स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वैशाखमासमाहात्म्यम्/अध्यायः १९

विकिस्रोतः तः
Jump to navigation Jump to search

।। व्याध उवाच ।। ।।
विष्णुमुद्दिश्य कर्तव्या धर्मा भागवताः शुभाः ।।
तत्राऽपि माधवीयाश्च इत्युक्तं तु त्वया पुरा ।। १ ।।
स विष्णुः कीदृशो ब्रह्मन्किं वा तस्य हि लक्षणम् ।।
किं मानं तस्य सद्भावैः कैर्ज्ञेयो भगवान्विभुः ।। २ ।।
कीदृशा वैष्णवा धर्माः केनाऽसौ प्रीयते हरिः ।।
एतदाचक्ष्व मे ब्रह्मन्किंकराय महामते ।।३।।
इति पृष्टस्तु व्याधेन पुनः प्राह स वै द्विजः।।
प्रणम्य जगतामीशं नारायणमनामयम्।। ४।।
शंख उवाच।। ।।
शृणु व्याध प्रवक्ष्यामि विष्णुरूपमकल्मषम् ।।
यदचिन्त्यं विरिंच्याद्यैर्मुनिभिर्भावितात्मभिः ।। ५ ।।
पूर्णशक्तिः पूर्णगुणो निर्दिष्टः सकलेश्वरः ।।
निर्गुणो निष्कलोऽनंतः सच्चिदानन्दविग्रहः ।। ६ ।।
यदेतदखिलं विश्वं चराचरमनीदृशम् ।।
साधिशंसाऽऽश्रयं यच्च यद्वशे नियतं स्थितम् ।। ७ ।।
अथ ते लक्षणं वच्मि ब्रह्मणः परमात्मनः ।।
उत्पत्तिस्थितिसंहारा ह्यावृत्तिर्नियमस्तथा ।। ८ ।।
प्रकाशौ बन्धमोक्षौ च वृत्तिर्यस्माद्भवंत्यमी ।।
स विष्णुर्ब्रह्मसंज्ञोऽसौ कवीनां संमतो विभुः ।। ९ ।।
साक्षाद्ब्रह्मेति तं प्राहुः पश्चाद्ब्रह्मादिकानपि ।।
ब्रह्मशब्दं सोपपदं ब्रह्मादिषु विदो विदुः ।। ।। 2.7.19.१० ।।
नान्येषां ब्रह्मता क्वाऽपि तच्छक्त्येकांशभागिनाम् ।।
तदेतच्छास्त्रगम्यं हि जन्माद्यस्य महाविभोः ।। ११ ।।
शास्त्रं च वेदाः स्मृतयः पुराणं वै तदात्मकम् ।।
इतिहासः पंचरात्रं भारतं च महामते ।। १२ ।।
एतैरेव महाविष्णुर्ज्ञेयो नान्यैः कथंचन ।।
नावेदविदमुं विष्णुं मनुते च नरः क्वचित् ।। १३ ।।
नेंद्रियैर्नानुमानैश्च न तर्कैः शक्यते विभुम् ।।
ज्ञातुं नारायणं देवं वेदवेद्यं सनातनम् ।। १४ ।।
अस्यैव जन्मकर्माणि गुणाञ्ज्ञात्वा यथामति ।।
मुच्यंते जीवसंघाश्च सदा तद्वशवर्तिनः ।। १५ ।।
क्रमाद्विष्णोश्च माहात्म्यं यथा सातिशयं भवेत् ।।
एकैकस्मिन्स्थिता शक्तिर्देवर्षिपितृमातृके ।। १६ ।।
प्रत्यक्षेणाऽऽगमेनापि तथैवाऽनुमयाऽपि च ।।
आदौ नरोत्तमं विद्याद्बले ज्ञाने सुखे तथा ।। १७ ।।
तस्माद्भूतं शतगुणं विद्याज्ज्ञानादिभिर्वृतम् ।।
भूतान्मनुष्यगंधर्वान्विद्याच्छतगुणाधिकान् ।। १८ ।।
तत्त्वाभिमानिनो देवास्तेभ्यो विद्याच्छताधिकान् ।।
तत्त्वाभिमानिदेवेभ्यः सप्तैव ऋषयो वराः ।।१९।।
सप्तर्षिभ्यो वरो ह्यग्निरग्नेः सूर्यादयस्तथा ।।
सूर्याद्गुरुर्गुरोः प्राणः प्राणादिंद्रो महाबलः ।। 2.7.19.२० ।।
