स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वैशाखमासमाहात्म्यम्/अध्यायः २०

विकिस्रोतः तः
Jump to navigation Jump to search

।। व्याध उवाच ।। ।।
किं जीवा विभुना सृष्टाः कोटिशोऽथ सहस्रशः ।।
दृश्यंते भिन्नकर्माणो नानामार्गाः सनातनाः ।। १ ।।
नैकस्वभावा एते हि कुत एव महामते ।।
सर्वं तत्पृच्छते मह्यं विस्तरात्तत्त्वतो वद ।। २ ।।
।। शंख उवाच ।। ।।
त्रिविधा जीवसंघा हि रजःसत्त्वतमोगुणाः ।।
राजसा राजसं कर्म तामसास्तामसं तथा ।। ३ ।।
सात्त्विकाः सात्त्विकं कर्म कुर्वंत्येते यथाक्रमम् ।।
क्वचिच्च गुणवैषम्यमेतेषां संसृतौ भवेत् ।। ४ ।।
तेनैवोच्चावचं कर्म कुर्वंतः फलभागिनः ।।
क्वचित्सुखं क्वचिद्दुःखं क्वचिच्चोभयमेव च।।५।।
गुणानामेव वैषम्यात्प्राप्नुवन्ति नरा इमे।।
प्रकृतिस्था इमे जीवा बद्धा एतैर्गुणैस्त्रिभिः ।। ६ ।।
गुणकर्माऽनुरूपेण कर्मणां व्यत्ययः फलम् ।।
गुणानुगुण्यं भूयस्ते प्रकृतिं यांत्यमी जनाः ।। ।। ७ ।।
प्रकृतिस्थाः प्राकृतिका गुणकर्माऽभिमूर्छिताः ।।
गतिं प्राकृतिकीं यांति व्यत्ययः प्रकृतेर्न हि ।। ८ ।।
तामसा दुःखबहुलाः सदा तामसवृत्तयः ।।
निर्दया निष्ठुरा लोके सदा द्वेषैकजीविनः ।। ९ ।।
राक्षसाद्याः पिशाचांतास्तामसीं यांति वै गतिम् ।।
राजसा मिश्रमतयः कर्तारः पुण्यपापयोः ।। 2.7.20.१० ।।
पुण्यात्स्वर्गं प्राप्नुवन्ति क्वचित्पापाच्च यातनाम् ।।
अत एते मन्दभाग्या आवर्तंते पुनः पुनः ।। ११ ।।
धर्मशीला दयावन्तः श्रद्धावन्तोऽनसूयकाः ।।
सात्त्विकाः सात्त्विकीं वृत्तिमनुतिष्ठंत आसते ।। १२ ।।
ते चोर्ध्वं यांति विमला गुणापाये महौजसः ।।
विभिन्नकर्मणां चातः पृथग्भावाः पृथग्विधाः ।। १३ ।।
गुणकर्मानुरूपेण तेषां विष्णुर्महाप्रभुः ।।
कर्माणि कारयत्यद्धा स्वस्वरूपाप्तये विभुः ।। १४ ।।
विष्णोर्वैषम्यनैर्घृण्ये पूर्णकामस्य वै नहि ।।
सृष्टिं स्थितिं हृतिं चैव समामेव करोत्ययम् ।। १५ ।।
स्वगुणादेव ते सर्वे कर्मणः फलभागिनः ।।
आरामोप्तान्यथा सर्वान्समं वर्षयति द्रुमान् ।। १६ ।।
एककुल्याजला ह्यंग द्रुमाश्च प्रकृतिं गताः ।।
नारामोप्तरि वैषम्यं नैर्घृण्यं वा कथंचन ।। १७ ।।
।। व्याध उवाच ।। ।।
जनानां पूर्णभोगानां कदा मुक्तिर्भवेन्मुने ।।
सृष्टिकालेऽथवा ह्यंतकाले वा स्थापनस्य च ।। १८ ।।
