स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वैशाखमासमाहात्म्यम्/अध्यायः १५

विकिस्रोतः तः
Jump to navigation Jump to search

।। श्रुतदेव उवाच ।। ।।
भूयः शृणुष्व भूपाल माहात्म्यं पापनाशनम् ।।
वैशाखस्य च मासस्य वल्लभस्य मधुद्विषः ।। १ ।।
पुरा पांचालदेशे तु राजा पुरुयशोऽभवत् ।।
तनयो भूरियशसः पुण्यशीलस्य धीमतः ।। २ ।।
पितर्युपरते भूप राज्यस्थो धर्मलालसः ।।
शौर्यौदार्यगुणोपेतो धनुर्विद्याविशारदः ।। ३ ।।
शशास पृथिवीं सर्वां स्वधर्मेण महामतिः ।।
पूर्वजन्मजलादानाद्दोषेण महता वृतः ।। ४ ।।
संपद्धानिमवापाऽसौ कालेन कियताऽनघ ।।
हया गजा मृतिं याता महद्रोगेण पीडिताः ।। ५ ।।
दुर्भिक्षमतुलं चासीन्निर्मानुष्यविधायकम् ।।
राज्यं कोशं तदा चाऽऽसीद्गजभुक्तकपित्थवत् ।। ६ ।।
बलहीनं नृपं ज्ञात्वा कोशराष्ट्रविवर्जितम् ।।
तं जेतुमेष समय इति निश्चितमानसाः ।। ७ ।।
आजग्मुः शतशो भूपा रिपवस्तस्य भूपतेः ।।
जिग्युर्युद्धेन तं भूपं पांचालविषयाधिपम् ।। ८ ।।
पराजितस्ततो राजा विवेश गिरिगह्वरे ।।
शिखिन्या भार्यया साकं धात्र्यादिगणसंयुतः ।। ९ ।।
अज्ञातपद्धतिश्चान्यैर्बहुदुःखसमाकुलः ।।
त्रिपंचाशत्समाश्चैव नीतास्तेन विलीयता ।। 2.7.15.१० ।।
चिन्तयामास भूपालः किमेतदिति भूरिशः ।।
कर्मणा जन्मशुद्धोऽहं मातृपितृहिते रतः ।। ११ ।।
गुरुभक्तः सदाक्षिण्यो ब्रह्मण्यो धर्मतत्परः ।।
दयावान्सर्वभूतेषु देवभक्तो जितेन्द्रियः।। १२ ।।
न भ्राता मे न पुत्रो मे न च मे सुहृदो हिताः ।।
दयापौरुषविख्याताः कुलीनस्याऽपि मे कुतः ।। १३ ।।
केन वा कर्मणा चाप्तं दारिद्र्यं भूरिदुःखदम् ।।
केन वाऽपजयो मेऽद्य केन वा वनवासिता ।। १४ ।।
इति चिन्ताकुलो राजा गुरुं सस्मार खिन्नधीः।।
याजोपयाजकौ नाम सर्वज्ञौ मुनिसत्तमौ ।। १५ ।।
आजग्मतुर्मुनीद्रौ तौ राज्ञाहूतौ महामती ।।
तौ दृष्ट्वा सहसोत्थाय राजा पांचालवल्लभः ।। १६ ।।
ननाम शिरसा भक्त्या प्रवासेनाऽतिपीडितः ।।
राजचिह्नविहीनश्च केनाप्यज्ञातपद्धतिः ।। १७ ।।
तूष्णीं तस्थौ मुहूर्तं हि पतित्वा भुवि पादयोः ।।
दोर्भ्यामुत्थापितस्ताभ्यां परिमृष्टाऽश्रुलोचनः ।। १८ ।।
विधिवत्पूजयामास वन्यैरेवाऽर्हणैः शुभैः ।।
सूपविष्टौ तु तौ विप्रौ पप्रच्छाऽऽनतकन्धरः ५११ ।।
ब्राह्मणौ वदतं दुःखकारणं च क्षितीशितुः ।।
कर्मणा जन्मशुद्धस्य पितृदेवप्रियस्य च ।। 2.7.15.२० ।।
पापभीरोः कृपालोश्च गुरुभक्तस्य मे कुतः ।।
दारिद्र्यं कोशहानिश्च रिपुभिश्च पराभवः ।। २१ ।।