इन्द्राच्च गिरिजा देवी देव्याः शंभुर्जगद्गुरुः ।।
शंभोर्बुद्धिर्महादेवी बुद्धेः प्राणो बलाधिकः ।। २१ ।।
न प्राणात्परमं किंचित्प्राणे सर्वं प्रतिष्ठितम् ।।
प्राणाज्जातमिदं विश्वं प्राणात्मकमिदं जगत् ।। २२ ।।
प्राणे प्रोतमिदं सर्वं प्राणादेव हि चेष्टते ।।
सर्वाधारमिमं प्राहुः सूत्रं नीलांबुदप्रभम् ।।२३।।
लक्ष्मीकटाक्षमात्रेण प्राणस्यास्य स्थितिर्भवेत् ।।
सा लक्ष्मीर्देवदेवस्य कृपालेशैकभाजिनी ।। २४ ।।
न विष्णोः परमं किंचिन्न समो वा कथंचन ।।
।। व्याध उवाच ।। ।।
कथं जीवेष्वयं प्राणः सूत्रनामाऽधिकोऽभवत्।।२५।।
निर्णयो वा कथं ह्यस्य प्राणाधिक्यं कथं विभो ।।
एतदाचक्ष्व मे ब्रह्मन्कथं प्राणाद्विभुः परः ।।२६।।
।। शंख उवाच ।।
शृणु व्याध प्रवक्ष्यामि यत्पृष्टो निर्णयस्तथा ।।
प्राणाधिक्यं समुद्दिश्य जीवैश्च सकलैरपि।।२७।।
पुरा नारायणो देवः पद्मसृष्टौ सनातनः ।।
सृष्ट्वा ब्रह्मादिकान्देवानिदं प्राह जनार्दनः ।। २८ ।।
साम्राज्येऽहं स्थापयेयं ब्रह्माणं वः पतिं प्रभुम् ।।
यो युष्मास्वधिको देवो यौवराज्ये सुरेश्वराः ।। ।। २९ ।।
तं स्थापयत शीलाढ्यं शौर्यौदार्यगुणान्वितम् ।।
इत्युक्ता विभुना देवाः सर्वे शक्रपुरोगमाः ।।2.7.19.३०।।
एवं विवदिरेऽन्योन्यमहं भूयामहं त्विति ।।
सर्वे विवदमानाश्च सूर्यं केचित्परं विदुः ।। ३१ ।।
शक्रं केचित्परं कामं केचित्तूष्णीं तु तस्थिरे ।।
ते निर्णयमपश्यंतः प्रष्टुं नारायणं ययुः ।। ३२ ।।
नमस्कृत्य पुनः प्राहुः सर्वे प्रांजलयोऽमराः ।।
विचारितं महाविष्णो सर्वैरस्माभिरंजसा ।। ३३ ।।
अस्मासु देवमधिकं नैव विद्मः कथंचन ।।
त्वमेव निर्णयं ब्रूहि देवाः संशयिनः खलु ।। ३४ ।।
इति पृष्टोऽमरैः सर्वैः प्रहसन्निदमब्रवीत् ।।
देहादस्माच्च वैराजाद्यस्मिन्निष्क्रामति ह्ययम्।। ३५ ।।
पतिष्यति प्रविष्टे तु यस्मिन्वै ह्युत्थितो भवेत् ।।
स देवो ह्यधिको नूनं नापरस्तु कथंचन ।। ३६ ।।
इत्युक्तास्ते ततः सर्वे तथास्त्विति वचोऽब्रुवन् ।।
निश्चक्राम जयंताह्वः पादात्पूर्वं सुरेश्वरः ।। ३७ ।।
तदा पंगुममुं प्राहुर्न देहः पतितस्तदा ।।
शृण्वन्पिबन्वदञ्जिघ्रन्पश्यन्नास्तेऽचलन्नपि ।। ३८ ।।
पश्चाद्गुह्याद्विनिष्क्रांतो दक्षोनाम प्रजापतिः ।।
तदा षंढममुं प्राहुर्न देहः पतितस्तदा ।। ३९ ।।
शृण्वन्पिबन्वदञ्जिघ्रन्पश्यन्नास्ते चलन्नपि ।।
पश्चाद्धस्ताद्विनिष्क्रांत इन्द्रः सर्वामरेश्वरः ।। 2.7.19.४० ।।
हस्तहीनममुं प्राहुर्न देहः पतितस्तदा ।।
