स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वैशाखमासमाहात्म्यम्/अध्यायः १३

विकिस्रोतः तः
Jump to navigation Jump to search

।। ।। ब्रह्मोवाच ।। ।।
किमाश्चर्यं त्वया दृष्टं किमर्थं खिद्यते भवान् ।।
सद्गणेषु कृतस्तापः स तापो मरणांतिकः ।।१।।
तस्योच्चारणमात्रेण प्राप्यते परमं पदम् ।।
न गच्छंति हरेर्लोकं कथं भूपस्य शासनात् ।। २ ।।
एकोऽपि गोविन्दकृतः प्रणामः शताश्वमेधावभृथेन तुल्यः ।।
यज्ञस्य कर्त्ता पुनरेति जन्म हरेः प्रणामो न पुनर्भवाय ।। ३ ।।
कुरुक्षेत्रेण किं तस्य सरस्वत्या च किं तथा ।।
जिह्वाग्रे वर्तते यस्य हरिरित्यक्षरद्वयम् ।। ४ ।।
ब्राह्मणः श्वपचीं भुंजन्विशेषेण रजस्वलाम् ।।
यदि विष्णुं स मरणे स्मरेन्नाप्नोति तत्पदम् ।। ५ ।।
अभक्ष्यभक्षणाज्जातं विहायाघस्य संचयम् ।।
प्रयाति विष्णुसायुज्यं यतो विष्णुप्रिया स्मृतिः ।। ६ ।।
एवं विष्णुप्रियो मासो वैशाखो नाम वै यम ।।
यद्धर्मश्रवणादेव मुच्यते सर्वकिल्बिषैः ।। ७ ।।
यातीति किमु वक्तव्यं तस्यानुष्ठानतत्परः ।।
यस्मिन्संगीयते यो हि प्रीयते पुरुषोत्तमः ।। ८ ।।
कथं न याति च गतिं तस्याऽनुष्ठानत त्परः ।।
अस्माकं जगतां नाथो जनिता पुरुषोत्तमः ।। ९ ।।
तस्येष्टान्माधवे मासि धर्मानेतान्करोत्वयम् ।।
तस्य विष्णुः प्रसन्नात्मा सहाये सर्वदा स्थितः ।। 2.7.13.१० ।।
न तस्य भूपतेः सौरे समर्थस्त्वं च शिक्षणे ।।
न वासुदेवभक्तानामशुभं विद्यते क्वचित् ।।
जन्ममृत्युजराव्याधि भयं नैवोपजायते ।। ११ ।।
नियोगी स्वामिकार्येषु यावच्छक्ति समीहते ।।
तावता स कृतार्थः स्यान्नरकान्नैव गच्छति ।। १२ ।।
कार्ये शक्ति विनिष्क्रान्ते स्वामिने च निवेदयेत् ।।
अनृणस्तावता भृत्यो नियोगी सुखमश्नुते ।। १३ ।।
तस्मान्निवेदितार्थस्य न ऋणं न च पातकम् ।।
यत्ने कृते स्वकर्तव्ये नापराधोस्ति देहिनः ।। १४ ।।
तस्मादशक्यकार्येऽस्मिन्न विशोचितुमर्हसि ।। १५ ।।
इत्युक्तो ब्रह्मणा सौरिः पुनरत्यंतखिन्नधीः ।।
उवाच दीनया वाचा गलद्वाष्पाऽऽकुलेक्षणः ।। १६ ।।
प्राप्तं तात मया सर्वं त्वदंघ्रिभजनेन वै ।।
नाऽहं यास्ये पुनः कर्तुं नियोगं पद्मसंभव ।। १७ ।।
प्रशासति महावीर्ये भूपेऽस्मिन्भूमिमण्डले ।।
चालयित्वा स्वधर्मांश्च तमेकं भूपतिं विभो ।।१७।।
कृतकृत्योऽस्मि तनयो गयायां पिण्डदो यथा।।
कृपालो तदिदं कार्यं साधयस्व ममाव्ययम् ।। १९ ।।
विज्वरस्तु ततो भूयः शासनं ते करोम्यहम् ।।
श्रुत्वा ब्रह्मा यमेनोक्तं पुनश्चिंतापरायणः ।। ।। 2.7.13.२० ।।
तमुवाच पुनर्ब्रह्मा सांत्वयन्बहुधाप्यमुम् ।।
।। ब्रह्मोवाच ।। ।।
न निर्ग्राह्यस्त्वया राजा विष्णुधर्मपरायणः ।। २१ ।।
यदि च्छलयसे कोपाद्गच्छामो ह्यंतिकं हरेः ।।
निवेद्य सकलं तस्मै कर्म पश्चात्तदीरितम् ।। २२ ।।
स एव कर्त्ता लोकस्य धर्मस्य परिपालकः ।।
स च दण्डधरोऽस्माकं शास्ता कर्त्ता नियामकः ।।२३।।
न तदुक्तेऽस्ति प्रत्युक्तिरस्माकं विहिता वृष ।।