कस्मादरण्यवासश्च कुत एकाकिता मम ।।
न पुत्रो न च मे भ्राता न हिताः सुहृदश्च मे ।। ।। २२ ।।
दुर्भिक्षं वा कुतश्चासीद्देशे मत्पालितेऽनघे ।।
एतद्विस्तार्य मे ब्रूतं कारणं मुनिपुंगवौ ।। २३ ।।
इत्युक्तौ तौ मुनिश्रेष्ठौ भूतेनात्यन्तदुःखिना ।।
प्रत्यूचतुर्महात्मानौ किंचिद्ध्यानपरायणौ ।। २४ ।।
।। याजोपयाजकावूचतुः ।। ।।
शृणु भूप प्रवक्ष्यावस्तव दुःखस्य कारणम् ।।
पुरा भूप महापापी व्याधस्त्वं दशजन्मसु ।।२५।।
निष्ठुरः सर्वलोकानां सदा हिंसापरायणः ।।
धर्मलेशाकरः क्वापि न दमो न च वै शमः ।।२६।।
न जिह्वा वक्ति नामानि विष्णोर्वापि कथंचन ।।
चेतः स्मरति गोविन्दचरणांबुरुहद्वयम् ।। २७ ।।
न प्रणामः कृतः क्वापि शिरसा परमात्मने ।।
नवजन्मानि ते भूप गतान्येवं दुरात्मनः ।। २८ ।।
दशमे जन्मनि प्राप्ते व्याधस्त्वं सह्य भूधरे ।।
निष्ठुरः सर्वलोकानां नराणां त्वं नरांतकः ।। २९ ।।
दयाहीनः शस्त्रजीवी सदा हिंसापरायणः ।।
निर्गुणः सकलत्रस्त्वं मार्गपीडाकरः शठः।। 2.7.15.३० ।।
प्रजानां गौडदेश्यानां राक्षसो मानुषाशनः ।। एवं चा
ब्दान्यतीतानि नैजं हितमजानतः ।। ३१ ।।
बालापत्यमृगाणां च पक्षिणां च वधात्तव। ।।
दयाहीनस्य दुर्बुद्धेर्जन्मन्यस्मिन्नपुत्रता ।। ३२ ।।
विश्वासघातकत्वेन भ्रातरो नैव सोदराः ।।
मार्गपीडाकरत्वेन सुहृज्जनविवर्जितः ।। ३३ ।।
साधूनां च तिरस्काराच्छत्रुभिस्ते पराजयः ।।
कदाप्यदत्तदोषेण दारिद्यं पतितं गृहे ।। ३४ ।।
सदैवोद्वेगकारित्वात्प्रवासस्ते दुरासदः ।।
सर्वेषामप्रियत्वाच्च दुःखमत्यंतदुःसहम् ।। ३५ ।।
निराहारोप्यतः पूर्वं सदा क्रूरेण कर्मणा ।।
तस्माद्राज्यापहारस्ते जन्मन्यस्मिन्महामते ।। ३६ ।।
अथ ते सत्कुलीनत्वे हेतूंश्चापि ब्रवीम्यहम् ।।
यदाऽभूर्गौडदेशीयो ह्यंतिमे व्याधजन्मनि ।। ३७ ।।
स्वकर्मनिरते क्रूरे विपिने कण्टकाविले ।।
तिष्ठत्येवं दयाहीने सर्वभूतांतके पथि ।। ३८ ।।
वैश्यावाजग्मतुर्दिव्यौ धनाढ्यौ घर्मपीडितौ ।।
मुनिश्च कर्षणोनाम वेदवेदांगपारगः ।। ३९ ।।
जटाचीरधरः पुण्यः कमण्डलुपरिग्रहः ।।
तान्दृष्ट्वा धनुरादाय मार्गं रुद्ध्वा व्यवस्थितः ।। 2.7.15.४० ।।
अनुद्रुत्य शरी वैश्यौ कृत्वा छिन्नशरीरकौ ।।
तयोरेकं च त्वं हत्वा गृहीत्वाऽखिल तत्पणम् ।। ४१ ।।
अपरं हन्तुमुद्युक्ते स दुद्राव भयाद्द्रुतम् ।।
पणं गुल्मे विनिक्षिप्य भीतः प्राणपरीप्सकः ।। ।। ४२ ।।
कर्षणोऽपि मुनिः शीघ्रं व्याधान्मृतिविशंकया ।।
आतपे धावमानः संस्तृषाघर्मप्रपीडितः ।। ४३ ।।