शृण्वन्पिबन्वदञ्जिघ्रन्पश्यन्नास्ते चलन्नपि ।। ४१ ।।
लोचनाभ्यां विनिष्क्रांतः सूर्यस्तेजस्विनां वरः ।।
तदा काणममुं प्राहुर्न देहः पतितस्तदा ।। ४२ ।।
शृण्वन्पिबन्वदञ्जिघ्रन्पश्यन्नास्ते चलन्नपि ।।
प्राणात्पश्चाद्विनिष्क्रांतौ नासत्यौ विश्वभेषजौ ।।
अजिघ्राणममुं प्राहुर्न देहः पतितस्तदा ।। ।। ४३ ।।
शृण्वन्पिबन्वदन्नैव जिघ्रन्नास्तेऽचलन्नपि ।।
श्रोत्राद्दिशो विनिष्क्रांता न देहः पतितस्तदा ।।
तदामुं बधिरं प्राहुर्मृतं नैव कथंचन।।४४।।
पिबन्वदन्नपि तदा ह्यशृण्वन्नचलन्नपि ।।
वरुणो रसनायास्तुविनिष्क्रांतस्ततः परम् ।।
तदाऽरसज्ञमेवाहुर्न देहः पतितस्तदा ।। ४५ ।।
जीवंश्चलन्नदन्नास्ते तथा जानञ्च्छवसन्नपि ।।
ततो वाचो विनिष्क्रांतो वह्निर्वागीश्वरो विभुः ।। ४६ ।।
तदा मूकममुं प्राहुर्न देहः पतितस्तदा ।।
जीवंश्चलन्नदन्नास्ते तथा जानञ्छ्वसन्नपि ।।४७।।
पश्चाद्रुद्रो विनिष्क्रांतो मनसो बोधनात्मकः।।
तदा जडममुं प्राहुर्न देहः पतितस्तदा ।।४८।।
जीवंश्चलन्नदन्नास्ते तथा जानञ्छ्वसन्नपि ।।
पश्चात्प्राणो विनिष्क्रांतो मृतमेनं तदा विदुः ।।
पुनरेवं तदा प्राहुर्देवा विस्मितमानसाः ।। ४९ ।।
देहमुत्था पयेद्यस्तु पुनरेवं व्यवस्थितः ।।
स एव ह्यधिकोऽस्मासु युवराजा भविष्यति ।। 2.7.19.५० ।।
इत्येवं तु प्रतिश्रुत्य विविशुश्च यथाक्रमम् ।।
जयंतः प्राविशत्पादौ नोत्तस्थौ तत्कलेवरम् ।। ५१ ।।
गुह्यं च प्राविशद्दक्षो नोत्तस्थौ तत्कलेवरम् ।।
इन्द्रो हस्तौ विवेशाऽथ नोत्तस्थौ तत्कलेवरम् ।। ।। ५२ ।।
चक्षुः सूर्यः प्रविष्टोऽभून्नोत्तस्थौ तत्कलेवरम् ।।
दिशः श्रोत्रे प्रविविशुर्नोत्तस्थौ तत्कलेवरम्।। ५३ ।।
वरुणः प्राविशजिह्वां नोत्तस्थौ तत्कलेवरम् ।।
नासां विविशतुर्दस्रौ नोत्तस्थौ तत्कलेवरम् ।। ५४ ।।
वह्निश्च प्राविशद्वाचं नोत्तस्थौ तत्कलेवरम् ।।
मनश्च प्राविशद्रुद्रो नोत्तस्थौ तत्कलेवरम् ।। ५५ ।।
पश्चात्प्राणो विवेशासौ तदोत्तस्थौ कलेवरम् ।।
तदा देवा विनिश्चित्य प्राणं देवाधिकं विभुम्।। ५६ ।।
बले ज्ञाने च धैर्ये च वैराग्ये प्राणनेऽपि च ।।
ततोऽभिषेचयांचक्रुर्यौवराज्ये महाप्रभुम् ।।५७ ।।
उत्कृष्टस्थितिहेतुत्वादुक्थमेकं तदा जगुः ।।
तस्मात्प्राणात्मकं विश्वं सर्वं स्थावरजंगमम् ।। ५८ ।।
अंशैः पूर्णैर्बलाढ्यैश्च पूर्णोऽयं जगतां पतिः ।।५९।।
न प्राणहीनं जगदस्ति किंचित्प्राणेन हीनं न च वै समेधते ।।
न प्राणहीनं स्थितमत्र किंचित्प्राणेन हीनं न च किंचिदस्ति ।।
तस्मात्प्राणः सर्वजीवाधिकोऽभूद्बलाधिकः सर्वजीवांतरात्मा ।। 2.7.19.६० ।।
