स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वैशाखमासमाहात्म्यम्/अध्यायः २१

विकिस्रोतः तः


       "वाल्मीके:पूर्वजन्मस्य कथा
           "श्रुतदेव उवाच।।
ततस्तु विस्मितो भूत्वा शङ्खो व्याधसमन्वितः।।
को भवानिति तं प्राह दशैषा च कुतस्तव।।१।।
केन वा कर्मणा सौम्य मतिस्तव शुभावहा।।
अकस्मात्ते कथं मुक्तिरेतदाचक्ष्व विस्तरात्।।२।।
शङ्खेनैव तदा पृष्टो दण्डवत्पतितो भुवि।।
प्रश्रयाऽवनतो भूत्वा प्रांजलिर्वाक्यमब्रवीत्।।३।।
अहं पुरा द्विजः कश्चित्प्रयागे बहुभाषणः।।
रूपयौवनसंपन्नो विद्यामदसुगर्वितः।।४।।
धनाढ्यो बहुपुत्राढ्यः सदाऽहंकारदूषितः।।
कुसीदस्य मुनेः पुत्रो नाम्ना रोचन इत्यहम्।।५।।
आसनं शयनं निद्रा व्यवायोऽक्षपरिक्रियाः।।
लोकवार्ता कुसीदं वा व्यापारास्ते ममाऽभवन्।। ६।।
तन्तुमात्राणि कर्माणि लोकनिन्दाविशंकितः ।।
सदम्भश्च सदा कुर्वे न श्रद्धा मे कदाचन ।।७।।
दुर्बुद्धेर्मम दुष्टस्य कियत्कालो गतोऽभवत् ।।
तदा वैशाखमासेऽस्मिञ्जयंतोनाम वै द्विजः।।८।।
श्रावयामास तन्मासधर्मान्भागवतप्रियान्।।
तत्क्षेत्रे वासिनां पुण्यकर्मणां च द्विजन्मनाम्।।९।।
नारीनराः क्षत्रियाश्च वैश्याः शूद्राः सहस्रशः ।।
प्रातः स्नात्वा समभ्यर्च्य मधुसूदनमव्ययम्।। 2.7.21.१०।।

कथां शृण्वंति सततं जयन्तेन समीरिताम् ।।
शुचिभूत्वा मौनधरा वासुदेवकथारताः ।।११।।
वैशाखधर्मनिरता दंभालस्यविवर्जिताः ।।
तां सभां च प्रविष्टोऽहं कौतुकाच्च दिदृक्षया।। १२।।
सोष्णीषेण मया मूर्ध्ना नमस्कारोऽपि न कृतः।।
तांबूलं च मुखे कृत्वा कञ्चुकं च मया धृतम्।।१३।।
कथाविक्षेपमचरं लोकवार्ताभिरंजनात् ।।
सर्वेषां चित्तचांचल्यमभूद्वै लोकवार्तया ।।१४।।
क्वचिद्वासः प्रसार्याहं क्वचिन्निंदन्क्वचिद्धसन्।।
एवं कालो मयानीतः कथा यावत्समाप्यते।१५।
पश्चात्तेनैव दोषेण सद्योऽल्पायुर्विनष्टधीः ।।
सन्निपातेन पञ्चत्वं प्राप्तोऽहं च परे दिने।।१६।।
तप्तसीसजलैः पूर्णं निरयं च हलाहलम्।।
प्राप्य भुक्त्वा यातनां च मन्वन्तानि चतुर्दश।।१७।।
युक्तेष्वथ च लक्षेषु तथा चतुरशीतिभिः ।।
क्रमाद्योनिषु जातोऽहमिदानीं चावसन्द्रुमे।।१८।।
दशयोजनविस्तीर्णे शतयोजनमुन्नते।।
व्यालोऽहं तामसः क्रूरः सप्तयोजनकोटरे।।१९।।
भूत्वा वसामि विप्रर्षे कर्मणा बाधितः पुरा ।।
अयुतं च समा याता निराहारस्य कोटरे।। 2.7.21.२०।।
दैवात्तव मुखांभोजसमीरितकथामृतम् ।।
श्रुत्वा चक्षुर्द्वयेनाहं सद्यो ध्वस्ताशुभो मुने।।२१।।
व्यालयोनिं विसृज्याऽहं दिव्यरूपधरः पुमान्।।
प्रांजलिः प्रणतो भूत्वा पादौ ते शरणं गतः।।२२।।
कस्मिञ्जन्मनि त्वं बधुर्न जाने मुनिसत्तम ।।
न मयोपकृतं क्वाऽपि सानुकम्पः कुतः सताम् ।।२३।।
साधूनां समचित्तानां सदा भूतदयावताम् ।।
परोपकारप्रकृतिर्न चैषामन्यथा मतिः ।।२४।।