न राजोक्तेस्तु प्रत्युक्तिर्दृश्यते क्वाऽपि भूतले।। २४ ।।
इत्याश्वास्य यमं तेन साकं क्षीरांबुधिं ययौ ।।
ब्रह्मा तुष्टाव चिन्मात्रं निर्गुणं परमेश्वरम् ।। २५ ।।
सांख्ययोगैरद्वितीयमेकं तं पुरुषोत्तमम् ।।
आविरासीत्तदा विष्णुर्ब्रह्मणा संस्तुतो हरिः ।। २६ ।।
प्रणामं चक्रतुस्तस्मै यमो ब्रह्मा च सत्वरम् ।।
तावुवाच महाविष्णुर्मेघगंभीरया गिरा ।। ।। २७ ।।
कस्माद्युवामिहाऽऽयातौ किं दुःखं दनुजैरभूत् ।।
म्लानं यममुखं कस्मात्केन वा नतकंधरः ।। २८ ।।
एतद्वदस्व मे ब्रह्मन्नित्युक्तश्चाह कंजजः ।।
त्वद्दासवर्ये भूपाले भूमिं शासति वै नराः ।। २९ ।।
वैशाखधर्मनिरता यांति ते परमव्ययम् ।।
ततो यमपुरी शून्या तेन चाऽतीवदुःखितः ।। 2.7.13.३० ।।
तेन युद्धं चकाराऽसौ हंतुं दंडमथाऽददे ।।
त्वच्चक्रेण पराभूतो ययावद्य ममान्तिकम् ।। ३१ ।।
न च शक्तो वयं दंडं त्वद्भक्तानां महात्मनाम् ।।
तस्मात्त्वामेव शरणं वयं प्राप्ता महाविभो ।। ३२ ।।
तस्माद्भूपं दंडयित्वा पालयैनं यमं स्वकम् ।।
इत्युक्तः प्रहसन्प्राह ब्रह्माणं यममेव च ।। ३३ ।।
लक्ष्मीं वाऽपि परित्यक्ष्ये प्राणान्देहमथाऽपि वा ।।
श्रीवत्सं कौस्तुभं मालां वैजयंतीमथाऽपि वा ।।३४।।
श्वेतद्वीपं च वैकुंठं क्षीरसागरमेव च।।
शेषं च गरुडं चैव न भक्तं त्यक्तुमुत्सहे ।। ३५ ।।
विस्सृज्य सकलान्भोगान्मदर्थे त्यक्तजीवितान् ।।
मदात्मकान्महाभागान्कथं तांस्त्यक्तुमुत्सहे ।। ३६ ।।
तस्मात्त्वद्दुःखशमने ह्युपायं कल्पयाम्यहम् ।।
तस्य चायुर्मया दत्तमयुतं भूपतेर्भुवि ।। ३७ ।।
गतान्यष्टौ सहस्राणि तत्रेदानीं नरांतक ।।
आयुःशेषे तेन नीते मत्सायुज्यं गतेऽपि च।।३८।।
भविष्यति ततो राजा वेनो नाम दुरात्मवान्।।
स लुंपति महाधर्मान्सर्वानेताञ्छ्रुतीरितान् ।।३९।।
तदा वैशाखधर्माश्च विच्छिन्ना स्युर्न संशयः ।।
स्वकृतेनैव पापेन वेनो दग्धो भविष्यति ।।2.7.13.४०।।
पश्चादहं पृथुर्भूत्वा पुनर्धर्मान्प्रवर्तये ।।
तदा जनेषु प्रख्यातान्वैशाखोक्तान्करोम्यहम् ।।४१।।
मद्भक्तो मद्गतप्राणो यस्तु विन्यस्तसंग्रहः ।।
एकः सहस्रे भविता तस्य प्रख्यापयेद्धि तान् ।। ४२ ।।
कश्चिदेव हि जानातु धर्मानेतान्क्षितौ मम ।।
ततस्ते भविता कार्यं मा विषीद नरांतक ।। ४३ ।।
दापयिष्यामि ते भागं मासेऽस्मिन्माधवेऽपि च ।।
नरैः सर्वैश्च वैशाखधर्मनिष्ठैर्महात्मभिः ।। ४४ ।।
भूपेनाऽपि च कालेन खेदं शमय तेन च ।।
वीर्यशुल्कं तु ते भागं शत्रोर्भुंक्ते बलाधिकात्।। ४५ ।।
गृह्णन्गृह्णन्स्वकं भागं न भागी दुःखमर्हति ।।
त्वामुद्दिश्य न कुर्वंति प्रत्यहं ये नरा भुवि ।।४६।।
स्नानं चार्घ्यं सोदकुंभं दध्यन्नं चांतिमे दिने ।।
वैशाखे सकलं कर्म तेषां च विफलं भवेत् ।। ४७ ।।
तस्मात्क्रोधं त्यज नृपे भागदे मत्परायणे ।।
ये के चाऽपि च कुर्वंति लोके ते भागदा नराः ।। ४८ ।।
वैशाखोक्ते महाधर्मे तेषां विघ्नं च मा कुरु ।।
