संतोषाद्यदिह प्रोक्तं नृत्यद्भिर्भावितात्मभिः ।।
सिद्धा वयं न संदेहः पुण्योऽयं कलिरागतः ।। २६ ।।
तत्सत्यं न च संदेहो बहु स्वल्पेन साध्यते ।।
स्मरणात्तोषमायाति केशवः क्लेशनाशनः ।। २७ ।।
तथापि वः प्रवक्ष्यामि दुर्घटं च द्वयं धुवम् ।।
शिश्नस्य निग्रहः पुत्रा जिह्वाया अपि नित्यशः ।। २८ ।।
द्वयं यद्धि भवेद्यस्य स एव स्याज्जनार्दनः ।।
भवद्भिर्नात्र स्थातव्यं तस्मात्कलियुगागमे ।। २९ ।।
पाखंडं भारतं हित्वा संचरध्वं यथासुखम् ।।
यत्र कुत्रापि देशेषु मनो यत्र प्रसीदति ।। 2.7.22.३० ।।
इति तद्वचनं श्रुत्वा मुनयः शंसितव्रताः ।।
सत्रं समाप्य सहसा ययुस्ते च यथासुखम् ।। ३१ ।।
धर्मवर्णोऽपि तच्छ्रुत्वा त्यक्तुं भूमिं मनो दधे ।।
स व्रतं चोर्ध्वतेजस्कं धृत्वा दण्डकमडलू ।। ३२ ।।
जटावल्कलधारी च भूत्वा चैवं ययौ पुनः ।।
कलौ युगे त्वनाचारान्द्रष्टुं विस्मितमानसः ।। ३३ ।।
तत्राऽपश्यज्जनान्घोरान्पापाचाररतान्खलान् ।।
पाखण्डिनो द्विजाः सर्वे शूद्राः प्रव्राजिनस्तथा ।। ३४ ।।
भर्तारं द्वेष्टि भार्या च शिष्यो द्वेष्टि गुरुं तथा ।।
भृत्यश्च स्वामिहंता च पुत्रः पितृवधे रतः ।। ३५ ।।
शूद्रप्राया द्विजाः सर्वे बस्तप्रायाश्च धेनवः ।।
गाथाप्रायास्तथा वेदाः क्रियासाम्याः शुभाः क्रियाः ।। ३६ ।।
भूतप्रेतपिशाचाद्याः फलदास्तत्र देवताः ।।
ता एव श्रद्धयाऽर्चंति जनाः पापरताः शिताः ।। ३७ ।।
सर्वे व्यवायनिरतास्तदर्थे त्यक्तजीविताः ।।
कूटसाक्ष्यप्रवक्तारः सदा कैतवमानसाः ।। ३८ ।।
मनस्येकं वचस्येकं कर्मण्येकं सदा कलौ ।।
सर्वेषां हैतुकी विद्या सा पूज्या नृपमंदिरे ।। ३९ ।।
गीताद्याश्च कला विद्या नृपाणां च प्रियावहाः ।।
हीनाश्च पूज्यतां यांति नोत्तमाश्च कलौ युगे ।। 2.7.22.४० ।।
श्रोत्रियाश्च द्विजाः सर्वे दरिद्राः स्युः कलौ युगे ।।
विष्णुभक्तिर्नराणां तु प्रायशो नैव वर्तते ।।४१।।
प्रायः पाखंडभूयिष्ठं पुण्यक्षेत्रं भविष्यति ।।
शूद्रा धर्मप्रवक्तारो जटिलास्तापसाः कलौ ।।४२।।
सर्वे चाल्पायुषो मर्त्या दयाहीना शठा जनाः ।।
सर्वे धर्मप्रवक्तारः सर्वे च ग्रहणोत्सवाः ।। ४३ ।।
स्वार्चनं चाऽपि हीच्छंति वृथा निन्दापरायणाः ।।
असूयानिरताः सर्वे प्रभोः स्वगृहमागते ।। ४४ ।।
भ्राता च भगिनीगंता पिता पुत्रीं च वै कलौ ।।
सर्वेऽपि शूद्रीनिरताः सर्वे वारांगनारताः ।। ४५ ।।
साधून्नैव विजानंति बहुपापांश्च मन्यते ।।
व्यक्तीकुर्वंति साधूनां दोषमेकं दुराग्रहाः ।। ४६ ।।
पापानां दोषजातानि गुणत्वेन वदन्ति हि ।।
दोषमेव प्रगृह्णंति कलौ तु विगुणा जनाः ।।४७।।
जलौका धर्मसंयुक्ता रक्तं पिवति नो पयः ।।
औषध्यः सत्त्वहीना हि ऋतून् व्यत्ययास्तथा ।। ४८ ।।
दुर्भिक्षं सर्वराष्ट्रेषु कन्या काले न सूयते ।।