मामद्यानुगृहाण त्वं यथा धर्मे मतिर्भवेत् ।।
न भूयाद्विस्मृतिः क्वाऽपि विष्णोर्देवस्य चक्रिणः ।।२५।।
महतां साधुवृत्तानां संग तिश्च सदा भवेत्।।
दारिद्यमेकमेव स्यान्मदांधपरमांजनम् ।।२६।।
इति तं बहुधा स्तुत्वा प्रणम्य च पुनः पुनः।।
प्रांजलिः प्रणतस्तस्थौ तूष्णीमेव तदग्रतः।।२७।।
शंखो दोर्भ्यां समुत्थाप्य पूर्णप्रेमपरिप्लुतः।।
पस्पर्श पाणिना चांगं शंतमेन गताध्वसः ।।२८।।
चक्रे सोऽनुह्ग्रहं तस्मिन्दिव्यरूपधरे द्विजे ।।
प्राह तं कृपयाऽऽविष्टो भाविवृत्तान्तमञ्जसा।। २९।।
द्विज त्वं मासमाहात्म्यश्रवणाच्च हरेरपि ।।
माहात्म्यश्रवणात्सद्यो विध्वस्ताऽखिलबंधनः।। 2.7.21.३०।।
अतिहाय कलंकं च क्रमाद्गत्वा पुनर्भुवि ।।
दशार्णे विषमे पुण्ये भविता त्वं द्विजोत्तमः।।३१।
वेदशर्मेति विख्यातः सर्ववेदविशारदः।।
तत्र ते भविता जातिस्मृतिरात्यंतिकी शुभा।।३२।।
तथा स्मृतानुबन्धस्त्वं त्यक्तसर्वेषणः शुभः।।
करोषि सकलान्धर्मान्वैशाखोक्तान्हरिप्रियान् ।।३३।।
निर्द्वन्द्वो निःस्पृहोऽसंगो गुरु भक्तो जितेन्द्रियः।।
सदा विष्णुकथालापो भविता तत्र जन्मनि ।।३४।।
ततः सिद्धिं समाप्याथ विध्वस्ताऽखिलबन्धनः।।
प्राप्नोषि परमं धाम योगैरपि दुरासदम् ।।३५।।
मा भैषीः पुत्र भद्रं ते भविता मत्प्रसादतः।।
हास्याद्भयात्तथा क्रोधाद्द्वेषात्कामादथाऽपि वा।।३६।।
स्नेहाद्वा सकृदुच्चार्य विष्णोर्नामाऽघहारि च।।
पापिष्ठा अपि गच्छन्ति विष्णोर्धाम निरामयम्।।३७।।
किमु तच्छ्रद्धया युक्ता जितक्रोधा जितेन्द्रियाः।।
दयावन्तः कथां श्रुत्वा गच्छंतीति द्विजोत्तम ।।३८।।
केचित्केवलया भक्त्या कथालापैकतत्पराः।।
सर्वधर्म्मोज्झिता वाऽपि यांति विष्णोः परं पदम्।।३९।।
द्वेषादिना च भक्त्या वा केचिद्विष्णुमुपासते।।
तेऽपि यांति परं धाम पूतनेवासुहारिणी।। 2.7.21.४० ।।
महद्भिः संगतो नित्यं वाग्विसर्गस्तदाश्रयः।।
मुमुक्षूणां च कर्तव्यः स विधिः श्रुतिचोदितः।। ४१।।
स वाग्विसर्गो जनताऽघविप्लवो यस्मिन्प्रतिश्लोकमबद्धवत्यपि ।।
नामान्यनंतस्य यशोंकितानि यच्छृण्वन्ति गायन्ति गृणंति साधवः ।।४२।।
यः कष्टसेवां न च कांक्षते विभुर्न वासनं भूरि न रूपयौवने।।
स्मृतः सकृद्गच्छति धाम भास्वरं कं वा दयालुं शरणं व्रजेत ।।४३।।
तमेव शरणं याहि नारायणमनामयम् ।।
भक्तवत्सलमव्यक्तं चेतोगम्यं दयानिधिम् ।।४४।।
कुरु सर्वानिमान्धमान्वैशाखोक्तान्महामते ।।
तेन तुष्टो जगन्नाथः शर्म ते च विधास्यति।। ४५ ।।
इत्युक्त्वा विररामाथ व्याधं दृष्ट्वा सुविस्मितः।।
स दिव्यः पुरुषः प्राह पुनस्तं मुनिपुंगवम् ।।४६।
।। दिव्यपुरुष उवाच।।
धन्योस्म्यनुगृहीतोऽस्मि त्वया शंख दयालुना ।।
दिष्ट्या गता मे दुर्योनिर्यामि चैव परां गतिम्।।४७।।
इति तं च परिक्रम्य ह्यनुज्ञातो दिवं ययौ।।