क्वचिच्च सृष्टिकालस्य संहारस्याऽपि वै स्थितेः ।।
एतद्विस्तार्य मे ब्रह्मन्भगवच्चेष्टितं वद ।। १९ ।। ।।
।। शंख उवाच ।। ।।
चतुर्युगसहस्राणि ब्रह्मणो दिनमुच्यते।।
रात्रिश्च तावती तस्य ह्यहोरात्रं दिनं भवेत् ।। 2.7.20.२० ।।
दशपंचदिनान्याहुः पक्षं मासो द्वयात्मकः ।।
मासद्वयमृतुं प्राहुरयनं च ऋतुत्रयम् ।। २१ ।।
अयने द्वे वत्सरः स्यात्तादृक्च्छतसमा यदि ।।
गच्छंति ब्रह्मणो ह्यस्य ब्रह्मकल्पं तदा विदुः ।। २२ ।।
तावान्हि प्रलयः काल इति वेदविदां मतम् ।।
प्रलयस्त्रिविधः प्रोक्तो मानवो मानवात्यये ।। २३ ।।
दैनंदिनो द्वितीयो हि ब्रह्मणो दिवसात्यये ।।
ब्रह्मणोऽथ लये पश्चाद्ब्राह्मं च प्रलयं विदुः ।। २४ ।।
ब्रह्मणस्तु मुहूर्ते तु मनोस्तु प्रलयं विदुः ।।
प्रलयेषु व्यतीतेषु चतुर्दशसु वै क्रमात् ।। २५ ।।
दैनंदिनलयं प्राहुः प्रलयानां स्थितिं पुनः।।
त्रयाणामेव लोकानां लयो मन्वंतरे भवेत् ।। २६ ।।
चेतनानां तदा नाशो न लोकानां क्षयो भवेत् ।।
उदकैरेव पूर्तिश्च यथा पूर्वं तथा पुनः ।। २७ ।।
मन्वंतरांते भूयात्तु चेतनानां पुनर्भवः ।।
दैनंदिनलये व्याध सर्वस्यापि क्षयो भवेत् ।। २८ ।।
सत्यलोकं विना सर्वे लोका नश्यंति साधिपाः ।।
सचेतनाः साधिभूताः प्रसुप्ते चतुरानने ।। २९ ।।
तत्त्वाभिमानिनो देवाः केचिच्च मुनयस्तथा ।।
शिष्यंति सुप्ताः सर्वेऽपि सत्यलोकव्यवस्थिताः ।। 2.7.20.३० ।।
तिष्ठंति सुप्तिमापन्ना यावत्कल्पमतींद्रियाः ।।
पुनर्निशात्यये ब्रह्मा यथापूर्वमकल्पयत् ।। ३१ ।।
ऋषीन्देवान्पितॄँल्लोकान्धर्मान्वर्णान्पृथक्पृथक् ।।
पुनर्दशावतारा हि विष्णोर्देवस्य चक्रिणः ।। ३२ ।।
नियमेन भवंत्येते तथान्येऽपि च भूरिशः ।।
देवता ऋषयश्चैव आकल्पं च गिरां पतेः ।। ३३ ।।
पुनरेवाऽभिवर्तंते ब्रह्मणा सह मुक्तिगाः ।।
भूपाश्च साधवो ये च सिद्धिं प्राप्ताः परं गताः ।। ३४ ।।
तेनैव चाभिवर्तंते सत्यलोकव्यवस्थिताः ।।
तद्राशिगाः पुनर्यांति तन्नाम्ना श्रुतिसंस्थिताः ।। ३५ ।।
तत्तद्गोत्रेषु जायंते तत्तत्कर्मरताः सदा ।।
दैत्यानामपि सर्वेषां यदा कलियुगात्ययः ।। ३६ ।।
कलिना सह गच्छंति स्वां गतिं निरयालयाः ।।
तेषां च राशिसंस्था ये तन्नामानोऽपरेऽपि च ।।३७।।
जायंते कर्मणा स्वेन तत्तत्कर्मविधायकाः।।
सृष्टिकालं प्रवक्ष्यामि मुक्तिकालं तथैव च ।। ३८ ।।