नटनर्तकविद्यासु प्रीतिमन्तो नराः कलौ ।। ४९ ।।
वेदवेदांतविद्यासु निरता ये गुणाधिकाः ।।
भृत्यान्पश्यंति तान्मूढास्ते भ्रष्टाश्चाखिला नृप ।। 2.7.22.५० ।।
त्यक्तश्राद्धक्रियाः सर्वे त्यक्तवेदोदितक्रियाः ।।
जिह्वायां विष्णुनामानि न वर्तंते कदाचन ।।
शृंगाररस निर्वाणास्तद्गीतान्येव ते जगुः ।।५१।।
न विष्णुसेवा न च शास्त्रवार्ता न यागदीक्षा न विचारलेशः ।।
न तीर्थयात्रा न च दानधर्माः कलौ जने क्वाऽपि बभूव चित्रम् ।। ५२ ।।
तान्दृष्ट्वा घर्मवर्णोऽपि सुभीतोऽत्यन्तविस्मितः ।।
वंशं पापात्क्षयं यांतं दृष्ट्वा द्वीपांतरं ययौ ।। ५३ ।।
स चरन्सर्वद्वीपेषु लोकेष्वेव तु सर्वशः ।।
पितृलोकं ययौ धीमान्कदाचित्कौतुकान्वितः ।। ५४ ।।
तत्राऽपश्यन्महाघोराञ्च्छ्राम्यमाणांश्च कर्मभिः ।।५५।।
धावतो रुदमानांश्च पततः पतितानपि ।।
तत्रापश्यच्चान्धकूपे पतितान्स्वान्पितॄनधः ।। ५६ ।।
दूर्वाग्रलंबिनो दीनान्दूर्वाच्छेदे हि शंकितान् ।।
तदा प्राप्तः कोऽपि चाखुर्दूर्वामूलं तदाश्रयम् ।। ५७ ।।
तेन भागत्रयं चात्तमेको भागोवशेषितः ।।
तं दृष्ट्वा ते क्षीयमाणं मूलं दुःखेन कर्षिणः ।। ।। ५८ ।।
अधो दृष्ट्वा चांऽधकूपं तटपातादिभीषणम् ।।
दुरुत्तारं महाघोरं कर्मणाप्तं सुदुःखिताः ।। ५९ ।।
अग्रे चाऽपि दुरुत्तारमवलंबविवर्जितम् ।।
तान्द्रष्ट्वा विस्मितो भूत्वा दयालुर्वाक्यमब्रवीत् ।।2.7.22.६०।।
के यूयं पतिता ह्यस्मिन्केन दुस्तरकर्मणा ।।
कस्य गोत्रे समुत्पन्नाः कथं वो मुक्तिरूर्जिता ।। ६१ ।।
एतद्यूयं वदध्वं मे शर्म वोऽथ भविष्यति ।।
इत्येवमुदितास्तेन पितरोऽथ सुदुःखिताः ।। ६२ ।।
तमूचुः करुणां वाचं धर्मश्रुति पुरःसराः ।।
।। पितर ऊचुः ।। ।।
वयं श्रीवत्सगोत्रीया भुवि सन्तानवर्जिताः ।। ६३ ।।
पिंडश्राद्धविहीनाश्च तेन पच्यामहे वयम् ।।
निःसन्तानोऽपि नो वंशो जातः पापैः कलौ युगे ।।६४।।
नाऽस्माकं पिंडदश्चास्ति वंशे पापात्क्षयं गते।।
तेनांऽधकूपे पतनं निस्तंतूनां दुरात्मनाम् ।।६५।।
एको हि वर्तते वंशे धर्मवर्णो महायशाः ।।
स विरक्तश्चरन्नेको न गार्हस्थमुपेयिवान् ।। ६६ ।।
तंतुना तेन बिभ्रामो दूर्वानालावलंबिताः ।।
निस्तंतुत्वाच्च तन्मूलमाखुः खादति प्रत्यहम् ।। ६७ ।।
एकस्यैवाऽवशिष्टत्वात्किंचिन्नलोऽवशेषितः ।।
आखुना खाद्यमानश्च वर्तते सौम्य पश्यताम् ।। ।। ६८ ।।
तस्य चाऽऽयुःक्षये तात शेषमाखुर्हरिष्यति ।।
पश्चात्कूपे पतिष्यामो दुरुत्तारेंऽधतामसे ।। ६९ ।।
तस्मात्त्वं च भुवं गत्वा धर्मवर्णं प्रबोधय ।।
अस्मद्वाक्यैर्दयापात्रैर्गार्हस्थ्यं विमुखं मुनिम् ।। 2.7.22.७० ।।
पितरस्ते भृशाऽर्ता हि नरके पतिता मया ।।
अन्धकूपे दुरुत्तारे दृष्टा दूर्वावलंबिताः ।। ७१ ।।