ततः सायमभूद्राजञ्च्छंखो व्याधेन तोषितः।। ४८।।
संध्यां सायन्तनीं कृत्वा रात्रिशेषं निनाय च।।
नानाख्यानेश्च भूपानां देवानां च महात्मनाम्।। ४९ ।।
लीलाभिरवताराणां दृष्टगो ष्ठिभिरेव च ।।
ब्राह्मे मुहूर्ते चोत्थाय पादौ प्रक्षाल्य वाग्यतः।। 2.7.21.५०।
ध्यायंश्च तारकं ब्रह्म कृत्वा शौचादिसत्क्रियाम्।।
वैशाखे मेषगे सूर्ये स्नात्वा प्राक्च भगोदयात्।। ५१।।
कृत्वा संध्यादिकं कर्म तथा संतर्प्य चाऽखिलान् ।।
व्याधमाहूय हृष्टात्मा मूर्ध्नि प्रोक्ष्य निरीक्ष्य च।। ५२।।
रामेति द्व्यक्षरं नाम ददौ वेदाधिकं शुभम् ।।
विष्णोरेकैकनामाऽपि सर्ववेदाधिकं मतम् ।।५३ ।।
तेभ्यश्चाऽनंतनामभ्योऽधिकं नाम्नां सहस्रकम्।।
तादृङ्नामसहस्रेण रामनाम समं मतम् ।।५४।।
तस्माद्रामेति तन्नाम जप व्याध निरंतरम् ।।
धर्मानेतान्कुरु व्याध यावदामरणांतिकम् ।।५५।।
ततस्ते भविता जन्म वल्मीकस्य ऋषेः कुले।।
वाल्मीकिरिति नाम्ना च भूमौ ख्यातिमवाप्स्यसि ।।५६।।
इति व्याधं समादिश्य प्रतस्थे दक्षिणां दिशम्।।
व्याधोऽपि तं परिक्रम्य प्रणम्य च पुनःपुनः।। ५७ ।।
किंचिद्दूरानुगो भूत्वा स रुदन्विरहातुरः ।।
यावद्दृष्टिपथं तावत्पश्यंस्तस्य गतिं पुनः।।५८।।
पुनर्निववृते कृच्छ्रात्तमेव हृदि चिंतयन् ।।
वनं निर्माय तन्मार्गे प्रपां कृत्वा सुनिर्मलाम्।। ५९ ।।
अतियोग्यानिमान्धर्मान्वैशाखोक्तांश्चकार ह।।
वन्यैः कपित्थपनसैर्जंबूचूतादिभिः फलैः ।। 2.7.21.६०।।
मार्गानां श्रमार्तानामाहारं परिकल्पयन्।।
उपानद्भिश्चंदनैश्च छत्रैश्च व्यजनैरपि ।।६१।।
वालुकास्तरणोपेतच्छायाभिश्च क्वचित्क्वचित्।।
आजहाराथ पांथानां श्रमं स्वेदोद्भवं तथा।।६२।।
प्रातः स्नात्वा दिवारात्रं जपन्रामेति वै मनुम्।।
व्याधजन्मनि नामाऽसौ वल्मीकस्य सुतोऽभवत्।। ६३।।
कृणुर्नाम मुनिः कश्चित्तस्मिन्नेव सरोवरे ।।
तपो वै दुस्तरं तेपे बाह्यव्यापारवर्जितः ।।६४।।
वल्मीकमभवद्देहे तस्य कालेन भूयसा ।।
वल्मीक इति तं प्राहुरतो वै मुनिपुंगवम् ।।६५।।
पश्चात्तपोविरामांते कृणौ स्मृतिपथं गते ।।
स्त्रियोऽनुस्मरतो राजन्स्खलितं चेंद्रियं मुनेः।।६६।।
जग्राह शैलुषी काचित्तस्यां जज्ञे वनेचरः।।
वाल्मीकिरिति विख्यातो भुवनेषु महायशाः।।६७।।
यो वै रामकथां दिव्यां स्वैः प्रबंधैर्मनोहरैः।
लोके प्रख्यापयामास कर्मबन्धनिकृंतनीम् ।।६८।।
।।श्रुतदेव उवाच ।।
पश्य वैशाखमाहात्म्यं भूपालाद्याऽपि भूतिदम्।।
व्याधोप्युपानहौ दत्त्वा ऋषित्वं प्राप दुर्लभम्।।६९।।
य इदं परमाख्यानं पापघ्नं रोमहर्षणम् ।।
शृणुयाच्छ्रावयेद्वाऽपि न भूयः स्तनपो भवेत्।। ७०।।
_____________________________
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे वैशाखमासमाहात्म्ये नारदाम्बरीषसंवादे व्याधोपाख्याने वाल्मीकेर्जन्मकथनन्नामैकविंशोऽध्यायः ।।२१।।