ब्रह्मादीनां च देवानां समाहितमना भव ।।
निमेषो देवदेवस्य ब्रह्मकल्पसमो मतः ।। ३९ ।।
तस्यावसाने चोन्मेषो देवदेवशिखामणेः ।।
निमेषांऽते भवेदिच्छा स्रष्टुं लोकांश्च कुक्षिगान् ।। 2.7.20.४० ।।
सोऽपश्यत्स्वोदरे सर्वाञ्जीवसंघाननेकशः ।।
सृज्यान्मुक्तानमृन्सर्वाँ लिंगभंगमुपागतान् ।। ४१ ।।
सुप्ताः सृतिस्थाः सर्वेऽपि तमोगा अपि सर्वशः ।।
पूर्वकल्पे लिंगभंगमापन्ना विधिपूर्वकाः ।। ४२ ।।
मानवांता जीवकोशा जीवन्मुक्ताश्च मुक्तिगाः ।।
पूर्वकल्पे विमुक्ताश्च ब्रह्माद्या मानवांतकाः ।। ४३ ।।
ध्यानसंस्था हि तिष्ठंति विष्णुकुक्षिगता अपि ।।
उन्मेषस्यादिमे भागे चतुर्व्यूहात्मको विभुः ।। ४४ ।।
भूत्वा तु पूर्वसाद्गुण्याद्वासुदेवाच्च व्यूहगात् ।।
दत्त्वा तु ब्रह्मणो मुक्तिं सायुज्याख्यां महाविभुः ।। ४५ ।।
दत्त्वा तदनु सायुज्यं तत्त्वज्ञानं महात्मनाम् ।।
सारूप्यं चैव केषांचित्सामीप्यं च तथा विभुः ।। ४६ ।।
सालोक्यं च तथाऽन्येषां दत्त्वा देवो जनार्दनः ।।
अनिरुद्धवशे सर्वान्स्थिताँल्लोकानलोकयत् ।। ४७ ।।
प्रद्युम्नस्य वशे दत्त्वा सृष्टिं कर्तुं मनो दधे ।।
मायां जयां कृतिं शांतिमुपयेमे स्वयं हरिः ।। ४८ ।।
चतुर्व्यूहैः पूर्णगुणैर्वासुदेवादिकैः क्रमात् ।।
ताभिर्युक्तो महाविष्णुश्चतुर्व्यूहात्मको विभुः ।। ४९ ।।
भिन्नकर्माशयं लोकं पूर्णकामो व्यजीजनत् ।।
उन्मेषांते पुनर्विष्णुर्योगमायां समाश्रितः ।। 2.7.20.५० ।।
संकर्षणाद्व्यूहगाच्च हरत्येतच्चराचरम् ।।
तदेतत्सर्वमाख्यातं कार्यं चिंत्यं महात्मनः ।। ५१ ।।
यदचिंत्यं दुर्विभाव्यं ब्रह्माद्यैरपि योगिभिः ।।
।। व्याध उवाच ।। ।।
के वा भागवता धर्माः कैर्विष्णुश्च प्रसीदति ।। ५२ ।।
तानहं श्रोतुमिच्छामि सांप्रतं वद नो मुने ।।
।। शंख उवाच ।। ।।
येन चित्तविशुद्धिः स्याद्यः सतामुपकारकः ।। ५३ ।।
तं विद्धि सात्त्विकं धर्मं यश्च केनाप्य निंदितः ।।
श्रुतिस्मृत्युदितो यस्तु यदि निष्कामिको भवेत् ।। ५४ ।।
यस्तु लोकाऽविरुद्धोऽपि तं धर्मं सात्त्विकं विदुः ।।
चतुर्विधा हि ते धर्मा वर्णाश्रमविभागतः ।। ५५ ।।
नित्यनैमित्तिकाः काम्या इति ते च त्रिधा मताः ।।
ते सर्वे स्वस्वधर्माश्च यदा विष्णोः समर्पिताः ।। ५६ ।।
तदा वै सात्त्विका ज्ञेया धर्मा भागवताः शुभाः ।।