सा दूर्वा वंशरूपा हि तन्मूलं सततं मुने ।।
कालाख्यो मूषकस्तस्य मूलं खादति प्रत्यहम् ।। ७२ ।।
वंशनाशोऽनुक्रमत एकस्त्वं त्ववशेषितः ।।
तेन मूलस्य दूर्वाया नष्टं भागत्रयं मुने ।।७३।।
एको भागोऽवशिष्टोऽत्र यतस्त्वं वर्तसे भुवि ।।
किंचित्खादति वै त्वाऽऽखुस्तव चाऽऽयुःक्षयक्रमात् ।। ७४ ।।
परेते त्वयि चाऽस्माकं तवाऽपि पतनं भवेत् ।।
कूप एवान्धतामिस्रे संतानेऽपि क्षयं गते ।। ७५ ।।
तस्माद्गार्हस्थ्यमासाद्य कुरु संततिवर्धनम्।।
तेनाऽस्माकं तवाऽपि स्याद्गतिरूर्ध्वा न संशयः ।। ७६।।
एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् ।।
यजेत वाऽश्वमेधं च नीलं वा वृषमुत्सृजेत् ।। ७७ ।।
यद्येकोऽपि च वैशाखे माघे वा कार्तिकेऽपि च ।।
अस्मानुद्दिश्य वै स्नानं श्राद्धं दानं करिष्यति ।। ७८ ।।
तेन चोर्ध्वगतिर्भूयान्नरकादुद्धृतिश्च नः ।।
एको वा विष्णुभक्तः स्यादेको वा हरिवासरी ।। ७९ ।।
एको वा शृणुयाद्विष्णोः कथां पापविनाशनीम् ।।
तस्यातीतं कुलशतं भावि चाऽपि कुलं शतम् ।। 2.7.22.८० ।।
अपि पापवृतं क्वाऽपि नरकं नैव पश्यति ।।
किमन्यैर्बहुभिः पुत्रैर्दयाधर्मविवर्जितैः ।। ८१ ।।
ये जाता नार्चयंत्यद्धा विष्णुं नारायणं कुले ।।
नाऽपुत्रस्य हि लोकोऽस्ति सर्वमेतज्जना विदुः ।।८२।।
तत्राऽपि च दयायुक्तं तत्संतानं च दुर्लभम् ।।
इति तं बोधयित्वा तु वाक्यैरेतैश्च सूनृतैः ।। ८३ ।।
विरक्तस्योर्ध्वरेतस्य गार्हस्थ्ये त्वं मतिं कुरु ।।
पितॄणां वचनं श्रुत्वा धर्मवर्णोऽतिविस्मितः ।।८४।।
प्रणम्य प्रांजलिः प्राह रुदन्वै जातवेपथुः ।।
नाम्नाहं धर्मवर्णश्च युष्मद्वंश्यो दुराग्रही ।। ।। ८५ ।।
सत्रे श्रुत्वा तु वचनं नारदस्य महात्मनः ।।
जिह्वादार्ढ्यं गुह्यदार्ढ्यं न कस्याऽपि कलौ युगे ।। ८६ ।।
दृष्ट्वा भुवि च पापिष्ठांस्ताञ्जनानपि शंकितः ।।
भीतो दुर्जनसंगत्या चरन्द्वीपांतरे वसन् ।। ८७ ।।
पादास्त्रयो गता ह्यस्य कलेः पादेंऽत्यकेऽपि च ।।
गताः सार्द्धत्रयो भागा इदानीं जनका इमे ।। ८८ ।।
नाऽहं वेद्मि भवद्दुःखं वृथा जन्म गतं मम ।।
यस्मिन्कुले त्वहं जात ऋणं पित्रोर्न वै हृतम् ।। ८९ ।।
किं तेन जातमात्रेण भूभारेणाऽत्र शत्रुणा ।।
यो जातो नार्चयेद्विष्णुं पितॄन्देवानृषींस्तथा ।। 2.7.22.९० ।।
युष्मदाज्ञां करिष्यामि मामाऽऽज्ञापयत क्षितौ ।।
यथा न कलिबाधा स्यात्तत्र संसारतोऽपि वा ।। ९१ ।।
कर्तव्यान्यपि कृत्यानि मया पुत्रेण भूतले ।।
इत्युक्तास्तेन वंश्येन धर्मवर्णेन धीमता ।।९२।।
किंचिदाश्वस्तमनस इदमूचुर्महीपते ।।
पुत्र पश्य दशामेतां पितॄणां ते महात्मनाम् ।। ९३ ।।
संतत्यभावात्पततां दूर्वामात्रावलंबिनाम् ।।
त्वं गार्हस्थ्यमुपालभ्य संतत्यास्मान्समुद्धर ।। ९४ ।।
ये च विष्णुकथारक्ता ये स्मरंत्यनिशं हरिम् ।।
