स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वैशाखमासमाहात्म्यम्/अध्यायः १६

विकिस्रोतः तः

।। ।। श्रुतदेव उवाच ।। ।।
तद्दर्शनाह्लादपरिप्लुताशयः सद्यः समुत्थाय ननाम मूर्ध्ना ।।
चिरं निरीक्ष्याऽऽकुललोचनो ह्यमुं विश्वात्मदेवं जगतामधीशम् ।। १ ।।
दधार पादाववनिज्य तज्जलं यत्पादजाऽऽब्रह्म जगत्पुनाति ।।
समर्चयामास महाविभूतिभिर्महार्हवस्त्राभरणानुलेपनैः ।। २ ।।
स्रग्धूपदीपामृतभक्षणादिभिस्त्वग्गात्रवित्तात्मसमर्पणेन ।।
तुष्टाव विष्णुं पुरुषं पुराणं नारायणं निर्गुणमद्वितीयम् ।। ३ ।।
निरंजनं विश्वसृजामधीशं वन्दे परं पद्मभवादिवंदितम् ।।
यन्मायया तत्त्वविदुत्तमा जना विमोहिता विश्वसृजामधीश्वरम् ।। ।। ४ ।।
मुह्यंति मायाचरितेषु मूढा गुणेषु चित्रं भगवद्विचेष्टितम् ।।
अनीह एतद्बहुधैक आत्मना सृजत्यवत्यत्ति न सज्जतेऽप्यथ ।। ५ ।।
समस्तदेवासुरसौख्यदुःखप्राप्त्यै भवान्पूर्णमनोरथोऽपि ।।
तत्राऽपि काले स्वजनाभिगुप्त्यै बिभर्षि सत्त्वं खलनिग्रहाय ।। ६ ।।
तमोगुणं राक्षस बन्धनाय रजोगुणं निर्गुण विश्वमूर्ते ।।
दिष्ट्या त्वदंघ्रिः प्रणताघनाशनस्तीर्थास्पदं हृदि धृतः सुविपक्वयोगैः ।। ७ ।।
उत्सिक्तभक्त्युपहृताशय जीवभावाः प्रापुर्गतिं तव पदस्मृतिमात्रतो ये ।।
भवाख्यकालोरगपाशबन्धः पुनःपुनर्जन्मजरादिदुःखैः ।। ८ ।।
भ्रमामि योनिष्वहमाखुभक्ष्यवत्प्रवृद्धतर्षस्तव पादविस्मृतेः ।।
नूनं न दत्तं न च ते कथा श्रुता न साधवो जातु मयाऽपि सेविताः ।। ९ ।।
तेनारिभिर्ध्वस्तपरार्ध्यलक्ष्मीर्वनं प्रविष्टः स्वगुरुह्यघं स्मरन् ।।
स्मृतौ च तौ मां समुपेत्य दुःखात्संबोधयांचक्रतुरार्तबंधू ।। 2.7.16.१० ।।
वैशाखधर्मैः श्रुतिचोदितैः शुभैः स्वर्गापवर्गादि पुमर्थहेतुभिः ।।
तद्बोधतोऽहं कृतवान्समस्ताञ्च्छुभावहान्माधवमासधर्मान् ।। ११ ।।
तस्मादभून्मे परमः प्रसादस्तेनाखिलाः संपद ऊर्जिता इमाः ।।
नाग्निर्न सूर्यो न च चन्द्रतारका न भूर्जलं खं श्वसनोऽथ वाङ्मनः ।। १२ ।।
उपासितास्तेऽपि हरत्यघं चिराद्विपश्चितो घ्नन्ति मुहूर्तसेवया ।।
यान्मन्यसे त्वं भविनोऽपि भूरिशस्त्यक्तेषणांस्त्वत्पदन्यस्तचित्तान्।। १३ ।।
नमः स्वतंत्राय विचित्रकर्मणे नमः परस्मै सदनुग्रहाय ।।
त्वन्मायया मोहितोऽहं गुणेषु दारार्थरूपेषु भ्रमाम्यनर्थदृक् ।। १४ ।।
त्वत्पादपद्मे सति मूलनाशने समस्तपापापहरं सुनिर्मलम् ।।
सुखेच्छयानर्थनिदानभूतैः सुतात्मदारैर्ममताभियुक्तः ।। १५।।
