स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वैशाखमासमाहात्म्यम्/अध्यायः १४

विकिस्रोतः तः
Jump to navigation Jump to search

।। श्रुतदेव उवाच ।। ।।
यः प्रातः स्नाति वैशाखे मेषसंस्थे दिवाकरे ।।
मधुसूदनमभ्यर्च्य कथां श्रुत्वा हरेरिमाम् ।। १ ।।
स तु पापविनिर्मुक्तो याति विष्णोः परं पदम् ।।
वाच्यमानां कथां हित्वा योऽन्यां सेवेत मूढधीः ।।२ ।।
रौरवं नरकं प्राप्य पैशाचीं योनिमाप्नुयात् ।।
अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।। ३ ।।
पापघ्नं पावनं धर्म्यं सद्यो वंद्यं पुरातनम् ।।
पुरा गोदावरीतीरे क्षेत्रे ब्रह्मेश्वरे शुभे ।। ४ ।।
दुर्वासशिष्यौ परमहंसौ ब्रह्मैकनिष्ठितौ ।।
सदैवोपनिषद्विद्यानिष्ठितौ निरपेक्षितौ ।। ५ ।।
भिक्षामात्राशिनौ पुण्यौ तौ गुहावासिनावुभौ ।।
सत्यनिष्ठतपोनिष्ठाविति ख्यातौ जगत्त्रये ।। ६ ।।
तयोर्मध्ये सत्यनिष्ठः सदा विष्णुकथापरः ।।
श्रोतॄणामप्यभावे च व्याख्यातॄणां तथा नृप ।। ७ ।।
तदा कर्मकला नित्याः करोत्यद्धा मुनीश्वरः ।।
श्रोता चेदस्ति यः कश्चित्तस्मै व्याख्या त्यहर्निशम् ।। ८ ।।
यदि व्याख्याति कश्चिद्वा पुण्यां विष्णुकथां शुभाम् ।।
तदा संकुच्य कर्माणि शृणोति श्रवणे रतः ।। ९ ।।
अतिदूरस्थतीर्थानि देवतायतनानि च ।।
हित्वा कथाविरोधीनि तथा कर्माणि भूरिशः ।। 2.7.14.१० ।।
शृणोति च कथां दिव्यां श्रोतृभ्यो वक्ति वै स्वयम् ।।
विना कथां न जानाति सेव्यमन्यन्नरेश्वर ।। ११ ।।
व्याख्याति च गृहे स्वस्य वक्ता रोगाद्युपद्रुतः ।।
कूपस्नानपरो भूत्वा शृणोत्येव कथां मुनिः ।। १२ ।।
कथायाश्च विरामे तु स्वकृत्यं साधयत्यलम् ।।
कथां वै शृण्वतः पुंसो जन्ममबन्धो न विद्यते ।। १३ ।।
सत्त्वशुद्धिस्ततो विष्णावरतिश्चैव गच्छति ।।
रतिश्च जायते विष्णौ सौहृदं चैव साधुषु ।। १४ ।।
नीरजं निर्गुणं ब्रह्म सद्यो हृद्यवरुध्यते ।।
ज्ञानहीनस्य वै पुंसः कर्म वै निष्फलं भवेत् ।। १५ ।।
बहुधा चरितं चाऽपि यथैवांधकदर्पणम् ।।
कर्माणि क्रियमाणानि बहुधा शोचितात्मभिः ।। १६ ।।
सत्त्वशुद्ध्यै भवंत्येव सत्त्वशुद्ध्या श्रुतिं व्रजेत् ।।
श्रुतेस्तु ज्ञानमासाद्य ज्ञात्वा ध्यानाय कल्पते ।। १७ ।।
बहुधा श्रवणं ध्यानं मननं श्रुतिचोदितम् ।।
यत्र विष्णुकथा नास्ति यत्र साधुजना नहि ।। १८ ।।
साक्षाद्गंगातटं वाऽपि त्याज्यमेव न संशयः ।।
यद्देशे तुलसी नास्ति वैष्णवं धाम वा शुभम्।। १९ ।।
यत्र विष्णुकथा नास्ति मृतस्तत्र तमो व्रजेत् ।।
यद्ग्रामे वैष्णवं धाम नास्ति कृष्णमृगोऽपि वा ।।2.7.14.२०।।
यत्र विष्णुकथा नास्ति साधवो वा तदाश्रयाः ।।
मृतस्तत्र पुमान्क्षिप्रं श्वानयोनिशतं व्रजेत् ।।२१।।
विचार्योपनिषद्विद्यामिति निश्चित्य वै मुनिः ।।
सदा विष्णुकथाऽऽसक्तो विष्णुस्मृतिपरायणः ।। २२ ।।
न किंचिदधिकं जातु मन्यते श्रवणात्परम् ।।
इतरस्तु तपोनिष्ठः कर्मनिष्ठो दुराग्रही ।। २३ ।।
न व्याख्याति स्वयं वाऽपि न शृणोति च सत्कथाम् ।।
वाच्यमानां कथां हित्वा तीर्थस्नानाय गच्छति ।।२४ ।।
तीर्थेऽपि च प्रवृत्तायां कथायां भूमिपालक ।।