देवतांतरदैवत्याः सकामा राजसा मताः ।। ५७ ।।
यक्षरक्षःपिशाचादिदैवत्या लोकनिष्ठुराः ।।
हिंसात्मका निंदिताश्च धर्मास्ते तामसाः स्मृताः ।। ५८ ।।
सत्त्वस्थाः सात्त्विकान्धर्मान्विष्णुप्रीतिकराञ्च्छुभान् ।।
कुर्वंत्यनीहया नित्यं ते वै भागवताः स्मृताः ।। ५९ ।।
येषां चित्तं सदा विष्णौ जिह्वायां नाम वै विभोः ।।
पादौ च हृदये येषां ते वै भागवताः स्मृताः ।। 2.7.20.६० ।।
सदाचार रता ये च सर्वेषामुपकारकाः ।।
सदैव ममताहीनास्ते वै भागवताः स्मृताः ।। ६१ ।।
येषां च शास्त्रे विश्वासो गुरौ साधुषु कर्मसु ।।
ये विष्णु भक्ताः सततं ते वै भागवताः स्मृताः ।। ६२ ।।
येषां हि संमता धर्माः शाश्वता विष्णुवल्लभाः ।।
श्रुतिस्मृत्युदिता ये च ते धर्माः शाश्वता मताः ।। ६३ ।।
अटनं सर्वदेशेषु वीक्षणं सर्वकर्मणाम् ।।
श्रवणं सर्वधर्माणां विषयाऽऽसक्तचेतसाम् ।। ६४ ।।
अकिंचित्करमेतेषां षंढस्येव वरस्त्रियः ।।
साधूनां दर्शनेनैव मनो द्रवति वै सताम् ।। ६५ ।।
चंद्रस्य कौमुदीसंगाच्चंद्रकांतशिला यथा ।।
क्वचित्सच्छास्त्रश्रवणाद्विषयै रहितं मनः ।। ६६ ।।
तिष्ठत्येव सतां पुंसां तेजोरूपं ह्यकल्मषम् ।।
पद्मबन्धोः प्रभासंगात्सूर्यकांतशिला यथा ।। ६७ ।।
निष्कामैर्हि जनैर्यैस्तु श्रद्धया समुपाश्रितः ।।
यो विष्णुवल्लभो नित्यं धर्मो भागवतो मतः ।। ६८ ।।
 तैर्दृष्टा वहवो धर्मा इहाऽमुत्र फलप्रदाः ।।
विष्णुप्रीतिकराः सूक्ष्माः सर्वदुःखविमोचकाः ।। ६९ ।।
दध्नः सारमिवोद्धृत्य धर्मं वैशाखसंभवम् ।।
रमायै भगवानाह क्षीराब्धौ हितकाम्यया ।। 2.7.20.७० ।।
मार्गच्छायाविनिर्माणं प्रपादानं च वै तथा ।।
व्यजनैर्व्यजनं चैव प्रश्रयाणां समर्पणम् ।। ७१ ।।
छत्रस्योपानहोर्दानं दानं कर्पूरगन्धयोः ।।
वापीकूपतडागानां निर्माणं विभवे सति ।। ७२ ।।
सायाह्ने पानकस्यापि दानं तु कुसुमस्य च ।।
तांबूलदानं पापघ्नं गोरसानां विशेषतः ।। ७३ ।।
लवणान्विततक्रस्य दानं श्रांताय वै पथि ।।
अभ्यंगकरणं चैव द्विजपादावनेजनम् ।। ७४ ।।
कटकम्बलपर्यंकदानं गोदानमेव च ।।
मधुयुक्ततिलानां च दानं पापविनाशनम् ।। ७५ ।।
सायाह्ने चेक्षुदण्डानां दानमुर्वारुकस्य च ।।
रसायनप्रदानं च पितृनिर्वापणं तथा ।। ७६ ।।
एते धर्मा पि(?)शिष्योक्ता मासेऽस्मिन्माधवप्रिये ।।
प्रातः सूर्योदये स्नात्वा शृण्वन्द्विजकुलेरितम् ।।७७।।