न क्वापि निद्रां लभते न शर्म प्रवृद्धतर्षः पुनरेव तस्मिन् ।।
लब्ध्वा दुरापं नरदेवजन्म त्वं यत्नतः सर्वपुमर्थहेतुः ।।१६।।
पदारविन्दं न भजामि देव संमूढचेता विषयेषु लालसः ।।
करोमि कर्माणि सुनिष्ठितः सन्प्रवृद्धतर्षस्तदपेक्षया ददत् ।। १७ ।।
पुनश्च भूयामहमद्य भूयामित्येव चिन्ताशतलोलमानसः।।
तदैव जीवस्य भवेत्कृपा विभो दुरंतशक्तेस्तव विश्वमूर्ते ।। १८ ।।
समागमः स्यान्महतां हि पुंसां भवांबुधिर्येन हि गोष्पदायते ।।
सत्संगमो देव यदैव भूयात्तर्हीश देवे त्वयि जायते मतिः ।।१९।।
समस्तराज्यापगमं हि मन्ये ह्यनुग्रहं ते मयि जातमञ्जसा ।।
यथार्य ते ब्रह्मसुरासुराद्यैर्निवृत्ततर्षैरपि हंसयूथैः ।। 2.7.16.२० ।।
इतः स्मराम्यच्युतमेव सादरं भवापहं पादसरोरुहं विभो ।।
अकिंचनप्रार्थ्यममन्दभाग्यदं न कामयेऽन्यत्तव पादपद्मात् ।। ।। २१ ।।
अतो न राज्यं न सुतादिकोशं देहेन शश्वत्पतता रजोभुवा ।।
भजामि नित्यं तदुपासितव्यं पादारविंदं मुनिभिर्विचिन्त्यम् ।। २२ ।।
प्रसीद देवेश जगन्निवास स्मृतिर्यथा स्यात्तव पादपद्मे ।।
सक्तिः सदा गच्छतु दारकोशपुत्रात्मचिह्नेषु गणेषु मे प्रभो।। २३ ।।
भूयान्मनः कृष्णपदारविन्दयोर्वचांसि ते दिव्यकथानुवर्णने ।।
नेत्रे ममेमे तव विग्रहेक्षणे श्रोत्रे कथायां रसना तदर्पिते ।। २४ ।।
घ्राणं च त्वपादसरोजसौरभे त्वद्भक्तगन्धादिविलेपने सकृत् ।।
स्यातां च हस्तौ तव मन्दिरे विभो संमार्ज्जनादौ मम नित्यदैव ।। २५ ।।
पादौ विभो क्षेत्रकथाऽनुसर्पणे मूर्धा च मे स्यात्तव वन्दनेऽनिशम् ।।
कामश्च मे स्यात्तव सत्कथायां बुद्धिश्च मे स्यात्तव चिंतनेऽनिशम् ।। २६ ।।
दिनानि मे स्युस्तव सत्कथोदयैरुद्गीयमानैर्मुनिभिर्गृहागतैः ।।
हीनः प्रसंगस्तव मे न भूयात्क्षणं निमेषार्द्धमथाऽपि विष्णो ।। २७ ।।
न पारमेष्ठ्यं न च सार्वभौमं न चापवर्गं स्पृहयामि विष्णो ।।
त्वत्पादसेवां च सदैव कामये प्रार्थ्यां श्रिया ब्रह्मभवादिभिः सुरैः ।। २८ ।।
इति राज्ञा स्तुतो विष्णुः प्रसन्नः कमलेक्षणः ।।
मेघगम्भीरया वाचा तमुवाच क्षितीश्वरम् ।। २९ ।।
।। श्रीभगवानुवाच ।। ।।
जाने त्वां दासवर्यं मे निष्कामुकमकल्मषम् ।।
अथाऽपि ते प्रदास्यामि वरं दैवतदुर्लभम् ।। 2.7.16.३० ।।
आयुष्यं चायुतं दिव्यं संपदश्च नरेश्वर ।।
भक्तिर्मयि दृढा भूयादन्ते सायुज्यमेव च ।। ३१ ।।
त्वया कृतेन स्तोत्रेण मां स्तुवन्ति च ये भुवि ।।
तेषां तुष्टः प्रदास्यामि भुक्तिं मुक्तिं न संशयः ।। ३२ ।।