मूर्च्छामाप गलत्स्वेदः संज्ञामात्रावशेषितः ।।
विहायैनं दुद्रुवे च वैश्यो जीवनतत्परः ।। ४४ ।।
त्वं तावनुद्रुतौ दृष्ट्वा मूर्छितं पथि भूसुरम् ।।
पणं कुत्र विनिक्षिप्तं कियद्दूरं गतो वणिक् ।। ४५ ।।
इति पृष्टं द्विजं श्रांतमुज्जीवयितुमुद्यतः ।।
फूत्कृत्वा कर्णयोस्तस्य नागरं स्मृतिकारणम् ।। ४६ ।।
पल्वलस्थोदकेनैव कृमिकर्दमसंयुजा ।।
नेत्रे संमृज्य श्रांतस्य पर्णैः संवीज्य तन्मुखे ।। ४७ ।।
ससंज्ञं च मुनिं कृत्वा त्वमात्थ स्वस्थमानसः ।।
मा शंका ते मुने कार्या मत्तः शस्त्रभृतो वने ।। ४८ ।।
निष्किंचनः सुखी लोके कुतस्ते भयमुल्बणम् ।।
भिन्नपात्रेण जीर्णेन न मे किंचिद्भविष्यति ।। ४९ ।।
एतावद्वद मे विद्वन्वणिक्कुत्र पलायितः ।।
कुत्र गुल्मे धनं क्षिप्तं तेन शीघ्रं पलायता ।। 2.7.15.५० ।।
अन्यथा त्वां हनिष्यामि यदि मिथ्या वदिष्यसि ।। ।।
।। कर्षण उवाच ।। ।।
धनं गुल्मे विनिक्षिप्तं मार्गादस्मात्पलायितः ।।५१।।
इति प्राह भयात्सोपि पृष्टः प्राणपरीप्सया।।
गच्छ विप्र सुखं मार्गं मत्तो भीतिं विहाय व ।। ५२ ।।
इतो विदूरे सलिलं तडागे वर्तते शुभम् ।।
तत्पीत्वा सलिलं पुण्यं गच्छ ग्रामं गतश्रमः ।। ५३ ।।
अधुनैवागमिष्यंति राजकीयाः पथा जनाः ।।
मत्पदान्वेषणे सक्ताः श्रुत्वा रावं वणिक्पतेः ।। ५४ ।।
तृषार्तमनुगंतुं मे न शक्यं त्वां ततो द्विज ।।
वीजयानेन पर्णेन घर्मः किंचिद्गमिष्यति ।। ५५ ।।
तस्मै दत्त्वा पलाशं च त्वमागा विपिनं पुनः ।।
तेन पुण्यप्रभावेन वैशाखे घर्मघर्घरे ।। ५६ ।।
स्वकार्यार्थं कृतेनापि मुनेस्त्राणाय पद्धतौ ।।
जन्मासीत्ते महापुण्ये राजवंशेऽतिविस्तृते ।। ५७ ।।
यदीच्छसि सुखं राज्यं धनधान्यादिसंपदः ।।
स्वर्गापवर्गौ यदि वा सायुज्यं वा हरेः पदम् ।। ५८ ।।
कुरु वैशाखधर्मांस्त्वं सर्वसौख्यमवाप्स्यसि ।।
मासोऽयं माधवो नाम तृतीया चाक्षयाह्वया ।। ५९ ।।
गां च सकृत्प्रसूताख्यां देहि विप्राय सीदते ।।
तेन ते कोशपूर्तिः स्याच्छय्यां देहि सुखं भवेत् ।। 2.7.15.६० ।।
कुरु च्छत्रप्रदानं च साम्राज्यं ते भविष्यति ।।
स्नानं कुरु यथान्यायं तथैवार्चय माधवम् ।। ६१ ।।
देहि त्वं प्रतिमां दिव्यां कृत्वा तेन जयो भवेत् ।।
आत्मतुल्यगुणान्पुत्रान्यदि कामयसे नृप ।। ६२ ।।
सर्वभूतहितार्थाय प्रपादानं च त्वं कुरु ।।
वैशाखोक्तानिमान्धर्मान्सम्यगाचर भूमिप ।। ६३ ।।
तेन ते सकला लोका वशं यांति न संशयः ।।
निष्कामकेन चित्तेन यदि धर्मान्करिष्यसि ।। ६४ ।।
वैशाखे पुण्यमासेऽस्मिन्प्रीतये मधुघातिनः ।।