प्राणात्कोऽपि ह्यधिको वा समो वा शास्त्रे दृष्टः श्रुतपूर्वो न चाऽऽस्ते ।। ६१ ।।
तत्तत्कार्यानुगः प्राणो ह्येको देवो ह्यनेकधा ।।
तस्मात्प्राणं वरं प्राहुः प्राणोपासनतत्पराः ।।
लीलयैव जगत्स्रष्टुं हन्तुं पालयितुं प्रभुः ।। ६२ ।।
शेषाऽहिशिवशक्राद्याश्चेतनाश्च जडा अपि ।।
वासुदेवादृते कोऽपि नैनं परिभविष्यति ।। ६३ ।।
सर्वदेवात्मकः प्राणः सर्वदेवमयो विभुः ।।
वासुदेवाऽनुगो नित्यं तथा विष्णुवशस्थितः ।। ६४ ।।
वासुदेवप्रतीपं तु न शृणोति न पश्यति ।।
देवाः प्रतीपं कुर्वंति रुद्राद्याः सुरेश्वराः ।। ६५ ।।
प्रतीपं क्वाऽपि कुरुते न प्राणः सर्वगोचरः ।।
तस्मात्प्राणो महाविष्णोर्बलमाहुर्मनीषिणः।।६६।।
एवं ज्ञात्वा महाविष्णोर्माहात्म्यं लक्षणं तथा ।।
पूर्वबन्धानुगं लिंगं जीर्णां त्वचमिवोरगः ।। ६७।।
विसृज्य परमं याति नारायणमनामयम् ।।
श्रुत्वा शंखोदितं वाक्यं पुनर्व्याधः प्रसन्नधीः ।। ६८ ।।
प्रश्रयाऽवनतो भूत्वा पुनः पप्रच्छ तं मुनिम् ।।
ब्रह्मन्महानुभावस्य प्राणस्याऽस्य जगद्गुरोः ।। ६९ ।।
न ख्यातो महिमा लोके कथं सर्वेश्वरस्य वै ।।
देवानां च मुनीनां च भूपानां च महात्मनाम् ।। 2.7.19.७० ।।
महिमा श्रूयते लोके पुराणेषु सहस्रशः ।।
एतदाचक्ष्व मे ब्रह्मञ्छ्रोतुं कौतूहलं हि मे ।। ७१ ।।
।। शंख उवाच ।। ।।
पुरा प्राणो हरिं देवं नारायणमनामयम् ।।
अश्वमेधैर्यष्टुकामो गङ्गातीरं ययौ मुदा ।। ७२ ।।
हलैश्चकार भूशुद्धिं नानामुनिगणैर्युतः ।।
अन्तर्वल्मीकलीनस्तु कण्वो नाम समाधिगः ।। ७३ ।।
हलोत्कृष्टो विनिष्क्रांतः क्रोधादिदमुवाच ह ।।
दृष्ट्वा पुरः स्थितं प्राणं शशाप ह महाविभुम् ।। ७४ ।।
अद्यप्रभृति न ख्यातिं महिमा भुवनत्रये ।।
तव प्राप्नोति देवेश भूलोके तु विशेषतः ।। ७५ ।।
प्रख्यातास्ते भविष्यंति ह्यवतारा जगत्त्रये ।।
इत्युक्तो मुनिना तेन वायुः कोधात्तमब्रवीत् ।। ७६ ।।
विनापराधं शप्तोऽस्मि तितिक्षुं मां निरागसम् ।।
तस्मात्कण्व महाबाहो गुरुद्रोही भवाऽऽशु च ।। ७७ ।।
लोके निन्दितवृत्तिश्च भवेत्याह सदागतिः ।।
ततः प्रभृति लोकेऽस्मिन्प्राणस्याऽस्य महाप्रभो ।। ७८ ।।
न ख्यातो महिमा लोके भूलोके तु विशेषतः ।।
शापात्कण्वो गुरुं जग्ध्वा सूर्यशिष्योऽभवत्तदा ।। ७९ ।।
इत्येतत्कथितं सर्वं यत्पृष्टं तु त्वयाऽधुना ।।
यच्छ्रोतव्यमितो व्याध पृच्छ मां मा विचारय ।। 2.7.19.८० ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे वैशाखमासमाहात्म्ये नारदाम्बरीषसंवादे वायुशापकथनंनामैकोनविंशोऽध्यायः ।। १९ ।। ।। छ ।। ।।