तृतीयैषाऽक्षयानाम भुवि ख्याता भविष्यति ।।
यस्यां तव प्रसन्नोऽहं भुक्तिमुक्तिफलप्रदः ।। ३३ ।।
ये कुर्वंति नरा मूढाः स्नानदानादिकाः क्रिया ।।
व्याजेनाऽपि स्वभावाद्वा यांति मत्पदमव्ययम् ।। ३४ ।।
ये चाऽक्षयतृतीयायां पितॄनुद्दिश्य मानवाः ।।
श्राद्धं कुर्वंति तेषां वै तदानंत्याय कल्पते ।। ३५ ।।
न चानया तिथिर्लोके समा वा नाधिका भुवि।।
अस्यां कृतं स्वल्पमपि तदक्षय्यफलं भवेत् ।। ३६ ।।
यो गां दद्यान्नृपश्रेष्ठ ब्राह्मणाय कुटुंबिने ।।
सर्वसंपत्प्रवर्षाख्या भुक्तिमुक्तिः करे स्थिता ।। ३७ ।।
यो हि दद्यादनड्वाहं सर्वपापविनाशनम् ।।
कालमृत्युविमुक्तः सन्दीर्घायुष्यमवाप्नुयात् ।। ३८ ।।
वैशाखमासे यो धर्मान्कुरुते मत्प्रियावहान् ।।
तेषां मृत्युजराजन्मभयं पापं हराम्यहम् ।। ३९ ।।
यथा वैशाखधर्मैस्तु तुष्टः स्यां सकलैरपि ।।
मासधर्मैर्न तुष्टः स्यां मासो मे माधवः प्रियः ।। ।। 2.7.16.४० ।।
सर्वधमोज्झिता वापि ब्रह्मचर्यविवर्जिताः।।
वैशाखमासनिरता यांति मत्पदमव्ययम् ।।४१।।
यद्दुरापं तपोभिश्च सांख्ययोगैर्मखैरपि ।।
तद्धाम परमं यांति वैशाखनिरता नराः ।। ४२ ।।
अपि पापसहस्रं वा मासोऽयं हरतेऽनघ ।।
प्रायश्चित्तविहीनं वा मत्पादस्मरणं यथा ।।४३।।
गुरूपदिष्टः कांतारे वैशाखे निरतो भवान् ।।
समाराध्य जगन्नाथं तेनाप्तमखिलं नृप ।। ४४ ।।
धर्मेणानेन संप्रीतः प्रत्यक्षोऽहं भवामि ते ।।
भुक्त्वा भोगान्यथाकामान्देवैरपिसुदुर्लभान् ।। ४५ ।।
इति तस्मै वरं दत्त्वा देवदेवो जनार्दनः ।।
पश्यतामेव सर्वेषां तत्रैवांतरधीयत ।। ४६ ।।
ततो भूपालवर्योऽसौ बभूवात्यंतविस्मितः ।।
हृष्टपुष्टतनुर्भूप लब्धनष्टधनो यथा ।। ४७ ।।
ततः शशास पृथिवीं तच्चित्तस्तत्परायणः ।।
महद्भिर्बोधितो नित्यं गुरुभिश्च निरंतरम् ।। ४८ ।।
नान्यं प्रियतमं मेने वासुदेवमृते नृपः ।।
यत्संपर्कात्प्रिया आसन्दारामात्यसुतादयः ।। ४९ ।।
सर्वान्धर्मांश्चकाराऽसौ वैशाखोक्तान्पुनःपुनः ।।
तेन पुण्यप्रभावेन पुत्रपौत्रादिभिर्वृतः ।। 2.7.16.५० ।।
भुक्त्वा मनोरथान्सर्वान्देवानामपि दुर्लभान् ।।
अंते जगाम सायुज्यं विष्णोर्देवस्य चक्रिणः ।। ५१ ।।
य इदं परमाख्यानं शृण्वन्ति श्रावयंति च ।।
ते सर्वे पापनिर्मुक्ता यांति विष्णोः परं पदम् ।।५२।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे वैशाखमासमाहात्म्ये नारदाम्वरीषसंवादे पांचालाधिपतेः सायुज्यप्राप्तिर्नाम षोडशोऽध्यायः ।। १६ ।।