कर्मलोपभयाद्दूरं याति चांचल्यशक्तितः ।।२५।।
व्रजंति गृहकृत्यार्थं संगमात्परतो जनाः ।।
न श्रोतारो न वक्तारस्तस्य पार्श्वे तु कर्मिणः ।।२६।।
दुरात्मनस्तु दुर्बुद्धेः काल एवं क्षयं गते ।।
जिह्वां श्रुतिं च न क्वापि संप्राप्ता हि कथा विभोः ।।२७।।
अश्रोतृत्वादवक्तृत्वाद्दुर्बुद्धित्वाद्दुराग्रहात् ।।
पश्चात्पंचत्वमासाद्य सद्यो धर्मेण वै मुनिः ।। २८ ।।
पिशाचोऽभूच्छमीवृक्षे च्छिन्नकर्णाह्वयोऽबलः ।।
निराश्रयो निराहारः शुष्ककण्ठोष्ठतालुकः ।।२९।।
एवं वै खिद्यमानस्य समा दिव्यायुता गताः ।।
नापश्यत्स्वस्य त्रातारं निराहारोऽतिदुःखितः ।। 2.7.14.३० ।।
स्वकृतं चिंतयानश्च मत्तोन्मत्त इवाभ्रमत् ।।
क्षुधया पर्यटन्वाऽपि निर्वृतिं नाप मूढधीः ।। ३१ ।।
कृशानुसदृशो वायुरंगं स्पृष्ट्वा कृतात्मनः ।।
कालाग्नितुल्या आपश्च फलपुष्पादिकं विषम् ।। ३२ ।।
न क्वापि सुखमापेदे कर्मठो दीनधीरयम् ।।
एवं व्यवसिते तस्मिन्नरण्ये जनवर्जिते ।। ३३ ।।
कथया रहिते क्षेत्रे स्वाश्रये साधुवर्जिते ।।
दैवादायात्सत्यनिष्ठस्तदा पैठिनसीं पुरीम् ।। ३४ ।।
गच्छन्मार्गे ददर्शाऽसौ छिन्नकर्णं वहुव्यथम् ।।
दृष्ट्वाऽऽत्मानं द्रावयन्तं रुदंतं क्षुधयाऽऽतुरम् ।। ३५ ।।
मा भैषीरिति चाभाष्य कोऽसीत्याह मुनीश्वरः ।।
दशेदृशी च कस्मात्ते न ते दुःखमतः परम्।। ।। ३६ ।।
इत्याश्वस्तोऽमुना च्छिन्नकर्णः प्राहातिविह्वलः ।।
तपोनिष्ठो यतिरहं शिष्यो दुर्वाससः परम् ।। ३७ ।।
ब्रह्मेश्वरक्षेत्रवासी कर्मनिष्ठो दुराग्रही ।।
कर्मलोपभयान्मौढ्यान्मया दुर्बुद्धिना मुने ।। ३८ ।।
साधुभिर्वाच्यमानाऽपि नादृता विष्णुसत्कथा ।।
न व्याख्याता च श्रोतृभ्यः कथा कर्मनिकृतंनी ।। ३९ ।।
तेन कर्मविपाकेन महताऽहं मृतिं गतः ।।
छिन्नकर्णोऽभवं नाम्ना पिशाचो दुःखविह्वलः ।। 2.7.14.४० ।।
न पश्यामि च त्रातारं दुःखादस्मात्कथंचन ।।
तव दृष्टिपथं यातो दिष्टयाऽहं गतकल्मषः ।। ४१ ।।
अद्य मे देवतास्तुष्टा गुरवः साधवश्च ये ।।
हरिश्च मे प्रसन्नोऽभूद्यतस्ते दर्शनं मम ।। ४२ ।।
पपात पादयोर्भूमौ त्राहित्राहीति वै रुदन् ।।
ततस्तु कृपयाऽऽविष्टः सत्यनिष्ठो महायशाः ।।४३।।
दोर्भ्यामुत्थापयामास शंतमाभ्यां मुनीश्वरः ।।
ततस्त्वप उपस्पृश्य ददौ पुण्यमनुत्तमम् ।।४४।।
वैशाखमासमाहात्म्यश्रवणस्य मुहूर्तजम् ।।
तेन पुण्यप्रभावेन सद्यो ध्वस्ताखिलाशुभः ।। ४५ ।।
पिशाचदेहनिर्मुक्तो दिव्यदेहधरोऽभवत् ।।
दिव्यं विमानमारुह्य तं प्रणम्य महामुनिम् ।।४६।।
आमंत्र्य च परिक्रम्य ययौ विष्णोः परं पदम् ।।
सत्यनिष्ठस्ततो धीमान्ययौ पैठिनसीं पुरीम् ।। ४७ ।।
माहात्म्यश्रवणस्यैवं चिंतयानः पुनःपुनः ।।
।। श्रुतदेव उवाच ।। ।।
यत्र विष्णुकथा पुण्या शुभा लोकमलाऽपहा ।। ४८ ।।
तत्र सर्वाणि तीर्थानि क्षेत्राणि विविधानि च ।।
यत्र प्रवहते पुण्या शुभा विष्णुकथाऽऽपगा ।। ४९ ।।
तद्देशवासिनां मुक्तिः करसंस्था न संशयः ।। 2.7.14.५० ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे नारदाम्बरीषसंवादे कथाप्रशंसायां पिशाचमुक्तिप्राप्तिर्नाम चतुर्दशोऽध्यायः ।। १४ ।।