ये सदाचारनिरता न तान्वै बाधते कलिः ।। ।। ९५ ।।
शालिग्रामशिला यस्य गृहे तिष्ठति मानद ।।
अथवा भारतं गेहे न तं वै बाधते कलिः ।। ९६ ।।
यश्च वैशाखनिरतो माघस्नानपरश्च यः ।।
कार्तिके दीपदाता यो न तं वै बाधते कलिः ।।९७।।
प्रत्यहं शृणुयाद्यस्तु कथां विष्णोर्महात्मनः ।।
पापघ्नीं मोक्षदां दिव्यां न तं वै बाधते कलिः ।।९८।।
यद्गृहे वैश्वदेवश्च यद्गृहे तुलसी शुभा।।
यदंगणे शुभा गौश्च न तं वै बाधते कलिः।।९९।।
तस्मान्नो भीतिरस्तीह युगे पापात्मकेऽपि च ।।
शीघ्रं गच्छ भुवं पुत्र मासोऽयं माधवाह्वयः ।। 2.7.22.१०० ।।
सर्वेषामुपकाराय मेषसंस्थे दिवाकरे ।।
त्रिंशच्च तिथयः पुण्या मेषसंस्थे दिवाकरे ।। १०१ ।।
एकैकस्यां कृतं पुण्यं कोटिकोटिगुणं भवेत् ।।
तत्राऽपि चैत्रबहुलो दर्शो नृणां च मुक्तिदः ।। २ ।।
प्रियश्च पितृदेवानां सद्यो मुक्तिविधायकः ।।
ये वै पितॄन्समुद्दिश्य श्राद्धं कुर्वंति तद्दिने ।।३।।
सोदकुंभं पिंडदानं तदक्षय्यफलं लभेत् ।।
ये च कुर्वंति वै श्राद्धममायां च मधौ सुत ।। ४ ।।
तैः कृतं तु गयाक्षेत्रे श्राद्धं कोटिगुणं भवेत् ।।
यदि श्राद्धं मधौ दर्शे शाकेनाऽपि करोति च।। ५ ।।
कोटिश्राद्धं गयायां तु कृतं तेन न संशयः ।।
कुंभं च पानकैः पूर्णं कर्पूरागुरुवासितम् ।। ६ ।।
यो न दद्यान्मधौ दर्शे स पितृघ्नो न संशयः ।।
यो दद्याच्च मधौ दर्शे सपानीयं करीरकम् ।। ७ ।।
श्राद्धं च भक्तिसंयुक्तः कुरुते च कुलोद्धतिम् ।।
पितॄणां च तथा लोके नदी चाऽमृतवर्षिणी ।। ८ ।।
कुंभदानात्प्रसरति श्राद्धदानादिदायिनाम् ।।
अन्नसूपघृतापूपलेह्यपायसकर्दमान् ।। ९ ।।
तस्माज्झटिति त्वं गच्छ यदा वा ऽमा भविष्यति ।।
कुरु श्राद्धं पिंडदानं सोदकुम्भं महामते ।।2.7.22.११०।।
सर्वेषामुपकाराय गार्हस्थ्यं च समाश्रय ।।
धर्मार्थकामैः संतुष्टः प्राप्य संतानमुत्तमम् ।। ११ ।।
पुनश्च मुनिवृत्तिस्त्वं सुखं द्वीपे सुसंचर ।।
इत्यादिष्टः पितृभिश्च तूर्णं भूमिं ययौ मुनिः ।। १२ ।।
चैत्रे मासे मेषसंस्थे पुण्ये मासि दिवाकरे ।।
प्रातः स्नात्वा च संतर्ज्य पितॄन्देवानृषींस्तथा ।। १३ ।।
सोदकुंभं तथा श्राद्धं कृत्वा पापविनाशनम् ।।
तेन दत्त्वा पितॄणां च मुक्तिमावृत्तिवर्जिताम् ।। १४ ।।
स्वयं विवाहमकरोत्संततिं प्राप्य वै सतीम् ।।
लोके प्रख्यापयामास तां तिथिं पापनाशनीम् ।।१५।।
स्वयं पुनर्मुदा भक्त्या गन्धमादनमाययौ ।। १६ ।।
तस्मात्पुण्यतमा चैषा मधोर्दर्शाह्वया तिथिः।।
नानया सदृशी लोके तिथिर्दृष्टा श्रुताऽपि वा ।। ।। ११७ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे वैशाखमासमाहात्म्ये नारदाम्वरीषसंवादे कलिधर्मनिरूपणे पितृमुक्तिर्नाम द्वाविंशोऽध्यायः ।। २२ ।। ।। छ ।।