नित्यकर्माणि कृत्वैवं मधुसूदनमर्चयेत् ।।
कथां माधवमासीयां शृणुयाच्च समाहितः।।७८।।
तैलाभ्यंगं वर्जयेच्च कांस्यपात्रे तु भोजनम् ।।
निषिद्धभक्षणं चैव वृथाऽऽलापं तु वर्जयेत् ।। ७९ ।।
अलाबुं गृंजरं चैव लशुनं तिलपिष्टकम् ।।
आरनालं भिस्सटं च घृतकोशातकीं तथा ।।2.7.20.८०।।
उपोदकीं कलिंगं च शिग्रुशाकं च वर्जयेत् ।।
निष्पावानि कुलित्थानि मसूराणि च वर्जयेत्।। ।। ८१ ।।
वृंताकानि कलिंगानि कोद्रवाणि च वर्जयेत् ।।
तंदुलीयकशाकं च कौसुम्भं मूलकं तथा ।। ८२ ।।
औदुंबरं बिल्वफलं तथा श्लेष्मा तकीफलम् ।।
सर्वथा वर्जयेद्विद्वान्मासेऽस्मिन्माधवप्रिये ।। ८३ ।।
एतेष्वन्यतमं भुक्त्वा स चंडालो भवेद्ध्रुवम् ।।
तिर्यग्योनिशतं याति नात्र कार्या विचारणा ।। ८४ ।।
एवं मासव्रतं कुर्यात्प्रीतये मधुघातिनः ।।
एवं व्रते समाप्ते तु प्रतिमां कारयेद्विभोः ।। ८५ ।।
मधुसूदनदैवत्यां सवस्त्रां च सदक्षिणाम् ।।
स्वर्चितां विभवैः सर्वैर्ब्राह्मणाय निवेदयेत् ।। ८६ ।।
वैशाखसितद्वादश्यां दद्याद्दध्यन्नमंजसा ।।
सोदकुम्भं सतांबूलं सफलं च सदक्षिणम्।।८७।।
ददामि धर्मराजाय तेन प्रीणातु वै यमः।।
अपसव्यात्समुच्चार्य नामगोत्रे पितुस्ततः।।८८।।
दद्याद्दध्यन्नमक्षय्यं पितॄणां तृप्तिहेतवे ।।
गुरुभ्यश्च तथा दद्यात्पश्चाद्दद्याच्च विष्णवे।।८९।।
शीतलोदकदध्यन्नं कांस्यपात्रस्थमुत्तमम्।।
सदक्षिणं सतांबूलं सभक्ष्यं च फलान्वितम् ।।2.7.20.९०।।
ददामि विष्णवे तुभ्यं विष्णुलोकजिगीषया ।।
इति दत्त्वा यथाशक्त्या गां च दद्यात्कुटुंबिने ।। ९१ ।।
एवं मासव्रतं कुर्याद्यो दंभेन विवर्जितः ।।
स सर्वैः पातकैर्हीनः कुलमुद्धृत्य वै शतम् ।। ९२ ।।
पश्यतामेव भूतानां भित्त्वा वै सूर्यमंडलम् ।।
याति विष्णोः परं धाम योगिनामपि दुर्लभम्।।९३।।
व्याख्यात्येवं द्विजकुलवरे माधवीयांश्च ।।
धर्मान्विष्ण्वादीष्टानतिमहितरान्व्याधपृष्टान्समस्तान् ।।९४।।
वटः सद्यः पश्यतामेव भूमौ पपाताहो पंचशाखी द्रुमोऽयम् ।।
वृक्षात्तस्मात्कोटरे संस्थितो हि व्यालः कश्चिद्दीर्घदेही करालः ।।
हित्वा देहं पापयोनिं च सद्यः स वै तस्थौ प्रांजलिर्नम्रमूर्धा ।। ९५ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखंडे वैशाखमासमाहात्म्ये नारदाम्बरीषसंवादे भागवतधर्मकथनंनाम विंशोऽध्यायः ।। २० ।।