प्रत्यक्षो भविता विष्णुस्तवनिर्मलचेतसः ।। ६५ ।।
येन चाचरिताः पुंसा धर्माह्येते शुभावहाः ।।
 तेषां च ह्यक्षया लोकाः पुराणे कवयो विदुः।। ।। ६६ ।।
एतत्सर्वं तव प्रोक्तं यथादृष्टं यथाश्रुतम् ।।
इति राजानमामंत्र्य ब्राह्मणौ च पुरोधसौ ।। ६७ ।।
याजोपयाजकौनाम जग्मतुस्तौ यथागतौ ।।
ततो राजा महावीर्यः पुरोधोभ्यां च बोधितः ।। ६८ ।।
वैशाखधर्मात्सकलांश्चकार श्रद्धयाऽन्वितः ।।
यथोपदिष्टं च तथा मधुसूदनमर्चयत् ।। ६९ ।।
ततो लब्धप्रभावः सन्बंधुभिः सकलैर्वृतः ।।
पांचालनगरीं प्राप हतशेषबलान्वितः ।। 2.7.15.७० ।।
ततस्तु शत्रवो भूपा उपश्रुत्य च भूपतेः ।।
प्रवेशं च पुरस्याऽथ पुनराजग्मुरुद्धताः ।। ७१ ।।
तदा पांचालभूपेन नृपाणामभवद्रणम्।।
जिग्ये सर्वान्महाबाहूनेक एव महारथः ।। ७२ ।।
पलायितेषु भूपेषु नानादेशपथिष्वपि ।।
राज्ञां कोशगजानश्वान्स्वयं जग्राह वीर्यवान् ।। ७३ ।।
अश्वानां निर्बुदं चैव गजानां च त्रिकोटिकम् ।।
रथानामर्बुदं चैव दीर्घग्रीवायुतं तथा ।। ७४ ।।
रासभाणां त्रिलक्षाणि प्रापयामास तां पुरीम् ।।
वैशाखधर्ममाहात्म्यात्क्षणात्सर्वे च भूभृतः ।। ७५ ।।
करदा भग्नसंकल्पाः पादाक्रांता बभूविरे ।।
सुभिक्षमतुलं चासीत्पांचालविषयेषु च ।। ७६ ।।
एकच्छत्रमभूद्राज्यं प्रसादान्मधुघातिनः ।।
पुत्राः पंचाऽपि तस्यासञ्च्छौर्य्यौदार्यगुणान्विताः ।। ।। ७७ ।।
धृष्टकीर्तिर्धृष्टकेतुर्धृष्टद्युम्नस्तथाऽपरे ।।
विजयश्चित्रकेतुश्च मयूरध्वजसन्निभाः ।। ७८ ।।
अनुरक्ताः प्रजाश्चासन्धर्मेण प्रतिपालिताः ।।
वैशाखस्य प्रतापेन प्रत्ययस्तत्क्षणादभूत् ।। ७९ ।।
पुनश्चकार तान्धर्मान्पांचालनगरीश्वरः ।।
अकामुकेन चित्तेन प्रीतये मधुघातिनः ।। 2.7.15.८० ।।
धर्मेणानेन संतुष्टो भगवान्मधुसूदनः ।।
अक्षयायां तृतीयायां प्रत्यक्षः समजायत ।। ८१ ।।
तं दृष्ट्वा विस्मितो भूत्वा परमात्मानमच्युतम् ।।
नारायणं चतुर्बाहुं शंखचकगदाधरम् ।। ८२ ।।
पीतांबरधरं देवं वनमालाविभूषितम् ।।
सलक्ष्मीकं सानुगं च गरुडोपरि संस्थितम् ।। ८३ ।।
निरीक्ष्य दुःसहं तेजः सद्यो मीलितलोचनः ।।
उत्पतन्संपतन्हर्षान्मत्तोन्मत्त इव भ्रमन् ।। ।। ८४ ।।
पुलकांकितसर्वांगो गलद्वाष्पाकुलेक्षणः ।।
तुष्टाव परया भक्त्या प्रांजलिः प्रणतो भुवि ।। ८५ ।।
इति श्रीस्कांदे महा पुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे वैशाखमास माहात्म्ये नारदाम्बरीषसंवादे पांचालदेशाधिपतेर्जयप्राप्ति दरिद्रनाशवर्णनं नाम पंचदशोऽध्यायः ।। १५ ।।