मामेव ये यजंत्यद्धा त्वां हित्वा धर्मपालकम् ।। ४९ ।।
मदाज्ञया महाभाग तदा दंडं च त्वं कुरु ।।
नृपाद्भागं दापयितुं सुनंदं प्रेषयामि च ।।2.7.13.५० ।।
मच्छासनात्स वै गत्वा भागं ते दापयिष्यति ।।
तिष्ठत्येवं यमे स्वस्य सन्निधौ गरुडासनः ।। ५१ ।।
सुनन्दं प्रेषयामास नृपं बोधयितुं विभुः ।।
सोऽपि गत्वा बोधयित्वा पार्श्वं च पुनरागमत् ।। ५२ ।।
इत्याश्वास्य यमं विष्णुस्तत्रैवान्तरधीयत ।।
यमं स्वयं सांत्वयित्वा समनुज्ञाप्य वेगतः ।। ५३ ।।
अतिविस्मयमापन्नो ययौ धाम सहानुगैः ।।
यमोऽपि स्वपुरीं प्रायात्किंचित्संहृष्टमानसः ।। ५४ ।।
पश्चाद्विष्णोर्निदेशेन सुनन्दपरिबोधितः ।।
भागदाः सकला लोका ये वैशाखपरायणाः ।। ५५ ।।
धर्मराजं पुरस्कृत्य ये न कुर्वंति मानवाः ।।
तेषां हि स्वयमादत्ते पुण्यं वैशाखसंभवम् ।। ५६ ।।
कुर्याच्च प्रत्यहं स्नानं दद्यादर्घ्यं यमाय वै ।।
वैशाखे सकलं पुण्यमन्यथा विफलं भवेत् ।। ५७ ।।
सोदकुम्भं च दध्यन्नं पौर्णमास्यां च माधवे ।।
धर्मराजं समुद्दिश्य दातव्यं प्रथमं जनैः ।। ५८ ।।
पश्चात्पितॄन्समुद्दिश्य गुरुमुद्दिश्य वै नरः ।।
मधुसूदनमुद्दिश्य पश्चाद्देवं जनार्दनम् ।। ५९ ।।
शीतलोदकदध्यन्नं तांबूलं च सदक्षिणम् ।।
सफलं कांस्यपात्रस्थं ब्राह्मणाय निवेदयेत् ।। 2.7.13.६० ।।
दद्याच्च प्रतिमां दिव्यां मधुसूदनदेवताम् ।।
मासधर्मप्रवक्त्रे च दद्याद्विप्राय सीदते ।। ६१ ।।
तमेव धर्मवक्तारं पूजयेद्विभवैः स्वकैः ।।
इत्यादिष्टः सुनन्देन तथा राजा चकार ह ।। ६२ ।।
स नीत्वा चायुषः शेषं भुक्त्वा भोगान्यथेप्सितान् ।।
पुत्रपौत्रादिभिर्युक्तो जगाम हरिमंदिरम् ।। ६३ ।।
वैकुण्ठस्थे नृपे तस्मिन्वेनो राजाऽधमोऽभवत् ।।
सर्वे धर्माश्च वैशाखधर्मा अपि विशेषतः ।। ६४ ।।
दुरात्मना च तेनैव लुप्ता एव बभूविरे ।।
न प्रख्याताः पुनर्भूमौ भूरिशो मोक्षहेतवः ।। ६५ ।।
यः कश्चिन्नैव जानाति वैशाखोक्तानिमाञ्च्छुभान् ।।
बहुजन्मार्जिते पुण्यपरिपाक उपागते ।। ।। ६६ ।।
वैशाखोक्तेषु धर्मेषु मतिरात्यन्तिकी भवेत् ।।
।। मैथिल उवाच ।। ।।
पूर्वमन्वंतरस्थो हि वेनो राजा दुरात्मवान् ।। ६७ ।।
अयं वैवस्वतस्थो हि राजा चेक्ष्वाकुनंदनः ।।
इति श्रुतं मया पूर्वमिदानीं चोच्यते त्वया ।। ६८ ।।
अयं वैकुण्ठगः पश्चाद्वेनो राजा भविष्यति ।।
इत्येतं संशयं छिंधि श्रुतदेव महामते ।। ६९ ।।
।। श्रुतदेव उवाच ।। ।।
पुराणेषु च वैषम्यं युगकल्पव्यवस्थया ।।
न चाप्रामाण्यशंका ते कथाया व्यत्यये क्वचित् ।। 2.7.13.७० ।।
गते दैनंदिने कल्पे यथैषा शाश्वती शुभा ।।
मार्कण्डेयेन मे प्रोक्ता सा चोक्ता तव भूपते ।। ७१ ।।
तस्मान्न ख्यातिमायान्ति धर्मा वैशाखसंभवाः ।।
कश्चिदेव हि जानाति विरक्तो विष्णुतत्परः ।। ७२ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे वैशाखमासमाहात्म्ये नारदांबरीषसंवादे यमदुःखसांत्वनं नाम त्रयोदशोऽध्यायः ।। १३ ।।